पञ्चदशः सर्गः १५
श्रीवसिष्ठ उवाच ।
सन्तोषो हि परं श्रेयः सन्तोषः सुखमुच्यते ।
सन्तुष्टः परमभ्येति विश्राममरिसूदन ॥ १ ॥
वैराग्यकल्पवृक्षस्य च्छायेव सुखशीतलः ।
तृतीयो द्वारपालोऽत्र सन्तोष उपवर्ण्यते ॥ १ ॥
क्रमप्राप्तं तृतीयद्वारपालं सन्तोषं वर्णयति - सन्तोष इत्यादिना ।
वक्ष्यमाणलक्षणः सन्तोष एव परं श्रेयो मोक्षः सुखमितरदपि ।
आयुर्घृतमितिवत्साधने फलाभेदारोपेण स्तुतिः ।
विश्रममात्यन्तिकदुःखविक्षेपनिवृत्तिम् ॥ १ ॥
प्। ११०)
सन्तोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।
साम्राज्यमपि शान्तानां जरत्तृणलवायते ॥ २ ॥
सन्तोषलक्षणेनैश्वर्येण प्रभावेन सुखिनाम् । चिरं विश्रान्तमाश्वस्तं
चेतो येषाम् । जरतो जीर्णस्य तृणस्य लवो लेशः स इवाचरति । तुच्छीभवतीत्यर्थः
॥ २ ॥
सन्तोषशालिनी बुद्धी राम संसारवृत्तिषु ।
विषमास्वप्यनुद्विग्ना न कदाचन हीयते ॥ ३ ॥
विषमासु दारिद्र्यवियोगादिवैषम्यवतीष्वपि संसारस्थितिषु दैवात्प्रसक्तासु
सन्तोषशालिनी बुद्धिर्न हीयते । सुखेन न वियुज्यत इत्यर्थः ॥ ३ ॥
सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः ।
भोगश्रीरतुला तेषामेषा प्रतिविषायते ॥ ४ ॥
प्रतिकूलविषवदाचरति । तथा भातीत्यर्थः ॥ ४ ॥
न तथा सुखयन्त्येताः पीयूषरसवीचयः ।
यथातिमधुरास्वादः सन्तोषो दोषनाशनः ॥ ५ ॥
अतिमधुर आनन्दप्रचुर आस्वादोऽनुभवो यस्य । आशादैन्यादिदोषनाशनः ॥ ५ ॥
अप्राप्तवाञ्छामुत्सृज्य सम्प्राप्ते समतां गतः ।
अदृष्टखेदाखेदो यः स सन्तुष्ट इहोच्यते ॥ ६ ॥
सन्तोषमाश्रयलक्षणेन लक्षयति - अप्राप्तेति । प्राप्तेऽपि विषये
मिथ्यात्वादप्राप्तसमतां तत्प्राप्तिनिमित्तहर्षादिराहित्येन
पूर्वावस्थासमतां वा गतः । तत्र हेतुमाह - अदृष्टेति ॥ ६ ॥
आत्मनात्मनि सन्तोषं यावद्याति न मानसम् ।
उद्भवन्त्यापदस्तावल्लता इव मनोबिलात् ॥ ७ ॥
आत्मना स्वेनैव न निमित्तान्तरेण । आत्मन्येव न विषयान्तरे ॥ ७ ॥
सन्तोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।
भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् ॥ ८ ॥
अम्बुजपक्षे सम्यक् तोषस्तृषानिवृत्तिर्येन तेन जलेन शीतलमाप्यायितम् ॥ ८ ॥
आशावैवश्यविवशे चित्ते सन्तोषवर्जिते ।
म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥ ९ ॥
वैवश्यं पारवश्यं तेन विवशे व्याकुले । म्लाने आदर्शे वक्त्रमिव न
प्रतिबिम्बति व्यक्तीभवति । उपदिष्टमपीत्यर्थः ॥ ९ ॥
अज्ञानघनयामिन्या सङ्कोचं न नराम्बुजम् ।
यात्यसावुदितो यस्य नित्यं सन्तोषभास्करः ॥ १० ॥
यस्य नराम्बुजस्य विकासायासौ प्रागुक्तः सन्तोषभास्कर
उदितस्तन्नराम्बुजमज्ञानलक्षणया गाढान्धकाररात्र्या सङ्कोचं न याति ॥
१० ॥
अकिञ्चनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते ।
आधिव्याधिविनिर्मुक्तं सन्तुष्टं यस्य मानसम् ॥ ११ ॥
नाभिवाञ्छत्यसम्प्राप्तं भुङ्क्ते यथाक्रमम् ।
