२०

विंशः सर्गः २०

श्रीवसिष्ठ उवाच ॥

आर्यसङ्गमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् ।
ततो महापुरुषतां महापुरुषलक्षणैः ॥ १ ॥

प्रज्ञाबुद्धिप्रकारोऽत्र महापुरुषलक्षणम् ।
सदाचारक्रमाश्चोक्ताः परस्परविवर्धनाः ॥ १ ॥

उक्तं ज्ञानं महापुरुषेष्वेव प्रतितिष्ठति नान्येषु । महापुरुषता च
वक्ष्यमाणसदाचारेण सिद्ध्यतीति सदाचारं वर्णयितुमुपक्रममाणः
श्रीवसिष्ठ उवाच - आर्येति । आदौ आर्याणां
सङ्गमैस्तदुपदेशाचरणशिक्षणयुक्त्या प्रज्ञां वृद्धिं नयेत् । ततः
स्वं महापुरुषलक्षणैर्वक्ष्यमाणैर्महापुरुषतां नयेत् ॥ १ ॥

यो यो येन गुणेनेह पुरुषः प्रविराजते ।
शिष्यते तं तमेवाशु तस्माद्बुद्धिं विवर्धयेत् ॥ २ ॥

तत्र यदि सर्वे गुणा एकस्मिन् पुरुषे न लभ्येरंस्तर्हि यो यः पुरुषो येन येन
गुणेन प्रभूतो विज्ञायते स तेनैवेतरेभ्यः शिष्यते विशिष्यते
तस्मात्पुरुषात्त्तं तमेवाशु शिक्षित्वा स्वबुद्धिं विवर्धयेत् । शिक्षेत इति पाठे
तु स्पष्टम् ॥ २ ॥

महापुरुषता ह्येषा शमादिगुणशालिनी ।
सम्यग्ज्ञानं विना राम सिद्धिमेति न काञ्चन ॥ ३ ॥

एषा शमादिगुणप्रज्ञाशालितैव महापुरुषता ॥ ३ ॥

प्। १२३)

ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमाः ।
श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः ॥ ४ ॥

सत्पुरुषैः क्रम्यन्त आचर्यन्त इति सत्पुरुषक्रमाः सदाचारा अमानित्वादयश्च
अन्तःफलेनात्मसुखाविर्भावेन श्लाघनीयाः प्रशस्याः ॥ ४ ॥

शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् ।
अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा ॥ ५ ॥

शाल्याद्यन्नोत्पत्तिहेतुभूता वृष्टिरिव । तथाच स्मृतिः अग्नौ प्रास्ताहुतिः
सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
इति ॥ ५ ॥

गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता ।
परस्परं विवर्धन्ते ते अब्जसरसी इव ॥ ६ ॥

युगपत्परस्परवृद्ध्यनुरूपदृष्टान्तोपन्यासायोक्तमेव पुनराह -
गुणा इति । ते अब्जसरसी इवेत्युभयत्रापि प्रगृह्यत्वादसन्धिः अब्जैः सरसः
शैत्यसौगन्ध्यशोभादिगुणैर्वृद्धिरत्र विवक्षिता ॥ ६ ॥

ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः ।
परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥ ७ ॥

एवं ज्ञानसदाचारयोरपि परस्परवृद्धिहेतुतेत्याह - ज्ञानमिति ॥ ७ ॥

शमप्रज्ञादिनिपुणपुरुषाथक्रमेण च ।
अभ्यसेत्पुरुषो धीमाञ्ज्ञानसत्पुरुषक्रमौ ॥ ८ ॥

शमेन प्रज्ञामहापुरुषतादिना च निपुणो यः पुरुषार्थः
श्रवणादिप्रयत्नस्तत्क्रमेण ज्ञानसदाचारावभ्यसेत् ॥ ८ ॥

न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ ।
एकोऽपि नैतयोस्तात पुरुषस्येह सिध्यति ॥ ९ ॥

यथा कलमरक्षिण्या गीत्या वितततालया ।
खगोत्सादेन सहितं गीतानन्दः प्रसाध्यते ॥ १० ॥

विवृद्धिफलमपि तयोस्तुल्यकालमेव भवतीति सदृष्टान्तमाह - यथेति
द्वाभ्याम् । पक्वशालिक्षेत्ररक्षिण्याः स्त्रियाः खगोत्सादनांशे
व्यापारान्तराकर्त्र्या अपि विततकरतालध्वनियुक्तया गीत्या
आनुषङ्गिकखगोत्सादेन तुल्यकालो गीतानन्दः प्रवर्तते [१] ॥ १० ॥

ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा ।
तथा पुंसा निरिच्छेन सममासाद्यते पदम् ॥ ११ ॥

तथा ज्ञानविघ्नरागमानादिनिरासांशे निरिच्छेन । अत एवाकर्त्रापि
ज्ञानसाधनश्रवणसदाचाराभ्यामनुष्ठिताभ्यां
तन्मात्रकर्तृरूपिणां पुंसां आनुषङ्गिकविघ्ननिरासेन समं
परमपदमासाद्यते ॥ ११ ॥

सदाचारक्रमः प्रोक्तो मयैवं रघुनन्दन ।
तथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना ॥ १२ ॥

यथा एवम्प्रकारोऽयं सदाचारक्रमो मया प्रोक्तस्तथा अधुना उत्तरप्रकरणे
ज्ञानक्रम उपदिश्यते इति वक्ष्यमाणप्रतिज्ञा ॥ १२ ॥

इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् ।
तज्ज्ञादाप्ताच्च सच्छास्त्रं श्रोतव्यं किल धीमता ॥ १३ ॥

साधनकलापोपदेशं फलकीर्तनोपसंहरति - इदमित्यादिना । किलेति
साम्प्रदायिकार्थप्रसिद्धौ ॥ १३ ॥

श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम् ।
यथा कतकसंश्लेषात्प्रसादं कलुषं पयः ॥ १४ ॥

बलादिति साधनप्रभावोक्तिः । प्रसादं नैर्मल्यम् ॥ १४ ॥

विदितवेद्यमिदं हि मनो मुने-
र्विवशमेव हि याति परं पदम् ।
यदवबुद्धमखण्डितमुत्तमं
तदवबोधवशान्न जहाति हि ॥ १५ ॥

मुनेः प्रकृतसाधनसम्पत्त्या मननशीलस्य मनो विदितवेद्यं
सत्तद्बलाद्विवशं परं पदमनिच्छदपि याति । न केवलं
साधनप्राबल्यादेवैवं किन्तु वेद्यतत्त्वस्वभावादपीत्याह - यदिति ।
अवबोधवशादवबोधाधीनत्वात् । अवबोधात्मकचरमवृत्तीद्धत्वादिति यावत् ।
अवधूयाज्ञानतत्कार्यं बुद्धं जागरूकमखण्डितमुत्तमं यत्पदं
तन्मनो न जहाति । अज्ञानतत्कार्यान्तरैः समं भाधत एवेत्यर्थः । हीति
विद्वत्प्रसिद्धौ । तथाचाहुः देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम्
। आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ १५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे द्वात्रिंशत्साहस्र्यां संहितायां
वाल्मीकीये मोक्षोपाये मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं
नाम विंशतितमः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
सदाचारनिरूपणं नाम विंशतितमः सर्गः ॥ २० ॥

समाप्तमिदं मुमुक्षुव्यवहारप्रकरणम् ।