१४

चतुर्दशः सर्गः १४

श्रीवसिष्ठ उवाच ।

शास्त्रावबोधामलया धिया परमपूतया ।
कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः ॥ १ ॥

साधुसङ्गमसच्छास्त्रभावशुद्ध्युपबृंहितः ।
शमसन्तोषयोर्हेतुर्विचारोऽत्र प्रशस्यते ॥ १ ॥

इत्थं मोक्षद्वारपालं शमाख्यमाद्यमुपवर्ण्य द्वितीयं विचारं
वर्णयिष्यन् वसिष्ठ उवाच - शास्त्रेति । तत्रार्थानर्थानुबन्धविचारः
सारासारविचारो हेयोपादेयविचारः प्रमाणतात्पर्यविचारः आत्मतत्त्वपरीक्षा
चेति विचारः पञ्चविधः । तत्र स्वाभाविकप्रवृत्तेर्विषयाणां
चानर्थानुबन्धिता शास्त्रीयप्रवृत्तेर्वैराग्यादेश्च
पुरुषार्थानुबन्धितेत्यन्वयव्यतिरेकादिना परीक्षात्मक आद्यः ।
स्त्रीपुत्रस्वदेहादिषु स्वतो बीजतः
परिणामतश्चाशुचिविण्मूत्राद्यमङ्गलत्वपरीक्षात्मा
ब्रह्मलोकान्तसुखानामनित्यत्वदुःखसम्भिन्नत्वादिपरीक्षात्मा च द्वितीयः ।
एतौ वैराग्यमुमुक्षाहेतू । मुमुक्षोत्तरमपि मोक्षसाधनं कर्म
वोपासनमेव वा ते अपि किं समुच्चिते उत ज्ञानसमुच्चिते उत ज्ञानमेवेति
परीक्षात्मा तृतीयः । यदापि ज्ञानमेव तदापि तत्किं
साङ्ख्यवैशेषिकाद्यभिमतं कपिलगौतमोक्ततत्तछास्त्रप्रमाणकं
श्रौतमेव वा यदापि श्रौतं तदापि किं श्रुतीनां द्वैते उताद्वैते सविशेषे उत
निर्विशेषे आत्मन्यनात्मनि वा तात्पर्यमिति परीक्षात्मा चतुर्थः । स च
श्रवणमित्युच्यते । श्रुत्यादिप्रमाणानामप्यद्वितीये सच्चिदानन्दब्रह्मात्मनि
तात्पर्यावधारणेऽपि स्वात्मनि परमार्थतस्तथात्वं सम्भवति न वेति
रत्नपरीक्षान्यायेनानुभवनिष्ठगुरुसतीर्थ्यादिसंवादेन
जीवेश्वरजगत्तत्त्वपरिशोधनेन च यावदवधारणं परीक्षणात्मा
पञ्चमः । तत्राद्यानां त्रयाणां फलं साधनचतुष्टयसम्पत्तिः
अन्त्ययोस्तु क्रमात्प्रमाणप्रमेयासम्भावनानिवृत्तिः । तत्राद्या यद्यपि
भाग्यवशतः स्वतोऽपि च भवन्ति तथापि स्वप्रत्ययदृढीकाराय
पुनर्गुरुशास्त्रपुरःसरं कर्तव्याः । अन्त्यौ तु गुरुशास्त्राभ्यामेव भवत इति
सर्वसाधारण्येन शास्त्रावबोधामलया धियेत्युक्तम् । कारणज्ञेन
विषयविशयपूर्वपक्षसिद्धान्तप्रयोजनविभागज्ञानवता [विशयः =
संशयः] पुंसा प्रमाणप्रमेयतत्त्वप्रतिपादनोपायकुशलेन गुरुणा
सहेति वार्थः । तत्र चित्तशुद्धेरप्युपयोगं दर्शयति - परमपूतयेति ॥ १ ॥

विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् ।
दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥ २ ॥

तीक्षणतां सूक्षतत्त्वावगाहनकुशलताम् ॥ २ ॥

आपद्वनमनन्तेहापरिपल्लविताकृति ।
विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥ ३ ॥

