००१

प्रथमः सर्गः १

वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि ।
यदिदन्तत्स्वशब्दोत्थैर्यो यद्वेत्ति स वेत्ति तत् ॥ १ ॥

सत्यं ज्ञानमनन्तमेकमजरं नित्यं विभुं शाश्वतं
प्रत्यग्ब्रह्मरसायनं सुखघनं पूर्णं परं पावनम् ।
स्वात्मज्योतिरनादिमध्यनिधनं मायाविलासैर्मुहु-
र्विश्वाकारमपास्तमायमभयं वन्दे विशुद्धं पदम् ॥ १ ॥

ज्ञानादेवात्मनो मोक्षो न तु कर्मसमाधिभिः ।
अज्ञातोऽसौ स्वसद्दृश्यं [स्वयं दृश्यं इति पाठः] सृजत्येवेति
कीर्त्यते ॥ १ ॥

अथ [स्वयं दृश्यं इति पाठः]
यथोक्तसाधनसम्पन्नस्याधिकारिणः - तावद्विचारयेत्प्राज्ञो
यावद्विश्रान्तिमात्मनि । सम्प्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥
यावत्तत्त्वापरोक्षावधारणं कर्तव्यतया विहितं विचारप्रकारं
प्रकरणद्वयोपवर्णितसमस्तसाधनसम्पन्नायाधिकारिमूर्धन्याय
श्रीरामाय अथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना इति
प्रतिज्ञानपूर्वकमुत्तरग्रन्थेन विस्तरेण वर्णयितुं प्रवृत्तो भगवान्
श्रीवसिष्ठः सृष्टिप्रकारोपवर्णनमुखेन ब्रह्माद्वैतं प्रतिपादयितुं
प्रवृत्तस्योत्पत्तिप्रकरणस्य सुखप्रबोधाय प्रथमं सङ्क्षिप्य तात्पर्यं
दिदर्शयिषुः तद्धेदं तर्ह्यव्याकृतमासीत्
इत्यादिसृष्टिप्रदर्शकश्रौतसन्दर्भस्य अहं ब्रह्मास्मि
इत्यादिमहावाक्यार्थबोध् इवात्रापि [भावरूपं इति पाठः]
दृष्टान्तस्यैकदेशेन बोध्यबोधोदये सति । उपादेयतया ग्राह्यो
महावाक्यार्थनिर्णयः इति प्रागुक्तरीत्या पर्यवसानमिति दर्शयति -
वाग्भाभिरित्यादिना । ब्रह्मैव
वाग्भाभिर्महावाक्यजाखण्डाकारवृत्तीद्धस्वात्मप्रकाशैर्ब्रह्मवित्
स्वतत्त्वं साक्षात्कृतवत्सद्भाति पारमार्थिकनित्यमुक्तपूर्णस्वरूपेण
प्रकाशते । स्वमुक्तौ वाक्यजन्यवृत्त्यतिरिक्तं नापेक्षत इति भावः । तत्कुतः ।
यतो यदिदं देहेन्द्रियादि वियदादि च दृश्यं बन्धरूपमात्मनि
प्रत्यगात्मभूते ब्रह्मण्येव स्वप्न इवाविर्भूतं भाति । नहि
स्वाप्नबन्धनिवृत्तिः प्रबोधातिरिक्तं साधनमपेक्षत इति भावः । तथाच
श्रुतौ यद्ब्रह्मविद्यया भविष्यन्तो मनुष्या मन्यन्ते किमु
तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत् इत्याक्षिप्योत्तरमुक्तं ब्रह्म वा इदमग्र
आसीत्तदात्मानमेवावेदाहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति । सर्वं
पूर्णम् असंसारिभूमानन्दैकस्वभावमित्यर्थः । अस्यां श्रुतौ ब्रह्म
स्वयं स्वतत्त्वबोधान्मुक्तबन्धं पूर्णमभूदित्युक्तेस्तदेव प्राक्
स्वतत्त्वप्रतिबोधात्स्वप्न इव द्वैतप्रियाप्रियदर्शनपरिच्छेदलक्षणं
बन्धमनुभवतीवेति बन्धस्य मिथ्यात्वं प्रतीच एव ब्रह्मत्वं च
स्फुटतरमवगम्यते । तत्र यथा तदुपपादकार्थवादभूतानां
तन्नामरूपाभ्यामेव व्याक्रियते स एष इह प्रविष्ट आनखाग्रेभ्यः
इत्यादिप्राक्तनसृष्टिप्रवेशादिवाक्यानां
जगज्जिवभावयोरज्ञातब्रह्ममात्रोपादानकयोरुत्पत्त्यादिकालत्रयेऽपि
ब्रह्मव्यतिरिक्तसत्ताऽसम्भवान्मिथ्यात्वमेवेत्युपपादनेन
स्वप्रधानमहावाक्यतात्पर्यविषयब्रह्माद्वैते पर्यवसानं तद्वदत्रापि
बोध्यमिति भावः । भवतु तथा किं न नस्तेनेति तत्राह - तदित्यादिना ।
तद्ब्रह्म इदानीन्तनोऽस्मदादिरपि योऽधिकारी स्वशब्दोत्थैः
श्रवणाद्युपायैर्यत् यादृशं तत्त्वतस्तथा वेत्ति अहमेव ब्रह्मेति
साक्षात्करोति स तत् प्रायुक्तं पूर्णनित्यमुक्तब्रह्म भारूपं
[भावरूपं इति पाठः] मोक्षफलमपि वेत्ति जीवन्नेव
साक्षादनुभवति । तथाच श्रुतिः तद्यो यो देवानां प्रत्यबुध्यत स एव
तदभवत्तद्यथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यन् ऋषिर्वामदेवः
प्रतिपेदेऽहं मनुरभवं सूर्यश्च इति ॥ अथवा [इवास्यापि प्रकरणस्य इति
पाठः] यन्मुमुक्षूणामज्ञातत्वाज्जिज्ञासितमिदं
सर्वजनानामात्मत्वेन प्रत्यक्षं ब्रह्मवचनं वाक् वाचकशब्दप्रपञ्चो
भातीति भास्तत्प्रकाश्यार्थम्प्रपञ्चश्च ताभिः त्रयं वा इदं नामरूपं
कर्म इति श्रुतिदर्शितद्वैतप्रपञ्चभावैरविविक्ततया

