द्वितीयः सर्गः २
श्रीवसिष्ठ उवाच ।
इदमाकाशजाख्यानं शृणु श्रवणभूषणम् ।
उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे [बुध्यते इति
पाठः] ॥ १ ॥
अज्ञो भौतिकदेहात्मा मृत्युभक्षो न तत्त्ववित् ।
आकाशजो द्विज इव चिन्मात्रात्मेति कीर्त्यते ॥ १ ॥
कामकर्मवासनासम्भृताविद्योपहित आत्मैव जगद्बीजं मृत्युबीजं च ।
विद्यया तद्बीजशक्तिदाहे तु मृत्युवशो भवतीति प्रागुक्तार्थे विशेषं
दर्शयितुं जगदाद्यस्रष्टृतत्त्वशोधनेन
वक्ष्यमाणार्थोपोद्धातसङ्गतामाख्यायिकां वर्णयिष्यन् श्रीवसिष्ठ उवाच
- इदमिति । आकाशादध्यस्ता विद्या नैल्याधारत्वेनाकाशसदृशाद-
विद्यावृतत्वादीषत्प्रकाशाद्वा ब्रह्मणो जात आकाशजो लिङ्गसमष्ट्यात्मा
हिरण्यगर्भस्तस्याख्यानम् ॥ १ ॥
अस्ति ह्याकाशजो नाम द्विजः परमधार्मिकः ।
ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः ॥ २ ॥
तद्यथा कृताय विजितायाधरेयाः संयन्ति इत्यादिश्रुत्या
हैरण्यगर्भपदप्रापकसंवर्गविद्यादिधर्मे
सर्वप्रजाकृतधर्माणामन्तर्भाववर्णनात्परमधार्मिकः ।
ध्यानमात्मचिन्तनं तदेकनिष्ठः ॥ २ ॥
प्। १३१)
स चिरं जीवति यदा तदा मृत्युरचिन्तयत् ।
सर्वाण्येव क्रमेणाहं भूतान्यद्मि किलाक्षयः ॥ ३ ॥
चिरं जीवति मृत्युवशो न भवति यदा तदेत्यर्थः ॥ ३ ॥
एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम् ।
अत्र मे कुण्ठिता शक्तिः खड्गधारा इवोपले ॥ ४ ॥
इति सञ्चिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा ।
त्यजन्त्युद्यममुद्युक्ता न स्वकर्माणि केचन ॥ ५ ॥
तत्पुरं मेरुमध्ये प्रसिद्धम् । सत्यलोके मृत्योरप्रवेशात् । उद्युक्ता
उद्योगयुक्ताः समर्थाः ॥ ५ ॥
ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम् ।
तावदेनं दहत्यग्निः कल्पान्तज्वलनोपमः ॥ ६ ॥
समाधिविघातकप्रतिरोधाय पूर्वमेव ब्रह्मणा प्राकारतया सङ्कल्पितोऽग्निः ।
एनं मृत्युम् ॥ ६ ॥
अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ ।
द्विजं दृष्ट्वा समदातुं हस्तेनैच्छत्प्रयत्नतः ॥ ७ ॥
अग्निज्वालानां महतीं मालां वलयं विदार्य ॥ ७ ॥
नचाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम् ।
बलवानप्यवष्टब्धुं सङ्कल्पपुरुषं यथा ॥ ८ ॥
अवष्टब्धुं स्प्रष्टुम् ॥ ८ ॥
अथागत्य यमं मृत्युरपृच्छत्संशयच्छिदम् ।
किमित्यहं न शक्नोमि भोक्तुमाकाशजं विभो ॥ ९ ॥
यम उवाच ।
मृत्युओ न किञ्चिच्छक्तस्त्वमेको मारयितुं बलात् ।
मारणीयस्य कर्माणि तत्कर्तॄणीति नेतरत् ॥ १० ॥
एकः असहायः । तत्कर्तॄणि मारणकर्तॄणि । इति एतस्मान्नेतरत्त्वदशक्तौ
कारणमिति शेषः ॥ १० ॥
तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः ।
कर्माण्यन्विष्य तेषां त्वं साहाय्येनैनमत्स्यसि ॥ ११ ॥