आपदेव दुरुत्तरत्वाद्वनम् । अनन्ताभिरीहाभिः प्रवृत्तिभिः परितः पल्लवितेव
रागादिभिर्विवृद्धा आकृतिः सन्निवेशो यस्य । क्रकचं काष्ठदारणम् ॥ ३ ॥

मोहेन बन्धुनाशेषु सङ्कटेषु शमेषु [भ्रमेषु च इति पाठः]
च ।
सर्वं व्याप्तं महाप्राज्ञ विचारो हि सतां गतिः ॥ ४ ॥

बन्धुनाशादिषु दुःखस्थानेषु यदुचितं कर्तव्यं येन चोपायेन
दुःखोत्तरणं चित्तसमाधानं च तत्सर्वं मोहेन वैचित्त्येन व्याप्तं न
स्फुरतीति यावत् । तत्र विचार एव गतिस्तत्प्रसन्धाने हेतुरित्यर्थः ॥ ४ ॥

प्। १०७)

न विचारं विना कश्चिदुपायोऽस्ति विपश्चिताम् ।
विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् ॥ ५ ॥

तदेवाह - नेति ॥ ५ ॥

बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् ।
फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् ॥ ६ ॥

तेजः सामर्थ्यम् । प्रतिपत्तिस्तत्तत्कालोचिता स्फूर्तिः । क्रिया तदनुष्ठानं
तत्फलं च । फलन्ति निष्पद्यन्ते सफलीभवन्ति वा ॥ ६ ॥

युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् ।
स्फारं विचारमाश्रित्य संसारजलधिं तरेत् ॥ ७ ॥

युक्तमुचितमुपादेयमयुक्तमनुचितं हेयं तयोः प्रकाशने महादीपम् ।
स्फारमनल्पम् ॥ ७ ॥

आलूनहृदयाम्भोजान्महामोहमतङ्गजान् ।
विदारयति शुद्धात्मा विचारो नाम केसरी ॥ ८ ॥

आलूनानि हृदयस्थानि आलूनानि हृदयस्थानि विवेकाम्भोजानियैस्तान् ।
शुद्धात्मा जल्पच्छलजात्यादिदोषशून्यः ॥ ८ ॥

मूढाः कालवशेनेह यद्गताः परमं पदम् ।
तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् ॥ ९ ॥

मूढास्तरणोपायमार्गव्यामूढाः । विजृम्भितं
तादृशमार्गप्रकाशनस्य फलम् ॥ ९ ॥

राज्यानि सम्पदः स्फारा भोगो मोक्षश्च शाश्वतः ।
विचारकल्पवृक्षस्य फलान्येतानि राघव ॥ १० ॥

या विवेकविकासिन्यो मतयो महतामिह ।
न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥ ११ ॥

विवेकोऽत्र विचारस्तेन विकासिन्यो या मतयस्ता न मज्जन्ति न विषीदन्ति । तुम्बकानि
शुष्कालाबुकानि ॥ ११ ॥

विचारोदयकारिण्या धिया व्यवहरन्ति ये ।
फलानामत्युदाराणां भाजनं हि भवन्ति ते ॥ १२ ॥

विचारवती धीर्विवेकोदयकारिणी तया ये व्यवहरन्ति । उदाराणां श्रेष्ठानाम् ॥
१२ ॥

मूर्खहृत्काननस्थानामाशाप्रथमरोधिनाम् ।
अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥ १३ ॥

मूर्खाणां हृन्मन एव काननं वनं तत्स्थानाम् । पुरुषार्थविषये
आशां मुमुक्षां प्रथमं रुन्धन्ति तच्छीलानाम् । करञ्जानां
कुबेराक्षवल्लीनाम् । तत्पक्षे आशा दिशः । ते हि वृतिभावेन दिशो रुन्धन्ति ।
मञ्जर्यः फलकोशमञ्जर्यो दुःखव्यवहाराडम्बरभूतास्ता हि
सकण्टकाः कटुकफलगर्भाः प्रसिद्धाः ॥ १३ ॥

