१८

अष्टादशः सर्गः १८

श्रीवसिष्ठ उवाच ।
अस्यां वा चित्तमात्रायां प्रबोधः सम्प्रवर्तते ।
बीजादिव सतो व्युप्तादवश्यम्भावि सत्फलम् ॥ १ ॥

एतद्ग्रन्थगुणा मुख्यामुख्यैरप्यानुषङ्गिकैः ।
फलैः सह निरूप्यन्ते ग्राह्यांशाश्चोपमास्विह ॥ १ ॥

इत्थं प्रकरणभेदं विषयप्रयोजनाभ्यामुपवर्ण्य
समग्रग्रन्थगुणान्वर्णयंस्तत्र तत्र दृष्टान्तोपन्यासेषु ग्राह्यांशं
तात्पर्यं च ग्रन्थशैलीपरिज्ञानाय वक्तुमुपक्रमते - अस्यामित्यादिना ।
अस्यां षट्प्रकरणीरूपायां मोक्षोपायसंहितायां
सतोऽनुपहतशक्तेर्व्युप्ताद्विशिष्टक्षेत्रकाले उप्तादवश्यम्भावि सत्फलं
यथा प्रवर्तते तद्वत् ॥ १ ॥

अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।
अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥ २ ॥

ननु सतीष्वनेकशाखाभेदभिन्नासु श्रुतिषु ता विहाय
पुरुषबुद्धिविरचितमिदमेवोपादेयतया किमर्थमुच्यते तत्राह - अपीति ।
युक्तिभिर्बोधकं तत्त्वनिर्णायकम् । ऋषिर्वेदस्तत्र भवमार्षम् ।
न्यायादनपेतं न्याय्यं तदेव मुख्यमित्यनुसरता भाव्यम् पुरुषेणेत्यर्थः
। यद्यपि श्रुतयोऽभ्यर्हितास्तथापि गूढाभिसन्धित्वात्सहसा नानुभवायालमिति
न साधारणाधिकारिभिरुपादेयाः । तत्साराभिज्ञानुभवमूलकयुक्तिघटितं
त्विदं शास्त्रं स्फुटाभिसन्धित्वा

फ़ोलिओ ११६ - ११७ इन् उन्च्लेअर्

प्। ११८)

यथेदं श्रूयते चास्त्रं तामापातनिकां शृणु ।
विचार्यते यथार्थोऽयं यथा च परिभाषया ॥ ४९ ॥

आपातनं शास्त्रवतारस्तदुपायोऽवधारणरूप आपातनिका ताम् । यथा येन
दृष्टान्तेन । परिभाषया उपक्रमोपसंहारादिरूपया
[आदिग्रहणादभ्यासोऽपूर्वताफलं अर्थवाद उपपत्तिश्च ग्राह्याः]
तत्तद्बोधोपयोगिसङ्केतेन च यथा श्रूयते ताम् ॥ ४९ ॥

येनेहाननुभूतेऽर्थे दृष्टेनार्थेन बोधनम् ।
बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः ॥ ५० ॥

तत्र दृष्टान्तस्य लक्षणमाह - येनेति । दृष्टेनार्थेन साधर्म्येण
बोध्यते येन तद्बोधनम् । तदेव विवृणोति - बोधोपकारफलदमिति ।
दृष्टः अन्तः सादृश्यबलेन प्रकृतार्थनिर्णयो येन स दृष्टान्त इति
तदर्थज्ञा बुधाः ॥ ५० ॥

दृष्टान्तेन विना राम नापूर्वार्थोऽवबुध्यते ।
यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे ॥ ५१ ॥

अपूर्वार्थोऽदृष्टार्थोऽद्भुतार्थो वा । उपस्करणं गुणवदुपकरणम् ।
उपात्प्रतियत्न -इति सुट् ॥ ५१ ॥

यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबोध्यसे ।
सर्वे सकारणास्ते हि प्राप्यन्तु सदकारणम् ॥ ५२ ॥

