त्रयोदशः सर्गः १३ ॥
श्रीवसिष्ठ उवाच ।
एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः ।
विचरन्तीह संसारे महान्तोऽभ्युदिता इव ॥ १ ॥
वर्णिता इह बाहुल्याद्वैराग्यादिगुणोदयाः ।
जीवन्मुक्तिफलोन्नद्धा विशेषेण शमः पुनः ॥ १ ॥
वैराग्यशान्त्यादिसाधनानि वर्णयिष्यन्प्रस्तुतां जीवन्मुक्ति स्थितिमेव वर्णयति
- एतामिति । अभ्युदिताः साम्राज्याभ्युदयं प्राप्ता इव ॥ १ ॥
न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् ।
सर्वमेव च कुर्वन्ति न कुर्वन्तीह किञ्चन ॥ २ ॥
यतः शुभाशुभमुपादातुं हातुं वा न वाञ्छन्ति अत एव तत्साधनानि न
याचन्ते ॥ २ ॥
स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि ।
हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ ३ ॥
असङ्गात्मदर्शनात्स्वच्छं निर्लेपम् । कुर्वन्ति शास्त्रीयम् । गच्छन्ति
लौकिकसन्मार्गम् ॥ ३ ॥
आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च ।
कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च ॥ ४ ॥
आयान्ति प्रयान्त्यन्यदृशा । स्वदृशा तु न । सचक्षुरचक्षुरिव सकर्णोऽकर्ण
इव समना अमना इव इत्यादिश्रुतेरिति भावः ॥ ४ ॥
ये केचन समारम्भा याश्च काश्चन दृष्टयः ।
हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे ॥ ५ ॥
क्षीयन्ते प्रयोजकद्वेषरागयोः [प्रयोजकदोषगुणयोः इति पाठः]
क्षयात्तद्विषयसत्यताबुद्धिक्षयाच्चेति भावः ॥ ५ ॥
परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत् ।
सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥ ६ ॥
ईहा इच्छा चेष्टा च मधुरवृत्तिः शान्तिर्ब्रह्माकारता च । सुखं कर्तृ ।
मनः कर्म । चन्द्रबिम्बे स्थितं स्वर्गिणमिव मनः कर्तृ चन्द्रबिम्बे
स्थितमिवेत्युत्प्रेक्षा वा ॥ ६ ॥
अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् ।
आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥ ७ ॥
विषयमननकौतुकयोरेव विक्षेपहेतुत्वात्तदभावे निर्विक्षेपं
सुखमित्यनुषज्जयते । सुखात्मतापन्नं मन इत्यर्थः । न माति न परिच्छिद्यते
। इन्दौ पूर्णचन्द्रे । रसायनममृतम् ॥ ७ ॥
न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलमुत्सृज्य पूर्वमेव विराजते ॥ ८ ॥
इन्द्रजालानि मायिकविक्षेपान् । वासनां तद्धेतुम् । बालानामिव भ्रान्तिप्रसक्तं
चापलमुत्सृज्य पूर्वमनादिसिद्धमात्मसुखमेव विराजते ॥ ८ ॥
एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते नान्यथा ॥ ९ ॥
प्रयोजनप्रपञ्चनस्य प्रस्तुतोपयोगं पुनर्गद्येनोपसंहरति - एवमिति ।
वृत्तयः स्थितयः ॥ ९ ॥
तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेण
नेतरदिति ॥ १० ॥
अन्वेषणं श्रवणमननाभ्यासः । उपासनं निदिध्यासनम् ॥ १० ॥
स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता ।
यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ ११ ॥
एकवाक्यता एकार्थनिष्ठता निश्चयः यस्याधिकारिणः श्रवणादेरभ्यासेन ॥
