१९

रूपालोकमनस्कारपदार्थव्याकुलं जगत् ।
विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा ॥ २८ ॥

ननु मनश्चलने निर्विषयवेदनस्य हेतुत्वायोगात्सविषय तद्वाच्यम् । तत्र
मनश्चलनादपि पूर्वसिद्धो विषयो वाच्यः । तथा विषयाणां मनोमयत्वस्य
प्रागुक्तत्वाद्विषयसिद्धेः प्राङ्मनःसिद्धिर्वाच्येत्यन्योन्याश्रय
इत्याशङ्क्य सर्वसंस्काररूपेण मायाशबलचिदन्तरधिष्ठानसत्तया
सदेवाविर्भवतीत्याह - रूपेति । बहिरिन्द्रियैर्विषयग्रहो रूपालोको मनसा
विषयानुसन्धानं मनस्कारस्तदुभयविषयाः पदार्थाश्च तैर्व्याकुलम् ॥
२८ ॥

सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।
भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥ २९ ॥

ननु तर्हि कथं कादाचित्कतदुत्पत्त्यादिव्यवस्था स्यात्तत्राह - सर्वेति । उदेति
कर्मपरिपाकव्यवस्थया यादृशं प्राणिकर्मभोगायाविर्भवति
तदात्मकमुत्पन्नमिव प्रसृतदिक्कालबाह्याभ्यन्तरपदार्थवेषं भाति
[परमार्थतस्त्वरूपदेहकमेव] । अन्तारूपेति ढ्र्लोपे इति दीर्घः ॥ २९ ॥

दृष्ट्वैव दृश्यताभासं स्वरूपं धारयन्स्थितः ।
स्वं यथा यत्र यद्रूपं प्रतिभाति तथैव तत् ॥ ३० ॥

तर्हि [तर्हीत्यारभ्य चरममित्यन्तं क्वचिन्नास्ति] स विचारश्चरमं
स्वं देहादिदृश्यताभासं दृष्ट्वैव तदेव मे स्वरूपमिति मोहाद्धारयन्
सर्वात्मा जीवभावेन स्थित इत्यर्थः । युक्तं चैतदित्याह - स्वमिति ॥ ३० ॥

स सर्वात्मा यथा यत्र समुल्लासमुपागतः ।
तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ॥ ३१ ॥

तदेव स्फुटमाह - स इति ॥ ३१ ॥

सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते ।
दृश्यत्वन्द्रष्ट्टसद्भावे दृश्यतापि न वास्तवी ॥ ३२ ॥

इवकारसूचितं दृश्यमिथ्यात्वमुपपादयति - दृश्यत्वमिति ।
दृक्स्वरूपो द्रष्टा यदि दृक्स्वरूपात्प्रच्युतो दृश्यत्वमापद्येत तत् तर्हि
निर्द्रष्ट्टकदृश्यसिद्धिरेव न स्यात् । यद्यप्रच्युतस्तर्हि दृश्यतास्य
विवर्तमात्रं रज्जुस्वभावादप्रच्युतस्य सर्पभाववदिति मिथ्यात्वमेवेत्यर्थः
॥ ३२ ॥

अकारणकएवातो ब्रह्म सिद्धमिदं स्थितम् ।
प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः ॥ ३३ ॥

अतः कार्यमिथ्यात्वे तत्सापेक्षकारणभावस्यापि मिथ्यात्वादकारणकं
सिद्धम् । इत्थं प्रत्यक्षतत्त्वविमर्शे ब्रह्मैवाद्वयं सिद्धमित्युपसंहरति

  • इदं स्थितं प्रत्यक्षमेवेति । अनुमानादयस्तु
    प्रत्यक्षपूर्वकत्वात्तत्तत्पर्यवसितत्वाच्च तदंशा एवेति
    सर्वप्रमाणतत्त्वमात्मैवेत्यर्थः ॥ ३३ ॥

स्वयत्नमात्रे यदुपासको य-
स्तद्दैवशब्दार्थमपास्य दूरे ।
शूरेण साधो पदमुत्तमं तत्
स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥ ३४ ॥

सिंहावलोकनन्यायेन दैवनिरासं स्मारयन् पौरुषस्यैवैतत्फलमित्याह -
स्वेति । परमार्थतः स्वकीयप्राक्तनप्रयत्नमात्रं दैवमिति कल्पयित्वा
तदधीनोऽहमिति तदुपासनपरो यः पुरुषस्तत्कल्पितं दैवशब्दार्थं दूरे
अपास्येन्द्रियादिजये शूरेणाधिकारिणा स्वपौरुषेणैव तत्परमपदं
अन्तर्हृद्येवासाद्यते प्राप्यते ॥ ३४ ॥

विचारयाचार्यपरम्पराणां
मतेन सत्येन [सत्त्वेन इति मूलव्याख्ययोः क्वाचित्कः पाठः]
सितेन तावत् ।
यावद्विशुद्धं स्वयमेव बुद्ध्या
ह्यनन्तरूपं परमभ्युपैषि ॥ ३५ ॥

सत्येन [सत्त्वेन इति मूलव्याख्ययोः क्वाचित्कः पाठः]
परमार्थनिष्ठेन । सितेन प्रमाणपरिशुद्धेन तावद्विचारय यावत्स्वयमेव
स्वबुद्ध्या त्रिविधपरिच्छेदशून्यं पदमभ्युपैषि साक्षात्कारेण प्राप्नोषि ॥
३५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
प्रमाणनिरूपणं नामैकोनविंशः सर्गः ॥ १९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
प्रमाणनिरूपणं नामैकोनविंशतितमः सर्गः ॥ १९ ॥