कज्जलक्षोदमलिना मदिरामदधर्मिणी ।
अविचारमयी निद्रा यातु ते राघव क्षयम् ॥ १४ ॥

क्षोदश्चूर्णमिव मलिना । मदिरामदधर्मा भ्रान्तिस्खलनादयस्तद्वती ।
क्षयं यातु विचारेणेति शेषः ॥ १४ ॥

महापदतिदीर्घेषु सद्विचारपरो नरः ।
न निमज्जति मोहेषु तेजोराशिस्तमः स्विव ॥ १५ ॥

महत्य आपदो येषु ते च ते अतिदीर्घाश्च तेषु । मोहेषु अज्ञानेषु । तेजोराशिः
सूर्यः ॥ १५ ॥

मानसे सरसि स्वच्छे विचारकमलोत्करः ।
नूनं विकसितो यस्य हिमवानिव भाति सः ॥ १६ ॥

मानसं मन एव सरस्तदेव हिमवत्कुक्षौ प्रसिद्धं मानसं सरः ।
शैत्यौन्नत्यस्थैर्यादिगुणैर्हिमवानिव ॥ १६ ॥

विचारविकला यस्य मतिर्मान्द्यमुपेयुषः ।
तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव ॥ १७ ॥

मान्द्यं मौर्ख्यम् । चन्द्रदैवत्ये चन्द्रवद्विवेकप्रकाशयोग्ये च मनसि
चन्द्रिकासदृश ज्ञानसुखाविर्भाव एवोचितस्तस्माद्यस्य मूर्खस्य
शोकदुःखाद्युद्भवस्तस्य चन्द्रादप्यशनिर्वज्रमुदेति । यथा शिशोर्बालस्य
मौर्ख्याद्यक्षः प्रागुक्तवेताल उदेति तद्वत् ॥ १७ ॥

दुःखखण्डकमस्थूलं विपन्नवलतामधुः ।
राम दूरे परित्याज्यो निर्विवेको नराधमः ॥ १८ ॥

निर्विवेको नराधमो दुःखबीजानामेव निरन्तरभरणाय निर्मितं खण्डकं
भूकुसुलम् । न विद्यते स्थूलं यस्मात्तथाविधम् । अतिस्थूलमित्यर्थः ।
विपल्लक्षणानां नवलतानां मधुर्वसन्त उल्लासहेतुरित्यर्थः ॥ १८ ॥

ये केचन दुरारम्भा दुराचारा दुराधयः ।
अविचारेण ते भान्ति वेतालास्तमसा यथा ॥ १९ ॥

दुरारम्भाः स्वपरदुःखानुकूलकर्माणि । दुराचारा निषिद्धाचरणानि । भान्ति
आविर्भवन्ति ॥ १९ ॥

अविचारिणमेकान्तवनद्रुमसधर्मकम् ।
अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥ २० ॥

एकान्तेन नियमेन वनद्रुमसमानधर्माणम् । एकान्ते मनुष्यासेव्यस्थाने वा
विद्यमानेन वनद्रुमेण सधर्माणम् । अत एव साधूनामध्वगानां
छायाश्रयदानादिकार्येषु साधुषु पुरुषार्थोपयोगिषु कार्येषु
वाऽक्षममसमर्थम् ॥ २० ॥

विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् ।
परां निर्वृतिमभ्येति पूर्णचन्द्र इवात्मनि ॥ २१ ॥

विविक्तं विचारवत् । आशाया वैवश्येन पारवश्येन वर्जितम् । निर्वृतिं
विश्रान्तिसुखम् ॥ २१ ॥

विवेकितोदिता देहे सर्वं शीतलयत्यलम् ।
अलङ्करोति चात्यन्तं ज्योत्स्नेव भुवनं यथा ॥ २२ ॥

ज्योत्स्ना चन्द्रिकेव । भुवनं जलं यथा तापार्तं सर्वं जनं शीतलयति
तृषार्तं च अलं तृप्तं करोति तद्वत् ॥ २२ ॥