११ ॥
अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः ।
कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥ १२ ॥
अवहेलितौ शास्त्रतदर्थौ यैः । अवज्ञाता उपेक्षिता महान्तः पूज्या
जनास्तत्त्वज्ञा यैः ॥ १२ ॥
प्। १०३)
न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम् ॥ १३ ॥
किञ्चित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा ।
मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किञ्चन ॥ १४ ॥
दुरधिगमानि शास्त्राणि कथं मौर्ख्यनिवृत्तिः स्यात्तत्राह - किञ्चिदिति ।
ईषद्व्युत्पन्नानामपीत्यर्थः ॥ १४ ॥
इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम् ।
अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना ॥ १५ ॥
यथोचितैर्दृष्टान्तैः । वाक्यार्थः परमात्मा बन्धुः प्रियतमोऽवश्यं
लब्धुमिष्टो यस्य तेन । श्राव्यमवश्यं श्रोतव्यम् ॥ १५ ॥
आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।
तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः ॥ १६ ॥
तुच्छा अधमाः ॥ १६ ॥
वरं शरावहस्तस्य चाण्डालागारवीथिषु ।
भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥ १७ ॥
सर्वदुर्दशाहेत्वपेक्षया एकैका दुर्दशापि वरमित्याह द्वाभ्याम् ॥ १७ ॥
वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम् ।
अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम् ॥ १८ ॥
कोटरेष्वेव वा ॥ १८ ॥
इममालोकमासाद्य मोक्षोपायमयं जनः ।
अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥ १९ ॥
मोहो मूर्च्छा मृत्युद्वारं तल्लक्षणेऽपि तमसि नान्धतामेति
किमन्यत्रेत्यर्थः ॥ १९ ॥
तावन्नयति सङ्कोचं तृष्णा वै मानवाम्बुजम् ।
यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥ २० ॥
ननु तृष्णात्यागे उपायं न पश्यामस्तत्राह - तावदिति ।
मानवमेवाम्बुजं पद्मम् ॥ २० ॥
संसारदुःखमोक्षार्थं [मोक्षोर्थमीदृशैः इति पाठः]
मादृशैः सह बन्धुभिः ।
स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ २१ ॥
ज्ञात्वा विहरेत्युत्तरेणान्वयः ॥ २१ ॥
जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥ २२ ॥
अनन्तानीह दुःखानि सुखं तृणलवोपमम् ।
नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥ २३ ॥
दृष्टिमास्थाम् ॥ २३ ॥
यदनन्तमनायासं तत्पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ २४ ॥
तदात्मतत्त्वं पद्यते प्राप्यते येन तज्ज्ञानं तत्पदं
परमपुरुषार्थसिद्धये साधनीयम् ॥ २४ ॥
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ २५ ॥
न विद्यते उत्तममुत्कृष्टतममन्यद्यस्मात्तथाविधं पदं वस्तु तदालम्बि
॥ २५ ॥
सम्भोगाशनमात्रेण राज्यादिषु सुखेषु ये ।
सन्तुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान् ॥ २६ ॥
दर्दुरान्भेकान् । स हि कूपस्थो न बहिः पश्यति तत्राप्यन्धश्चेत्सुतरामिति
भावः ॥ २६ ॥
