एकादशः सर्गः ११
श्रीवसिष्ठ उवाच ॥
एतत्ते कथितं सर्वं ज्ञानावतरणं भुवि ।
मया स्वमीहितं चैव कमलोद्भवचेष्टितम् ॥ १ ॥
ज्ञानावतारविस्तारो राम वराग्यसंस्तवः ।
वकृत्प्रच्छकलक्ष्मादि प्राधान्येनात्र वर्ण्यते ॥ १ ॥
पुनर्विस्तरेण ज्ञानावतारप्रकारं वक्तृप्रच्छकलक्षणं च
वर्णयिष्यंस्तदवतारायोक्तमुपसंहरति - एतदिति । मम
एतावज्ज्ञानावतरणं स्वं स्वीयं ईहितं जन्मादि चेष्टितं कमलोद्भवस्य
मत्पितुश्चेष्टितं चैव ते कथितमित्यन्वयः ॥ १ ॥
तदिदं परमं ज्ञानं श्रोतुमद्य [श्रोतु मम इति पाठः]
तवानघ ।
भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ॥ २ ॥
सुकृतोदयात्पुण्यपरिपाकात् ॥ २ ॥
श्रीराम उवाच ॥
कथं ब्रह्मन्भवतो लोके ज्ञानावतारणे ।
सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥ ३ ॥
तादृशसुकृतोदयः कीदृग्विधलक्षणैः परिज्ञेयः कीदृशाश्च
तल्लक्ष्यवस्तूपदेशप्रकार इति प्राक्तनकथाविस्तरश्रवणमुखेन जिज्ञासुः
श्रीराम उवाच - कथमिति । कथं केन प्रकारेण । तं प्रकारं विस्तरेण
वर्णयेत्यर्थः ॥ ३ ॥
श्रीवसिष्ठ उवाच ॥
परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।
जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ॥ ४ ॥
स्वस्य भावः प्राक्तनविद्याकर्मवासनाप्रचयस्तद्वशतः । स्वयमेव
तदनुरूपोपाध्यात्मा जातः । स्पन्दमयः क्रियाशक्तिप्रचुरः । नित्यमभीक्ष्णम्
॥ ४ ॥
दृष्ट्वैवमातुरं सर्गं सर्गस्य सकलां गतिम् ।
भूतभव्यभविष्यस्थां ददर्श परमेश्वरः ॥ ५ ॥
स च भुवनभूतग्रामसर्गानन्तरं सर्गं सृष्टजनमेवं
जन्मरजामृत्युनरकादिप्रकारेण स्वाज्ञानवशादातुरं दुःखितं
दृष्ट्वा तद्दृष्टान्तेनैव भूतभव्यभविष्यत्कालस्थामपि सर्गस्य सकलां
गतिं ददर्श ॥ ५ ॥
सक्रियाक्रमकालस्य कृतादेः क्षय आगते ।
मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः ॥ ६ ॥
विशेषेण च स्वर्गापवर्गसाधनानुष्ठानयोग्यकालस्य कृतयुगादेः क्षये
आगते लोकस्य भाविनं मोहमालोच्य ॥ ६ ॥
ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चसकृत् ।
विससर्ज महीपीठं लोकस्याज्ञानशान्तये ॥ ७ ॥
असकृदुपदेशेन ज्ञानेनायोज्य संयोज्य ॥ ७ ॥
यथाहं प्रहितस्तेन तथान्ये च महर्षयः ।
सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ॥ ८ ॥
क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।
मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः ॥ ९ ॥
क्रिया कर्म तदुपदेशक्रमेण । चादुपासनोपदेशक्रमेण । मनश्च
मोहोऽज्ञानं च तावेव वा तद्युक्तो वा आमयः संसाररोगस्तेनोन्नद्धं
बद्धं वशीकृतमिति यावत् । ईरिताः प्रेरिताः ॥ ९ ॥
महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा ।
क्रमात्क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥ १० ॥
महर्षिभिर्भूपालाः परिकल्पिता इत्युत्तरेणान्वयः । शुद्धे वैदिके
रागलोभाद्यनुपहते वा ॥ १० ॥
क्रियाक्रमविधानार्थं मर्यादानियमाय च ।
पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥ ११ ॥
विधानार्थं प्रवर्तनार्थम् ॥ ११ ॥
प्। ९७)
बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।
