१२

द्वादशः सर्गः १२

श्रीवसिष्ठ उवाच ॥

परिपूर्णमना मान्यः प्रष्टुं जानासि राघव ।
वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् ॥ १ ॥

अनर्थता भवगतेर्ज्ञानमाहात्म्यमुत्तमम् ।
रामे च प्रच्छकगुणसमृद्धिरिह वर्ण्यते ॥ १ ॥

अन्येषामपि विवेकवैराग्यदार्ढ्याय संसारगतेरनर्थरूपतां
ज्ञानमाहात्म्यं च विवक्षुस्तत्प्ररोचनाय न केवलं त्वयि सविकासा बुद्धिरेव
अपित्वन्येऽपि बहवो गुणाः प्रच्छकलक्षणं च समग्रमस्तीति प्रशंसनेन
रामं प्रोत्साहयन् श्रीवसिष्ठ उवाच - परिपूर्णमना इति ।
उक्तवक्ष्यमाणैर्गुणैः परिपूर्णं मनो यस्य । उक्तं च सामान्योक्तिसूचितमपि
वेत्सि विशिष्यावधारयसि ॥ १ ॥

प्। १००)

रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् ।
मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव ॥ २ ॥

रजसा मतेश्चापलं स्यात्तमसा त्वावरणमतस्तद्रहितामत एव
शुद्धसत्त्वगुणे परमात्मनि चानुपातिनीम् । आत्मनि संस्थाप्य स्वस्थीकृत्य ।
स्थिर उद्युक्तः ॥ २ ॥

विद्यते त्वयि सर्वैव प्रच्छकस्य गुणावली ।
वक्तुर्गुणाश्चैव [गुणावली च मयि इति मुद्रितपुस्तके पाठः] मयि
रत्नश्रीर्जलधौ यथा ॥ ३ ॥

रत्नानां श्रीः सम्पत् रत्नसहिता श्रीर्लक्ष्मीश्च ॥ ३ ॥

आप्तवानसि वैराग्यं विवेकासङ्गजं सुत ।
चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥ ४ ॥

शिष्यांश्च पुत्रवत्पश्येत् इति न्यायात्सुतेति सम्बोधनम् । आर्द्रत्वं सद्रवताम् ।
लग्नश्चन्द्रकराणामुतकरो यस्मिन् ॥ ४ ॥

चिरमाशैशवादेव तवाभ्यासोऽस्ति सद्गुणैः ।
शुद्धैः शुद्धस्य दीर्घैश्च पद्मस्येवातिसन्ततैः ॥ ५ ॥

अभ्यासः परिशीलनम् । सम्बन्ध इति यावत् । शुद्धस्य तव । दीर्घैः
सर्वदिक्प्रसृतैः । सन्ततैरविच्छिन्नैः । पद्मपक्षे गुणैस्तन्तुभिः
सौरभ्यादिभिश्च ॥ ५ ॥

अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् ।
न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥ ६ ॥

भाजनं श्रवणफलप्रबोधाधारः । शुद्धा शुभ्रा । सविकासा
चन्द्रकृतप्रबोधाधारः । यथा चन्द्र एव कुमुद्वती सविकासा तथेयं कथा
त्वय्येव सविकासेति वार्थः ॥ ६ ॥

ये केचन समारम्भा याश्च काश्चन दृष्टयः ।
ते च ताश्च पदे दृष्टे निःशेषं यान्ति वै शमम् ॥ ७ ॥

नन्वस्य कथाश्रवणसमारम्भस्य कोऽवधिरिति
चेत्परमपददर्शनविश्रान्तिरेवेत्यभिप्रेत्याह - ये केचनेति । ते सर्वे
समारम्भास्ताः सर्वाः प्रमाणप्रमेयदृष्टयः । नन्विह पुमान्त्रिया
इत्येकशेषेण भाव्यम् न हि द्वन्द्व इवैकशेषो वैकल्पिक इति चेत्सत्यम् ।तथापि
महाभाष्याद्यभियुक्तप्रयोगेष्वेकशेषवृत्तेः
स्वपदविग्रहवाक्यप्रयोगदर्शनाददोषः ॥ ७ ॥

यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः ।
तदस्यां संसृतौ साधुश्चिन्तामौढ्यं सहेत कः ॥ ८ ॥

उक्तविश्रान्तावनाश्वासं वारयति - यदीति । साधुर्विवेकी कः सहेत ।
तदसहनात्त्वरितं [त्वमिह देह इति पाठः] देहत्यागोद्युक्तः स्यादिति
भावः ॥ ८ ॥

परं प्राप्य विलीयन्ते सर्वा मननवृत्तयः ।
कल्पान्तार्कगणासङ्गात्कुलशैलशिला इव ॥ ९ ॥

न केवलं बाह्यदृष्टय एव विलीयन्तेऽपि तु मानसा [मानस्योऽपीति
पाठः] अपीत्याह - परमिति । तथाच श्रुतिः - भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे
परावरे इति । दृष्टान्तपक्षे हिरण्यगर्भस्यायुरन्तम् ॥ ९ ॥

दुःसहा राम संसारविषावेशविषूचिका ।
योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥ १० ॥

लोके विषसम्बन्धादपि विषूचिका प्रसिद्धा । योगो जीवस्य ब्रह्मैक्यबोधः स एव
गारुडमन्त्रस्तेन । पावनेन विषशोधनेन ॥ १० ॥

स च योगः सज्जनेन सह शास्त्रविचारणात् ।
परमार्थज्ञानमन्त्रो नूनं लभ्यत एव च ॥ ११ ॥

सज्जनेन गुरुसतीर्थ्यादिना सह । चकारात्फलति च ॥ ११ ॥

अवश्यमिह हि विचारे कृते सकलदुःखपरिक्षयो भवतीति मन्तव्यं नातो
विचारदृष्टयोऽवहेलया द्रष्टव्याः ॥ १२ ॥

पद्योक्तमर्थं गद्यैः प्रपञ्चयति - अवश्यमित्यादिना ।
इहास्मिन्नधिकारिजन्मनि अवश्यं भवतीत्यन्वयः । अवहेलया अनादरेण न
द्रष्टव्याः ॥ १२ ॥

विचारवता [विचारवशतः इति पाठः] पुरुषेण
सकलमिदमाधिपञ्जरं [मायिपञ्जरं इति पाठः] सर्पेण
त्वचमिव परिपक्वां सन्त्यज्य विगतज्वरेण शीतलान्तःकरणेन
विनोदादिन्द्रजालमिव जगदखिलमालोक्यते सम्यग्दर्शनवता
असम्यगदर्शनवतो हि परं दुःखमिदम् ॥ १३ ॥

विचारवता सम्यग्दर्शनवता अत एव शीतलान्तःकरणेन पुरुषेण । वशतः इति
पाठे तु विचारस्य वशोऽपरोक्षबोधस्ततः । सर्पेण परिपक्वां जीर्णां
त्वचमिव सर्वमाधिपञ्जरं सन्त्यज्याखिलमिदं जगदिन्द्रजालमिव कौतुकं
सुखरूपमवलोक्यते । परमित्यवधारणे निपातः । परमुत्कृष्टं दुःखमिति
वा ॥ १३ ॥

विषमो ह्यतितरां संसाररागो [संसारोरग इति पाठः] भोगीव
दशति असिरिव च्छिनत्ति कुन्त इव वेधयति रज्जुरिवावेष्टयति पावक इएव
दहति रात्रिरिवान्धयति अशङ्कितपरिपतितपुरुषान्पाषाण इव विवशीकरोति
हरति प्रज्ञां नाशयति स्थितिं पातयति मोहान्धकूपे तृष्णा
जर्जरीकरोति न तदस्ति किञ्चिद्दुःखं संसारी यन्न प्राप्नोति ॥ १४ ॥