अन्विष्य गवेषणं कुरु । एष गतौ श्यन् लोट् हिः । साहाय्येन आनुकूल्येन ॥ ११ ॥
ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः ।
मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः ॥ १२ ॥
कस्मिन्देशेऽयं प्राक्किं कर्म कृतवानिति सप्रणिधानं पर्यालोचनमेव
चिरयत्ननिष्पाद्यत्वाद्बभ्रामेत्युच्यते न देशसञ्चरणम् ।
कर्तृलिङ्गसमवायिनामदृष्टानां बहिरन्वेषणाप्रसक्तेः ॥ १२ ॥
वनजङ्गलजालानि शैलानब्धितटानि च ।
द्वीपान्तराण्यरण्यानि नगराणि पुराणि च ॥ १३ ॥
पुराणि महानगरोपकण्ठे शाखानगराणि ॥१३ ॥
ग्रामाण्यखिलराष्ट्राणि देशान्तर्गहनानि च ।
एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित् ॥ १४ ॥
तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्यतः ।
वन्ध्यापुत्रमिव प्राज्ञः सङ्कल्पाद्रिमिवापरः ॥ १५ ॥
लब्धवानुपलब्धवान् । अपरः सङ्कल्पयितुरन्यः पुरुषः ॥ १५ ॥
समपृच्छदथागत्य यमं सर्वार्थकोविदम् ।
परायणं हि प्रभवः सन्देहेष्वनुजीविनाम् ॥ १६ ॥
अनुजीविनां भृत्यानाम् ॥ १६ ॥
मृत्युरुवाच ।
आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो ।
धर्मराजोऽथ सञ्चिन्त्य सुचिरं प्रोक्तवानिदम् ॥ १७ ॥
धर्मराज उवाच ।
आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् ।
एष आकाशजो विप्रो जातः खादेव केवलात् ॥ १८ ॥
प्रारब्धाधिकारफलानां फलारम्भेनैव विनाशात्सञ्चितानां ज्ञानेन
बाधादागामिनां बीजाभावान्न सन्त्येवेत्युक्तिः ॥ १८ ॥
आकाशादेव यो जातः स व्योमैवामलं भवेत् ।
सहकारीणि नो सन्ति न कर्माण्यस्य कानिचित् ॥ १९ ॥
सहकारिण्यभिमानरागादीनि मृत्योर्मारणे वा सहकारीणि
कर्माण्यद्यतनानीति शेषः ॥ १९ ॥
सम्बन्धः प्राक्तनेनास्य न मनागपि कर्मणा ।
अस्ति वन्ध्यासुतस्येव तथाऽजाताकृतेरिव ॥ २० ॥
सम्बन्ध इति । तथाच सूत्रम् - तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ
इति । अजाताकृतेरनुत्पन्नाकारस्येव ॥ २० ॥
कारणानामभावेन तस्मादाकाशमेव सः ।
नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः ॥ २१ ॥
कारणानामविद्यादीनां निर्विकारस्य विकारहेतूनां वा । तस्माद्विकारायोगात् ॥
२१ ॥
नैतदस्यावशं चित्तमभावात्पूर्वकर्मणाम् ।
अद्य तावदनेनाद्यं [अनेनान्यत्र किञ्चित् इति पाठः] न
किञ्चित्कर्म सञ्चितम् ॥ २२ ॥
मास्तु शारीरं मानसं तु स्यात्तत्राह - नैतदिति ।
पूर्वदेहस्पन्दवासनावशो हि चित्तस्पन्दः तदभावादेवाद्यतनं शारीरमपि
आद्यमदनार्हं मृत्योः कर्म न सञ्चितम् ॥ २२ ॥
एवमाकाशकोशात्मा विशदाकाशरूपिणि ।
स्वकारणे स्थितो नित्यः [नित्यं कर्माण्यस्य न कानिचित् इति पाठः]
कारणानि न कानिचित् ॥ २३ ॥
एवञ्च सत्ययं परब्रह्मस्वभाव एव स्थितो न दृश्यस्त्रभाव इत्याह -
एवमिति ॥ २३ ॥