प्। १२६)

ब्रह्मवित् स्वं पश्यत्सदात्मनि स्वस्मिन् स्वप्न इव
वधबन्धशोकमोहादिदुःखिस्वभावं भाति तत्तथा भातमपि ब्रह्म
योऽधिकारी स्वशब्दोत्थैः स्वात्ममात्रपरिशेषक नेतिनेति
इत्यादिवाक्यकृतैर्द्वैतनिषेधैर्यत् यादृशं परिशिष्टं वेत्ति स एव
तद्ब्रह्म तत्त्वतोवेत्ति नत्वध्यारोपितनामरूपादिसंवलितदर्शीत्यर्थः ॥ अथवा
[३] वागिति वचनादिक्रियाशक्तिप्रधानानि कर्मेन्द्रियाण्युपलक्ष्यन्ते ।
भा इति प्रकाशप्रधानानि ज्ञानेन्द्रियाणि । तैर्द्वारैर्यो ब्रह्मविद्वस्तुतो
ब्रह्मापि पश्यति स ब्रह्म सन्नप्यात्मनि स्वप्न इवाब्रह्मभूतोऽन्यथा भाति ।
बहिर्मुखस्य तत्त्वदर्शनासिद्धेः । पराञ्चि खानि
व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् इत्यादिश्रुतेः ।
यस्त्वधिकारी यत्प्रसिद्धमिदं प्रपञ्चरूपमपि स्वशब्दोत्थैः ब्रह्मैवेदं
सर्वम् आत्मैवेदं सर्वं
इत्यादिपरमार्थपरवाक्यजन्यबोधैर्यत्सर्वाधिष्ठानसन्मात्रं वेत्ति स
व्यावृत्तबाह्येन्द्रियप्रसरः प्रत्यङ्मुखस्तद्ब्रह्म वेत्ति । तथाच
बाह्यदृष्ट्या ब्रह्मापि दृष्टमनर्थ एव प्रामाणिकप्रत्यग्दृष्ट्या तु
जगदपि दृष्टं प्रुषार्थायेति सृष्टिप्रपञ्चनव्याजेन
प्रत्यग्दृष्टिव्युत्पादनेऽस्य प्रकरणस्य तात्पर्यमित्यर्थः । अथवा [४]
वक्ष्यमाणाभिरुपदेशवाग्भिर्भाभिर्दृष्टान्ताख्यानोपपत्तिप्रकाशैश्चैत्
अदुच्यत इति शेषः । यद्ब्रह्मविदेव परमार्थतो ब्रह्म न
ब्रह्मनामकमर्थान्तरं व्यवहितविप्रकृष्टदेशे स्वात्मनोऽन्यदेवास्तीति
भ्रमितव्यमिति । यदिदं दृश्यप्रपञ्चरूपं तत्स्वप्न इवात्मन्येवाध्यस्तं
भाति न तदपि परमार्थसत्यमन्यदस्तीति भ्रमितव्यमिति । तत्र
चोक्तब्रह्मभावजगद्भावद्वये यो विवेक्यविवेकी वा यदेव
स्वशब्दोत्थैर्ब्राह्मणोऽहं क्षत्रियोऽहं देवदत्तोऽहमिति
स्वाभाविकलौकिकप्रसिद्धमिथ्यास्वशब्दजन्यैर्वा ब्रह्मैवाहं
चिदेवाहमित्यादिशास्त्रीयसत्यार्थस्वशब्दजन्यैर्वा प्रत्ययैर्यद्यादृशं
स्वरूपं स्वस्य वेत्ति स तदेव वेत्ति पुनःपुनरनुभवति । संसार्यात्मदर्शिनः
संसार एव फलति ब्रह्मात्मदर्शिनस्तु ब्रह्मभाव एवेति तद्दर्शिनैव
भाव्यमिति भावः ॥ अथवा [५] ननु प्रागुपदिष्टमेव ब्रह्म
यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते अस्त्यनन्तविलासात्मा सर्वगः
सर्वसंश्रयः इत्यादिना तत्रोपदिष्टे ब्रह्मणि शमाद्यभावाच्चित्तास्थैर्ये
प्राप्ते शमादिसाधनानि तद्दृढीकाराय पौरुषप्रयत्नश्चोपदिष्ट इति
नोपदेष्टव्यान्तरमवशिष्यते । यदि सकृदुपदिष्टवाक्यार्थप्रकाशैर्ब्रह्म
न भाति तर्हि शतकृत्वोऽप्युपदिश्यमानं तथैवेति किमस्यैव
पुनःपुनरुपदेशेन पिष्टपेषणप्रायेणेत्याशङ्क्याह - वाग्भाभिरिति ।
यो ब्रह्मवित् ब्रह्मवेत्ता श्रोता वाग्भाभिः
सकृदुपदेशवाक्यार्थप्रकाशैर्हेतुभिर्यद्ब्रह्म स्वयमेवेति भाति प्रथते
तत्स्वप्न इव भादितप्रायं न दृढतरं भवति
निद्रावशोऽनिरूढनाक्षत्रादिस्वनामघटितोपांशुप्रबोधकवाक्यमिव न
सम्यगवधारयतीति वार्थः । स एव हे देवदत्त हे
यज्ञदत्तेत्यादिचिरव्यवहारनिरूढस्वनामसम्बोधनोत्थैरिव
बहुकालाभ्यस्तश्रवणाद्यभ्यासदृढपरिचितमहावाक्योत्थप्रत्ययैर्यद्वेत्
ति स एव तद्वेत्ति । तादृशासन्दिग्धस्वात्मबोध एवाविद्योच्छेदहेतुरित्यर्थः ।
तथाच तादृशदृढनिश्चयापरोक्षानुभवाय