प्रतिज्ञातं वैषम्यमेव दृष्टान्तैः प्रपञ्चयति - भोगीवेत्यादिना ।
मोहान्धकूपे इत्यन्ते सर्वत्र संसाररागस्यैव [रोगस्यैव इति पाठः]
कर्तृत्वेनान्वयः । विवशीकरोतीत्यन्ते सर्वत्र अशङ्कितपरिपतितपुरुषानित्यस्य
कर्मतयान्वयः । अशङ्कितमनाशङ्कितमनर्थशङ्कां विनैव
मोहाद्विषयेषु परिपतितान्पुरुषानिति तदर्थः । शिरसि पतितः पाषाण इव
विवशीकरोति मूर्च्छयति । प्रज्ञां विवेकदृष्टिम् । स्थितिं मर्यादाम् । पातयति
पुरुषानित्यनुषज्जते । मोहलक्षणे अन्धकार युक्तकूपे । अन्धकूपो नरकविशेषो
वा । जर्जरीकरोत्यभिषवेण सोममिव शिथिलीकरोति पुरुषानित्येव । किं
बहुनेत्येकोक्त्याप्याह - न तदस्तीति ॥ १४ ॥

प्। १०१)

दुरन्तेयं किल विषयविषूचिका यदि न चिकित्स्यते तन्नितरां
नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति ॥ १५ ॥

नरकाणां मलमूत्रादीनां नगराणीव शरीराणि तेषां निकरः
स्वस्वजनपोष्यवर्गादिसमूहस्तत्रानुरागेण पुरुषमनुबध्नाति
[मूलानुरोधेनैतट्टीकायोजनं विचारणीयम्] तच्छीला विषयलक्षणा
विषूचिका यदि न चिकित्स्यते तत्तर्हि नितरां तत्तद्वक्ष्यमाणं
नरकदुर्दशासहस्रं करोति ॥ १५ ॥

यत्र शिलाशितासिशातः पात उपलताडनमग्निदाहो
हिमावसेकोऽङ्गावकर्तनं चन्दनचर्चातरुवनानि
घुणवृत्तान्तःपरिवेषोऽङ्गपरिमार्जनमनवरतानलविचलितसमरनार्
आचनिपातो निदाघविनोदनं धारागृहसीकरवर्षणं शिरश्छेदः
सुखनिद्रामूकीकरणमाननमुद्राबान्धुर्यं महानुपचयः ॥ १६ ॥

यत्र शिलाशिता पाषाणभक्षकता । असिभिः शातः खण्डनम् । पातः
पर्वताग्रेभ्यः पातनम् । उपलघनैस्ताडनम् । अग्निना दाहः । हिमेनावसेकः
सदा आर्द्रता । अङ्गानामकर्तनं छेदनं कुठाकर्तर्यादिभिः ।
चन्दनकाष्ठस्येव चर्चा घर्षणं शिलाफलकेषु । असिपत्रतरूणां वनानि
तेषु धावनमिति यावत् । घुणाः काष्ठान्तःकीटकास्तेषामिव वृत्तान्तः
सर्वाङ्गे काष्ठयन्त्रनिपीडनम् । परिवेषस्तप्तायःकटकशृङ्खलाभिः
परितो वेष्टनम् । अङ्गानां कण्टकमार्जनीभिः परिमार्जनं निस्त्वचनमिति
यावत् । अनवरतमनलविचलितान्यग्निज्वालानिःसरणानि येभ्यस्तथाविधानां
समरनाराचानां युद्धप्रक्षिप्तबाणानां धारावदविच्छेदेन निपतनं
निपातः । निदाघस्य ग्रीष्मकालस्य विनोदोऽतिवाहनम् । विनैव
च्छायापानीयाभ्यामिति शेषः । तथा शिशिरे धारागृहेषु सीकरवर्षणम् ।
शिरसञ्च्छिन्नप्ररूढस्य पुनःपुनश्छेदः । सुखनिद्राविषये तु
मूकीकरणं वार्तापि नास्तीत्यर्थः । आननस्य मुद्रा पिधानेन
निरुच्छ्वासत्वापादनम् । बान्धुर्यं निम्नोन्नतभावोऽङ्गानाम् ।
विसंष्ठुलत्वाद्व्यवहाराक्षमतेति यावत् । पर्वतवन्महानुपचयो
देहस्यैकैकाङ्गस्य वेत्यर्थः । अथवा यत्र शिलाशितादिचतुष्टयं
हिमावसेकवत्सोढव्यम् । अङ्गावकर्तनं चन्दनलेपवत् ।
तरुवनादित्रयमङ्गपरिमार्जनवद्देहसंस्कारवत् ।
विशिष्टशरधारानिपातस्तु निदाघविनोदनार्थधारागृहसीकरवर्षणवत् ।
शिरश्छेदप्रयुक्तं मरणं सुखनिद्रावत् । मुखपिधानेन
बलान्मूकीकरणं च सहजवृत्त्या आननमुद्रावत् बान्धुर्य च
महासम्पदुपचयवदवश्यं सोढव्यमित्यर्थः ॥ १६ ॥