यः सुसौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥ १२ ॥
प्रागुक्त लक्षणमनूद्य लक्षणान्तरमप्याह - नेति । यथाक्रमं प्राप्तं
सुखं दुःखं च । सौम्यो जगदानन्दनः सम्यगाचार आचरणं यस्य ॥ १२ ॥
सन्तुष्टिपरतृप्तस्य महतः पूर्णचेतसः ।
क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते ॥ १३ ॥
मुखकान्तिविशेषोऽपि तल्लक्षणमित्याह - सन्तुष्टीति ॥ १३ ॥
पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् ।
पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥ १४ ॥
स्वात्मन्यात्मनैव पूर्णतां
निरतिशयानन्दरूपतामाश्रित्यानुभवेनावलम्ब्य ॥ १४ ॥
सन्तोषामृतपूर्णस्य शान्तशीतलया धिया ।
स्वयं स्थैर्यं मनो याति शीतांशोरिव शाश्वतम् ॥ १५ ॥
शीतांशोरिव सन्तोषलक्षणेनामृतेन पूर्णस्य पुंसः
क्रोधसन्तापहेत्वभावाच्छान्ता शीतला च या धीस्तया निमित्तभूतया मनः
शाश्वतं स्थैर्यं याति ॥ १५ ॥
सन्तोषपुष्टमनसं भृत्या इव महर्द्धयः ।
राजानमुपतिष्ठन्ति किङ्करत्वमुपागताः ॥ १६ ॥
विनैव विषयार्जनं सन्तोषमात्रेण कथं देहयात्रासिद्धिस्तत्राह -
सन्तोषेति । भृत्या राजानमिव महत्य ऋद्धयः सम्पद उपतिष्ठन्ति ।
तथाचाहुः - आशाया दासा ये दासास्ते सर्वलोकस्य । आशा दासी येषां
तेषां दासायते लोकः ॥ इति ॥ १६ ॥
आत्मनैवात्मनि स्वस्थे सन्तुष्टे पुरुषे स्थिते ।
प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांशवः ॥ १७ ॥
नन्वस्त्वेवं देहयात्रा तथापि देवानामिव मानसं दुःखं दुश्चिकित्स्यं
तत्राह - आत्मनैवेति । पांशवो धूलयः । तालत्र्या अपि दन्त्याश्च
शम्बशूकरपांशवः इति ॥ १७ ॥
नित्यं शीतलया राम कलङ्कपरिभिन्नया ।
पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥ १८ ॥
तथापि कारणकलङ्कावरणेन दुःखबीजेन यद्दुःखं तत्स्यादेवेति तत्राह
- नित्यमिति । यथा अमायां क्षीणेन्दुः
कलङ्काद्भेदेनाविभाव्यमानत्वात्कलङ्कमग्न इव भवति
सूर्यसन्निधानाच्च न शीतलया वृत्त्या वर्तते स एव पौर्णमास्यां
कलापूर्णतया कलङ्कस्यापि भासकत्वात्तद्विविक्तया शुद्धया वृत्त्या भाति
तद्वत्पुरुषोऽप्यसन्तोषे मोहकलङ्कमग्न इव तापत्रयेण दह्यमान इव भवति
सन्तोषामृतकलापूर्णस्त्वज्ञानकलङ्कसाक्षित्वात्तदसंस्पृष्टया
स्वात्मसुखशीतलया वृत्त्या भातीत्यर्थः ॥ १८ ॥
समतासुन्दरं वक्त्रं पुरुषस्यावलोकयन् ।
तोषमेति यथा लोको न तथा धनसञ्चयैः ॥ १९ ॥
समता सर्वत्र सन्तोषादवैषम्यबुद्धिः ॥ १९ ॥
समतया मतया गुणशालिनां
पुरुषराडिह यः समलङ्कृतः ।
तममलं प्रणमन्ति नभश्चरा
अपि महामुनयो रघुनन्दन ॥ २० ॥
तस्य सर्वोत्कृष्टतामाह - समतयेति । नभश्चरा देवा महान्तो मुनयोऽपि
प्रणमन्ति नमस्यन्ति ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
सन्तोषनिरूपणं नाम पञ्चदशः सर्गः ॥ १५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
सन्तोषनिरूपणं नाम पञ्चदशः सर्गः ॥ १५ ॥
प्। १११)