षोडशः सर्गः १६
विशेषण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ १ ॥
चतुर्थो द्वारपालोऽत्र वर्ण्यते साधुसङ्गमः ।
चतुर्ष्वेकैकसेवापि [कैकमेवापि पुरुषार्थफलेत्यपि इति पाठः]
पुरुषार्थे [पुरुषार्थफलेत्यपि इति पाठः] फलत्यपि ॥ १ ॥
चतुर्थमपि द्वारपालं साधुसमागममुपवर्णयंश्चतुर्ष्वेकैकविषये
पौरुषस्य पुरुषार्थपर्यवसानं दर्शयिष्यन् वसिष्ठ उवाच - विशेषेणेति
। सर्वत्र सर्वावस्थासु ॥ १ ॥
साधुसङ्गतरोर्जातं विवेककुसुमं सितम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ २ ॥
फलश्रियो मोक्षफलसम्पदो भाजनं भवन्तीति शेषः ॥ २ ॥
शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।
आपत्सम्पदिवाभाति विद्वज्जनसमागमे ॥ ३ ॥
शून्यं स्वजनधनादिशून्यम् । दुःखस्थानमाकीर्णतां तद्व्याप्तताम् ॥ ३ ॥
हिममापत्सरोजिन्या मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥ ४ ॥
आपल्लक्षणायाः सरोजिन्याः कमलिन्या हिमं प्रालेयम् । साधुः प्रशस्तः ॥ ४ ॥
परं विवर्धनं बुद्धेरज्ञानतरुशातनम्
[अज्ञानज्वरनाशनम् इति पाठः] ।
समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ ५ ॥
बुद्धेर्विवेकज्ञानस्य विशेषेण वर्धनम् । शातनं विशरणकरणम् ॥ ५ ॥
विवेकः परमो दीपो जायते साधुसङ्गमात् ।
मनोहारोज्ज्वलो नूनमासेकादिव गुच्छकः ॥ ६ ॥
मनोहरश्चासावुज्ज्वलो निर्मलश्च । आरामासेकाद्गुच्छकः पुष्पफलगुच्छः
॥ ६ ॥
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् ।
अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः ॥ ७ ॥
नित्यपीवरीं नित्यं वर्धमानां नित्यामपरिच्छिन्नामिति वा । निर्वृतिं सुखम्
॥ ७ ॥
अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।
मनागपि न सन्त्याज्या मानवैः साधुसङ्गतिः ॥ ८ ॥
मनाक् ईषदपि । क्षणमपीति यावत् ॥ ८ ॥
साधुसङ्गतयो लोके सन्मार्गस्य च दीपिकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ ९ ॥
सन्मार्गस्य सदाचारस्य दीपिका यावदज्ञाननिशानुवृत्तिस्तावत् ।
तदुत्तरकालं तु ज्ञानरूपस्य सूर्यस्य भासः प्रकाशाः ॥ ९ ॥
यः स्नातः शीतसितया साधुसङ्गतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपिभिः किमध्वरैः ॥ १० ॥
शीतसितयेति तापमालिन्यक्षयलाभाय विशेषणे । अध्वरैर्यज्ञैः ॥ १० ॥
नीरागाश्छिन्नसन्देहा गलितग्रन्थयोऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसङ्ग्रहैः ॥ ११ ॥
ग्रन्थिः अन्तःकरणतद्धर्मतादात्म्यसंसर्गाध्यासलक्षणश्चिदचिद्ग्रन्थिः
॥ ११ ॥
विश्रान्तमनसो धन्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥ १२ ॥
अलभ्यलाभतया मणय इव ॥ १२ ॥
सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥ १३ ॥