तदेवंविधकष्टचेष्टासहस्रदारुणे संसारचलयन्त्रेऽस्मिन् राघव
नावहेलना कर्तव्या अवश्यमेवं विचारणीयमेवं चावबोद्धव्यं यथा
किल शास्त्रविचाराच्छ्रेयो भवतीति ॥ १७ ॥

दुःखस्थानानामानन्त्याद्दिक्प्रदर्शनमात्रं ह्येतदिति
प्रदर्श्योपसंहरंस्तद्वर्णनस्य प्रकृतोपयोगमाह - तदेवमिति ।
चलैर्नश्वरैर्देहैर्यन्त्रणं यन्त्रं सङ्कोचः परिच्छेदः पारवश्यं च
तस्मिन् । एवं वक्ष्यमाणरीत्या । तमेवाह - यथेति ॥ १७ ॥

अन्यच्च रघुकुलेन्दो यदि चैते महामुनयो महर्षयश्च विप्राश्च
राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्ते कथमदुःखक्षमा अपि
दुःखकरीं तां तां वृत्तिपूर्विकां संसारकदर्थनामनुभवन्तः
सततमेव मुदितमनसस्तिष्ठन्ति ॥ १८ ॥

ननु कथं शास्त्रविचाराच्छ्रेयो भवतीति निश्चयस्तत्पराणामपि
माण्डव्यादीनां दुर्दशासहस्रदर्शनादित्याशङ्कां परिहरन्विद्याया
दृष्टफलतां दर्शयति-अन्यच्चेति । ज्ञानकवचेनावगुण्ठितशरीरा अत
एवादुःखार्हा अप्येते पूर्वोक्तमुन्यादयोऽज्ञवन्मनोवृत्तिपूर्विकां
दुःखकरीं तां तां संसारकदर्थन्नामनुभवन्तस्तिष्ठन्तीति यदि मन्यसे
तर्हि ते कथं सततमेव मुदितमनसस्तिष्ठन्तीत्येवमन्वयः । मुनयो
ध्यानपराः । ऋषयो मन्त्रजपपराः । विप्राः कर्मपराः । राजानो
जनकादयः ॥ १८ ॥

इह हि ।

विकौतुका विगतविकल्पविप्लवा
यथा स्थिता हरिहरपद्मजादयः ।
नरोत्तमाः समधिगतात्मदीपका-
स्तथा स्थिता जगति विशुद्धबुद्धयः ॥ १९ ॥

इह हीत्यस्य देहलीदीपन्यायेन पूर्वत्रोत्तरश्लोके चान्वयः । तर्हि कीदृशी तेषां
स्थितिस्तामाह - विकौतुका इति । अपूर्वविषयदर्शनोपभोगोत्साहः कौतुकं
तद्रहिताः । विकल्पैर्विप्लवो विक्षेपस्तद्रहिताः ॥ १९ ॥