परमार्थपताकाया धियो धवलचामरम् ।
विचारो राजते जन्तो रजन्यामिव चन्द्रमाः ॥ २३ ॥

जन्तोरधिकारिजन्मवतः पुरुषस्य
परमार्थस्योत्कृष्टपुरुषार्थलक्षणराजभावप्राप्तेः सूचकत्वात्पताकाया
धियः शुद्धबुद्धेः सम्बन्धिविचारो धवलचामरमिवासाधारणं
राजचिह्नं राजते । रूपितपताकाचामरयो रजनीचन्द्रमसावुपमाने । तत्र
रजन्या वैयधिकरण्येनोपमानत्वम् ॥ २३ ॥

विचारचारवो जीवा भासयन्तो दिशो दश ।
भान्ति भास्करवन्नूनं भूयो भवभयापहाः ॥ २४ ॥

जीवा विचारेणैव क्रमाचारवो जीवन्मुक्तभूताः सन्तो भूयसां प्राणिनां
विचारप्रकाशेन भवभयलक्षणं तमोऽपघ्नन्तो [तमोऽपहरन्तो इति
पाठः] भास्करवद्भान्ति ॥ २४ ॥

प्। १०८)

बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।
रात्रौ नभसि वेतालो विचारेण विलीयते ॥ २५ ॥

ननु विचारेण भयनिवृत्तिः क्व दृष्टा तत्राह - बालस्येति । निशि
बहिर्गमनप्रतिबन्धार्थं कल्पितो वेतालस्तथा संसारो विलीयते ॥ २५ ॥

सर्व एव जगद्भावा अविचारेण चारवः ।
अविद्यमानसद्भावा विचारविशरारवः ॥ २६ ॥

अस्तु तत्र तथा प्रकृते कथं भयनिवृत्तिरित्याशङ्क्य भयहेतोर्जगतो
विचारेण मिथ्यात्वनिर्णयादित्याह - सर्व एवेति । चारवः सत्यवद्रमणीयाः ।
विशरारवः शिलास्फालितलोष्टादिवद्विशरणशीलाः । असारा मिथ्याभूता इति
यावत् ॥ २६ ॥

पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः ।
संसारचिरवेतालो विचारेण विलीयते ॥ २७ ॥

उक्तमेव स्पष्टयति - पुम्स इति ॥ २७ ॥

समं सुखं निराबाधमनन्तमनपाश्रयम् ।
विद्धीमं केवलीभावं विचारोच्चतरोः [विचारोऽस्य तरोः इति
पाठः] फलम् ॥ २८ ॥

न भयनिवृत्तिरेव किन्तु निरतिशयानन्दावाप्तिरपि तत्फलमित्याह -
सममिति । समं जगद्वैषम्यशून्यम् । अनपाश्रयमनन्याधीनम् ।
केवलीभावं कैवल्यम् ॥ २८ ॥

अचलस्थितितोदारा प्रकटाभोगतेजसा ।
तेन निष्कामतोदेति शीततेवेन्दुनोदिता ॥ २९ ॥

तद्विच्छेदशङ्कां वारयति - अचलेति । तेन विचारेण प्रकटस्याभोगस्य
निरतिशयानन्दस्य तेजसा सामर्थ्येन चाञ्चल्यहेत्वज्ञाने नष्टे अचलस्थितितया
उदारा आनन्दपूर्णतालक्षणा निष्कामता उदेति ॥ २९ ॥

स्वविचारमहौषध्या साधुश्चित्तनिषण्णया ।
तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥ ३० ॥

अचलस्थितिरेवोत्तमत्वं तत्प्रदया पूर्वोक्तया विचारलक्षणया महौषध्या
सिद्धः पुरुषो नाभिवाञ्छत्यप्राप्तं प्राप्तं च नोज्झति । कृतकृत्यो
भवतीत्यर्थः ॥ ३० ॥

तत्पदालम्बनं चेतः स्फारमाभासमागतम् ।
नास्तमेति न चोदेति खमिवातिततान्तरम् [गतान्तरम् इति पाठः] ॥ ३१