कमला लक्ष्मीस्तत्पक्षे सता विष्णुना समागमः सर्वोत्कृष्टं सौन्दर्यं च ।
नह्येते तत्सोदर्याणामप्यप्सरसां [महत्सोदर्याणां इति पाठः] स्तः
॥ १३ ॥
तेनामलविचारस्य पदस्याग्रावचूलिता ।
प्रथिता येन धन्येन न त्यक्ता साधुसङ्गतिः ॥ १४ ॥
पदस्य ब्रह्मात्मवस्तुनश्चूडामणिस्थानीयस्य बहूनां तत्प्राप्त्यै
यतमानानां मध्ये अग्रावचूलिता प्रथमं तत्प्राप्त्या शिरोभूषणीकरणम् ।
प्रथिता प्रख्यापिता । चूडायामवतंसनमवचूडः ।
मयूरव्यसकादित्वात्समासस्तत्करोतीति णिचि ताच्छीलिकणिन्यन्ताद्भावे तल् ।
डलयोरभेदाल्लत्वम् ॥ १४ ॥
विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसम्मताः ।
सर्वोपायेन संसेव्यास्ते ह्य्पाया भवाम्बुधौ ॥ १५ ॥
सर्वोपायेन दानमानसेवनादिसर्वप्रयत्नेन । उपायास्तरणोपायाः ॥ १५ ॥
त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ॥ १६ ॥
यैः सन्तो हेलयापि न दृष्टास्ते नरकाग्नीनामिन्धनानि पोषका भवन्ति ।
हेलया अनादरेण । नरकलक्षणस्यानलस्य वारिदा मेघा इव प्रशमनहेतवः
॥ १६ ॥
दारिद्र्यं मरणं दुःखमित्यादिविषयो भ्रमः ।
सम्प्रशाम्यत्यशेषेण साधुसङ्गमभेषजैः ॥ १७ ॥
भ्रमः सन्निपातः । अशेषेण मूलोच्छेदेन ॥ १७ ॥
सन्तोषः साधुसङ्गश्च विचारोऽथ शमस्तथा ।
एत एव भवाम्भोधावुपायास्तरणे नृणाम् ॥ १८ ॥
सर्वान्द्वारपालान्युगपत्प्रशिशंसिषुरनुवदति - सन्तोष इति ॥ १८ ॥
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥ १९ ॥
सर्वत्र फलाभेदारोपः ॥ १९ ॥
चत्वार एते विमला उपाया भवभेदने ।
यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात् ॥ २० ॥
मोह एव वारि यस्मिंस्तथाविधद्भवार्णवात् ॥ २० ॥
एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये ।
सर्वाभ्यासासामर्थ्ये
फ़ोलिओ ११२ - ११३ इस् उन्च्लेअर्
प्। ११४)
दधात्येवं जगच्छब्दरूपार्थमसदात्मकम् ।
तरङ्गोत्पलमालाभं दृष्टनृत्यमिवोत्थितम् ॥ २४ ॥
असदात्मकं सत् जगच्छब्दस्य गच्छति विचारे न तिष्ठतीति जगदित्यनुरूपार्थं
धत्ते सम्पादयति । तरङ्गेषु उत्पलमाला भ्रान्तिकल्पिता । पूर्वदृष्टं
नृत्यं स्मर्यमाणं मनस्युत्थितमिव ॥ २४ ॥
चक्रचीत्कारपूर्णस्य जलराशिमिवोद्यतम् ।
शीर्णपत्रं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् ॥ २५ ॥
चक्रश्चक्रवाकः । मुखसम्बन्धिवायुयुक्तस्तुषारसमूहश्चीत्कारः । यथा
उत्तानशायिनः पुरुषस्य कवेर्वा चक्रवाकचीत्कारेण पूर्णस्य नभसो दर्शने
उद्यतं उत्प्रेक्षितं जलराशिं सर इव । शीर्णपत्रमरसं शुष्कं निःसारं च
। अत एव भ्रष्टं छायाशोभादिभिर्नष्टं फलादिसमृद्धिरहितम् ॥ २५ ॥
मरणव्यग्रचित्ताभं शिलागृहगुहास्पदम् ।
अन्धकारगुहैकैकनृत्तमुन्मत्तचेष्टितम् ॥ २६ ॥