परिक्षीणे मोहे विगलति [विगलितघने इति पाठः] घने ज्ञानजलदे
परिज्ञाते तत्त्वे समधिगत आत्मन्यतितते ।
विचार्यार्यैः सार्धं चलितवपुषो वै सदृशतो
धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २० ॥

यदि ब्रह्मादिदेववदेते पूर्णकामास्तर्हि कथं तेषां
संसारेष्वटनदर्शनमित्याशङ्कां परिहरन्
विचारादेर्जीवन्मुक्तिविहरणफलतां दर्शयति - परिक्षीणे इति ।
आर्यैर्गुर्वादिभिः सार्धं विचार्य पदार्थपरिशोधने
सदृशतस्तादात्म्याध्यासप्रसक्तात्मसादृश्याच्चलितान्यनात्मभावेन
निरस्तानि वपूंषि स्थूलादिशरीराणि येन तस्याधिकारिणः प्रथमं
वाक्यात्तत्त्वे परिज्ञाते मननेन च अतितते अपरिच्छिन्ने आत्मनि
सम्यगसम्भावनानिरासेनाधिगते । धिया निदिध्यासननिरस्तविपरीतभावनया
बुद्ध्या च तस्य भावस्तत्त्वं ब्रह्मभावस्तस्मिन्दृष्टे साक्षात्कृते सति
मोहे परिक्षीणे तत्कार्यनिबिडभ्रान्तिज्ञानमेधे च विगलति सतीदं
जागतमटनं भ्रमणं रमणं क्रीडनमेव न पीडनमित्यर्थः ॥ २० ॥

प्। १०२)

अन्यच्च राघव ।

प्रसन्ने चित्तत्त्वे हृदि शमभवे वल्गति परे
शमाभोगीभूतास्वखिलकलनादृष्टिषु पुरः ।
समं याति स्वान्तःकरणघटनास्वादितरसं
धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २१ ॥

रमणत्वमेवोपपादयति - प्रसन्ने इति । चित्तत्त्वे चैतन्यमात्रस्वभावे
परमार्थवस्तुनि प्रसन्ने सति परे उत्कृष्टे शमभवे शान्त्याविर्भावे वल्गति
प्राप्ते अखिलकलनादृष्टिषु समस्तबुद्धिवृत्तिषु शमाभोगीभूतासु
शान्तिरसास्वादरूपासु सतीषु [प्रतीतिषु इति पाठः]
स्वान्तःकरणघटना आस्वादितब्रह्मरसं यथा स्यात्तथा समं
वैषम्यशून्यस्वभावं याति गच्छति । अतो युक्तं रमणत्वमित्यर्थः ॥ २१ ॥

अन्यच्च ।

रथः स्थाणुर्देहस्तुरगरचना चेन्द्रियगतिः
परिस्पन्दो वातो वहनकलितानन्दविषयः ।
परोऽणुर्वा देही जगति विहरामीत्यनघया
धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २२ ॥

आत्मानं रथिनं विद्धि शरीरं रथमेव तु इत्यादिरूपकदृष्ट्या वा
रमणमुपपन्नमित्याह - रथ इति । स्थाणुश्छिन्नतरुरिवाचेतनो देहो रथः
इन्द्रियाणां विषयाभिमुखी गतिस्तुरगाणां रचनागतिचातुरी परितः
स्पन्दश्चालनं येन स प्रग्रहो वातः प्राणप्रधानं मनः
अर्थाद्रथादिभिर्वहनेन प्रापणेन कलिताः प्राप्ता आनन्दरूपा विषया येन
तथाविधो देही आत्मा समाधौ परः परमात्मैव व्यवहारकाले
बुद्ध्युपाधिपरिच्छेदादणुः सूक्ष्मो वा रथीति शेषः । एवम्भूतोऽहं जगति
विहरामीति धियापि रमणमेवेत्यर्थः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः ॥ १२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः ॥ १२ ॥