पुनःपुनरुपपत्तिभिरुपदेशो [पुनःपुनरुपदेशो इति पाठः]
यावत्फलोदयमभ्यसनीय इत्युत्तरग्रन्थोपपत्तिरिति भावः । तथाच सूत्रम्
आवृत्तिरसकृदुपदेशात् इति ॥ अथवा [६] यथा
अब्रह्मविज्जाग्रद्भयादिचिरवासनावासितः स्वप्ने अविद्यया
कुत्सनभर्त्सनभीषणादिवाग्भिर्भयकम्पपलायनगर्तपतनादिप्रतिभाभिश्चो
पलक्षितो दुःखी भाति यथा वा उपासको जाग्रद्देवभाववासनावासितः स्वप्ने
देव इव राजेव
स्तुतिप्रशंसनादिवाग्भिर्जक्षणक्रीडनविमानारोहनभोविहारादिप्रतिभाभिश्च्
ओपलक्षितो [वाग्भा इति पाठः] भाति तथा ब्रह्मविदपि
चिराभ्यस्तश्रवणादिवासितः स्वप्ने ब्रह्मैवेदं सर्वमात्मैवेदं सर्वं
अहमेवेदं सर्वोऽस्मीति
परमार्थप्रतिपादकवाग्भिर्वास्तवब्रह्मभावप्रतिभाभिश्च भाति । तथा
फलावस्थायामपि स्वप्नवत्परलोकफलस्यापि
दृढाभ्यस्तवासनानुसारित्वस्य लीलोपाख्यानादौ व्युत्पादयिष्यमाणत्वात् ।
नन्वत्र किं प्रमाणं तत्राह - यदिति । यदिदं स्वप्नवत्परलोकस्यापि
वासनानुसारित्वं तत्स्वयमेव शब्दयन्ति बोधयन्ति नतु मूलसापेक्षतयेति
स्वशब्दाः श्रुतयस्तदुत्थैः प्रत्ययैः स्वतःप्रमाणभूतैरध्यवसीयते ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छादयति गर्तमिव पतति यदेव
जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथो यत्र देव इव राजेवाहमेवेदं
सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः । तद्य इह व्याघ्रो वा सिंहो वा
यद्यद्भवन्ति तदाभवन्ति । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनं मनो
कृतेनायात्यस्मिन् शरीरे इत्यादिश्रुतिभ्यः । यं यं वापि स्मरन्भावं
त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
तस्मात्सर्वेषु कालेषु मामनुस्मर इत्यादिस्मृतिभ्यश्चेत्यर्थः ।
तथाचाभ्यासदशायां यो यद्वेत्ति संसार्यात्मानं ब्रह्मात्मभावं वा
सफलावस्थायामपि तद्वेत्त्यनुभवतीति निरन्तरं ब्रह्मानुभववासनैव
दृढीकार्येत्युत्पत्तिप्रकरणतात्पर्यार्थ इति भावः ॥ अथवा [७]
वाग्भिः श्रुतिस्मृत्यादिशब्दप्रमाणैर्भाभिर्विद्वदनुभवप्रकाशैश्च
ब्रह्मविद्ब्रह्मैव ।
यदिदमस्याज्ञानदशाप्रसिद्धमब्रह्मत्वमवस्थात्रयं च तदात्मनि स्वप्न
इव भाति । तस्य त्रय आवसथास्त्रयः स्वप्नाः इति श्रुतेः
तस्मात्सम्भावनामात्रः संसारः प्रत्यगात्मनि । उक्तेऽर्थे
संशयश्चेत्यात्प्रत्यग्दृष्ट्या निरीक्ष्यताम् ॥ इति
वार्तिकादिप्रसिद्धविद्वदनुभवाच्च । तदुक्तार्थद्वयं योऽधिकारि स्वः स्वीयः
करतलामलकवदपरोक्षीकृतात्मतत्त्व उपदेशकुशल
आचार्यस्तस्योपदेशशब्दोत्थैरनुभवानुकूलैरूहापोहाद्य्पायैर्यद्यादृश
ं वेत्ति स एव स्वानुभवतोऽपि तद्वेत्ति । आचार्यवान्पुरुषो वेद । आचार्याद्धैव
विद्या विदिता साधिष्ठं प्रापत् । आचार्यो ज्ञाता कुशलानुशिष्टः
इत्यादिश्रुतेरित्यर्थः ॥ अथवा [८] ब्रह्मविदामनुभवसिद्धं ब्रह्म
व्यवहारे वाग्भाभिस्तुल्यं भाति यथा वा घटादिशब्दाः
सङ्केतात्स्वानुरञ्जितमर्थं प्रकाशयन्ति तद्भावापन्नेव स्वयं प्रथते
यथा भा आलोकोऽपि तथा प्रथते एवं ब्रह्मापि भास्यानुरञ्जितं
तदविविक्तस्वप्रकाशं प्रथत इत्यर्थः । नन्वसङ्गाद्वितीयस्य कथं
परानुरञ्जनेन प्रथनं तत्राह - यदिति ।
यद्यस्मात्कारणादात्मन्यध्यासेन स्वप्न इव इदं तनोतीतिदन्तत् ।