ननु चित्तं यदि विचारजन्यज्ञानेन नश्येत्तर्हि जीवनासम्भवः यदि न
नश्येत्तर्हि पुनर्विक्षेपाञ्जनयेदेवेति कथं कृतकृत्यतेत्याशङ्क्याह ##-
तद्वदाभासतां गतं चित्तमपि
खमाकाशमिवातिततमतिविस्तीर्णब्रह्मभावं प्राप्तमान्तरं
विक्षेपबीजवासनाजालं यस्य । नास्तं विनाशमेति येन जीवनं न स्यात् नापि
रागद्वेषादिवृत्तिभिरुदेति येन विक्षेपः स्यादित्यर्थः । यद्वा चेतः आभासं
भर्जितबीजमिव नोदेति येन विक्षेपः स्यात् । अनादिवासनया स्फारतां गतं
दृढं विषय संस्कारवशान्न विनाशमेति ॥ ३१ ॥

न ददाति न चादत्ते न चोन्नमति शाम्यति ।
केवलं साक्षिवत्पश्यञ्जगदाभोगि तिष्ठति ॥ ३२ ॥

तत्कुतः । यतो जगद्विषयानयं केवलं साक्षिवदौदासीन्येन पश्यंस्तेषु
रागितया मनो न ददाति सत्यतया पुरुषार्थबुद्ध्या च नादत्ते नोपभुङ्क्ते ॥ ३२

न च शाम्यति नाप्यन्तर्नापि बाह्येऽवतिष्ठति ।
न च नैष्कर्म्यमादत्ते न च कर्मणि मज्जति ॥ ३३ ॥

न सुषुप्ताविवोपाधिशान्त्या शाम्यति नापि स्वप्नवदान्तरवासनामये निमज्जति
न वा मूढजनजाग्रद्वद्बह्येऽवसन्नस्तिष्ठति ॥ ३३ ॥

उपेक्षते गतं वस्तु सम्प्राप्तमनुवर्तते ।
न क्षुब्धो न च वाऽक्षुब्धो भाति पूर्ण इवार्णवः ॥ ३४ ॥

अर्णवपक्षे गतं लक्ष्मीकौस्तुभादिवस्तु उपेक्षते न तत्प्राप्त्यै यतते । क्षुब्धो
मर्यादात्यागपर्यन्तं क्षोभवान् । अक्षुब्धः स्तिमितः । स्वाभाविकं
व्यवहारं त्यजन्निति यावत् । क्षोभादिफलाभावसमुच्चयार्थश्चकारः ॥ ३४ ॥

एवं पूर्णेन मनसा महात्मानो महाशयाः ।
जीवन्मुक्ता जगत्यस्मिन्विहरन्तीह योगिनः ॥ ३५ ॥

इहास्मिञ्शरीर एवानुभूयमानो जीवब्रह्मैक्यलक्षणो योगो येषामस्ति ते ॥ ३५ ॥

उषित्वा सुचिरं कालं धीरास्ते यावदीप्सितम् ।
ते तमन्ते परित्यज्य यान्ति केवलतां तताम् ॥ ३६ ॥

तमुपाध्याभासम् । ततामपरिच्छिन्नां केवलतां विदेहकैवल्यम् ॥ ३६ ॥

कोऽहं कस्य च संसार इत्यापद्यपि धीमता ।
चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना ॥ ३७ ॥

आपद्यपि कुटुम्बादिव्यापृतायामपि । सप्रतीकारं
तत्प्रतीकारश्रवणाद्यनुष्ठानसहितं यथा स्यात्तथा । आत्मना स्वेनैव ॥ ३७ ॥

कार्यसङ्कटसन्देहं राजा जानाति राघव ।
निष्फलं सफलं वापि विचारेणैव नान्यथा ॥ ३८ ॥

कार्योऽवश्यकर्तव्यः सङ्कटेष्वर्थकृच्छ्रेषु सन्दिह्यत इति सन्देहः
सन्धिविग्रहादिस्तं जानाति निश्चिनोति ॥ ३८ ॥

वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् ।
निर्णीयन्ते विचारेण दीपेन च भुवो निशि ॥ ३९ ॥

