०९

नवमः सर्गः ९

श्रीराम उवाच ॥

भगवन्सर्वधर्मज्ञ प्रतिष्ठामलमागतम् ।
यल्लोके तद्वद ब्रह्मन्दैवं नाम किमुच्यते ॥ १ ॥

दैवापलापसिद्ध्यर्थं मनोमान्त्रत्वमुच्यते ।
कर्मणः सफलस्यान्न मनसश्च चिदात्मता ॥ १ ॥

पूर्व पौरुषस्वातन्त्र्यसिद्धये क्वचिद्दैवमसदेव नास्त्येवेत्यपलपितम् ।
क्वचित्तु प्राक्तनप्रयत्नजन्यकरैव दैवं पौरुषमेव वा दैवमित्युक्तम् । तत्र
प्रथमकल्पे दृढतरलोकवेदप्रसिद्धेर्निरालम्बनत्वापत्तिमसति दुर्बले
[दुर्बले तत्सापेक्ष इति पाठः] तत्सापेक्षपौरुषप्राबल्योक्तिविरोधं च
द्वितीये तु असद्दैवमिति प्रतिज्ञानुपपत्तिमाधुनिकप्रवृत्तीनामपि
पूर्वकर्मफलतया तदनुगुणतयैवोत्पत्तौ तद्विरोधित्वाभावेन
ताभिस्तज्जयोक्तिविरोधं तत्पारतन्त्र्येऽपि पुरुषस्वातन्त्र्यविघातं चाक्षेप्स्यामीति
गूढाभिसन्धिः श्रीरामस्तदर्थ गुरोः कतरस्मिन्कल्पे निर्भर इति
जिज्ञासुरुवाच - भगवन्निति । प्रतिष्ठां प्रसिद्धिमलमत्यन्तमागतं
प्राप्तं यद्दैवं तत्किमसदुत सदेवेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ॥

पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥ २ ॥

एवं पृष्टो ज्ञातरामाभिप्रायः श्रीवसिष्ठोऽपि दैवापलापोपपत्त्यैव
जगदपलापेनाद्वितीयमात्मतत्त्वं बुबोधयिषुः कल्पयोः फलतो नास्ति भेद इति
गूढाभिप्रायः । प्रथमकल्पमेवावलम्ब्योक्तमेवोवाच - पौरुषमिति ।
वस्तुत उदासीनत्वादात्मनो न कर्तृत्वं न वा भोक्तृत्वमिति द्योतनाय
करणेऽपि पौरुषे तत्कर्तृताव्यपदेशः ॥ २ ॥

दैवं न किञ्चित्कुरुते न भुङ्क्ते न च विद्यते ।
न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥ ३ ॥

विवेकिभिर्नाद्रियते । कल्पनानिरूढभ्रान्तिर्लोकानामित्यर्थः ॥ ३ ॥

सिद्धस्य पौरुषेणेह फलस्य फलशालिना ।
शुभाशुभार्थसम्पत्तिर्दैवशब्देन कथ्यते ॥ ४ ॥

निरालम्बनत्वानुपपत्तिं परिहरति - सिद्धस्येति । फलशालिना अवश्यं
फलवता पौरुषेण सिद्धस्य वनितापिण्डादेर्भर्तृसपत्न्यादिभिः
शुभाशुभं यत्प्राप्यते तदेवालम्ब्य दैवमिति व्यवह्रियत इत्यर्थः ॥ ४ ॥

पौरुषोपनता नित्यमिष्टानिष्टस्य वस्तुनः ।
प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ॥ ५ ॥

प्रथममिष्टस्य पश्चादनिष्टापि प्राप्तिर्भवति कदाचित्प्रथममनिष्ठस्य
पश्चादिष्टापीति तथोक्तिः कथ्यते । लोकैरिति शेषः ॥ ५ ॥

भावी [भावी पौरुषजः] त्ववश्यमेवार्थः
पुरुषार्थैकसाधनः ।
यः सोऽस्मिṁल्लोकसङ्घाते दैवशब्देन कथ्यते ॥ ६ ॥

लोकायतिकानां मतमाह - भावीति । पुरुषार्थोऽत्र भोगः ॥ ६ ॥

ननु राघव लोकस्य कस्यचित्किञ्चिदेव हि ।
दैवमाकाशरूपं हि करोति न करोति च ॥ ७ ॥

सिद्धान्तमाह - नन्विति । कस्यचित्किञ्चिदेव दैवमाकाशरूपं
शून्यकल्पं नभोनैल्यसदृशं वा करोति भ्रान्तदृशा । न करोति
विवेकिदृशा ॥ ७ ॥

पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।
इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ॥ ८ ॥

इदं फलमित्थमेतद्बीजात्मना प्राक् स्थितम् ॥ ८ ॥

इत्थं ममाभवद्बुद्धिरित्थं मे निश्चयो ह्यभूत् ।
इति कर्मफलप्राप्तौ योक्तिस्तद्दैवमुच्यते ॥ ९ ॥