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विपत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ २७ ॥
शठेषु वच्चकेषु दुरन्तेषु दुरुच्छेदेषु प्रबलेष्विति यावत् । भक्ताः सक्ता ये ते
यान्तीत्युत्तरेणान्वयः ॥ २७ ॥
ते यान्ति दुर्गमादुर्गं दुःखादुःखं भयाद्भयम् ।
नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥ २८ ॥
दुर्गमात्सङ्कटात् । मन्थरबुद्धयो मन्दबुद्धयः ॥ २८ ॥
परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे [तडित्प्रासरभङ्गुरे
इति पाठः] ॥ २९ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । घटीयन्त्रवदश्रान्तं
भ्रमन्याति पुनः पुनः ॥ इत्यादिवाक्यैः सुखदुःखदशयोः
परस्परविनाशोक्तेरयं कदापि श्रेयसि तिष्ठतीति श्रेयःस्थो विश्रान्तिभाङ्ग
भवति । प्रत्यक्षतोऽपि तयोर्भङ्गुरता प्रसिद्धेत्याह - सुखदुःखेति ॥ २९ ॥
ये विरक्ता महात्मानः सुविविक्ता भवादृशाः ।
पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभाजनान् ॥ ३० ॥
सुविविक्ताः सम्यग्विवेकिनः ॥ ३० ॥
विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः ।
संसारसरितं घोराभिमामापदमुत्तरेत् ॥ ३१ ॥
संसारसरिद्रूपामिमामापदम् ॥ ३१ ॥
न स्वप्तव्यं च संसारमायास्विह विजानत ।
विषमूर्च्छनसम्मोहदायिनीषु विवेकिना ॥ ३२ ॥
विषवन्मूर्च्छनेन समुच्छ्रवेण सम्मोहं कश्मलं दातुं शीलं यासां
तासु संसाराख्यमायासु मिध्यावञ्चनोपायेषु ॥ ३२ ॥
संसारभिममासाद्य यस्तिष्ठत्यवहेलया ।
ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य संस्तरे ॥ ३३ ॥
तार्णस्य तृणविकारय । राहोः शिर इतिवत्संस्तराद्भेदकल्पनया षष्ठी ॥ ३३ ॥
यत्प्राप्य न निवर्तन्ते यदासाद्य न शोचति ।
तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ॥ ३४ ॥
ननु संसारात्परमन्यन्नास्त्येव तत्र किमवलम्ब्य संसारे क्षरति
कार्येस्याशङ्क्याह - यदिति । शेमुषीलभ्यं ज्ञानमात्रेण प्राप्तुं
शक्यमस्त्येव । न नास्ति । तदसत्त्वे जगदान्ध्यप्रसङ्गादात्मापलापायोगाच्चेति
भावः । तथाचोक्तं पुराणेषु - असत्यस्मिन्नगन्नाथे अन्धीभूतमिदं
भवेत् । सूर्येणेव विहीनत्वान्निरालोकं जगद्यथा ॥ इति श्रुतिश्च असन्नेव स
भवति असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः इति ॥ ३४ ॥
नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।
अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ॥ ३५ ॥
सन्दिग्धे परलोकेऽपि वरं श्रुतिपथाश्रयः । यदि न स्यात्तदा किं स्याद्यै
स्यान्नास्तिको हतः ॥ इति न्यायेन सन्दिहानं प्रत्यप्याह - नास्ति चेदिति ।
सन्देहेऽपि महाफलस्योपेक्षानर्हत्वाचेति भावः ॥ ३५ ॥
प्। १०४)
प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्याशु तदा मोक्षभागी स उच्यते ॥ ३६ ॥
तर्हि कथं न सर्वे प्रवर्तन्त इत्याशङ्क्य यावन्नानुग्रहः साक्षाज्जायते
परमेशितुः । तावन्न सद्गुरुं कश्चित्सच्छास्त्रं वापि विन्दति ॥ इति
वचनादीश्वरानुग्रहलभ्यमोक्षभागिताशालिन इव मोक्षसाधने प्रवृत्तिर्न