वेदानां कर्मकाण्डानां वेदान्तानां च सिद्धान्तस्थितयो
धर्मब्रह्मतत्त्वलक्षणास्तात्पर्यविश्रान्तिभूमयः स्थितेः
पुरुषार्थप्रतिष्ठायाः कारणं प्रापिका इति यावत् । दीपेन चेति तुल्ययोरेव
[तुल्ययोगे समुच्चयः इति पाठः] समुच्चय
इत्यौत्सर्गिकनियमात्सादृश्यं गम्यते ॥ ३९ ॥

अनष्टमन्धकरेषु बहुतेजः [तेजस्सु जिह्मितं इति टीकाकारसम्मतः
पाठः] स्वजिह्मितम् ।
पश्यत्यपि व्यवहितं विचारश्चारुलोचनम् ॥ ४० ॥

प्रसिद्धलोचनमन्धकारे नष्टमिव बहुतेजःसु सूर्यादिषु जिह्मितं प्रतिहतं
व्यवहितविप्रकृष्टग्रहणेष्वसमर्थं च विचारलक्षणं लोचनं तु न
तथेत्यर्थः ॥ ४० ॥

विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।
दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु ॥ ४१ ॥

विवेको विचार आत्मेव प्रियः प्रधानो वा यस्य स पुरुषो दिव्यचक्षुर्जयति
अभिभवत्यापदो विनाशयति प्राप्नोति वा पुरुषार्थम् ॥ ४१ ॥

प्। १०९)

परमात्ममयी मान्या महानन्दैकसाधिनी ।
क्षणमेकं परित्याज्या न विचारचमत्कृतिः ॥ ४२ ॥

विचारेष्वपि यः सारभूतस्तमाह - परमात्मेति । स्त्रीमयो जाल्मः
इतिवदत्यासक्त्या तत्प्रायताद्योतनाय मयट् । क्षणं क्षणमपि । उदरमन्तरं
कुरुते अथ तस्य भयं भवति इति श्रुतेः । सा हानिस्तन्महाछिद्रं सान्धता सा
च मूकता । यत्क्षणं वा मुहूर्त वा शिवमेकं न चिन्तयेत् इति
लैङ्गवचनाच्चेति भावः ॥ ४२ ॥

विचारचारुपुरुषो महतामपि रोचते ।
परिपक्वचमत्कारं सहकारफलं यथा ॥ ४३ ॥

महतां विदिततत्त्वानां किं पुनर्विविदिषूणामिति द्योतनार्थमपिशब्दः ।
परिपक्वः परिपाकनिष्पन्नश्चमत्कारो माधुर्यातिशयो यस्मिन् ।
सहकारस्याम्रस्य फलम् ॥ ४३ ॥

विचारकान्तमतयो नानेकेषु पुनः पुनः ।
लुठन्ति दुःखश्वभ्रेषु ज्ञाताध्वगतयो नराः ॥ ४४ ॥

विचारेणैव ज्ञाता अनुभवाध्वनि गतिर्यैः । समासोक्त्या
लौकिकाध्वगवृत्तान्तोऽपि गम्यते ॥ ४४ ॥

नच रौति तथा रोगी नानर्थशतजर्जरः ।
अविचारविनष्टात्मा यथाऽज्ञः परिरोदिति ॥ ४५ ॥

विषशस्त्रधाताद्यनर्थशतैर्जर्जरः शिथिलाङ्गोऽपि तथा नच रौति यथा
अविचारेण विनष्टो विनाशितप्राय आत्मा येन सोऽज्ञः परितो जन्मपरम्परासु
रोदिति ॥ ४५ ॥

वरं कर्दममेकत्वं मलकीटकता वरम् ।
वरमन्धगुहाहित्वं न नरस्याविचारिता ॥ ४६ ॥

सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ।
सर्वदौस्थित्यसीमान्तमविचारं [१] परित्यजेत् ॥ ४७ ॥

नित्यं विचारयुक्तेन भवितव्यं महात्मना ।
तथान्धकूपे पततां विचारो ह्यवलम्बनम् ॥ ४८ ॥