प्। १२७)

सर्वप्रपञ्चविवर्तोपादानमित्यर्थः । तथाच कारणस्य कार्यानुरञ्जनं
युक्तमेव । कार्यमिथ्यात्वाच्च नासङ्गाद्वितीयताविरोध इति भावः ।
तत्तथाभूतं ब्रह्म
स्वशब्दोत्थैरनुगतस्वयंरूपमात्रपरामर्श्यात्मादिशब्दनिकृष्टबोधैर्य्
ओ वेत्ति स तदसङ्गोदासीनस्वप्रकाशचिन्मात्रस्वभावं वेत्ति न
विशेषनामरूपसंवलितदर्शीत्यर्थः ॥ अथवा [९] ब्रह्म
स्वप्रकाशत्वाद्ब्रह्मवित्स्वप्रथायामन्यनिरपेक्षमपि वाग्भाभिः वागेवास्य
ज्योतिर्भवति आदित्य एवास्य ज्योतिर्भवति इति श्रुत्युक्तेर्ज्योतिरन्तरैर्व्यामोहात्स्वप्न
इवात्मनि ज्योतिरन्तरासङ्कीर्णदशायामेव समाध्यादौ निष्कृष्टं भाति न
संसारजागरे । श्रुत्या तत्रैव आत्मैवास्य ज्योतिर्भवत्यात्मनैवायं ज्योतिषास्ते
पल्ययते कर्म कुरुते इति स्वयञ्ज्योतिष्ट्वास्फुटीभावप्रदर्शनात् । इत्थं स्वप्ने
व्युत्पादितस्य स्वयञ्ज्योतिरात्मनो जागरेऽप्यनुभवे उपायमाह - यदिति ।
इदमिति तदिति स्वमिति च
शब्दैरुत्थैराधिभौतिकाधिदैविकाध्यात्मिकविषयप्रत्ययैर्भोक्तारं प्रति एति
आगच्छतीति यत्तथाविधं यद्विषयजातं तद्यो वेत्ति स तद्ब्रह्मैव सन्वेत्ति नतु
कल्पितोपाध्यात्मा सन्वेत्ति । जडात्मनो वेदनशक्त्यभावात् नान्योऽतोऽस्ति द्रष्टा
नान्योऽतोऽस्ति श्रोता इति द्रष्टश्रोत्रन्तरप्रतिषेधाच्चेति भावः । तथाच
बहिरर्थप्रकाशे ज्योतिरन्तरसङ्कीर्णत्वेऽपि नान्तरुपनीतार्थप्रथायां
तत्सङ्कर इति जागरेऽपि स्वयं ज्योतिरात्मा विवेकिभिः सुबोध इति सदैव
तद्विमर्शपरेण भाव्यमित्याशयः ॥ अथवा [१०] यदिदमिहलोकरूपं
कर्मस्थानं तत्स्वर्गादिरूपं तत्फलस्थानं स्वं स्वयं तत्फलभोक्ता चेति
त्रितयप्रतिपादककर्मकाण्डशब्दोत्थैः प्रत्ययैर्यद्भाति
यच्चोपनिषद्वाग्भिर्मननादिप्रकाशैश्चाहं ब्रह्मविद्ब्रह्मेति वा भाति
तत्सर्वं स्वप्न इवाप्रबुद्ध एवात्मनि भाति न भूमात्मनि । यत्र नान्यत्पश्यति
नान्यच्छृणोति नान्यद्विजानाति स भूमा इति श्रुतेः । सर्वाणि च शास्त्राणि
विधिनिषेधमोक्षपराण्यविद्यावद्विषयत्वं नातिवर्तन्ते इति भाष्याच्च । तदिदं
रहस्यं योगस्तद्वेदेति श्रुतिं विडम्बयन्नह - यो यद्वेत्तीति ।
विद्वदनुभवैकसिद्धमिदमित्यर्थः ॥ दुरूहस्यास्य पद्यस्य सुधीभिरपि
दुर्गमाः । इमे गुरुप्रसादेन दशार्थाः सम्प्रकाशिताः ॥ १ ॥

न्यायेनानेन लोकेऽस्मिन्सर्गे ब्रह्माम्बरे सति ।
किमिदं कस्य कुत्रेति चोद्यमूचे निराकृतम् ॥ २ ॥

इत्थं प्रकरणार्थसङ्क्षेपोपदर्शनमुखेनावान्तरविषये प्रदर्शिते
प्रपञ्चमिथ्यात्वज्ञानलक्षणावान्तरप्रयोजनानुबन्धी
प्राक्तनचोद्यपरिहारोऽप्यर्थात्सिद्ध इत्याह - न्यायेनेति । अनेन सङ्क्षेपतो
दर्शितेन विस्तरतो
वक्ष्यमाणेनाध्यस्तस्याधिष्ठानात्पृथगसत्त्वन्यायेनाध्यारोपापवादन्य्
आयेन वा ब्रह्माम्बरेऽध्यासक्रमेणास्मिन्परिदृश्यमाने सर्गे प्रपञ्चरूपे
सति सर्गे वाऽपवाद क्रमेण लोकेऽवलोक्यमाने ब्रह्माम्बरे ब्रह्माकाशमात्रे
सति तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति । किमिदं जायते भूयः किमिदं
परिवर्धते ॥ इत्यादिना भवान् प्राग्यत्सतो नाशाद्यसम्भवचोद्यमूचे तत्स्वतो
निराकृतमेवोचे । सतो नाशाद्यनभ्युपगमान्नश्वरस्य
सत्त्वानभ्युपगमाच्चोद्यविषयाभावादित्यर्थः ॥ २ ॥

अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् ।
यथास्वभावं तत्सर्वं वच्मीदं श्रूयतां बुध ॥ ३ ॥

इत्थमवान्तरविषयफले प्रदर्श्य विस्तरोक्तिं प्रतिजानीते - अहमिति । इदं
सङ्क्षिप्य दर्शितमर्थजातं वच्मि विस्तरेणेत्यर्थः । प्रमाणतोऽनुभवतश्च
यथाज्ञानं परीक्षणतो यथावस्तु साधनोपपत्तिनिरूपणतो यथाक्रमं
श्रोतृबुद्धिपरिपाकानुसारतश्च यथास्वभावम् । सर्वत्र
पदार्थानतिवृत्तावव्ययीभावः । अथवा यथावस्त्विति सर्गपूर्वावस्थोक्तिस्तदा
सर्वजगतः सन्मात्ररूपत्वात् यथाज्ञानमिति सर्गारम्भकलनोन्मुखत्वोक्तिः ।
यथाक्रममिति स्थूलीभावेन सृष्टिक्रमोक्तिः । यथास्वभावमिति
जगदारोपदशयामप्यविकृतस्वभावोक्तिः । सर्वमिति
ज्ञानप्राप्यपूर्णभावोक्तिः । तस्मात्तत्सर्वमभवत् इति श्रुतौ पूर्णभावे
सर्वशब्ददर्शनात् । बुधेत्युत्तमाधिकारस्मारणं श्रवणादरोत्पादनार्थम्
॥ ३ ॥

स्वप्नवत्पश्यति जगच्चिन्नभोदेहवित्स्वयम् [चिन्मयं इति पाठः] ।
स्वप्नसंसारदृष्टान्त एवाहन्त्वंसमन्वितम् ॥ ४ ॥