सर्वेषामित्याह - प्रवृत्तिरिति । प्रवृत्तिफलं लिङ्गानुमेयं
मोक्षभागित्वमिति भावः ॥ ३६ ॥
अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावाद्विद्यते भुवनत्रये ॥ ३७ ॥
ननु देहेन्द्रियविषयशून्यकेवलीभावहेतुना किमनेन शास्त्रेण सत्स्वेव
देहादिषूपायान्तरेणापि स्वर्गादिसुखस्य सम्भवादित्याशङ्क्याह -
अनपायीति । स्वर्गादि अपायपतनाशङ्काऽस्वास्थ्यादिग्रस्तमेवेति केवलीभाव एव
पुरुषार्थ इति भावः ॥ ३७ ॥
तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपजायते ।
न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः ॥ ३८ ॥
तदिति योग्यत्वाद्व्यवहितविचारप्रवृत्तिपरामर्शः । तस्याः प्राप्तौ
सत्यामुत्तमस्य कैवल्यस्य प्राप्तौ क्लेशो नोपजायते । ननु धनादिभिरेव
केवलीभावोऽस्तु किं विचारेण तत्राह - नेति ॥ ३८ ॥
न हस्तपादचलनं न देशान्तरसङ्गमः ।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयाः ॥ ३९ ॥
हस्तपादचलनं कायिकनमस्कारादौ । देशान्तरसङ्गमो यात्रादौ ।
उपवासादौ कायक्लेशेन बलोत्साहनिद्रादिवैधुर्यम् । तीर्थायतनानि क्षेत्राणि
तत्र निवासाः ॥ ३९ ॥
पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन्मनोमात्रजयेनासाद्यते पदम् ॥ ४० ॥
केन तर्हि तत्प्राप्यते तत्राह - पुरुषार्थेति । पुरुषार्थः
श्रवणमनननिदिध्यासनपौरुषं तदेकसाध्येन ।
द्वैतवासनाविरोधिब्रह्माकारदृढवासनाया एकार्थेन तुल्यविषयेण
कर्मणा साध्येन साक्षात्कारेणेत्यर्थः । मनोमात्रस्य द्वैतस्य
मूलोच्छेदलक्षणेन जयेन । यथाहुः - एवं निरन्तरकृता ब्रह्मैवास्मीति
वासना । हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ इति ॥ ४० ॥
विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेणैतदवाप्यते ॥ ४१ ॥
विवेको देहेन्द्रियादेरात्मनः पृथक्करणम् । विचारश्च
श्रवणमनननिदिध्यासनैरसम्भावनादिनिरासः एकान्त ऐकाग्र्यं च
ताभ्यां निश्चेतुं शक्यम् । दुःखजालानि विषयान् ॥ ४१ ॥
सुखसेव्यासनस्थेन तद्विचारयता स्वयम् ।
न शोच्यते पदं प्राप्य न स भूयो हि जायते ॥ ४२ ॥
स प्राप्तपदः ॥ ४२ ॥
तत्समस्तसुखासारसीमान्तं साधवो विदुः ।
तदनुत्तमनिष्पन्दं परमाहू रसायनम् ॥ ४३ ॥
संसारे सारत्वेन प्रसिद्धसुखानामुत्कर्षे इतरेषामसाराणां सत्तस्फूर्त्योः
सीमान्तं परमावधिम् । सुखस्य आसाराणां मेघस्थानीयमवधिमिति वा ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति सा काष्ठा सा परा गतिः
इत्यादिश्रुतेरिति भावः । अनुत्तमा निष्पन्दा आनन्दरसाविर्भावा ध्यानिनां
यस्मात् ॥ ४३ ॥
क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।
सुखं नास्त्येव सलिलं मृततृष्णास्विवैतयोः ॥ ४४ ॥
अतो मनोजयश्चिन्त्यः शमसन्तोषसाधनः ।
अनन्तसमसंयोगस्तस्मादानन्द आप्यते ॥ ४५ ॥
अनन्ते समः संयोग ऐकरस्यलक्षणः ॥ ४५ ॥
तिष्ठता गच्छता चैव पतता भ्रमता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ ४६ ॥