दृष्टान्तेषु विवक्षितसादृश्यविवेकाय हेयांशं दर्शयति - यैरिति ।
सकारणा जन्या अत एवानृताश्च । ज्ञेयं तु सत्परमार्थसत्यमकारणं
नित्यम् । मिथ्याभूतैरेव मृत्सुवर्णाद्युपादानैर्दृष्टान्तैः सद्ब्रह्म
कारणं बोध्यते । तथाच जन्यत्वानृतत्वादयो दृष्टान्तधर्मा हेया
इत्यर्थः ॥ ५२ ॥

उपमानोपमेयानां कार्यकारणतोदिता ।
वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते ॥ ५३ ॥

परब्रह्मदृष्टान्तेष्वेवायं नियमो नान्यदृष्टान्तेष्वित्याह -
उपमानेति । कार्यकारणता कार्यत्वकारणत्वादिना सादृश्यमुदिता पूर्वोक्ता ।
अयमर्थः - यथा विचारादिभिर्बिम्बग्राहकं ज्ञानमुत्पद्यत इत्युच्यते
तथा ज्ञानाद्बिम्बमुत्पद्यते इति न वक्तव्यं ब्रह्मण
उत्पत्तेर्वक्तुमशक्यत्वात् ॥ ५३ ॥

ब्रह्मोपदेशे दृष्टान्तो यस्तवेह हि कथ्यते ।
एकदेशसधर्मत्वं तत्रान्तः परिगृह्यते ॥ ५४ ॥

वर्जयित्वा परं ब्रह्मेत्युक्तं विस्पष्टयति - ब्रह्मेति ।
एकदेशसधर्मत्वमादाय तत्रान्तःप्रकृतनिर्णयः । अयं भावः -
जगद्विवर्तब्रह्माधिष्ठानबोधने
भुजङ्गविवर्ताधिष्ठानबोधकरज्जुदृष्टान्तस्याधिष्ठानविवर्तांशमात्र्
एण दृष्टान्तत्वं न तु दार्ष्टान्तिकनित्यत्वसुखित्वादिसर्वांशेन ॥ ५४ ॥

यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।
दीयते स स बोद्धव्यः स्वप्नजातो [स्वप्नदृष्टजगतः]
जगद्गतः ॥ ५५ ॥

ननु किमित्येकदेशे स दृष्टान्त एवोपादियत इति चेत्
सर्वांशसादृश्याप्रसिद्धेरेवेत्यभिप्रेत्याह - यो य इति । स्वप्नजात इव
मिथ्याभूतो जगदन्तर्गत एव न वास्तवः ।
द्वितीयपरमार्थसच्चिदानन्दवस्त्वप्रसिद्धेरिति भावः ॥ ५५ ॥

एवं सति निराकारे ब्रह्मण्याकारवान्कथम् ।
दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥ ५६ ॥

वैकल्पिका विकल्पोद्भूता उक्तयः । ब्रह्म सद्वितीयमद्वितीयं वा । सद्वितीयं
चेदपसिद्धान्तः । अद्वितीयं चेद्गुरुशास्त्राद्यभावाज्ज्ञानानुत्पत्तिः । एवं
विकल्पोक्तयो नोद्यन्ति ॥ ५६ ॥

अन्यासिद्धविरुद्धादिदृग्दृष्टान्तप्रदूषणैः ।
स्वप्नोपमत्वाज्जगतः समुदेति न किञ्चन ॥ ५७ ॥

एतेन दृष्टान्तोपन्यासस्यानुमानोन्नयनेन बोधकत्वे
दृष्टान्तहेतुव्याप्त्यादेरनृतत्वे व्याप्यत्वासिद्धिः स्वरूपासिद्धिरित्यादयः
प्रापञ्चिकैर्हेतुभिः सत्यत्वादिसाधने विरुद्धत्वादयश्च
हेत्वाभासताप्रयोजकदोषाः स्युरिति तार्किकप्रत्यवस्थानस्याप्यवसरो निरस्त
इत्याह - अन्येति । अन्येषामसिद्धविरुद्धादिदोषदृशां तार्किकाणां
दृष्टान्तप्रदूषणैर्दूष्यस्य हेत्वादेर्जगतः स्वप्नोपमत्वाद्वस्तुनि न
किञ्चिद्दूषणं समुदेतीत्यर्थः । साध्यसिद्धिपर्यन्तं
बोध्यबोधकव्यवहारस्तु व्यावहारिकसत्यतामात्रेणाप्युपपन्न इति भावः ॥
५७ ॥