इष्टानिष्टफलप्राप्ताविदमित्यस्य वाचकम् ।
आश्वासनामात्रवचो दैवमित्येव कथ्यते ॥ १० ॥

इष्टानिष्टफलयोः प्राप्तौ सत्यामिदं प्राक्तनं कर्म इत्थमेवं
प्रकारमित्यस्यार्थस्य सर्वकल्पनानां पौरुषे एवान्तर्भावः ॥ १० ॥

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसञ्चितम् ।
तद्दैवं [तदेतद्दैवमित्युक्तं इति पाठः]
दैवमित्युक्तमपमृष्टं कथं त्वया ॥ ११ ॥

कल्पद्वयाभेदोक्त्याऽशयमप्रतिपद्यमानः प्रथमकल्पेनोपक्रम्य
द्वितीयकल्पेनोपसंहारे विरोधं मन्यमानः स्वाभिसन्धिं प्रकाशयन्
श्रीराम उवाच - भगवन्निति । यत्प्राक्तनं कर्म तदेव पुनःपुनर्दैवमिति
यद्युक्तं तर्हि तद्विद्यत एव न विद्यते इति त्वया कथमपमृष्टमपलपितम् ।
अपलापवचनस्य कोऽभिप्राय इत्यर्थः ॥ ११ ।

श्रीवसिष्ठ उवाच ॥

साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥ १२ ॥

स्वाभिसन्धिं प्रकटयन् श्रीवसिष्ठ उवाच - साध्विति । जानासि विरोधं
कल्पद्वयेऽपि दोषांश्चेति भावः । स्थिरा दोषाशङ्कानुपहता ॥ १२ ॥

प्। ९२)

या मनोवासना पूर्वं बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नृणां परिणतिं गता ॥ १३ ॥

कर्मभावेन कायिकवाचिककर्मभावेन । यद्धि मनसा ध्यायति तद्वाचा वदति
तत्कर्मणा करोति इति श्रुतेस्तथैवानुभवाच्चेति भावः ॥ १३ ॥

जन्तुर्यद्वासनो राम तत्कर्ता [तत्कर्मा इति पाठः] भवति क्षणात्

अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥ १४ ॥

तदेवान्वयव्यतिरेकोपदर्शनेनोपपादयति - जन्तुरिति ॥ १४ ॥

ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस्तत्र स स प्रयतते सदा ॥ १५ ॥

विशेषे सहचारदर्शनात्सामान्ये व्याप्तिः सिद्धेत्याह - ग्रामग इति ।
ग्रामगो ग्रामगमनगोचरोद्भूतवासनः ॥ १५ ॥

यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा ।
तदेव दैवशब्देन पर्यायेणेह कथ्यते ॥ १६ ॥

तीव्रसंवेगात् फलाभिलाषातिशयात् । कर्मप्रयत्नप्राबल्येन कृतं यत् ॥ १६ ॥

एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥ १७ ॥

कर्मसु तिष्ठन्तीति कर्मस्थाः कर्तारस्तेषां सर्वाणि कर्माण्येवमुक्तरीत्यैव
भवन्ति । कर्म च प्रौढा उपचिता स्ववासनैव । वासना च स्वकारणान्मनसो
नान्या वाचारम्भणं विकारो नामधेयम् इति श्रुत्युक्तन्यायात् । यद्यपि
वाक्काययोरपि कर्म दृश्यते तथापि तयोरपि विमर्शे मनोवासनामात्रत्वं
वक्ष्यमाणमभिप्रेत्यैवमुक्तम् । मनश्च पुरुषः पूर्णात्मैव न ततो
व्यतिरिच्यते । तन्मनोऽकुरुत आत्मन्वी स्याम् इतीत्यादिश्रुतेर्मनसः
पुरुषविवर्तत्वादिति भावः ॥ १७ ॥

यद्दैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि पुरुषस्तस्माद्दैवं नास्तीति निश्चयः ॥ १८ ॥

पुरुषस्य च परमार्थतो निर्विकारचिन्मात्ररूपत्वान्मनसोऽसत्त्वे
कर्मासत्त्वात्तदात्मकदैवासत्त्वं [कर्मासत्त्वमतस्तदात्मक इति
पाठः] फलितमित्याह - यदिति ॥ १८ ॥

एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् ।
कृतं तत्तदवाप्नोति स्वत एव हि दैवतः ॥ १९ ॥

प्राणन्नेव प्राणो नाम भवति वदन् वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं
मन्वानो मनः इति श्रुतेरात्मन एवाध्यासान्मन आदिभावेन स्थितस्य
कर्मतत्फलभावेनाप्यवस्थितिरिति स एव दैवमिति यद्युच्यते तर्ह्यस्तु नाम न
तेन पुरुषस्वातन्त्र्यविधात इत्याशयेनाह - एष एवेति । मनः मन
आदिभावं प्राप्तः ॥ १९ ॥