स्वप्नवदात्मनीति यदुक्तं तस्य तात्पर्यं विशदयति - स्वप्नवदिति ।
चिन्नभोदेहविज्जीवभावापन्नं सद्यज्जगत्पश्यति तत्स्वप्नवत्पश्यति । यथा
स्वप्नदर्शनं विषयबाधेऽपि न बाध्यते तद्वज्जगद्दर्शनमपीति । दृशेः
सत्यत्वे तात्पर्यमिति भावः । एवमहमिति प्रत्यगात्मतादात्म्येन त्वमिति
पराग्भावेन च भासमानं प्रपञ्चरूपमपि स्वप्नसंसारदृष्टान्ते
दार्ष्टान्तिकत्वेन् समन्वितं सम्यक्सम्बद्धम् । तस्य मिथ्यात्वे तात्पर्यमिति
भावः । अथवा ननु प्रमाणजस्य कथमप्रमाणजं स्वप्नदर्शनं
दृष्टान्तस्तत्राह - देहविदिति । यद्यपि बाह्यं जगत्प्रमाणैः पश्यत
तथापि कार्यकरणसघातात्मकव्यष्टिसमष्टिदेहभासकः
[कारणसङ्घाता इति पाठः] स्वयमेव न बाह्यप्रमाणसापेक्ष
इत्यर्थः । ननु रूपादिमत्त्वाद्देहोऽपि चक्षुरादिनैव भासतां तत्राह -
अहन्त्वमिति । यदि चक्षुरादिना स भासेत तर्हीदभित्येव भासेत । तद्विषये
सर्वत्रेदन्त्वदर्शनात् । अहन्त्वं तु तत्र भासमानं
स्वप्नसंसारदृष्टान्त एव समन्वितं युक्तमित्यर्थः । अथवा अस्तु देहस्य
स्वप्नसाम्यं तथापि कथं बाह्यनामरूपात्मकजगन्मात्रस्य तथात्वं
तत्राह - अहन्त्वंसमन्वितमिति । न बाह्यरूपादितावन्मात्रं निष्कृष्टं
भासते किन्तु रूपमहं पश्यामीति
त्रिपुटीभूतमहमर्थसंवलितत्वमर्थरूपम् तत्तु
साक्षिमात्रगम्यत्वात्स्वप्नसंसारदृष्टान्ते दार्ष्टान्तिकं भवत्येवेति
शेषः । नह्यध्यस्तगोचरज्ञाने सत्यार्थो विषयो भवति । अध्यस्तमेव हि
परिस्फुरति भ्रमेषु नान्यत्कथञ्चन परिस्फुरति भ्रमेषु इति
सिद्धान्तद्बाह्यप्रमाणानां व्यवहारेष्वर्थाविसंवादमात्रेणापि
व्यावहारिकप्रामाण्याविघातादिति भावः ॥ ४ ॥

प्। १२८)

मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्प्रकरणात्परम् ।
अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥ ५ ॥

अथेत्यानन्तर्येण हेतुतासङ्गतिर्दर्शिता ॥ ५ ॥

बन्धोऽयं दृश्यसद्भावाद्दृश्याभावेन बन्धनम् [सद्भावो
दृश्याभावेन इति पाठः] ।
न सम्भवति दृश्यं तु यथेदं तच्छृणु क्रमात् ॥ ६ ॥

ननु बन्धनिरासोपायार्थिनो मम किमनेन
दृश्यमिथ्यात्वपरोत्पत्तिप्रकरणश्रवणेनेत्यत्राह - बन्ध इति ॥ ६ ॥

उत्पद्यते यो जगति स एव किल वर्धते ।
स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा ॥ ७ ॥

ननु न दृश्यासम्भवमात्रेण बन्धनिवृत्तिः
उत्पत्तिवृद्धिनाशस्वर्गनरकादेर्बन्धस्य
द्रष्टृधर्मताप्रत्ययेनात्मकोऽत्यन्तःपातेन दृश्यनिवृत्तावपि
तदनिवृत्तेरित्याशङ्क्याह - उत्पद्यत इति द्वाभ्याम् । सत्यमुत्पद्यते यः स
एव वृद्ध्यपक्षयस्वर्गनरकादीन् बन्धमोक्षौ चानुभवेन्न त्वात्मा
उत्पत्त्यादिस्वभावः । स्वस्वरूपानवबोधेनैव
तस्योत्पत्त्यादिभ्रमविभावनादित्यर्थः ॥ ७ ॥

अतस्ते स्वावबोधार्थं तत्तावत्कथयाम्यहम् ।
उत्पत्तिः संसृतावेति पूर्वमेव हि यो यथा ॥ ८ ॥

यतः स्वानवबोधादेव बन्धोऽतः स्वावबोधार्थं तद्दृश्यासम्भवं
तावद्वक्ष्यमाणप्रकारं कथयामि । यथा उत्पत्त्यादिसम्बन्धः संसृतौ
दृश्यसंसारकोटौ एति नात्मकोटौ । आत्मा तु दृश्योत्पत्तेः पूर्वं यथा
तथैव नाणुमात्रमपि विक्रियत इत्यर्थः । तथाच श्रुतिः न निरोधो न चोत्पत्तिर्न
बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तिरित्येषा [मुक्त इत्येषा इति
पाठः] परमार्थता इति ॥ ८ ॥

इदं प्रकरणार्थं त्वं सङ्क्षेपाच्छृणु राघव ।
ततः सङ्कथयिष्यामि विस्तरं ते यथेप्सितम् ॥ ९ ॥

अयमेवास्य प्रकरणस्यार्थ इति वक्ष्यमाणविस्तरोपोद्धाततयास्मिन्सर्गे
सङ्क्षेपतः प्रपश्यत इत्याह - इदमिति । अयं चासौ प्रकरणार्थश्चेति
कर्मधारयः । प्रकरणार्थमुत्पत्तिप्रकरणोपोद्धाताय
इदमेतत्सगप्रपाद्यमिति वा ॥ ९ ॥

यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ १० ॥

पूर्वमेव हि यो यथेत्युक्तार्थस्योपपादनाय
प्रलयावस्थापरिशिष्टात्मस्वरूपं वक्तुं पूर्वसर्गस्य कारणे लयप्रकारं
दृष्टान्तेनाह - यदिदमिति ।
साङ्ख्यनैयायिकाद्यभिमतप्रधानपरमाण्वादिपरिशेषात्मकप्रलयवैधर्
म्यार्थं दृष्टान्तोक्तिः ॥ १० ॥