मरणे व्यग्राणां चित्तं भ्रान्तिमूर्च्छोन्मुखमस्थिरं च प्रसिद्धम् ।
शिलानां गृहाः पर्वतास्तेषां गुहास्थानमिव सान्धकारशून्यभीषणम् ।
सान्धकारगुहास्वेकैकनृत्तमिवोन्मत्तचेष्टितप्रायम् ॥ २६ ॥
प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ।
समुत्कीर्णमिव स्तम्भे चितं [चित्तभित्ताविव इति पाठः]
भित्ताविवोदितम् ॥ २७ ॥
परमार्थतस्तु प्रशान्ता ज्ञाननीहारं विज्ञानशरदम्बरं च ।
सम्यगुत्कीर्णं टङ्कच्छेदादिना कल्पितं प्रतिमाद्याकारमिव ॥ २७ ॥
पङ्कादिवाभिरचितं सचेतनमचेतनम् ।
ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् ॥ २८ ॥
मृत्पङ्काभिरचितचेतनाचेतनाकारं परमार्थतो
मृन्मात्रस्वभावमिवाधिष्ठानपृथक्सत्ताशून्यं जगदुत्पन्नमिति
बुध्यते श्रोत्रेत्यर्थः [श्रोतेत्यर्थः इति पाठः] ।
ततस्तस्मादुत्पत्तिप्रकरणादनन्तरम् ॥ २८ ॥
त्रीणि ग्रन्थसहस्राणि व्याख्यानाख्यायिकामयम् ।
इत्थं जगदहम्भावरूपस्थितिमुपागतम् ॥ २९ ॥
व्याख्यानं प्रपञ्चतदधिष्ठानतत्त्वस्थितिव्युत्पादनमाख्यायिकाः
कथास्तत्प्रचुरम् । तदेवाह - इत्थमित्यादिभिश्चतुर्भिरर्धैः । ब्रह्मैव
द्रष्ट्टदृश्यक्रमं प्रकर्षेण रूढं स्वीकुर्वत्सत् इत्थं
वर्ण्यमानप्रकारेण जगद्भावरूपेणाहम्भावरूपेण च
भोक्तृभोग्यलक्षणेन कर्तृत्वसन्तानितेन स्थितिमुपागतमिति अत्र
स्थितिप्रकरणे कीर्तितमित्युत्तरेणान्वयः ॥ २९ ॥
द्रष्ट्टदृश्यक्रमं प्रौढमित्यत्र परिकीर्तितम् ।
दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः ॥ ३० ॥
इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् ।
उपशान्तिप्रकरणं ततः पञ्चसहस्रकम् ॥ ३१ ॥
वृद्धिग्रहणं विपरिणामस्याप्युपलक्षणम् ।
चिरमनादिकालादारभ्याऽभ्यागतोऽस्ति ॥ ३१ ॥
पञ्चमं पावनं प्रोक्तं युक्तिसन्ततिसुन्दरम् [मुनिसन्तति इति
पाठः] ।
इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता ॥ ३२ ॥
इत्थं संशाम्यतीत्यस्मिन्कथ्यते श्लोकसङ्ग्रहैः ।
उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ॥ ३३ ॥
संशाम्यति जीवन्मुक्तिक्रमेणोपक्षीणं सल्लेशतोऽवशिष्यत
इत्यस्मिन्नुपशान्तिप्रकरणे कथ्यते । लेशतोऽवशेषमेव
तच्छ्रवणफलकीर्तनमुखेन [फलानुकीर्तन इति पाठः] स्फुटयति
- उपशान्तीत्यादि - सौम्यवारिसरित्समेत्यन्तेन ॥ ३३ ॥
प्रभ्रष्टचित्रसेनेव किञ्चिल्लभ्योपलम्भना ।
शतांशशिष्टा भवति संशान्तभ्रान्तरूपिणी [भ्रान्तिरूपिणी इति
पाठः] ॥ ३४ ॥
प्रभ्रष्टा विशीर्णप्राया चित्रलिकितसेनेव ॥ ३४ ॥
अन्यसङ्कल्पचित्तस्था नगरश्रीरिवासती ।
अलभ्यवस्तुपार्श्वस्थस्वप्नयुद्धचिरारवा ॥ ३५ ॥
तत्राप्युत्तरोत्तरभूमिकाजये अपक्षयप्रकर्षाल्लक्ष्यालक्ष्यसंस्कारमात्रेण
परिशेषं दृष्टान्तैराह - अन्येत्यादिना ।