प्राक्तनानि न सन्त्यस्य कर्माण्यद्य करोति नो ।
किञ्चिदप्येवमेषोऽत्र विज्ञानाकाशमात्रकः ॥ २४ ॥
तद्भावे तु प्राक्तनकर्मादिप्रसक्तिरेव नास्तीत्याह - प्राक्तनानीति ॥ २४ ॥
प्राणस्पन्दोऽस्य यत्कर्म लक्ष्यते चास्मदादिभिः ।
दृश्यतेऽस्माभिरेवं [रेवैतत् इति पाठः] तन्न त्वस्यास्त्यत्र
कर्मधीः ॥ २५ ॥
ननु तर्हि कथमयमस्माभिः प्राणदेहादिक्रियावान्दृश्यते तत्राह -
प्राणेति । तदस्माभिः स्वाविद्यया भ्रान्त्या दृश्यते नत्वस्य तत्र
सत्यताधीरस्तीत्यर्थः ॥ २५ ॥
संस्थिता भावयन्तीव चिद्रूपैव परात्पदात् ।
भिन्नमाकारमात्मीयं चित्स्तम्भे शालभञ्जिका ॥ २६ ॥
कथं तर्हि तस्य देहादिधीस्तामाह - संस्थितेति । चित्स्तम्भे चिद्रूपैव
शालभञ्जिका प्रतिमा आत्मीयं भिन्नं चिद्विलक्षणमाकारं भावयन्तीव
स्थिता । तथाच भावनामात्ररूपं तन्न वास्तवमित्यस्य धीरित्यर्थः ॥ २६ ॥
प्। १३२)
तथैव परमार्थात्सखात्मभूतः [परमार्थन्तः स्वात्मभूत इति
पाठः] स्थितो द्विजः ।
यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे ॥ २७ ॥
क्वचित्त्वस्य दृष्टान्तर्थमनुत्कीर्णा यथा स्तम्भे संस्थिता
शालभञ्जिकेत्यर्धमधिकं पठ्यते ॥ २७ ॥
स्पन्दत्वं च यथा वायोस्तथैष परमे पदे ।
कर्माण्यद्यतनान्यस्य सञ्चितानि न सन्ति हि ॥ २८ ॥
न पूर्वाण्येष तेनेह न संसारवशं गतः ।
सहकारिकारणानामभावे यः प्रजायते ॥ २९ ॥
उपपादितप्रकारेण कर्मासम्भवानुवादस्य फलकीर्तनं न संसारवशं
गत इति । प्रसिद्धरजतकारणाजन्यशुक्तिरजतस्येव तदीयदेहादेर्मिथ्यात्वनिर्णये
तत्प्रयुक्तकर्तृत्वादिबाधान्न मृत्य्वाक्रमणप्रसक्तिरित्याह -
सहकारीत्यादिना वदेत्यन्तेन ॥ २९ ॥
नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते ।
कारणानामभावेन तस्मादेष स्वयम्भवः ॥ ३० ॥
कर्ता न पूर्वं नाप्यद्य कथमाक्रम्यते वद ।
यदैष कल्पनां बुद्ध्या मृतिनाम्नीं करिष्यति ॥ ३१ ॥
ननु जीवान्तराणामप्येतद्व्यष्ठित्वात्कथं ते वा मृत्युना गृह्यन्ते तत्राह
- यदैष इति । यस्य जीवस्य पृथ्व्यादिमान् देह एवाहमिति निश्चयोऽस्ति स
मूढः पार्थिवदेह एव भवति तस्य एष ब्रह्मा यदा सत्यसङ्कल्पबुद्ध्या
मृतिनाम्नीं कल्पनां करिष्यति तदा स त्वया ग्रहीतुं शक्यत इत्यर्थः ॥ ३१ ॥
पृथ्व्यादिमानयमहमिति यस्य च निश्चयः ।
स पार्थिवो भवत्याशु ग्रहीतुं स च शक्यते ॥ ३२ ॥
पृथ्व्यादिकलनाभावादेष विप्रो न रूपवान् ।
दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते ॥ ३३ ॥
पृथ्व्यादिमयदेहकलनाया अभावान्न रूपवान्नाकारवान् ॥ ३३ ॥
मृत्युरुवाच ।
भगवञ्जायते शून्यात्कथं नाम वदेति मे ।
पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम् ॥ ३४ ॥
निर्विकारस्य शून्यस्य विकारमजस्य जन्म सतां पृथ्व्यादीनामसत्त्वं