मनश्चित्तं वासना च कर्म दैवं च निश्चयः ।
राम दुर्निश्चयस्यैताः सञ्ज्ञाः सद्भिरुदाहृताह् ॥ २० ॥

यद्यत्यन्तासदेव मनस्तर्हि कथं तेन व्यवहारसिद्धिर्वन्ध्यापुत्रादिना
तददर्शनादित्याशङ्क्ययौक्तिकदृशा तस्यानिर्वचनीयतां दर्शयन्
तदेतद्धृदयं मनश्चैतत्सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानम्
इत्यादिश्रुतिमनुरुध्य मनस एव दैवादिसञ्ज्ञाभेदा इत्याह - मन इति ।
दुर्निश्चयस्य सत्त्वासत्त्वचिज्जडत्वभेदाभेदादिना तत्त्वतो निश्चेतुमशक्यस्य
मिथ्याभूतस्य मनसस्तदात्मतापन्नस्य पुरुषस्येति यावत् ॥ २० ॥

एवन्नामा हि पुरुषो दृढभावनया यथा ।
नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ॥ २१ ॥

तथाच पुरुषस्वातन्त्र्यं सिद्धमित्याह - एवन्नामेति । एवं
पूर्वोक्तविधानि नामानि यस्य ॥ २१ ॥

एवं पुरुषकारेण सर्वमेव रघूद्वह ।
प्राप्यते नेतरेणेह [नचिरेणेह इति पाठः] तस्मात्स शुभदोऽस्तु ते
॥ २२ ॥

स पुरुषकारः ॥ २२ ॥

श्रीराम उवाच ॥

प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥ २३ ॥

एवमपि प्राक्तनवासनापरवशस्य नेदानीं स्वातन्त्र्यसिद्धिरिति रामः
शङ्कते - प्राक्तनमिति । कृपणो दीनः । परवश इति यावत् ॥ २३ ॥

श्रीवसिष्ठ उवाच ।

अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥ २४ ॥

अस्त्विदानीं फले अस्वातन्त्र्यं औत्तरकालिकफलानुकूले यत्ने तु
स्वातन्त्र्यमस्त्येव । सद्विद्यासम्पन्नजन्मानुमितसत्प्रयत्नप्रारब्धफलायाः
पूर्ववासनायाः स्वविरुद्धफलमात्रप्रतिरोधकत्वात्तदधिकृतजन्मन्यपि
तत्प्रवृत्त्यस्वातन्त्र्ये
कर्मब्रह्मविद्यापरशास्त्रवैयर्थ्यप्रसङ्गादित्यभिप्रेत्य श्रीवसिष्ठ उवाच

  • अत एव हीति । अतः अधिकृतजन्महेतुवासनानुगुण्यादेव ।
    वासनानुगुण्यस्य जन्मविवेकसम्पद्विशेषेणानुमानादिति भावः । प्राप्नोषि
    प्राप्स्यसि । वर्तमानसामीप्ये वर्तमानवद्यपदेशः ॥ २४ ॥

द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।
प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥ २५ ॥

उक्तमेवार्थं समर्थयितुं वासनां विभज्य पृच्छति - द्विविध इति ॥ २५ ॥

वासनौघेन शुद्धेन तत्र चेदद्य नीयसे ।
तत्क्रमेण शुभेनैव पदं प्राप्स्यसि शाश्वतम् ॥ २६ ॥

तत्राद्ये तावदाह - वासनौघेनेति ॥ २६ ॥

अथ चेदशुभो भावस्त्वां योजयति सङ्कटे ।
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥ २७ ॥

द्वितीयेऽप्याह - अथेति । न स्वातन्त्र्येण वासनानामुद्बोधः ।
किन्तूद्बोधकानुसारेण । यद्यसत्समागमादिना दैवादेका
अशुभवासनोद्भवेत्सापि तद्विरोधिसाधुसङ्गमसच्छास्त्रसेवनेन
विरोधिवासनामुद्भाव्योत्पाद्य वा झटिति तिरस्कार्येत्यर्थः ॥ २७ ॥

प्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः ।
अन्येन चेतसा [चेत्यसे तत्त्वं इति पाठः] तत्ते चेत्यत्वं क्वेव
विद्यते ॥ २८ ॥