शारीरपरिश्रमो मनुष्याधिकारनियमश्च नास्तीत्याह - तिष्ठतेत्यादिना ॥
४६ ॥
मनः प्रशमनोद्भूतं तत्प्राप्यं परमं सुखम् ।
विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ ४७ ॥
विकासी शमः पुष्पं यस्य उच्चस्योत्कृष्टस्य तरोः कल्पवृक्षस्य फलं
परं सुखम् ॥ ४७ ॥
व्यवहारपरेणापि कार्यवृन्दमविन्दता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते ॥ ४८ ॥
ननु तत्प्राप्तमपि पुनर्व्यवहारप्रसक्तावपैष्यतीत्याशङ्क्याह -
व्यवहारेति । नोज्झ्यते नोत्सृज्यते पूर्णत्वेनाहेयत्वादत एव न वाञ्छयते ॥ ४८
॥
मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम् ।
अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ ४९ ॥
सति मनसि कथं न वाञ्छा स्यात्तत्राह - मन इति ॥ ४९ ॥
मोक्षद्वारे द्वारपालानिमाञ्छृणु यथाक्रमम् ।
येषामेकतमासक्त्या मोक्षद्वारं प्रविश्यते ॥ ५० ॥
प्रागनुक्रान्तानपि [एकादशसर्गे मोक्षद्वारे द्वारपाला इत्यादिना]
विस्तरेण वर्ण्यमानाच्छृणु ॥ ५० ॥
सुखदोषदशादीर्घा संसारमरुमण्डली ।
जन्तोः शीतलतामेति शीररश्मेः समप्रभा ॥ ५१ ॥
तत्रासर्गसमाप्तेः शमं प्रस्तोतुमुपक्रमते - सुखेति । सुखशब्देन
तदाशा लक्ष्यते । सैवाध्वगस्य तृषातापसमा दोषदशा तया दीर्घा
दुरतिक्रमा शीतलतामेति शमेनेत्यपकृष्यते । समप्रभा प्रभासमा ।
पदव्यत्यासश्छान्दसः । यथा चन्द्रस्य स्वीया प्रभा तद्वत् ।
शीतरश्मिसमप्रभेति पाठे स्पष्टम् ॥ ५१ ॥
शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।
शमः शिवः शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥ ५२ ॥
हि यस्माच्छमेन श्रेय आसाद्यते अत
आयुर्घृतमितिवदमेदोपचारात्तत्परमं पदं तद्विष्णोः परमं पदम् इति
श्रुतिप्रसिद्धं [प्रसिद्धः इति पाठः] शम एव । एवं न सन्न
चासञ्छिव एव केवलः इति श्रुतिप्रसिद्धः शिवोऽपि शम एव । एवं तरति
शोकमात्मवित् इत्यादिश्रुतिसिद्धा सर्वदुःखोपशान्तिरपि शम एवेत्यर्थः ॥ ५२ ॥
पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमभूषितचित्तस्य शत्रुरप्येति मित्रताम् ॥ ५३ ॥
रागद्वेषाद्यतापितत्वाच्छीतलो निर्मोहत्वादच्छतरश्च आत्मा विज्ञानात्मा
यस्य ॥ ५३ ॥
प्। १०५)
शमचन्द्रमसा येषामाशयः समलङ्कृतं ।
क्षीरोदानामिवोदेति तेषां परमशुद्धता ॥ ५४ ॥
आशयश्चित्तम् । ज्ञाक़्नलब्धा स्वाभाविकशुद्धता शमेन
द्विगुणीभवन्तीवाभिवर्धत इव । यथा क्षीरोदानां शुभ्रता
चन्द्रोदयेनेत्यर्थः ॥ ५४ ॥
हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।
सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥ ५५ ॥
कुशेशयं पद्मम् । हरेः समा हरिणा तुल्याः । हरेर्हृत्पद्मस्यैव
बहिर्ब्रह्मासनपद्मतया द्वैधीभावादिति भावः ॥ ५५ ॥
शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।
ते कुलीनेन्दवो वन्द्याः सौन्दर्यविजितेन्द्रियाः ॥ ५६ ॥
कुलीनाः सत्कुलास्त एवेन्दवः स्वपरकुलोद्योतपापोपशमहेतुत्वात् । विजितेन्दव इति
पाठे स्पष्टम् । पाठान्तरे तु सौन्दर्येण गुणैर्विजितानि वशीकृतानि