धर्मकामार्थसिद्ध्यर्थं कल्पितान्युचितान्यथ ॥ १२ ॥
अथ राजकल्पनानन्तरं राज्ञां प्रजानां च स्वस्वधर्मनियमनोचितानि
स्मृतिशास्त्राणि कल्पितानि ॥ १२ ॥
कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे ।
प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥ १३ ॥
भोजनग्रहणं भोगमात्रस्योपलक्षणं शालिग्रहणं च विषयमात्रस्य ॥ १३
॥
द्वन्द्वानि सम्प्रवृत्तानि विषयार्थं महीभुजाम् ।
दण्ड्यतां सम्प्रयातानि भूतानि भुवि भूरिशः ॥ १४ ॥
द्वन्द्वानि लक्षणया तन्निष्ठानि वैराणि । विषयार्थं देशार्थं भोग्यार्थ
वा । यद्वा द्वन्द्वानि शीतोष्णादीनि । विषयार्थं
तत्परिहारोपायविषयसम्पादनार्थम् । ततश्च
विषयसिद्धेर्धनमलत्वाद्धनार्थं भूतानि परभूजुजां दण्ड्यतां
दण्डनीयतां सम्प्रयातानि ॥ १४ ॥
ततो युद्धं विना भूपा महीं पालयितुं क्षमाः ।
न समर्थास्तदा याताः प्रजाभिः सह दैन्यताम् ॥ १५ ॥
पूर्व क्षमाः समर्था अपि ततस्तदनन्तरं न समर्थाः सन्तो दीना एव
दैन्यास्तद्भावं याताः । देहे आत्मताबुद्ध्या युद्धादौ देहनाशे
आत्मनाशभयादित्यर्थः ॥ १५ ॥
तेषां दैन्यापनोदार्थं सम्यग्दृष्टिक्रमाय च ।
ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥ १६ ॥
सम्यग्दृष्टिरात्मतत्त्वज्ञानं तस्य क्रमणं क्रमो लोके प्रचारस्तस्मै ॥ १६ ॥
अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता ।
तदनु प्रसृता लोके राजविद्येत्युदाहृता ॥ १७ ॥
तेनोक्तहेतुना । राजविद्येत्युदाहृता व्यासादिभिः ॥ १७ ॥
राजविद्या राजगुह्यमध्यात्मज्ञानमुत्तमम् ।
ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥ १८ ॥
अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु ।
अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ ॥ १९ ॥
तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् ।
निर्निमित्तमिदं चारु वैराग्यमरिमर्दन ॥ २० ॥
अतिप्रसन्ने अत्यन्तं निर्मले । निर्निमित्तं श्मशानमापदं दैन्यमिति
वक्ष्यमाणदृष्टनिमित्तरहितम् ॥ २० ॥
सर्वस्यैव हि सर्वस्य साधोरपि विवेकिनः ।
निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥ २१ ॥
सर्वस्य विवेकिनः पुरुषसार्थस्य [पुरुषार्थस्य इति क्वाचित्कः पाठः]
मध्ये साधोरुत्तमत्वेन प्रसिद्धस्यापि सर्वस्य बहुतरजनस्य सर्वस्य
विषयस्य सम्बन्धीति वा । रजोगुणकार्यदृष्टदुःखानुभवनिमित्तमत एव
राजसम् ॥ २१ ॥
इदं त्वपूर्वमुत्पन्नं चमत्कारकरं सताम् ।
तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥ २२ ॥
सत्त्वात्सुखं च ज्ञानं चेत्यादिस्मृतेर्विवेकज्ञानमात्रजत्वात्सात्त्विकम् ॥ २२ ॥
बीभत्सं विषयं दृष्ट्वा को नाम न विरज्यते ।
सतामुत्तमवैराग्यं विवेकादेव जायते ॥ २३ ॥
उक्तमेव व्यनक्ति - बीभत्समिति ॥ २३ ॥
ते महान्तो महाप्राज्ञा निमित्तेन विनैव हि ।
वैराग्यं जायते येषां तेषां ह्यमलमानसम् ॥ २४ ॥
स्वविवेकचमत्कारपरामर्शविरक्तया ।
राजते हि धिया जन्तुर्युवेव वरमालया ॥ २५ ॥
स्वविवेकवशादेव यश्चमत्कारपरामर्शस्तत्त्वाभिमुख्यं
तेनेतरविषयेभ्यो विरक्तया ॥ २५ ॥
परामृश्य विवेकेन संसाररचनाभिमाम् ।