अवस्तु पूर्वापरयोर्वर्तमाने विचारितम् ।
यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमागतम् ॥ ५८ ॥

उक्तं स्वप्नोपमत्वं तत्साधर्म्यप्रदर्शनेनोपपादयति - अवस्त्विति ।
पूर्वापरयोरुत्पत्तिविनाशपूर्वोत्तरकालयोरवस्तु अभावग्रस्तं
वर्तमानकालेऽपि उपादानाद्भेदाभेदसत्तया अविचारितं विचार्य
वादिसहस्रेणापि निर्णेतुमशक्यम् । वर्तमानकाले तु विचारितं सदवस्त्विति वा ।
यथा जाग्रद्वस्तु तथा स्वप्नोऽपीति मिथ्यात्वेन साम्यमित्यर्थः ॥ ५८ ॥

स्वप्नसङ्कल्पनाध्यानवरशापौषधादिभिः ।
यथार्था इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः ॥ ५९ ॥

ननु प्रातिभासिकसत्तावता स्वप्नेन कथं व्यावहारिकसत्तातुल्यतेति
चेत्परस्परहेतुफलभावदर्शनाल्लौकिकाचाराच्च तुल्यतेत्याह - स्वप्नेति ।
जाग्रति कार्याकार्यत्वेन सन्दिग्धयात्रादौ देवताप्रार्थनादिना शयानस्य
स्वप्ने कार्यमिति सङ्कल्पोदये तथा चिन्तने
चिन्तनोपलक्षितचिरकालपूजामन्त्रजपस्तुत्यादिना तदनुकूलवरलाभे शत्रूणां
मुनिशापादिदर्शनेन वा प्रातर्यात्रादिकरणे [करणेन इति पाठः]
शत्रुजयादिदर्शनात् स्वाप्नौषधलाभेन जागरे रोगशान्तिदर्शनाच्च
तत्साम्येन सर्वजगत्स्थितेरपि तद्रूपत्वात्स्वप्नदृष्टान्ता यथार्थाः ॥ ५९ ॥

मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः ।
ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने ॥ ६० ॥

मोक्षोपायकृता वाल्मीकिना अन्येऽपि पूर्वरामायणादयो ये ग्रन्थाः
कृतास्तेष्वपि दृष्टान्तानां सम्भवदंशसाम्यबोधने व्यवस्था
प्रसिद्धेत्यर्थः ॥ ६० ॥

स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवबोध्यते ।
शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी ॥ ६१ ॥

ननु तर्हि श्रोतारः स्वप्नसाम्यमुक्तं कुतः सहसैव न बुध्यन्ते कुतो वा
विप्रतिपद्यन्ते इत्याशङ्क्याध्यात्मशास्त्रश्रवणसंस्काराभावेन
जगत्सत्यताभ्रमादित्याह - स्वप्नाभत्वमिति । वक्तुं बोधयितुम् । पार्यते
शक्यते । श्रोतॄणां विरोधिसंस्कारोच्छेदस्य चिरसाध्यत्वादिति भावः ॥ ६१ ॥

प्। ११९)

स्वप्नसङ्कल्पनाध्याननगराद्युपमं जगत् ।
यतस्त एव दृष्टान्तास्तस्मात्सन्तीह नेतरे ॥ ६२ ॥