चोक्तमसम्भावयन्मृत्युरुवाच - भगवन्निति ॥ ३४ ॥
यम उवाच ।
न कदाचन जातोऽसौ न च नास्ति कदाचन ।
द्विजः केवलविज्ञानभामात्रं तत्तथा स्थितः ॥ ३५ ॥
परस्याकाशत्वोक्तिः पृथ्व्यादीनामसत्त्वोक्तिश्च न शून्यत्वाभिप्रायेण किन्तु
कार्यस्य कारणपृथक्सत्ताशून्यत्वाभिप्रायेण एवमजस्य
जन्मोक्तिर्विवर्ताभिप्रायेण न परिणामाभिप्रायेणेत्याशयं सूचयन् यम
उवाच - न कदाचनेति । यतोऽयं द्विजः परमार्थतः केवलं
विज्ञानभामात्रं तत्ततो हेतोस्तथैव सदा स्थितो न विकृत इत्यर्थः ॥ ३५ ॥
महाप्रलयसम्पत्तौ न किञ्चिदवशिष्यते ।
ब्रह्मास्ते शान्तमजरमनन्तात्मैव केवलम् ॥ ३६ ॥
आद्यन्तयोस्तन्मात्रपरिशेषात्तदेवास्य स्वाभाविकं सत्यं रूपमित्याशयेनाह
- महाप्रलयेति सार्धेन ॥ ३६ ॥
शून्यं नित्योदितं सूक्ष्मं निरुपाधि परं स्थितम् ।
तदा तदनु येनास्य निकटेऽद्रिनिभं महः ॥ ३७ ॥
तदा प्रलये स्थितमित्यन्वयः । यदुक्तं दृश्यतेऽस्माभिरेवं तदिति
तदुपपादयति - तदन्वित्यादिना । तदनु सर्गारम्भकाले येन
वासनादृष्टसम्भृतजीवाविद्याहेतुना अस्य संविन्मात्रस्वभावत्वान्निकटे
पुरोविषयभावेन अद्रिनिभं पर्वतवदनिवार्यं विराडरूपं चतुर्मुखं वा
देहोऽहमित्यभिलापार्हं महः स्थूलं रूपं चेतति ईषत्स्फुरति तदा तेनैव
तादृशविद्याहेतुना काकतालीयवदकस्मात्स्वप्न इव भ्रान्तं मिथ्याभूतं
तमाकारं पश्यति । अस्मदादिजन इत्यर्थः ॥ ३७ ॥
संविन्मात्रस्वभावत्वाद्देहोऽहमिति चेतति ।
काकतालीयवद्भ्रान्तमाकारं तेन पश्यति ॥ ३८ ॥
स एष ब्राह्मणस्तस्मिन्सर्गादावम्बरोदरे ।
निर्विकल्पश्चिदाकाशरूपमास्थाय संस्थितः ॥ ३९ ॥
तथाच परदृष्ट्यध्यस्तदेहादिना नास्य निर्विकल्पतादिक्षतिरिति
प्रागुक्तमव्याहतमित्याशयेनाह - स एष इत्यादि ॥ ३९ ॥
नास्य देहो न कर्माणि न कर्तृत्वं न वासना ।
एष शुद्धचिदाकाशो विज्ञानघन आततः ॥ ४० ॥
प्राक्तनंवासनाजालं किञ्चिदस्य न विद्यते ।
केवलं व्योमरूपस्य भारूपस्येव तेजसः ॥ ४१ ॥
वेदनामात्रसंशान्तावीदृशोऽपि न दृश्यते ।
तस्माद्यथा चिदाकाशस्तथा तत्प्रतिपत्तयः ॥ ४२ ॥
वेदना बहिर्मुखचित्प्रवृत्तिस्तन्मात्रसंशान्तौ ईदृशः प्रातिभासिकरूपोऽपि
। वेदनाशान्तिस्तर्हि कथं तत्राह - तस्मादिति । अधिष्ठानतत्त्वपरिचयेन
विषयबाधे तत्प्रतिपत्तयो वेदना अपि यथा चिदाकाशस्तथैव
तद्भावादवतिष्ठन्त इत्यर्थः ॥ ४२ ॥
कुतः किलात्र पृथ्व्यादेः कीदृशः सम्भवः कथम् ।
एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव ॥ ४३ ॥
यत्र चित्स्वभावानां वेदनानामप्यसहनं तत्र दूरे
पृथ्व्यादिसहनसम्भावनेति तव नाक्रमणं प्रत्याशेत्याशयेनाह -
कुत इति ॥ ४३ ॥
ग्रहीतुं युज्यते व्योम न कदाचन केनचित् ।
श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम् ॥ ४४ ॥
श्रीराम उवाच ।