वैराग्यं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥ २६ ॥
स्वविवेकवशादेव विचार्येदं पुनः पुनः ।
इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥ २७ ॥
इदं दृश्यजातमिन्द्रजालमिवेन्द्रजालम् । मायिकमिति यावत् । न बाह्यमेव
किन्तु बाह्यसहितमाभ्यन्तरं देहेन्द्रियप्राणमनोबुद्ध्यविद्यान्तमपि ॥ २७ ॥
श्मशानमापदं दैन्यं दृष्ट्वा को न विरज्यते ।
तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते ॥ २८ ॥
अकृत्रिमविरागत्वं महत्त्वमलमागतः ।
योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ॥ २९ ॥
अलमत्यन्तमागतः प्राप्तवान् ॥ ज्ञानानां विद्यानां सार आत्मविद्या तस्य ॥ २९
॥
प्रसादात्परमेशस्य नाथस्य परमात्मनः ।
त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति ॥ ३० ॥
तपःप्रभावाद्देवप्रसादाच्च । यस्य देवे परा भक्तिः ईश्वरानुग्रहादेव
पुंसामद्वैतवासना । प्रसादादेव रुद्रस्य भवानिसहितस्य तु ॥
अभ्यात्मविषयं ज्ञानं जायते बहुजन्मभिः ॥
इत्यादिश्रुतिस्मृत्याद्यनुसरन्नाह - प्रसादादिति ॥ ३० ॥
क्रियाक्रमेण महता तपसा नियमेन च ।
दानेन तीर्थयात्राभिश्चिरकालं विवेकतः ॥ ३१ ॥
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन
इत्यादिश्रुतिमनुसृत्याह - क्रियाक्रमेणेति । क्रियाक्रमश्च
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपन
यनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां
यज्ञानामनुष्ठानमष्टका [देवमनुष्यभूतब्रह्मणामेतेषां च इति
पाठः] पार्वणं श्राद्धं श्रावण्याग्रयणी चैत्र्याश्वयुजीति सप्त
पाकसंस्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ
चातुर्मास्यन्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त
हविर्यज्ञसंस्थाः अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोलशी वाजपेयोऽतिरात्र
आप्तोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्कारा
अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो
माङ्गल्यमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा
अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यं प्राप्नोतीति गौतमस्मृतौ
दर्शितः । नियमेनेन्द्रियप्राणमनोनियमनेन ॥ ३१ ॥
दुष्कृते क्षयमापन्ने परमार्थविचारणे ।
काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते ॥ ३२ ॥
काकागमनमिव तालपतनमिव सम्पन्नेन योगेन साधनसमूहमेलनेन ।
समासाच्च तद्विषयात् इत्युपमानविषयात्समासादुपमानान्तरे छः । तथाच
ब्रह्मजिज्ञासाप्रयोजकविचारोदय एव दुर्लभ इति भावः ॥ ३२ ॥
प्। ९८)
क्रिअयापरास्तावदलं चक्रावर्तिभिरावृताः ।
भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् ॥ ३३ ॥
तत्कुतः । यावत्परं पदं न पश्यन्ति तावच्चक्रभिवावर्तयन्ति भ्रामयन्ति
पुरुषं तच्छीलै रागादिभिरावृताः सन्तः
सर्वेऽप्यैहिकामुष्मिकभोगसाधनक्रियापरा एवेह संसारे भ्रमन्ति ।
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनेव नीयमाना यथान्धाः
इत्यादिश्रुतेरिति भावः ॥ ३३ ॥
यथाभूतमिदं दृष्ट्वा संसारं तन्मयीं धियम् ।
परित्यज्य परं यान्ति निरालाना गजा इव ॥ ३४ ॥