परेषामपि चक्षुर्मनः प्रभृतीनीन्द्रियाणि यैः ॥ ५६ ॥
त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसम्पत्प्रतिमा यथा [यथाश्रम इति पाठः]
शमविभूतयः ॥ ५७ ॥
साम्राज्यसम्पत्प्रतिमेवाकारमात्रेण सदृशी यासां नतु गुणान्तरैरित्यर्थः
॥ ५७ ॥
यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।
तत्सर्वं शान्तचेतःसु तमोऽर्केष्विव नश्यति ॥ ५८ ॥
तत्सर्वमिति नपुंसकमनपुंसकेन इत्येकशेषैकवद्भावः ॥ ५८ ॥
मनो हि सर्वभूतानां प्रसादमधिगच्छति [मनुगच्छति इति
पाठः] ।
न तथेन्दोर्यथा शान्ते जने जनितकौतुकम् ॥ ५९ ॥
इन्दोश्चन्द्रान्निमित्तभूतात् । विषयस्यापि निमित्तत्वविवक्षया पञ्चमी । जनितं
कौतुकं स्वात्मानुभवचमत्कारो यस्मिंस्तथाभूतं सद्यथा
प्रसादमधिगच्छतीति सम्बन्धः ॥ ५९ ॥
शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयमेव प्रसीदति ॥ ६० ॥
स्वयमेवेत्यनायासोक्तिः ॥ ६० ॥
मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ६१ ॥
विषमाणि क्रूरकुटिलाशयानि । मृदूनि तद्विपरीतानि ॥ ६१ ॥
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखमवाप्नोति शमेनान्तर्यथा मनः ॥ ६२ ॥
इन्द्रपदे अमृतरसायनपानेन । विष्णुपदे लक्ष्म्यालिङ्गनेन ॥ ६२ ॥
सर्वाधिव्याधिचलितं [व्याधिवलितम्] क्रान्तं तृष्णावरत्रया ।
मनः शमामृतासेकैः समाश्वासय राघव ॥ ६३ ॥
चलितं भीषणेन कम्पितम् । वरत्रया चर्मरज्ज्वाक्रान्तमितस्तत आकृष्टम् ।
श्रान्तमिति यावत् ॥ ६३ ॥
यत्करोषि यदश्नासि शमशीतलया धिया ।
तत्रातिस्वदते स्वादु [साधु इति पाठः] नेतरत्तात मानसे ॥ ६४ ॥
स्वादु मधुरं यथा स्यात्तथा तत्र तत् मानसेऽतिस्वदते रोचते ॥ ६४ ॥
शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् ।
छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ ६५ ॥
निर्वृतिं सुखम् । तया निर्वृत्या । रोहन्ति पुनः प्रादुर्भवन्ति । मन्ये
इत्युत्प्रेक्षा ॥ ६५ ॥
न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम् ॥ ६६ ॥
सुसन्नद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥ ६७ ॥
सुसन्नद्धानि सम्यग्गुप्तानि समस्तान्यङ्गानि यस्य तम् । अमृतरूपेण
वर्मणा कवचेन । वेधयन्ति पीडयन्ति । दुःखानि दुःखनिमित्तानि ॥ ६७ ॥
न तथा शोभते राजा अप्यन्तःपुरसंस्थितः ।
समया स्वच्छया बुद्ध्या यथोपशमशीलया ॥ ६८ ॥
यथा पुरुष इति शेषः ॥ ६८ ॥
प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः ।
यामायाति जनः शान्तिमवलोक्य शमाशयम् ॥ ६९ ॥
जनस्तां तुष्टिं नैतीत्यर्थः । शमयुक्तः आशयो यस्य तम् ॥ ६९ ॥
समया शमशालिन्या वृत्त्या यः साधु वर्तते ।
अभिनन्दितया लोके जीवतीह स नेतरः ॥ ७० ॥
जीवति सफलजीवनो भवति ॥ ७० ॥
अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् ।
तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥ ७१ ॥
अनुद्धतं विनीतं मनो यस्य साधुः [साधुसम्मतः इति पाठः]