परकीयसङ्कल्पनिर्मितत्वात्तच्चित्तस्था । न लभ्यं वस्तु धनादि याभ्यां
तथाविधौ सङ्कल्पयितृपुरुषपार्श्वस्थपुरुषान्तरस्य स्वप्नयुद्धचिरारवौ
यस्यां तथाविधा नगरश्रीरिव । मिथ्यात्वेन तुल्ययोरपि
परकीयक्रियाशब्दयोरविषयीभूतेति यावत् । सा यथा स्वप्नद्रष्ट्टदृशा
किञ्चित्स्फुटलक्ष्या सङ्कल्पयितुर्दृशा तु ईषल्लक्ष्याप्यसती स्वत एव शाम्यति
तद्वदित्यर्थः ॥ ३५ ॥
शान्तसङ्कल्पमत्ताभ्रभीषणाशनिशब्दवत् ।
विस्मृतस्वप्नसङ्कल्पनिर्माणनगरोपमा ॥ ३६ ॥
ततोऽप्युपशान्तिप्रकरणे अलक्ष्यावस्थया परिशेषे शान्तेत्यादि नव
दृष्टान्ताः । शान्त उपरतो यह् सङ्कल्पस्तेन कल्पितस्य
मत्तगजवन्निरङ्कुशस्याभ्रस्य भीषणः अशनिशब्दः स्फूर्जथुस्तद्वत् ।
विस्मृतं स्वप्नेन सङ्कल्पेन वा निर्माणं यस्य नगरस्य तदुपमा ॥ ३६ ॥
भविष्यन्नगरोद्यानप्रसूवन्ध्यामलाङ्गिका
[नगरोद्यानसोत्सवश्यामलात्मिकाः इति पाठः] ।
तस्या [नश्यज्जिह्वोच्यमान इति पाठः]
जिह्वोच्यमानोग्रकथार्थानुभवोपमा ॥ ३७ ॥
भविष्यतो नगरस्योद्याने प्रसूयते या वन्ध्या तद्वदमलं निर्मलं
शून्यमेवाङ्गं स्वरूपं यस्यास्तस्या वन्ध्याया जिह्वया उच्यमाना ये उग्रा
वीररसाद्युपेताः स्वपुत्रयुद्धादिकथार्थाः ॥ ३७ ॥
अनुल्लिखितचित्रस्य चित्रव्याप्तेव भित्तिभूः ।
परिविस्मर्यमाणार्थकल्पनानगरीनिभा ॥ ३८ ॥
सर्वर्तुमदनुत्पन्नवनस्पन्दास्फुटाकृतिः ।
भाविपुष्पवनाकारवसन्तरसरञ्जना ॥ ३९ ॥
अनुत्पन्नवनस्पन्द [स्पन्दन इति पाठः] इव
अस्फुटाकृतिरलक्ष्याकारा । वसन्तेनेव रसरञ्जना यस्याः ॥ ३९ ॥
अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ।
निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् ॥ ४० ॥
सौम्यं निश्चलत्वात्प्रसन्नम् ॥ ४० ॥
शिष्टो ग्रन्थः परीमाणं तस्य ज्ञानमहार्थदः ।
बुद्धे तस्मिन्भवेच्छ्रेयो निर्वाणं शान्तकल्पनम् ॥ ४१ ॥
शिष्टः द्वात्रिंशत्सहस्रमध्ये परिगणितसार्धसप्तदशसहस्रावशिष्टः ।
सार्धचतुर्दशसहस्रमिति यावत् । मूलाविद्योच्छेदाच्छान्ताः सर्वकल्पना
यस्मिन् ॥ ४१ ॥
प्। ११५)
अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ।
परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ॥ ४२ ॥
श्रोता अकलेवर इत्यन्तेन वर्ण्यमानस्वभावो भवेदित्यन्वयः । अचेत्यो
निर्विषयः । अत एव निरामयः ॥ ४२ ॥
निर्वापितजगद्यात्रः कृतकर्तव्यसुस्थितः ।
समस्तजनतारम्भवज्रस्तम्भो नभोनिभः ॥ ४३ ॥
यथा वज्रमणिस्तम्भः स्वप्रतिबिम्बितसमस्तजनतामविकृत एवारभते
जनतातत्समारम्भाणां चाधारस्तद्वत् ॥ ४३ ॥
विनिगीर्णयथासङ्ख्यजगज्जालातितृप्तिमान् ।
आकाशीभूतनिःशेषरूपालोकमनस्कृतिः ॥ ४४ ॥
विनिगीर्णैर्यथाप्रसिद्धसङ्ख्यैर्जगज्जालैरिव अतितृप्तिमानित्युत्प्रेक्षा ।
