००३

तृतीयः सर्गः ३

श्रीराम उवाच ।

एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया ।
मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम् ॥ १ ॥

मनोरूपो यतो ब्रह्मा तत्सङ्कल्पमयं जगत् ।
मनोराज्यवदेवेदमसदित्यत्र कीर्त्यते ॥ १ ॥

मनोमात्रं च सङ्कल्पः पृथ्व्यादिरहिताकृतिः इति प्रागुक्तरीत्या ब्रह्मणो
मनोरूपत्वाभ्युपगमे मनसो वासनाजालरूपत्वात्प्राक्तनं वासनाजालं
किञ्चिदस्य न विद्यत इत्युक्तिरयुक्तेति मन्यमानः श्रीराम उवाच - एवमेवेति
द्वाभ्याम् । मनः शुद्धं पृथ्व्यादिरहितम् एवमेव प्रसिद्धम् । उत्तरत्र
तर्हीत्यर्थे तदिति प्रयोगात्तदाकाङ्क्षितमत्र यदीत्यध्याहार्यम् ॥ १ ॥

तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् ।
यथा मम तवान्यस्य भूतानां चेति मे वद ॥ २ ॥

अत्रास्मिन्ब्रह्मणः शरीरे प्राक्तनीपूर्वशरीरत्यागकालोद्भूता स्मृतिस्तव
मम अन्यस्य वा पुरुषस्य भूतानां पश्वादीनां च शरीरे प्राक्तनी
स्मृतिर्यथा कारणं तथा कस्मात्कारणं न यं यं वापि स्मरन्भावम्
इत्यादिस्मृतेः । यदि प्राक्तनी स्मृतिरस्ति तर्हि
तदुद्भवाधारसंस्कारदेहादिकमपि प्राक्तनं दुर्वारमिति भावः ॥ २ ॥

श्रीवसिष्ठ उवाच ।

पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः ।
तस्य स्मृतिः सम्भवति कारणं संसृतिस्थितेः ॥ ३ ॥

सत्यं पूर्वदेहादिसिद्धौ तदनुभूतगोचरा स्मृतिः कारणं
स्यात्तदेवासिद्धमिति श्रीवसिष्ठ उवाच - पूर्वमिति द्वाभ्याम् । ननु
तद्धैतल्लोकजिदेव इत्यादिश्रुतिभिस्तत्क्रतुन्यायेन च हैरण्यगर्भपदस्य
कर्मोपासनसमुच्चयफलत्वप्रसिद्धेः कथं प्राग्देहवासनाद्यसत्त्वोक्तिः
कथं वा मनोमयस्य तद्देहस्यापृथ्व्यादिमयत्वोक्तिर्मनसः अन्नमयं हि
सौम्य मनः
इत्यन्नविकारत्वपरश्रुतिविरोधादपञ्चीकृतभूतकार्यत्वसिद्धान्तविरोधाच्चेत्
इ चेत् । सत्यम् । अज्ञदृशैवं यन्मदन्यन्नास्ति कस्मान्नु विभेमीति सह सिद्धं
चतुष्टयम् इति श्रुतिस्मृतिसिद्धतदीयतत्त्वदृशा तु त्रैकालिकप्रपञ्चस्यापि
नासीदस्ति भविष्यतीति त्रैकालिकबाधान्न पूर्वदेहवासनादिसत्त्वमिति तथोक्तिः ।
बाधितानुवृत्तौ तु मनसि तद्देहे च दग्धपटे तान्तवत्वमिव न
पृथ्व्यादिमयत्वं यथापूर्वमस्तीति न कश्चिद्विरोधः ।
यत्राबाधिताज्ञमनःसङ्कल्पनगरादेरपि न सत्यत्वं भौतिकत्वं वा तत्र
किं वाच्यं तत्त्वज्ञानबाधितानुवृत्तवेरिञ्च्यमनःसङ्कल्पजस्य विश्वस्य
तथात्वमित्यभिप्रत्य
वक्ष्यमाणजगन्मिथ्यात्वोपयिकत्वात्तत्त्वदृष्टिमेवावष्टभ्य
पूर्वदेहवासनाद्यपलापो नाज्ञदृष्ट्यनुवाद्युपास्तिफलश्रुतिपुरस्कारेणेति
॥ ३ ॥

