१०

दशमः सर्गः १०

श्रीवसिष्ठ उवाच

यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते ।
सा विनेतुर्विनेतृत्वं सा विनेयविनेयता ॥ १ ॥

धातुः स्वस्य च जन्मात्र समस्तजनमुक्तये ।
स्वोपदेश इति प्रोक्तो ज्ञानावतरणक्रमः ॥ १ ॥

नन्वस्तु दैवं नाम प्राक्तनं पौरुषमेवेति तदाधुनिकेन शुभाचरणेन
जय्यम् नियतिस्तु दुर्जयैव । या हि कृतान्तस्य कान्तेति वर्णिता वैराग्यप्रकरणे
तां हि भाविपदार्थानामवश्यम्भावलक्षणां
भवितव्यतापरपर्यायामप्रतीकार्यामाहुरभियुक्ताः -
अवश्यम्भाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्न
लिप्येरन्नलरामयुधिष्ठिराः ॥ इति । तथाच तन्नियम्यत्वेऽपि पुरुषस्य न
स्वातन्त्र्यमिति शङ्कापरिजिहीर्षुः श्रीवसिष्ठ उवाच - यथास्थितमिति ।
ब्रह्मतत्त्वं यथास्थितं सच्चिदानन्दस्वप्रकाशात्मना सर्वत्र समतया
सर्वानुकूल्येन स्थितं तत्सम्बन्धिनी सर्वपदार्थानां सत्तैव
भविष्यत्कालसम्बन्धेन व्यपदिश्यमाना भवितव्यताख्या नियतिरुच्यते । सत्ता
च स सर्वत्र यथास्थितं ब्रह्मतत्त्वम् । तदेव हि
कारणकार्ययोर्नियामकनियम्यरूपेणावतिष्ठते । कारणे सत्यवश्यं
कार्येण भाव्यं कार्ये सत्यवश्यं कारणेन भाव्यमिति नियतिर्नियमः । सा च
विनेतुर्नियन्तुः कारणादेर्विनेतृत्वं कार्यादिनियामकत्वम् । विनेयस्य
नियम्यस्य च कार्यादेर्विनेयता नियम्यता । नियतपूर्वकालसत्ताकारणता
नियतपश्चात्कालसत्ताकार्यतेति
तयोर्देशकालविशेषितसत्तामात्ररूपत्वादित्यर्थः । पूर्वोक्तनियतिरपि
सर्वकारणभूतब्रह्मसत्तारूपकालशक्तिरिति भावः ॥ १ ॥

अतः परुषमाश्रित्य श्रेयसे नित्यबान्धवम् ।
एकाग्रं कुरु तच्चित्तं शृणु चोक्तमिदं मम ॥ २ ॥

अतः सर्वानुकूलब्रह्मसत्तारूपत्वात्पौरुषसाफल्येऽप्यनुकूलैव नियतिर्न
प्रतिकूलेत्यत उक्तं वचनं वक्ष्यमाणमिदमेकाग्रकरणोपायबोधकं
प्रथमं तदेव वचनमाह - पौरुषमित्यादिना ॥ २ ॥

अवान्तरनिपातीनि स्वारूढानि मनोरथम् ।
पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय ॥ ३ ॥

इन्द्रियाणि मनोरथं विषयाभिलाषं स्वारूढानि सन्ति अवान्तरे मुक्तेरर्वाक्तने
ऐहिकस्वर्गादिसुखे निपातनशीलानि [निपतन इति पाठ] भवन्त्यतस्तानि
यथा मनोरथं नारोहन्ति तथा पौरुषेण प्रयत्नेन संयम्य मनः समतां
नयेत्यर्थः ॥ ३ ॥

इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।
मोक्षोपायमयीं वक्ष्ये संहितां सारनिर्मिताम् ॥ ४ ॥

तदनन्तरं यत्कार्यं तदाह - इहेत्यादिना । इह सिद्धिर्जीवन्मुक्तता अमुत्र
सिद्धिर्विदेहमुक्तता । इह मनुष्यलोके अमुत्र स्वर्गादिलोकेषु चाधिकारिणां
ज्ञानसिद्ध्यर्थमिति वा । मोक्षोपायमयीं मोक्षसाधनोपदेशप्रचुराम् ।
यां संहितां वक्ष्ये तां स्वीकुर्विति शेषः ॥ ४ ॥

अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् ।
सम्पूर्णौ शमसन्तोषावादायोदारया धिया ॥ ५ ॥

तच्छ्रवणे मन्दविरक्तस्यापि नाधिकार इति द्यतनायापुनर्ग्रहणायेति ।
शमसन्तोषौ शान्तिवतृष्ण्यसुखे ॥ ५ ॥

सपूर्वापरवाक्यार्थविचारविषयाहृतम् ।
मनः समरसं कृत्वा सानुसन्धानमात्मनि ॥ ६ ॥

कर्मकाण्डश्रुतयः पूर्ववाक्यानि । उपासनापरश्रुतय उत्तरवाक्यानि ।
अर्थविचारो ज्ञानसाधकत्वम् । पूर्वापरवाक्यार्थविचारसहितं च
तद्विषयैरहतं चेति विग्रहः । आत्मनि सानुसन्धानं समरसं
गुरुशास्त्रोपदिष्टप्रकारस्य स्वानुभवस्य चैकरस्यापादनसहितमिति यावत् ॥ ६

सुखदुःखक्षयकरं महानन्दैककारणम् ।
मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु ॥ ७ ॥

इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः ।
परं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥ ८ ॥

अविवेकिनां श्रवणशालाप्रवेशम्पि वारयितुं सर्वैर्विवेकिभिरित्युक्तिः ॥ ८ ॥

इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।
सर्वदुःखक्षयकरं परमाश्वासनं धियः ॥ ९ ॥

इत्थं साङ्गं श्रवणमवतार्य श्रोतव्यशास्त्रादेरसिद्धये [शास्त्रादेः
सिद्धये इति पाठः] तदवतारप्रकारं विवक्षुराह - इदमिति । पुराकल्पे
कल्पादौ ॥ ९ ॥

श्रीराम उवाच ।

केनोक्तं कारणेनेदं ब्रह्मन्पूर्वं स्वयम्भुवा ।
कथं च भवता प्राप्तमेतत्कथय मे प्रभो ॥ १० ॥

वसिष्ठाभिप्रायानुरूपं जिज्ञासुः श्रीराम उवाच - केनेति ॥ १० ॥

श्रीवसिष्ठ उवाच ।

अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।
चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु ॥ ११ ॥

तत्रादौ परमेष्ठिनो जन्म वक्तुं तन्मूलकारणमाह - अस्तीति । अनन्तानां
मायिकविलासानामधिष्ठानभूत आत्मा अस्ति । सर्वगः सर्वान्तरः
सर्वसंश्रयः सर्वाधार इति तस्य मायातत्कार्यातिरेकद्योतनायोक्तम् ।
सर्वजन्तुषु प्रदीप इति प्रत्यक्चिद्रूपत्वेन [प्रत्यक्त्वेन इति पाठः]
नित्यापरोक्षतालाभाय ॥ ११ ॥

स्पन्दास्पन्दसमाकारात्त्ततो विष्णुरजायत ।
स्यन्दमानरसापूरात्तरङ्गः सागरादिव ॥ १२ ॥

मायातत्कार्याणां स्पन्दे अस्पन्दे च सम एक आकारः स्वभावो यस्य
तस्मान्निर्विकारादित्यर्थः । विष्णुः सर्वकार्यव्यापनशीलो ब्रह्माण्डात्मा
विराट् सूक्ष्मभूतसृष्टिक्रमेणाजायत । स्यन्दमानस्य रसस्य जलस्य
आपूरात्स्पन्दास्पन्दयोरप्यप्रच्युतजलैकस्वभावात्सागरात्तरङ्ग इव । अनेन
निर्विकाराज्जगदुत्पत्तिर्विवर्तरूपैव न परिणाम इति ध्वन्यते ॥ १२ ॥

प्। ९५)

सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् ।
तारकाकेसरवतः परमेष्ठी व्यजायत ॥ १३ ॥

तस्य विराजः सुमेरुः कर्णिका यस्य दिशो दलानि यस्य तादृशात्तरकाकेसरवतो
हृदयाम्बुजात् ॥ १३ ॥

वेदवेदार्थविद्देवमुनिमण्डलमण्डितः ।
सोऽसृजत्सकलं सर्वं विकल्पौघं यथा मनः ॥ १४ ॥

देवानां मुनीनां च मण्डलैः समूहैः । सर्गं प्राणिनिकायम् ॥ १४ ॥

जम्बूद्विपस्य कोणेऽस्मिन्वर्षे भारतनामनि ।
ससर्ज जनसर्गौघं ह्याधिव्याधिपरिप्लुतम् ॥ १५ ॥