रूपालोको बाह्येन्द्रियैर्भोगः मनस्कृतिर्मानसः ॥ ४४ ॥
कार्यकारणकर्तृत्वहेयादेयदृशोज्झितः ।
सदेह इवनिर्देहः ससंसारोऽप्यसंसृतिः ॥ ४५ ॥
कार्यकारणकर्तृत्वे आधिभूताध्यात्मिकाधिदैवरूपे
स्वीकारपरित्यागदृशा ॥ ४५ ॥
चिन्मयो घनपाषाणजठरापीवरोपमः ।
चिदादित्यस्तṁल्लोकानन्धकारोपरोपमम् ॥ ४६ ॥
घनं पाषाणजठरमिवापीवरं निश्छिद्रं पूर्णमन्यदप्युपमा यस्य ।
चिदादित्यः स्वाज्ञानपरिकल्पितान् लोकान् स्वाकारवृत्तीद्धेन स्वालोकेन तपन्
परप्रकाशरूपोऽपि दृश्याभावादेव तत्प्रथाविषये अन्धकारोपरोपमं
रलयोरभेदाद्धनीभूतान्धकारोपलसदृशं परमान्ध्यमिवागत इति
परेणान्वयः ॥ ४६ ॥
परप्रकाशरूपोऽपि परमान्ध्यमिवागतः ।
रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः ॥ ४७ ॥
नष्टाहङ्कारवेतालो देहवानकलेवरः ।
कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते ।
जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥ ४८ ॥
देहवानकलेवर इति । तथाच श्रुतिः अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति इति ।
जगतस्तत्साक्षात्कारबाध्यत्वमुक्तं सम्भावयितुं तस्य
जगत्कल्पनाधिष्ठानत्वेनापरिच्छिन्नत्वमाह - कस्मिंश्चिदित्यादिना ।
रोमकोटिवत्परिच्छिन्नाविद्याया अप्यग्रे एकदेशे जगल्लक्ष्मीरवतिष्ठते । तथाच
श्रुतिः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति । स्मृतिश्च
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत् इति ॥ ४८ ॥
परमाणौ परमाणौ चिदाकाशः स्वकोटरे ।
जगल्लक्ष्मीसहस्राणि धत्ते कृत्वाथ पश्यति ॥ ४९ ॥
नन्वविस्तृतदेशे कथमतिविस्तृतजगद्भानमित्याशङ्का दर्पणोदरे
साभ्रग्रहनक्षत्रव्योमसमावेशदर्शनान्नाज्ञानस्यास्ति
दुष्करमित्यभिप्रेत्याह - परमाणाविति । स्वकोटरे स्वान्तःकल्पिताकाशे ।
चिदाकाशस्य इति पाठे अर्थाच्चिदाकाश एव धत्ते पश्यति च । अथशब्दः
समुच्चये ॥ ४९ ॥
विततता हृदयस्य महामते-
र्हरिहराञ्जजलक्षशतैरपि ।
तुलनमेति न मुक्तिमतो यतः
प्रविततास्ति निरुत्तमवस्तुनः ॥ ५० ॥
महामतेर्जीवन्मुक्तस्य हृदयं परमात्मैव तस्य विततता विस्तीर्णता
हरिहरादीनां लक्षशतैरपि तुलनमियत्तापरिच्छेदं [इयत्तां परिच्छेदं
इति पाठः] नैति । तत्किं तेषामसामर्थ्यात् । न । यतो यस्माद्धेतोर्न विद्यते
उत्तममुत्कृष्टतमं सत्तया आनन्त्येनानन्दस्वाभाव्येन च
यस्मात्तथाविधस्यात्मवस्तुनः सा प्रवितता अपरिच्छिन्नता परमार्थत एवास्ति
न त्वाकाशादीनामिव द्रष्ट्टपुरुषाशक्तिकल्पितेत्यर्थः ॥ ५० ॥
इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
ग्रन्थसङ्ख्यादिवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
ग्रन्थसङ्ख्यादिवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