प्। १३४)

ब्रह्मणः प्राक्तनं कर्म यदा किञ्चिन्न विद्यते ।
प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम् ॥ ४ ॥

तस्मादकारण भाति वा स्वचित्तैककारणम् ।
स्वकारणादनन्यात्मा स्वयम्भूः स्वयमात्मवान् ॥ ५ ॥

स्वचित्तं देहद्रष्टृचित्तं तदेकं कारणमिति तस्य स्वतश्चित्ताभावोक्तिः ॥ ५ ॥

आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयम्भुवः ।
न त्वाधिभौतिको राम देहोऽजस्योपपद्यते ॥ ६ ॥

आतवहनमर्चिर्धूमादिमार्गेण लोकान्तरप्रापणं तत्र
साधूरस्मदादिलिङ्गदेह इवातिवाहिकः । सूक्ष्म इति यावत् । आधिभौतिकः
स्थूलभूतजः ॥ ६ ॥

श्रीराम उवाच ॥

आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।
सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम् ॥ ७ ॥

श्रीवसिष्ठ उवाच ॥

सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् ।
अजस्य कारणाभावादेक एवातिवाहिकः ॥ ८ ॥

कारणात्मनां
चक्षुरादिव्यावहारिकप्रमाणवद्यपञ्चीकृतभूतरूपकारणात्मनाम् ।
कारणाभावात्
अविद्याऽपञ्चीकृतभूतानामनन्यपरश्रुतिचक्षुराद्यवेद्यत्वेन
साक्षिवेद्यत्वेन च प्रातिभासिकत्वेन व्यावहारिकसत्यत्वाभावात्प्रागुक्तरीत्या वा
कारणाभावादित्यर्थः ॥ ८ ॥

सर्वासां भूतजातीनामेकोऽजः कारणं परम् ।
अजस्य कारणं नास्ति तेनासावेकदेहवान् ॥ ९ ॥

प्रकारान्तरेणाप्याह - सर्वासामिति ॥ ९ ॥

नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः ।
आकाशात्मा च भात्येष आतिवाहिकदेहवान् ॥ १० ॥

आकाशात्मा चिदाकाशमात्ररूपः । आरोपितस्याधिष्ठानातिरिक्तस्वरूपाभावात् ॥
१० ॥

चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः ।
आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः ॥ ११ ॥

इत्थं च तत्सङ्कल्पकल्पितजगतोऽपि तदधिष्ठानचिन्मात्रता फलितेति विवक्षुराह

  • वित्तेति ॥ ११ ॥

ताश्च विद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः ।
यद्यतस्तत्तदेवति सर्वैरेवानुभूयते ॥ १२ ॥

अन्यैस्तत्सङ्कल्पव्यतिरिक्तैः कारणान्तरैः कारणभेदैः । यतो
यस्मादुपादानाज्जातमिति शेषः । अनुभूयते कनककुण्डलादौ । तथा च जगतो
ब्रह्ममात्रता सिद्धेति भावः ॥ १२ ॥

निर्वाणमात्रं पुरुषः परो बोधः स एव च ।
चित्तमात्रं तदेवास्ते नायाति वसुधादिताम् ॥ १३ ॥

तेन जीवस्यापि तन्मात्रता सिद्धेत्याह - निर्वाणमात्रमिति । यतः स
चित्तोपाधिश्चित्तभ्रान्त्या चित्तमात्रभूतोऽपि परमार्थतः स चिदाकाश एवास्ते न
भौतिकपुरुषादिभावमायातीत्यर्थः ॥ १३ ॥

सर्वेषां भूतजातानां संसारव्यवहारिणाम् ।
प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः ॥ १४ ॥

स्वता अहम्भावस्तस्योदयः ॥ १४ ॥

अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी ।
इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात् ॥ १५ ॥

एतदुपादानकस्थूलस्यैतन्मात्रत्वादनन्यैतत्स्वरूपिणी ॥ १५ ॥

प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् ।
विभात्येवमयं सर्गः सत्यानुभववान्स्थितः ॥ १६ ॥