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥ ११ ॥

स्तिमितमक्रियममूर्तत्वात् । गम्भीरमपरिच्छेद्यत्वात् । अरूपत्वान्न तेजः ।
भारूपत्वान्न तमः । निर्धर्मकत्वादनाख्यम् ।
अज्ञानावृतत्वादनभिव्यक्तं प्रपञ्चसंस्काराधारत्वाद्वा अनभिव्यक्तम्
॥ ११ ॥

ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं तस्य सञ्ज्ञा महात्मनः ॥ १२ ॥

उत्कृष्टप्रमाणश्रुतिगम्यत्वादृतम् । यच्चाप्नोति यदादत्ते यच्चात्ति
विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति शब्द्यते ॥ इति व्यासोक्तरीत्या
आत्मा । सत्यतोत्कर्षावधित्वात्परम् । बृहत्त्वाज्जगदाकारबृंहकत्वाद्वा
ब्रह्म । यथाशास्त्रं विद्वद्भिरनुभूयमानं सत्यम् । व्यवहार
उपदेश्योपदेशस्तदर्थम् ॥ १२ ॥

स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।
जीवतामुपयातीव भाविनाम्ना [भाविनाम इति पाठः] कदर्थिताम्
॥ १३ ॥

सर्गादौ तस्यानृतं समष्टिजीवभावमाह - स इति ।
तथाभूतश्चित्स्वभावेन स्थित एव मोहादन्यो जड
आकाशादिक्रमोद्भूतलिङ्गसमष्ट्यात्मा तदनुप्रवेशात्तदभिमानेन स
इवोल्लसंस्तदन्तर्गतप्राणधारणोपाधिना
देहनिष्पत्त्युत्तरभाविवागभिव्यक्त्यधीनत्वाद्भाविना जीवनाम्ना कदर्थितां
कुत्सितार्थत्वेन सम्पादितां जीवतां एतीव [सेतीव इति पाठः] भ्रान्त्या ।
वस्तुतस्तु नैत्येवेत्यर्थः ॥ १३ ॥

ततः स जीवशब्दार्थकलनाकुलतां गतः ।
मनो भवति भूतात्मा मननान्मन्थरीभवन् ॥ १४ ॥

इत्थं ज्ञानशक्तिमात्रसाध्यं सर्गमुक्त्वा क्रियाशक्तिसहकृततत्साध्यं
तमाह - तत इति । जीवशब्दार्थः क्रियाशक्तिप्रधानप्राणधृतिस्तत्कलनेन
आकुलतां चञ्चलताम् । भूतात्मा भौतिकलिङ्गात्मा ।
सङ्कल्पविकल्पमननान्मन्थरीभवन् जाड्येन मन्दीभवन् ॥ १४ ॥

मनः सम्पद्यते तेन महतः परमात्मनः ।
सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः ॥ १५ ॥

तेन मनोभावेन । महतः परमात्मन इति ल्यब्लोपे पञ्चम्यौ ।
तादृशपरमात्मभावं विस्मृत्येत्यर्थः । मनः सम्पद्यते
मनोधर्मसङ्कल्पादीनात्मन इति मन्यते ॥ १५ ॥

तत्स्वयं स्वैरमेवाशु सङ्कल्पयति नित्यशः ।
तेनेत्थमिन्द्रजालश्रीर्विततेयं वितन्यते ॥ १६ ॥

तदेवं समष्टिमनोभावमापन्नं हिरण्यगर्भाख्यं ब्रह्म
स्वयमन्येनाबोधितमपि पूर्ववासनानुरोधाद्विराड्भावं भुवनादिभावं
तत्र चतुर्विधभूतग्रामभावमिति नित्यं स्वैरमेव सङ्कल्पयतीत्यर्थः । तेन
सत्यसङ्कल्पेन ॥ १६ ॥

यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् ।
न हेम कटकात्तद्वज्जगच्छब्दार्थता परे ॥ १७ ॥

इत्थमध्यारोपसहस्रेणापि नाधिष्ठानस्य पारमार्थिकस्थितिभङ्ग इति
दर्शयितुं दृष्टान्तमाह - यथेति ।
हेमकटकरूपात्काञ्चनात्कटकशब्दार्थो यथा पृथक्त्वार्हो नेत्यन्वयः ।
परे ब्रह्मणि प्रतिभाता जगच्छब्दार्थतापि ततः पृथक्त्वार्हा नेत्यर्थः ॥ १७

ब्रह्मण्येवास्त्यनन्तात्म यथास्थितमिदं जगत् ।
न जगच्छब्दकार्थेऽस्ति हेम्नीव कटकात्मता ॥ १८ ॥

द्वयोः पृथक्त्वानर्हत्वेनैकसत्ताकता सिद्धा सा चानागन्तुकब्रह्मभावे
स्वतो जगद्भावे तु तदधीना न स्वत इत्याह - ब्रह्मण्येवेति । इदं जगत्
अनन्तात्मपरित्यक्तपरिच्छेदस्वभावं ब्रह्मस्वभाव एवास्ति
जगच्छब्दकार्थे अन्तवदात्मस्वभावे तु नास्ति कटकात्मता यथा
हेमस्वभावेऽस्ति न कटकस्वभावे तद्वत् ॥ १८ ॥

प्। १२९)

सती वाप्यसती तापनद्येव लहरी चला ।
मनसेहेन्द्रजालश्रीर्जागती प्रवितन्यते ॥ १९ ॥

यदि स्वतो नास्ति कथं सतीव भाति तत्राह - सतीति । तापो
मरुमरीचिस्तत्कल्पितनद्या लहरीव जागती इन्द्रजालश्रीरसत्यपि सतीव प्रवितन्यत
इत्यन्वयः ॥ १९ ॥

अविद्या संसृतिर्बन्धो माया मोहो महत्तमः ।
कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥ २० ॥

तस्या असत्त्वं तु आविद्यकत्वेनाविद्यात्मकत्वादित्यभिप्रेत्य
तदनुरूपनामभिरविद्यां दर्शयति - अविद्येति । विद्यापोद्यत्वादविद्या ।
ऊर्ध्वाधस्तिर्यक्संसरणहेतुत्वात्संसृतिः । अस्वातन्त्र्यप्रयोजकत्वाद्बन्धः ।
मिथ्यात्वान्माया । भ्रमहेतुत्वान्मोहः । दुस्तरत्वान्महत् ।
स्वरूपावरकत्वात्तम इत्यादीनि नामानि ॥ २० ॥

बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु ।
ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुनिभानन ॥ २१ ॥

द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते ।
द्रष्टा दृश्यबलाद्वद्धो [वशाद्वद्ध इति पाठः]
दृश्याभावे विमुच्यते ॥ २२ ॥

ज्ञानेन बाधितुं प्राप्तुं च योग्यं बन्धमोक्षयोः स्वरूपमाह -
द्रष्टुरिति । अङ्गेति प्रियसम्बोधने ॥ २२ ॥

जगत्त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते ।
यावदेतत्सम्भवति तावन्मोक्षो न विद्यते ॥ २३ ॥

नेदं नेदमिति व्यर्थप्रलापैर्नोपशाम्यति ।
सङ्कल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते ॥ २४ ॥

ननु यदि दृश्यासम्भव एव मोक्षस्तर्हि तदा तदोपस्थितस्य दृश्यस्य
नेदं नेदमिति निरासेनैव रोगनिरासेनारोग्यमिव स सेत्स्यतीति किं
तत्त्वज्ञानायासेनेत्यत आह - नेदमिति । नेदमिति प्रलापो हि सति दृश्ये
बाधितार्थत्वात्तद्विरोधि दृश्यान्तरोत्पादनसङ्कल्पेन [त्पादनेन
सङ्कल्पेन इति पाठः] तदुत्पादनेन पूर्वदृश्यनिरासको वाच्यः तथा
सत्येकदृश्यनिरासाय दृश्यद्वयजननाद्वर्धत इत्यर्थः ॥ २४ ॥

न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः ।
सतो दृश्यस्य जगतो यस्मादेति विचारकाः [विचारक इति पाठः] ॥
२५ ॥

हे विचारकाः दृश्यस्य सतः दृश्ये सति तर्कातिशयादिना दृश्यव्याधिर्न
शाम्यतीत्येतावदेव न किन्त्वन्योऽप्येति आगच्छतीत्यर्थः । षष्ठी चानादरे इति
भावलक्षणे षष्ठी । दृश्यसत्ता नानादरादुपेक्ष्या किन्तु विचारेण
बाध्येत्यर्थः ॥ २५ ॥

जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव कस्यचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥ २६ ॥

किञ्च दृश्यस्य स्वतः सत्तभ्युपगमे सतो बाधायोगादनिर्मोक्षः
स्यादित्याह - जगदिति ॥ २६ ॥

अचेत्यचित्स्वरूपात्मा यत्र यत्रैव तिष्ठति ।
द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे ॥ २७ ॥

नन्वयं द्रष्टा तपोध्यानादिबलाद्दृश्यनिर्मुक्ते
दृश्यसमावेशायोग्यपरमाणूदरादौ वा गत्वा तिष्ठन् दृश्यनिर्मुक्तो
भविष्यतीति कथमनिर्मोक्षस्तत्राह - अचेत्येति । तप आदिना अचेत्यो
बोद्धुमशक्यः अज्ञातचिद्रूप [चिद्रूपेति पदं क्वचिन्न पठ्यते]
आत्मा यस्य स द्रष्टा तादृशात्मन एव दृश्यबीजत्वादणूदरेऽपि भ्रान्त्या
वैपुल्यप्रतिभासाविरोद्धात्तत्रापि दृश्यबन्धो दुर्वार इति भावः ॥ २७ ॥

तस्मादस्ति जगद्दृश्यं तत्प्रसृष्टमिदं मया ।
त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत् ॥ २८ ॥

उक्तमुपसंहरति - तस्मादिति । स्वस्थाने प्रमृष्टं देशान्तरप्राप्त्या
त्यक्तं चेत्यर्थः । काञ्जिकं पर्युषितौदनोदकं सुराविशेषो वा ॥ २८ ॥

यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति ।
परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि ॥ २९ ॥

परमाणूदरेऽप्यात्मनि ब्रह्माण्डसमावेशसम्भावनार्थमादर्शे इति ।
यथा विपुलप्रदेशे तथैव न सङ्कोचेनेत्यर्थः ॥ २९ ॥

यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति ।
अद्न्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि ॥ ३० ॥

ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी ।
भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः ॥ ३१ ॥

स्थूलो जागरे सूक्ष्मः स्वप्ने भावाभावग्रहः सुषुप्तौ तूत्सर्ग इति ।
चलाचलोऽस्थिरः ॥ ३१ ॥

इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः ।
एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥ ३२ ॥

ज्ञाननिरपेक्षसविकल्पकसमाधिना दृश्यमार्जनमाशङ्क्याह
[मार्जनस्यासम्भवमाह इति पाठः] - इदमिति । अस्मृतस्य
प्रमार्जनायोगात्तत्स्मृतौ तु समाधिभङ्गादिति भावः ॥ ३२ ॥

सति त्वस्मिन्कुतो [ज्गद्दृश्ये इति पाठः] दृश्ये
निर्विकल्पसमाधिता ।
समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते ॥ ३३ ॥

अत एव न निर्विकल्पकसमाधिनापि तन्मार्जनमित्याह - सतीति । सति तु
निर्विकल्पकसमाधौ चित्तसत्त्वे चेतनत्वं तद्बाधे तुर्यत्वं चोपपद्यते ।
दृश्ये सति तु निर्विकल्पसमाधितैव कुत इत्यन्वयः । न चाक्षयसुषुप्तात्वं
तुर्यं चापीति पाठे तु स्पष्टम् ॥ ३३ ॥

व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् ।
जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ॥ ३४ ॥

अस्तु वा समाधिस्तथापि संसारो दुर्वार इत्याह - व्युत्थान इति । भाति
भासमाने प्रतीचि प्राप्तं भवतीत्युत्तरेणान्वयः ॥ ३४ ॥

प्राप्तं भवति हे राम तत्किं नाम समाधिभिः ।
भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम् ॥ ३५ ॥