भावाभावविषण्णाङ्गमुत्पातध्वंसतत्परम् ।
सर्गेऽस्मिन्भूतजातीनां [सर्वभूतानां इति पाठः]
नानाव्यसनसङ्कुलम् ॥ १६ ॥

भावाभावौ लाभालाभौ ताभ्यां विषण्णमङ्गं मनो यस्य ।
उत्पत्तिरुत्पातस्तत्सन्निहितो ध्वंसो मरणं तत्र तत्परम् । अल्पजीवितमिति यावत् ।
एतस्मिन्भूतजातीनां सर्गे नानाविधैर्विषयभोगव्यसनैः सङ्कुलं जनस्य
दुःखं दृष्ट्वेत्युत्तरत्रान्वयः ॥ १६ ॥

जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत् ।
जगाम करुणामीशः पुत्रदुःखात्पिता यथा ॥ १७ ॥

ईशस्तद्दुःखनिवारणसमर्थः ॥ १७ ॥

क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।
स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये ॥ १८ ॥

अन्तयति नाशयतीत्यन्तः क उपायः स्यादिति चिन्तयामास ॥ १८ ॥

इति सञ्चिन्त्य भगवान्ससर्ज स्वयमीश्वरः ।
तपो धर्मं च दानं च सत्यं तीर्थानिच् चैव हि ॥ १९ ॥

प्रथमं शुद्धिसाधनसर्गमाह - इतीति ॥ १९ ॥

एतत्सृट्वा पुनर्देवश्चिन्तयामास भूतकृत् ।
पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् ॥ २० ॥

सर्गस्य सृष्टेः सम्बन्धिनां पुंसां । स्वसृष्टानामिति यावत् । अन्तो मूलतो
निवृत्तिः ॥ २० ॥

निर्वाणं नाम परमं सुखं येन पुनर्जनः ।
न जायते न म्रियते तज्ज्ञानादेव लभ्यते ॥ २१ ॥

जनो जीवः पुनर्न जायते न म्रियते तन्निर्वाणम् ॥ २१ ॥

संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि ।
तपो दानं तथा तीर्थमनुपायाः प्रकीर्तिताः ॥ २२ ॥

अनुपाया असाधनानि प्रकीर्तिताः न कर्मणा न प्रजया धनेन प्लवा ह्येते
अदृढा यज्ञरूपाः इत्यादिश्रुतिषु ॥ २२ ॥

तत्तावद्दुःखमोक्षार्थे जनस्यास्य हतात्मनः [महात्मनः इति
पाठः] ।
प्रत्यग्रं तरणोपायमाशु प्रकटयाम्यहम् ॥ २३ ॥

प्रत्यग्रं नवम् । दृढमिति यावत् ॥ २३ ॥

इति सञ्चिन्त्य भगवान्ब्रह्मा कमलसंस्थितः ।
मनसा परिसङ्कल्प्य मामुत्पादितवानिमम् ॥ २४ ॥

इमं त्वत्पुरःस्थं माम् ॥ २४ ॥

कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः ।
पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ [मूर्तिरूर्मेः इति
पाठः] ॥ २५ ॥

कुतोऽपि अनिर्वचनीयमायावशादेवोपाध्युत्पत्त्योत्पन्नः सन्नाशु समुपस्थितः
पितुः पितरमित्यर्थः ॥ २५ ॥

कमण्डलुधरो नाथः सकमण्डलुना मया ।
साक्षमालः साक्षमालं स प्रण्म्याभिवादितः ॥ २६ ॥

साक्षमालं यथा स्यात्तथा प्रणम्य नम्रीभूयाभिवादितो नमस्कृतः ॥ २६ ॥

एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले ।
शुक्लाभ्र इव शीतांशुं योजयामास पाणिना ॥ २७ ॥

योजयामास संयोजयामास । उपवेशितवानिति यावत् ॥ २७ ॥

मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।
मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा ॥ २८ ॥

मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।
अज्ञानमभ्याविशतु शशः शशधरं यथा ॥ २९ ॥

वानरजातिरिव चञ्चलं चापलहेतुरज्ञानं कर्तृ ते चेतः कर्म अभ्याविशतु
प्रविशतु । शशः कलङ्कः ॥ २९ ॥