अध्यस्तमनोविकारस्य जगतोऽप्यध्यस्ततैव फलितेत्याह - प्रतिभानेति ।
प्रतिभानं प्रतिभासस्तन्मात्रसिद्धाकृतेः प्रातिभासिकाकारादित्यर्थ्ः ।
अथवा परमार्थचिन्मात्राकाराच्चिन्मात्ररूपधृगपि सर्ग एवं
परिदृश्यमानाऽचिदाकारेण विभातीत्यर्थः ॥ १६ ॥

दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं [स्वप्नस्वप्नस्त्री इति
मुद्रितपुस्तके पाठः] यथा ।
असदप्यर्थसम्पत्त्या सत्यानुभवभासुरम् ॥ १७ ॥

स्वप्ने योऽन्यः स्वप्नस्तत्रत्यस्त्रीसुरतमिति
सूक्ष्मकल्पनान्तर्गतस्थूलकल्पनादृष्टान्तत्वोपपत्त्यर्थम् । अर्थसम्पत्त्या
व्यवहारप्रयोजननिष्पत्त्या ॥ १७ ॥

अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।
सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥ १८ ॥

तथाच प्रागुक्तं नासम्भावितमित्याह - अपृथ्व्यादीति ॥ १८ ॥

संवित्सङ्कल्परूपत्वान्नोदेति समुदेति च ।
स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ॥ १९ ॥

नोदेति परमार्थतः समुदेति भ्रान्त्या तत्राद्यमुपपादयति - स्वायत्तत्वादिति
। जगद्भाववदविद्याद्यधीनत्वाभावादिति भावः । स्वभावस्य स्वरूपस्थितेः ॥
१९ ॥

ब्रह्मा सङ्कल्पपुरुषः पृथ्व्यादिरहिताकृतिः ।
केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥ २० ॥

सङ्कल्प एष कचति यथा नाम स्वयम्भुवः ।
व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत् ॥ २१ ॥

यथा यादृशप्राणिकर्मानुरोधेन येन येन प्रकारेण कचति विकसति । तथा
तेन प्रकारेण ॥ २१ ॥

आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया ।
आधिभौतिकबोधेन मुधा भाति पिशाचवत् ॥ २२ ॥

तर्हि कथं सर्वेषां
सङ्कल्पशैलविलक्षणाधिभौतिकत्वार्थक्रियासामर्थ्याद्यनुभवस्तत्राह ##-

प्। १३५)

इदं प्रथमतोद्योगसम्प्रबुद्धं महाचितेः ।
नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ॥ २३ ॥

तर्हि विरिञ्चेरप्यस्मदादिवदातिवाहिकभावविस्मृतिः किं न स्यात्तत्राह -
इदमिति । इदं वैरिञ्चं रूपं महाचितेर्मायाशबलब्रह्मणः प्रथमता
सर्वस्थूलप्रपञ्चापेक्षया कारणीभूतसूक्ष्मभूतात्मकतेति यावत् । तत्र
उद्योगेन सङ्कल्पेन सत्यसङ्कल्पत्वात्तथैव सम्प्रबुद्धं
प्रत्यक्षमाविर्भूतमतस्तमोऽनाच्छादितत्वेन विरिञ्चेः
शुद्धसंवित्त्वान्नातिवाहिकस्मृतिरुदेतीत्यर्थः ॥ २३ ॥

आधिभौतिकजातेन नास्योदेति पशाचिका ।
असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥ २४ ॥

मनोमात्रं यदा [यथा ब्रह्मा इति पाठः] ब्रह्मा न
पृथ्व्यादिमयात्मकः ।
मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि ॥ २५ ॥

यदा यस्मिन्कल्पे यत इति वार्थः । यस्माज्जातं यजातम् ॥ २५ ॥

अजस्य सहकारीणि कारणानि न सन्ति यत् ।
तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ॥ २६ ॥

इत्थं च अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इति श्रुतिदर्शितन्यायेन जगतो
मनोमात्रत्वं मनसश्च ब्रह्ममात्रतेति ब्रह्माद्वैतं फलितमित्याह -
अजस्येत्यादित्रिभिः ॥ २६ ॥

कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किञ्चन ।
यादृशं कारणं शुद्धं कार्यं तादृगिति स्थितम् ॥ २७ ॥

कार्यकारणता ह्यत्र न किञ्चिदुपपद्यते ।
यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ॥ २८ ॥