यथाभूतं यथास्थितं परमार्थभूतमित्यर्थः । इदं नित्यापरोक्षं
ब्रह्मतत्त्वं परं च तदेव । यद्वा । इदं दृश्यजातं यथाभूतं
परमार्थतः असदसारं दुःखभूतं विवेकबुद्ध्या दृष्ट्वेत्यर्थः । परं
ब्रह्म यान्ति ज्ञानेन प्राप्नुवन्ति । आलानं बन्धनस्तम्भस्तस्मान्निर्गताः ॥ ३४
॥
विषमेयमनन्तेह राम संसारसंसृतिः ।
देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति ॥ ३५ ॥
देहेन तादात्म्याध्यासाद्युक्त एकीभूत इव मिलितः । अत एव महानपि जन्तुः
कृमिकीटादिप्रायः ॥ ३५ ॥
ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।
महाधियः समुत्तीर्णा निमेषेण रधूद्वह ॥ ३६ ॥
महाधियो विवेकिनः ॥ ३६ ॥
तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् ।
शृणुष्वावहितो बुद्ध्या नित्यावहितया तया ॥ ३७ ॥
नित्यमवहितया विचाराभ्यासपरया । तया विवेकवैराग्यादिसम्पत्त्या
प्रसिद्धया बुद्ध्या । अवहित एकाग्रः सन् ॥ ३७ ॥
यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः ।
चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम् ॥ ३८ ॥
संरम्भो विक्षेपवेगः । वाचो वेगं मनसः क्रोधवेगं
जिह्वावेगमुदरोपस्थवेगम् इत्यादिप्रसिद्धः ॥ ३८ ॥
शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।
ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु ॥ ३९ ॥
आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।
दुःख्चिन्ता नरं मूढं तृणमग्निशिखा इव ॥ ४० ॥
प्राज्ञं विज्ञातविज्ञेयं सम्यगदर्शनमाधयः ।
न दहन्ति वनं वर्षासिक्तमग्निशिखा इव ॥ ४१ ॥
विज्ञातानि विज्ञेयानि विचार्य ज्ञातुं योग्यान्यध्यात्मशास्त्राणि येन अत एव
सम्यगदर्शनं ब्रह्म तत्त्वसाक्षात्कारो यस्य तम् । आधयो मानसव्यथाः ॥
४१ ॥
आधिव्याधिपरावर्ते संसारमरुमारुते ।
क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥ ४२ ॥
आधिव्याधय एव परा उत्कृष्टा आवर्ताश्चक्रवाता यस्मिन्संसाररूपे
मरुदेशप्रसिद्धे मारुते क्षुभिते सञ्चलितेऽपि भज्यते आमर्द्यते पीड्यते
इत्यर्थः ॥ ४२ ॥
तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता ।
प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ॥ ४३ ॥
यत्नादुपगमनप्रणिपातसेवादिप्रयत्नात् । प्रामाणिकः
श्रुत्यादिप्रमाणकुशलः ॥ ४३ ॥
प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः ।
यतेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ॥ ४४ ॥
यथा कुङ्कुमद्रवे रञ्जनाय निमज्जितेनांशुकेन वस्त्रेण कुङ्कुमं
तद्भावानुरञ्जनेनानपायि गृह्यते तद्वद्ग्राह्यम् ॥ ४४ ॥
अतत्त्वज्ञमनादेयवचनं वाग्विदां वर ।
यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ॥ ४५ ॥
तदर्थं वकृत्प्रच्छकलक्षणं विवक्षुरपरीक्षकं निन्दति -
अतत्त्वज्ञमिति । न आदेयं ग्राह्यं वचनं यस्य ॥ ४५ ॥
प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।
नानुतिष्ठति यो वाक्यं नान्यस्तस्मान्नराधमः ॥ ४६ ॥
अज्ञतातज्ज्ञते पूर्वं वक्तुर्निर्णीय कार्यतः ।
यः करोति नरः प्रश्नं प्रच्छकः स महामतिः ॥ ४७ ॥
कार्यतो व्यवहारलिङ्गतः ॥ ४७ ॥
अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।
अधमः प्रच्छकः स स्यान्न महार्थस्य भाजनम् ॥ ४८ ॥
परीक्षणेन प्रकृष्टवक्तारमनिर्णीय । बालो मूर्खः ॥ ४८ ॥
पूर्वापरसमाधानक्षमबुद्धावनिन्दिते ।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥ ४९ ॥
पूर्वापरयोरुक्तानुक्तयोः समाधाने विविच्यावधारणे क्षमा समर्था
बुद्धिर्यस्य ॥ ४९ ॥
प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च ।
यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम् ॥ ५० ॥
एवमपरीक्ष्य वक्तारमपि निन्दति - प्रामाणिकेति ॥ ५० ॥
त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन ।
अहं च वक्तुं जानामि समो योगोऽयमावयोः ॥ ५१ ॥
वक्तृप्रच्छकलक्षणोक्तेः प्रकृतोपयोगं दर्शयति - त्वमिति ॥ ५१ ॥
यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद ।
एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ॥ ५२ ॥
महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ ।
त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके ॥ ५३ ॥
कुलेन गुणैः सदाचारादिभिश्च महान् ॥ ५३ ॥
उक्तावधानपरमा परमार्थविवेचिनी ।
विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभाः ॥ ५४ ॥
मेधाप्रतिभाशालिनीत्वं विशेषणद्वयेन लभ्यते । अर्कभाः सूर्यप्रभा ॥ ५४
॥
यद्यद्वच्मि तदादेयं हृदि कार्यं प्रयत्नतः ।
नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥ ५५ ॥
आदरदृढीकरणायाह - यद्यदिति । प्रयत्नतश्चिराभ्यासादिप्रयत्नेन ॥ ५५
॥
मनो हि चपलं राम संसारवनमर्कटम् ।
संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥ ५६ ॥
प्रयत्नान्तरमप्याह - मन इति ॥ ५६ ॥
प्। ९९)
अविवेकिनमज्ञानमसज्जनरतिं जनम् ।
चिरं दूरतरे कृत्वा पूजनीया हि साधवः ॥ ५७ ॥
तत्र प्रथमोपदेष्टव्यार्थमाह - अविवेकिनमिति । न विद्यते ज्ञानं
शास्त्रोत्थं यस्य तम् । दूरतरे अतिदूरे ॥ ५७ ॥
नित्यं सज्जनसम्पर्काद्विवेक उपजायते ।
विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ ॥ ५८ ॥
तत्फलमाह - नित्यमिति ॥ ५८ ॥
मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।
शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ ५९ ॥
एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा ।
द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा ॥ ६० ॥
अशक्तौ त्रयस्तदशक्तौ द्वौ वा ॥ ६० ॥
एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।
एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः ॥ ६१ ॥
प्राणांस्त्यक्त्वेत्यादरणीयत्वातिशयोक्तिः ॥ ६१ ॥
सविवेको हि शास्त्रस्य ज्ञानस्य तपमः श्रुतेः ।
भाजनं भूषणाकारो भास्करस्तेजसामिव ॥ ६२ ॥
विवेकेन सहितः सविवेकः पुरुषः शास्त्रस्य श्रुतेः श्रवणस्य
तपसस्तदर्थालोचनस्य च भाजनं योग्यः । भूषणाकारः शिरोभूषणमिव
श्रैष्ठ्येनादरणीयः [श्रेष्ठो इति पाठः] । तेजसां मध्ये भास्कर
इव ॥ ६२ ॥
घनतामुपयातं हि प्रज्ञामान्द्यमचेतसाम् ।
याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ॥ ६३ ॥