ब्रह्मैष कथितो देवस्त्वया मे प्रपितामहः ।
स्वयम्भूरज एकात्मा विज्ञानात्मेति मे मतिः ॥ ४५ ॥
आकाशजद्विज इति नामान्तरप्रतिपादितो ब्रह्मैव मया आख्यायिकातात्पर्यार्थो
जगन्मिथ्यात्वमपि परिज्ञातमिति सूचनेन गुरुं प्रहर्षयन् श्रीराम उवाच ##-
प्। १३३)
श्रीवसिष्ठ उवाच ।
एवमेतन्मया राम ब्रह्मैष कथितस्तव ।
विवादमकरोन्मृत्युर्यमेनैतत्कृते पुरा ॥ ४६ ॥
विवादं संवादम् ॥ ४६ ॥
मन्वन्तरे सर्वभक्षो यदा मृत्युर्हरन्प्रजाः ।
बलमेत्यब्जजाक्रान्तावारम्भमकरोत्स्वयम् ॥ ४७ ॥
मन्वोः अन्तरे सन्धिकाले । अब्जजस्याक्रान्तौ मारणे । आरम्भमुद्योगम् ॥ ४७ ॥
तदैव धर्मराजेन यएम्नाश्वनुशासितः ।
यदेव क्रियते नित्यं रतिस्तत्रैव जायते ॥ ४८ ॥
कथमशक्येऽपि मृत्योः पुनःपुनरुद्योग इति चेद्व्य्सनितयेत्याह - यदेवेति
॥ ४८ ॥
ब्रह्मा किल पराकाशवपुराक्रम्यते कथम् ।
मनोमात्रं च सङ्कल्पः पृथ्व्यादिरहिताकृतिः ॥ ४९ ॥
आख्यायिकामुखोक्तार्थं कण्ठतोऽपि वदंस्तच्छरीरादेर्मनोमात्रत्वमाह
- ब्रह्मेति ॥ ४९ ॥
यश्चिद्व्योमचमत्कारः किलाकारानुभूतिमान् ।
स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता ॥ ५० ॥
आकाशस्फुरदाकारः सङ्कल्पपुरुषो यथा ।
पृथ्व्यादिरहितो भाति स्वयम्भूर्भासते तथा ॥ ५१ ॥
आकाशे यथा अवाङ्मुखेन्द्रनीलमहाकटहाकारः पृथ्व्यादिरहितो भाति
तथेत्यर्थः ॥ ५१ ॥
निर्मले व्योम्नि मुक्तालीसङ्कल्पस्वप्नयोः पुरम् ।
अपृत्व्यादि यथा भाति स्वयम्भुर्भासते तथा ॥ ५२ ॥
न दृश्यमस्ति न द्रष्टा परमात्मनि केवले ।
स्वयञ्चित्ता तथाप्येष स्वयम्भूरिति भासते ॥ ५३ ॥
स्वयञ्चित्ता चिन्मात्रस्वभावतैव अस्ति ॥ ५३ ॥
सङ्कल्पमात्रमेवैतन्मनो ब्रह्मेति कथ्यते ।
सङ्कल्पाकाशपुरुषो नास्य पृत्व्यादि विद्यते ॥ ५४ ॥
सङ्कल्पमात्रमेव मनोरूपं न पृथ्व्यादिघटितं स एव ब्रह्मा पद्मज
इत्यर्थः ॥ ५४ ॥
यथा चित्रकृदन्तःस्था निर्देहा भाति पुत्रिका ।
तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम् ॥ ५५ ॥
निराकारस्य सङ्कल्पस्य कथं पुरुषाकारता तत्राह - यथेति । चित्रकृतो हि
लेख्यप्रतिमाकारमन्तः सङ्कल्पेन विधाय तथैव बहिर्लिखतोऽन्तःस्था पुत्रिका
चित्रप्रतिमा यथा निर्देहापि तदाकारा भाति तथैव चिदाकाशस्याच्छं
स्वच्छं यद्रञ्जनं प्रतिबिम्बग्राहकं मनस्तद्ब्रह्मा
प्रजापतिशरीराकारं भाति ॥ ५५ ॥
चिद्व्योमकेवलमनन्तमनादिमध्यं
ब्रह्मेति भाति निजचित्तवशात्स्वयम्भूः ।
आकारवानिव पुमानिव वस्तुतस्तु
वन्ध्यातनूज इव तस्य तु नास्ति देहः ॥ ५६ ॥
तत्र मनसस्तदाकारकल्पनापरिणामो न वास्तवः किन्तु शुद्धं
ब्रह्मैवाज्ञानात्तथा विवर्तत इत्याह - चिद्व्योमेति । ब्रह्मा
स्वयम्भूरित्याकारवानिवेत्यन्वयः ॥ ५६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