ध्यानेऽपि नगरकल्पनं मानसपूजायां प्रसिद्धम् ॥ ६२ ॥

अकारणे कारणता यद्बोधायोपमीयते ।
न तत्र सर्वसाधर्म्यं सम्भवत्युपमाश्रमैः ॥ ६३ ॥

यदि जगति स्वप्नाद्युपमाने सर्वांशेऽपि साधर्म्यं विवक्षितं तर्हि
ब्रह्मण्यपि कटकमुकुटाद्युपादानस्वर्णदृष्टान्ते तद्वदेव परिणामिता
कुतो न विवक्ष्यते तत्राह - अकारणे इति । तदेतद्ब्रह्मापूर्वमनपरं
एकमेवाद्वितीयम् इत्यादिश्रुतिभिश्चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमाशुद्धा
चानन्ता च । अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
इत्यादिस्मृतिभिरसङ्गोदासीनस्य परिणामहेतुत्वासंस्पर्शाच्चितो
जाड्याकाराघटनाच्चेत्यादियुक्तिभिश्च परिणामाघटनादकारणे अपरिणामिनि
यत् यत्र परिणामि स्वर्णादिवत् करणतोपमीयते तत्रोपमाप्रयुक्तैः श्रमैः
प्रयत्नैरपि सर्वांशे साधर्म्यं न लब्धुं शक्यमित्यर्थः ॥ ६३ ॥

उपमेयस्योपमानादेकांशेन सधर्मता ।
अङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥ ६४ ॥

तदेव स्पष्टमाह - उपमेयस्येति ॥ ६४ ॥

अर्थावलोकने दीपादाभामात्रादृते किल ।
न स्थानतैलवर्त्यादि किञ्चिदव्युपयुज्यते ॥ ६५ ॥

लोकेऽपि मणिर्दीप इवेक्ष्यत इत्यादौ नाविवक्षितांशसादृश्यबोधो दृष्ट
इत्याह - अर्थेति द्वाभ्याम् । श्लोकद्वयस्य यथाश्रुतार्थो वा स्पष्टः ।
आभामात्रात्प्रकाशमात्रात् ॥ ६५ ॥

एकदेशसमर्थत्वादुपमेयावबोधनम् ।
उपमानं करोत्यङ्ग दीपऽर्थप्रभया यथा ॥ ६६ ॥

दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।
उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥ ६७ ॥

एतच्छास्त्रीयसर्वदृष्टान्तानामुपयोगमाह - दृष्टान्तस्येति । जगतः
स्वप्नादिदृष्टान्तैर्मिथ्यात्वे प्रतीच आकाशसवित्रादिदृष्टान्तस्य ब्रह्मणो
मृल्लोहादिदृष्टान्तस्य च पदार्थपरिशोधनेन बोध्यलक्ष्यार्थं तस्य
बोधोदये सति सकार्याविद्योच्छेदार्थमवश्योपादेयतया
सर्वश्रुतिशास्त्रमहातात्पर्यविषयोऽहं ब्रह्मास्मीति महावाक्यार्थनिश्चयो
ग्राह्य इत्यर्थः ॥ ६७ ॥

न कुतार्किकतामेत्य नाशनीया प्रबुद्धता ।
अनुभूत्यपलापान्तैरपवित्रैर्विकल्पितैः ॥ ६८ ॥

नन्वहं गौरः स्थूल
इत्यादिप्रत्यक्षेणौषधपानारोग्यलाभादिप्रवृत्तिफलदर्शनलिङ्गेन
परव्यवहारसाम्योपमानेन सर्वव्यावहारिकमहाजनवाक्यैः ब्राह्मणो
यजेत इत्यादिश्रुत्या स्मृत्या धर्मशास्त्रैरनेकतार्किकादियुक्तिभिश्च
देहस्तदन्यो वा कर्तृभोक्तृत्वादिस्वभाव आत्मावगम्यते तत्कथं
प्रत्यक्षाद्यनेकप्रमाणविरुद्धोऽर्थो महावाक्यमात्रादुपादेय
इत्याशङ्क्याह - नेति । अनुभूतिर्विद्वत्प्रत्यक्षं
तदपलापपर्यवसितैरपवित्रदेहाद्यात्मभावविषयत्वादपवित्रशुनकसूकराद्
इजन्मफलत्वाच्चापवित्रैर्विकल्पितैर्ब्रह्म सप्रमाणमप्रमाणं वा
सप्रमाणं चेद्वैतहानिः अप्रमाणं चेत्प्रमेयहानिरित्यादिर्विकल्पैः
परमपुरुषार्थानुबन्धिनी प्रबुद्धता र्पबोधयोग्याभिज्ञता न नाशनीया ।
यथा च देहादेरात्मत्वासम्भवस्तथवक्ष्यत इति भावः ॥ ६८ ॥