इति तेनाशु शप्तः सन्विचारसमनन्तरम् ।
अहं विस्मृतवान्सर्वं स्वरूपममलं किल ॥ ३० ॥

विचारः परमेष्ठिनः सङ्कल्पस्तत्समनन्तरम् । सर्वं पूर्णम् । किलेत्याश्चर्ये
॥ ३० ॥

अथाहं दीनतां यातः स्थितोऽसम्बुद्धया धिया ।
दुःखशोकाभिसन्तप्तो जातो जन इवाधनः ॥ ३१ ॥

दीनतां अपहृतधन इव कार्पण्यम् ॥ ३१ ॥

कष्टं संसारनामायं दोषः कथमिहागतः ।
इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥ ३२ ॥

तृष्णीं निर्व्यापारो व्यवस्थितः ॥ ३२ ॥

अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि ।
दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ ३३ ॥

दुःखमुपहन्तीति दुःखोपघात उपायस्तम् । कर्मण्यण् ॥ ३३ ॥

ततः पृष्टः स भगवान्मया सकललोककृत् ।
हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ ३४ ॥

कथं नाथ महादुःखमयः संसार आगतः ।
कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे ॥ ३५ ॥

तेन मे प्रोक्तमित्युत्तरेणान्वयः ॥ ३५ ॥

तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् ।
अहं पितुरभिप्रायः किलाधिक इव स्थितः ॥ ३६ ॥

पितुरधिकः सर्वोत्कृष्टोऽभिप्रायस्तत्त्वावबोध इव निर्मलः
परिपूर्णस्वभावः स्थितः । किलेत्याश्चर्ये ॥ ३६ ॥

ततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् ।
स उवाच जगत्कर्ता वक्ता सकलकारणं ॥ ३७ ॥

स वक्ता उपदेष्टा पिता मामुवाच ॥ ३७ ॥

शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः ।
पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥ ३८ ॥

समस्तानामधिकारिजनानां ज्ञानसिद्धये ॥ ३८ ॥

प्। ९६)

इदानीं शान्तशापस्त्वं परं बोधमुपागतः ।
संस्थितोऽहमिवैकात्माऽकनकं कनकादिवत् ॥ ३९ ॥

यथा कनकं चिरं मालिन्यसंसर्गादकनकभावमिवापन्नं पुनः
शोधनेनादिकास्थितशुद्धकनकभावेनावतिष्ठते तद्वत् ॥ ३९ ॥

गच्छेदानीं महीपृष्ठे जम्बूद्विपान्तरस्थितम् ।
साधो भरतवर्षं त्वं लोकानुग्रहहेतुना ॥ ४० ॥

फलमपि प्राग्बुद्ध्युपारूढं [रूढक्रियाहेतुः इति पाठः]
क्रियाहेतुरिति हेतुनेत्युच्यते ॥ ४० ॥

तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया ।
उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिना ॥ ४१ ॥

तत्रेति । न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् इति न्यायादिति भावः ॥
४१ ॥

विरक्तचित्ताश्च तथा महाप्राज्ञा विचारिणः ।
उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ॥ ४२ ॥

महाप्राज्ञाः सूक्ष्मार्थग्रहणपटवः विचारिणो विमर्शशीलाः ॥ ४२ ॥

इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।
इह राघव तिष्ठामि यावद्भूतपरम्परा ॥ ४३ ॥

भूतपरम्परा अधिकारिजनप्रवाहो यावत्स्थास्यति तावत् ॥ ४३ ॥

कर्तव्यमस्ति न ममेह हि किञ्चिदेव
स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।
संशान्तया सततसुप्तधियेह वृत्त्या
कार्यं करोमि न च किञ्चिदहं करोमि ॥ ४४ ॥

कर्तव्यं क्रियाप्रयोजनम् । मनोऽतिक्रान्तोऽतिमना निर्मनस्कः । अत एव सततं
सुप्तेव निरभिमाना धीर्यस्यां तया वृत्त्या कार्यं यथाप्राप्तानुवर्तनं
करोमि । अथवा संशान्तया वृत्त्या स्थितोऽहं सततसुप्ता अज्ञास्तेषां धिया
कार्यं करोति स्वधिया तु न किञ्चित्करोमित्यर्थः ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
ज्ञानावतरणं नाम दशमः सर्गः ॥ १० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
ज्ञानावतरणं नाम दशमः सर्गः ॥ १० ॥