इत्थं च भेदकाभावात्कार्यकारणभावायोगाज्जगद्ब्रह्मैव
सम्पन्नमित्याह - कार्येति ॥ २८ ॥

मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।
अनन्यादात्मनः [अनन्यत् इति पाठः] शुद्धाद्द्रवत्वमिव
वारिणः ॥ २९ ॥

मनसा तन्यते सर्वमसदेवेदमाततम् ।
यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम् ॥ ३० ॥

आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।
ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते ॥ ३१ ॥

इत्थं च तत्त्वज्ञानां जगत एव बाधे देहादौ
नाधिभौतिकताप्रत्ययसम्भव इत्याह - आधिभौतिकतेति ॥ ३१ ॥

आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।
आधिभौतिकदेहस्य वाचो [चरचैवात्र इति पाठः] वात्र कुतः
कथम् ॥ ३२ ॥

कैमुतिकन्यायेनाप्युक्तमर्थ द्रढयति - आतिवाहिकेति । आतिवाहिकः
प्रातिभासिकः सोऽपि नास्त्येव तत्राधिभौतिकस्य वाचः कुतो हेतोः कथं केन
प्रकारेण ॥ ३२ ॥

मनोनाम्नो मनुष्यस्य विरिञ्चयाकारधारिणः ।
मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ॥ ३३ ॥

मनुष्यस्येति प्राक्तनोपासकावस्थां स्मृत्वोक्तिः ॥ ३३ ॥

मन एव विरिञ्चित्वं तद्धि सङ्कल्पनात्मकम् ।
स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥ ३४ ॥

विरिञ्चित्वं सर्वस्रष्टृत्वम् । हि यस्मात्तद्विरिञ्चित्वं विरिञ्चेः
सङ्कल्पनात्मकं न बाह्योपकरणाधीनम् । स्फारतां विपुलताम् । इदं
विश्वम् ॥ ३४ ॥

विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।
पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥ ३५ ॥

अत्र मनसि । तेन हेतुना मनसा वा कल्पितमध्यस्तमात्मनीति शेषः ॥ ३५ ॥

पद्माक्षे पद्मिनीवान्तर्मनो हृद्यस्ति दृश्यता ।
मनोदृश्यदृशौ भिन्ने न कदाचन केनचित् ॥ ३६ ॥

मनो हृदि । मनोन्तः दृश्यता लक्षणया दृश्यवर्गः । ननु कथं
विरुद्धमिदमुच्यते । पृथ्व्यादि विद्यते नात्र मनो हृद्यस्ति दृश्यते
इतिचेत्तत्राह - मनोदृश्येति । यतो मनश्च दृश्यं च तयोः समाहारो
मनोदृश्यं तदुभयदृक् साक्ष्यात्मा च ते उभे केनचित्कदाचन न भिन्ने न
विवेचिते । यावत्ते न विवेचिते तावदज्ञानानुच्छेदादस्त्येवेत्युक्तमिति भावः ।
अथवा मनश्च दृश्यदृक् दृश्यदर्शनं च तेन भिन्ने । तथाच मनस
उच्छेद एव दृश्यदर्शनोच्छेद इति भावः ॥ ३६ ॥

यथा चात्र तव स्वप्नः सङ्कल्पश्चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ॥ ३७ ॥

तत्रान्वयव्यतिरेकसिद्धदृष्टान्तान्वदन्निगमयति - यथेति ॥ ३७ ॥

तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।
विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ॥ ३८ ॥

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥ ३९ ॥

दृश्यधीर्मनः ॥ ३९ ॥

सच्चेन्न शाम्यति कदाचन दृश्यदुःखं
दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।
दृश्ये त्वसम्भवति बोद्धरि बोद्धृभावः
शाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः ॥ ४० ॥

ननु किमर्थं महता यत्नेन दृश्यमिथ्यात्वं साध्यते तस्य सत्यत्वे का
क्षतिस्तत्राह - सच्चेदिति । स्थितोऽपि शाम्येत्किं पुनर्मिथ्याभूत इत्यर्थः ।
तत्केवलत्वमेव विमोश्नमाहुः ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
बन्धहेतुवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
बन्धहेतुवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥

प्। १३६)