विचारणादनुभवकारिवैरिणोऽपि
वाङ्मयं त्वनुगतमस्मदादिषु ।
स्त्रियोक्तमप्यपपरमार्थवैदिकं
वचो वचःप्रलपनमेव नागमः ॥ ६९ ॥

ननु सर्वजनस्य निरुपाधिकस्वेच्छाविहारसुखार्थित्वाद्दयालोराप्ततमस्य
चार्वाकादेर्भार्यापुत्रमित्रादेश्च
दृष्टबहुतरविचित्रभोगसुखानुबन्धिस्वाभाविकस्वप्रीतिविषये प्रवर्तकं
संसारसारतादिवचनं कथं हेयं वा
तपःक्लेशसंयमवित्तव्ययायासानुबन्धीष्टपुत्रवित्तभार्यादिवियोजकसन्न्या
सभिक्षाटनाइदृष्टानर्थसहस्रपर्यवसितं
निर्विषयात्ममात्रपरिशेषात्मकपरमदारिद्र्यलक्षणमोक्षफलानुषङ्गिब्रह्
मात्मैकत्वबोधकत्वाद्वैरिवाक्यकल्पमचेतनं श्रौतं
महावाक्यमुपादेयमित्याशङ्क्याह - विचारणादिति ।
सत्यमविचारणादेवमेव विचारणात्तु वैरिणो वैरित्वेन ज्ञातस्यापि वाङ्मयं
नित्यनिरतिशयानन्दात्मरूपपरमपुरुषार्थानुभवकारीति
अस्मदादिष्वनुभवनिष्ठेषु परमाप्ततमं
सर्वप्रमाणमूर्धन्यमित्यनुगतमेव । अपगतं परमार्थभूतं वैदिकं
पुरुषार्थतत्त्वं यस्मात्तथाविधं वचो वाक्यं स्त्रिया परमप्रेयस्योक्तमपि
मृत्युनरकाद्यनर्थपरम्परानुबन्धित्वाद्वचःप्रलपनं
वाक्प्रलापमात्रमेव न आगमो नाप्तवचनं न वा प्रमाणमित्यर्थः ॥ ६९ ॥

अस्माकमस्ति मतिरङ्ग तयेति सर्व-
शास्त्रैकवाक्यकरणं फलितं यतो यः ।
प्रातीतिकार्थमपशास्त्रनिजाङ्गपुष्टा-
त्संवेदनादितरदस्ति ततः प्रमाणम् ॥ ७० ॥

ननु तर्हि कपिलकणादजैमिनिप्रभृतयो वेदार्थज्ञा अपि कथमन्यथैव
पुरुषार्थतदुपायतत्त्वं निरूपितवन्तः भवन्तस्त्वन्यथा निरूपयन्ति तत्र
भवदुक्तौ को विशेषस्तत्राह - अस्माकमिति । हे अङ्ग अस्माकं यतो यस्या
मतेः सकाशादयस्तत्त्वसाक्षात्कारजीवन्मुक्तिलक्षणः शुभावहो
विधिस्तादृशी मतिरस्ति तया इतिपूर्वोक्तप्रकारेण
प्रातीतिकोऽपरोक्षानुभवयोग्योऽर्थः परमपुरुषार्थो यस्मात्तथाविधं
सर्वशास्त्राणां
सकलश्रुत्यध्यात्मशास्त्राणामेकवाक्यकरणमेकमहावाक्यार्थपर्यवसान
ं फलितम् । ततः अपशास्त्रं श्रुतितात्पर्याविषयीभूतं
निजाङ्गैस्तर्कादिभिरेव पुष्टंयत्साङ्ख्यकणादादिसंवेदनं
तस्मादितरन्महावाक्यार्थरूपं प्रातीतिकार्थमपरोक्षानुभवयोग्यार्थकं
प्रमाणमस्माकमस्ति नतु तेषाम् । कुतर्कोपहृतमतित्वेन
श्रुतितात्पर्यावधारणयोग्यमतिशून्यत्वादित्यर्थः ॥ ७० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
दृष्टान्तनिरूपणं नामाष्टादशः सर्गः ॥ १८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
दृष्टान्तनिरूपणं नाम अष्टादशः सर्गः ॥ १८ ॥

फ़ोलिओ १२० - १२१ इस् उन्च्लेअर्