प्रज्ञामान्द्यं मौर्ख्यम् । घनतामभेद्यताम् । स्थावरतामद्रवतां
काठिन्यमिति यावत् । जाड्याच्छीतातिशयात् । प्रसिद्धं हीदं हिमकरकादौ ॥ ६३ ॥
त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।
विकासितान्तःकरणः स्थितः पद्म इवोदये ॥ ६४ ॥
उन्मुखीकरणाय पुना रामं प्रशंसति - त्वं त्विति ॥ ६४ ॥
इमां ज्ञानगिरं श्रोतुमवबोद्धुं च सन्मते ।
अर्हस्युद्धतकर्णस्त्वं जन्तुर्वीणास्वनं यथा ॥ ६५ ॥
अवबोद्धुं मन्तुम् । उद्धतौ ऊर्ध्वीकृतौ कर्णौ येन तथाविधो
जन्तुर्भृगादिरिव ॥ ६५ ॥
वैराग्याभ्यासयोगेन समसौजन्यसम्पदाम् [शमसौजन्य] ।
अर्जनां कुरुतां राम यत्र नाशो न विद्यते ॥ ६६ ॥
सुजनानां धर्मः सौजन्यं विनयादि तद्रूपाणां सम्पदाम् ॥ ६६ ॥
शास्त्रसज्जनसंसर्गपूर्वकैः सतपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ६७ ॥
प्रज्ञां विवेकग्रहणधारणपटीयसीं बुद्धिं ॥ ६७ ॥
एतदेवास्य मौर्ख्यस्य परमं विद्धि नाशनम् ।
यदिदं प्रेक्ष्यते शास्त्रं किञ्चित्संस्कृतया धिया ॥ ६८ ॥
तद्वृद्धावप्येतद्ग्रन्थपरिशीलनमेवोपाय इत्यभिप्रेत्याह - एतदिति ॥ ६८ ॥
संसारविषवृक्षोऽयमेकमास्पदमापदाम् ।
अज्ञं सम्मोहयेन्नित्यं मौर्ख्यं यत्नेन नाशयेत् ॥ ६९ ॥
आस्पदं प्रतिष्ठा । यतः सम्मोहयेत्तस्मादिति शेषः । मौर्ख्यमज्ञानम् ॥ ६९
॥
दुराशासर्पगत्येन मौर्ख्येण हृदि वल्गता ।
चेतः सङ्कोचमायाति चर्माग्नाविव योजितम् ॥ ७० ॥
दुराशया सर्पगतिं कुटिलगतिं वहतीति सर्पगत्येन हृदि हृद्गतेन
[हृद्गते प्रतीचि इति पाठः] प्रतीचि वल्गता विक्षेपसहस्रात्मना चलता ।
चेतो बुद्धिश्चिदात्मा वा । सङ्कोचं सङ्कुचितपद्मवदप्रसन्नताम् ।
मालिन्यमिति यावत् ॥ ७० ॥
प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।
दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ॥ ७१ ॥
क्व तर्हि प्रसीदति तमाह - प्राज्ञे इति । इयं प्रागुक्ता वस्तु परमार्थरूपं
दृश्यते यया सा वस्तुदृष्टिः सूक्ष्मबुद्धिः । दृश्यते त्वग्र्यया बुद्ध्या
सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुतेः । यथार्थभूता
यथार्थवस्त्वैकरस्यमापन्ना । अथवा वस्तुभूता दृष्टिश्चिदात्मा प्राज्ञे
उपदेष्टरि सति प्रसीदत्यज्ञानमालिन्यमपास्य स्फुरति ॥ ७१ ॥
पूर्वापरविचारार्थचारुचातुर्यशालिनी ।
सविकाल्सा मतिर्यस्य स पुमानिह कथ्यते ॥ ७२ ॥
मतिविकासलक्षणमाचक्षाणस्तद्वन्तं प्रशंसति - पूर्वेति ।
पूर्वपरविचारेण सूक्ष्मतमार्थग्रहणपटीयसी चातुर्येण च शोभमाना
मतिः सविकासेत्यर्थः । पुमान् पुरुषार्थसम्पादनेन
सार्थकीकृतपुञ्जन्मेत्यर्थः ॥ ७२ ॥
विकसितेन सितेन तमोमुचा
वरविचारणशीतलरोचिषा ।
गुणवता हृदयेन विराजसे
त्वममलेन नभः शशिना यथा ॥ ७३ ॥
स्वमतिस्तर्हि सविकासा न वेति सन्दिहानं राममाश्वासयन्नाह -
विकसितेनेति । तमोऽज्ञानं मुञ्चता अत एव सितेन स्वच्छेन गुणवता
शान्त्यादिगुणशालिना हृदयेन प्रागुक्तबुद्ध्या त्वं विराजसे ॥ ७३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
वक्तृप्रच्छकलक्षणं नामैकादशः सर्गः ॥ ११ ॥
इति श्रीवासिष्ठमहारामायणतार्पर्यप्रकाशेमुमुक्षुव्यवहारप्रकरणे
वक्तृप्रच्छकलक्षणं नामैकदशः सर्गः ॥ ११ ॥