तथाहि प्रसिद्धम् । अन्धयतीत्यन्धस्तथाविधः कूपो रागादिः फलाभेदेनोच्यते
॥ ४८ ॥

स्वयमेवात्मनात्मानमवष्टभ्य विचारतः ।
संसारमोहजलधेस्तारयेत्स्वमनोमृगम् ॥ ४९ ॥

अवष्टभ्य रागादिप्रवाहाकृष्टमपि बलात्स्थिरीकृत्य ॥ ४९ ॥

कोऽहं कथमयं दोषः संसाराख्य उपागतः ।
न्यायेनेति परामर्शो विचार इति कथ्यते ॥ ५० ॥

विचारस्वरूपमेव दर्शयति - कोऽहमिति । किं देहादिरेवाहमुत तद्विलक्षण
इति त्वम्पदार्थविचारः । संसारः कथं केन हेतुना अधिष्ठाने आगत इति
तत्पदार्थविचारः । श्रुतिमुन्याचार्यसाम्प्रदायिकदर्शितेन न्यायेन ॥ ५० ॥

अन्धान्धमोहसुघनं चिरं दुःखाय केवलम् ।
कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः ॥ ५१ ॥

शिलाया दुर्मतेश्च हृदयं मन आन्तरावयवश्च । दुःखाय पीडायै ।
टङ्कच्छेदादिकष्टनिष्पाद्यत्वाद्दुष्टाय खाय च्छिद्रायैव च कृतं
धात्रा । नान्यत्र तस्योपयोग इत्यर्थः । सादृश्यलाभः प्राग्वत् ।
यतस्तदन्धादचक्षुषोऽप्यन्धं मोहेन च सुघनमतिनिबिडम् । अन्धो
ह्यदृष्ट्वा कूपे पतति मनस्तु दृष्ट्वापि मोहान्नरकेष्वपि पततीति ।
शिलाहृदयपक्षे अन्धादप्यन्धं जडत्वान्मोहादपि सुघनं
कठोरत्वादित्यर्थः । अथवा यो दुर्मतिरविचारी च पुरुषस्तस्य हृदयं
शिलायाः सकाशात् कृतमित्युत्प्रेक्षा । यतोऽन्धादन्धं मोहेन सुघनं च ।
अतस्तच्चिरं केवलं दुःखायैवेत्यर्थः ॥ ५१ ॥

भावाभावग्रहोत्सर्गदृशामिह हि राघव ।
न विचारादृते तत्त्वं ज्ञायते साधु किञ्चन ॥ ५२ ॥

भावः सत्यस्तस्य ग्रह उपादानं अभावोऽस्त्यस्तस्योत्सर्गस्त्यागस्तौ पश्यतां
प्रेक्षावतामिह व्यवहारभूमौ साधु सम्यक् तत्त्वं विचारं विना न ज्ञायते
॥ ५२ ॥

विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि ।
अतो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥ ५३ ॥

तत्त्वं वस्तुनो नित्यत्वं तत्त्वज्ञानाद्विश्रान्तिर्मनोनैश्चल्यम् । अतो विश्रान्तेः
शान्तत्वमेव सर्वदुःखपरिक्षयः ॥ ५३ ॥

सफलतां फलते भुवि कर्मणां
प्रकटतां किल गच्छति उत्तमाम् ।
स्फुटविचारदृशैव विचारिता
शमवते भवते च विरोचताम् ॥ ५४ ॥

विस्तरोक्तं सङ्क्षिप्योपसंहरति - सफलतामिति । यतः सर्वोपि जनः
स्फुटविचारदृशैव लौकिकवैदिककर्मणां सफलतां फलते निष्पादयति
आत्मतत्त्वस्य उत्तमां वक्ष्यमाणसप्तमभूमिकान्तामुत्कृष्यमाणां
प्रकटतां च गाच्छति प्राप्नोति । अतः शमादिसाधनसम्पत्तिमते [२]
भवते च तादृशी विचारिता रोचताम् । गच्छति उत्तमामित्यसन्धिर्वाक्ये
संहिताया अनित्यत्वात् ॥ ५४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
विचारनिरूपणं नाम चतुर्दशः सर्गः ॥ १४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
विचारनिरूपणं नाम चतुर्दशः सर्गः ॥ १४ ॥