शान्तो यत्प्रमादादपराधमपीति यावत् ॥ ७१ ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा [स्नात्वा इति
पाठः] शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ७२ ॥
इदानीं दाम्भिकसात्त्विकपरीक्षणाय शान्तलक्षणान्याह - श्रुत्वेत्यादिना ।
शुभाशुभं प्रियाप्रियम् ॥ ७२ ॥
यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ ७३ ॥
भाविसुखादि न काङ्क्षति प्रारब्धप्रापितं च नोज्झति ॥ ७३ ॥
स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः ।
दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते ॥ ७४ ॥
आर्जवमपि तल्लक्षणमित्याह - स्पृष्ट्वेति । स्पृष्ट्वा ज्ञात्वापि
परकौटिल्यादीनीति शेषः । मोक्षोपायतया कर्तव्यानि कार्याणि ॥ ७४ ॥
तुषारकरबिम्बाभं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ७५ ॥
मरणोत्सवयुद्धेषु भयरागक्रोधैर्निराकुलमसन्तप्तमत एव
तुषारकरश्चन्द्रस्तद्बिम्बाभम् ॥ ७५ ॥
स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।
यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते ॥ ७६ ॥
हर्षकोपनिमित्तवत्प्रदेशे स्थितोऽपि ॥ ७६ ॥
अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ ७७ ॥
अमृतस्यन्दोऽमृतप्रवाह इव सुभगा सुखदा ॥ ७७ ॥
प्। १०६)
योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।
व्यवहारी न सम्मूढः स शान्त इति कथ्यते ॥ ७८ ॥
भावेषु विषयेषु व्यवहारी सन्नपि न मज्जति नासज्जते ॥ ७८ ॥
अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि ।
तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते ॥ ७९ ॥
महत्सु चिरकालिकेषु । तुच्छे मिथ्याभूते नश्वरे देहादौ यस्याहमिति मनो
नास्ति ॥ ७९ ॥
आकाशसदृशी यस्य पुंसः संव्यवहारिणः ।
कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥ ८० ॥
परमाकाशेन ब्रह्मणा सदृशी समरसा प्रसिद्धाकाशवदविकार्या वा ।
कलङ्कं रागादिलेपम् ॥ ८० ॥
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ८१ ॥
लोकेऽपि सर्वगुनश्रैष्ठ्येन शमः प्रसिद्ध इत्याह - तपस्विष्विति ॥ ८१ ॥
शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः ॥ ८२ ॥
सीमान्तो [सीमन्तः इति पाठः] गुणपूगानां
पौरुषैकान्तभूषणम् ।
सङ्कटेषु भयस्थाने शमः श्रीमान्विराजते ॥ ८३ ॥
गुणानां पूगानां समूहानां सीमान्तोऽवधिः । एकान्तभूषणं
मुख्यभूषणम् । श्रीमान् सर्वगुणसम्पत्तिमान् शमो विराजते ॥ ८३ ॥
शमममृतमहार्यमार्यगुप्तं
परमवलम्ब्य परं पदं प्रयाताः ।
रघुतनय यथा महानुभावाः
क्रममनुपालय सिद्धये तमेव ॥ ८४ ॥
अहार्यं परैरपहर्तुमशक्यमार्यैः पूज्यैर्गुप्तं सावधानतया रक्षितं
परमुत्कृष्टं साधनमवलम्ब्य महानुभावा यथा येन क्रमेण परं
पदं प्रयाताः प्राप्तास्तमेव क्रममनुपालय अवलम्ब्य रक्षस्वेत्यर्थः ॥ ८४
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
शमनिरूपणं नाम त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
शमनिरूपणं नाम त्रयोदशः सर्गः ॥ १३ ॥