भूयोऽप्यनर्थनिपाते सम्भाविते सति क्षणमात्रसमाधानेन किं सुखम् ।
किमित्याक्षेपे । सुखं नास्तीत्यर्थः ॥ ३५ ॥

यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।
तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम् ॥ ३६ ॥

यदि निर्विकल्पे स्थितिं कदाप्यव्युत्थानं व्रजेत्तत्तर्ह्यक्षयसुखं विनापि
ज्ञानं प्राप्तमिति यदि मन्येतेति पराभिप्रायानुवादः । अक्षयसुषुप्ताभमिति
मौढ्यानुच्छेदादपुरुषार्थता सूचिता ॥ ३६ ॥

प्। १३०)

प्राप्यते सति दृश्येऽस्मिन्न च किन्नाम केनचित् ।
यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः ॥ ३७ ॥

उत्तरमाह - प्राप्यत इति । अस्मिन्मनोलक्षणे दृश्ये सति
केनचित्समाधियत्नवतापि किन्नाम दृश्यं न प्राप्यते । यतोऽस्य चित्तता
यत्रयत्र विषये आयाति तत्र तत्र तदनुबन्धी जगद्भ्रमो दुर्निवार इत्यर्थः ॥ ३७ ॥

द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् ।
किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥ ३८ ॥

किञ्चायमज्ञत्वादनात्मानमेव पाषाणादिसमाधौ भावयेत् तदस्य तदन्ते
फलकालेऽपि दृश्यतामेति न दृङ्मात्रपरिशेषसमाधिसिद्धिरित्याह -
द्रष्टेति ॥ ३८ ॥

न च पाषाणतातुल्या निर्विकल्पसमाधयः ।
केषाञ्चित्स्थितिमायान्ति सर्वैरित्यनुभूयते ॥ ३९ ॥

समाधिबललब्धनिर्दुःखपाषाणभावेऽपि न स्थैर्यं [स्थैर्यप्रत्याशा
इति पाठः] प्रत्याशेत्याह - न चेति । इत्ययमर्थः सर्वैः
समाधिनिष्ठैरनुभूयते ॥ ३९ ॥

न च पाषाणतातुल्या रूढिं [वृद्धिं याताः इति पाठः] याताः
समाधयः ।
भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम् ॥ ४० ॥

मा भूदनिरूढानां स्थैर्यं तद्भावापत्तिपर्यन्तनिरूढसमाधीनां तु
स्थैर्यं स्यात्तत्राह - न चेति । रूढिं याता अप्यचेतना
नित्यपाषाणतादितुल्याः समाधयः सर्वसंसारशान्त्युपलक्षितमग्रपदं
मोक्षरूपं न भवन्ति ॥ ४० ॥

तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन ।
शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना ॥ ४१ ॥

अतः प्रागुक्तमेव सिद्धमित्याह - तस्मादिति ॥ ४१ ॥

आलीनवल्लरीरूपं यथा पद्माक्षकोटरे ।
आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः ॥ ४२ ॥

साविद्ये द्रष्टरि दृश्यसद्भावं दृष्टान्तैः साधयति -
आलीनेत्यादिचतुर्भिः । पद्माक्षकोटरे भाविकमलिनीवल्ल्या
बीजमुपादानभूतमालीनं सूक्ष्मीभूतं पद्मवल्लरीरूपं यथा आस्ते असत
उत्पत्त्ययोगात्तथा द्रष्टरि दृश्यसहिता धीरस्त्येवेत्यर्थः ॥ ४२ ॥

यथा रसः पदार्थेषु यथा तैलं तिलादिषु ।
कुसुमेषु यथाऽमोदस्तथा द्रष्टरि दृश्यधीः ॥ ४३ ॥

यत्र यत्र स्थितस्यापि कर्पूरादेः सुगन्धिता ।
यथोदेति तथा दृश्यं चिद्धातोरुदरे जगत् ॥ ४४ ॥

सतश्चोद्भवोऽपि दुर्वार इत्यत्रापि दृष्टान्तमाह - यत्रेति ॥ ४४ ॥

यथा चात्र तव स्वप्नः सङ्कल्पश्चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्तान्तस्तथा हृद्यस्ति दृश्यभूः ॥ ४५ ॥

यदुक्तं परमाणूदरेऽपीति तत्रापि तमाह - यथेति । यथा तव हृदि
अन्तर्मनोराज्यधीः स्वानुभूत्यैव दृष्टा । स्वप्नः सङ्कल्पश्च दृष्ट इति
विपरिणामः ॥ ४५ ॥

तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।
विनिहन्त्येवमप्येतं द्रष्टारं दृश्यरूपिका ॥ ४६ ॥

एवमुक्तदृष्टान्तवत् एतं द्रष्टारमपि दृश्य लक्षणा रूपिका निहन्ति ।
स्त्रीवेषेण मोहयित्वा पुरुषान्निघ्नन्त्यः पिशाच्यो रूपिका इत्युच्यन्ते ॥ ४६ ॥

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥ ४७ ॥

यदि सर्वं दृश्यं हृद्यस्ति तर्ह्यधुनैव सर्वैः कुतो नानुभूयते तत्राह

  • यथेति । देशकालकर्मपरिपाका अपि तदाविर्भावसहकारिण इति भावः ॥ ४७

द्रव्यस्य हृद्येव चमत्कृतिर्यथा
सदोदितास्त्यस्तमितोज्झितोदरे ।
द्रव्यस्य चिन्मात्रशरीरिणस्तथा
स्वभावभूतास्त्युदरे जगत्स्थितिः ॥ ४८ ॥

अतर्क्याकार्यवैचित्र्यशक्तिश्चमत्कृतिः सा यथा बीजादिद्रव्यस्योदरे कोटरे
हृदि सारभागे एवास्ति तथा चिन्मात्रस्वभावस्य
विद्याशरीरिणोऽप्यात्मद्रव्यस्याप्युदरेऽन्तश्चिदचित्संवलनस्वभावभूता
जगत्स्थितिरतीतानागतजगत्सत्तास्तीत्युक्तार्थनिगमनम् ॥ ४८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
बन्धहेतुवर्णनं नाम प्रथमः सर्गः ॥ १ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
बन्धहेतुवर्णनं नाम प्रथमः सर्गः ॥ १ ॥