ननु यो मनसि तिष्ठन्मनसोन्तरो यं मनो न वेद इति मनसः प्रेरकः
प्राज्ञात्मान्यः श्रूयते तदधीने मनोवासनोद्भवे कथं मम
सद्वासनोद्भवस्वातन्त्र्यमित्याशङ्क्याह - प्राज्ञ इति ।
यश्चेतनमात्रश्चिन्मात्रस्वभावः प्राज्ञः श्रुतः स एव त्वं न जडात्मकः
सूक्ष्मः स्थूलो वा देहस्त्वं येनान्यः स्याः । नान्योऽतोऽस्ति द्रष्टा तत्त्वमसि
इत्यादिश्रुतेः । तत्तस्मादेवं चिन्मात्रस्वरूपस्य तव अन्येन चेतसा चेतनेन
चेत्यात्वं भास्यत्वं क्व विद्यते । यदि प्राज्ञस्त्वदन्यः स्यात्तर्हि
चितश्चिदन्तरेण प्रकाशायोगात्त्वामपश्यन्न सर्वज्ञ एव स स्यादतस्त्वमेव
स इति व्यतिहारेणैक्यं सिद्धमिति भावः । पाठान्तरे [पाठान्तरं अन्येन
चेत्यसे चेत्ते चेतस्त्वं क्वेव विद्यते इति] अन्येन त्वं चेत् यदि चेत्यसे भास्यसे
तर्हि ते तव चेतस्त्वं चेतनत्वं क्व विद्यते । चिद्भास्यस्य
जडत्वापत्तेर्दुर्वारत्वादित्यर्थः ॥ २८ ॥

प्। ९३)

अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः ।
क इमं चेतयेत्तस्मादनवस्था न वास्तवी ॥ २९ ॥

चितश्चिदन्तरवेद्यत्वे तदप्यन्यवेद्यमित्यनवस्थापि स्यादित्याह - अन्य इति ।
इमं तच्चेतयितारं कश्चेतयेत् । तस्याप्यन्यश्चेदनवस्था स्यात् सा च न वास्तवी
वस्तुसिद्धिकरीति तव सद्वासनोद्बोधयत्ने स्वातन्त्र्यमव्याहृतमिति भावः ॥ २९

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ ३० ॥

पुरुषस्वातन्त्र्यप्रसाधनस्य फलमाह - शुभाशुभाभ्यामिति ॥ ३० ॥

अशुभेषु समाविष्टं शुभेष्वेवावतारय ।
स्वं मनः पुरुषार्थेन बलेन बलिनां वर ॥ ३१ ॥

अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
जन्तोश्चित्तं तु शिशुवत्तस्मात्तच्चालयेद्बलात् ॥ ३२ ॥

चित्तनदी हि द्वेधा प्रवहति पुण्याय च पापाय च तत्रैकस्रोतोनिरोधे अपरत्र
द्विगुणं वहतीति योगशास्त्रोक्तिमनुसृत्याह - अशुभादिति । चालितं
निवारितम् । तस्माच्छुभादपि चालितमितरदशुभम् । चालयेदशुभादिति शेषः ॥
३२ ॥

समता सान्त्वनेनाशु न द्रागिति शनैः शनैः ।
पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् ॥ ३३ ॥

इति उक्तक्रमेण चित्तबालकमाशु शीघ्रमेव रागादिवैषम्यत्याजनेन
स्वाभाविक्यां समतायां सान्त्वनेन निर्दोषतामापाद्य
शनैःशनैरात्मस्वरूपे निरोधलक्षणेन पौरुषेण प्रयत्नेन पालयेन्नतु
द्रागेव हठान्निरुध्यादुद्वेगात् समाधानभ्रंशो मा भूदिति । तथाच
भगवद्वचनं शनैःशनैरुपरमेद्बुद्ध्या धृतिगृहीतया इत्यादि ॥ ३३ ॥

वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः ।
शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु ॥ ३४ ॥

त्वया शुभो वा अशुभो वा घनीकृतोऽस्तु नाम तथाप्यद्य शुभमेव
घनीकुरु । प्रथमे फलशैघ्र्याय द्वितीये तु विरोधिनिरासाय
तस्यावश्यकत्वादिति भावः ॥ ३४ ॥

प्रागभ्यासवशाद्याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥ ३५ ॥

न च वासनाभ्यासस्य वैफल्यं शङ्क्यं पूर्ववासनाभ्यासेषु प्रत्यक्षतः
फलकॢप्तेरित्याह - प्रागिति । उदयमुद्भवं घनीभावमित्यर्थः ॥ ३५ ॥

इदानीमपि ते याति घनतां वासनानघ ।
अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ॥ ३६ ॥

इदानीमपीति । तद्वदेवेति भावः ॥ ३६ ॥

पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना ।
वर्घिष्यते तु नेदानीमपि तात सुखी भव ॥ ३७ ॥

प्राक्तनवासनाघनीभावेऽपि सन्दिहानं प्रत्याह - पूर्वमिति । तथाच
यथोचितं सुखेन व्यवहर्तव्यमिति न
दुर्वासनावृद्धिप्रयुक्तानर्थसम्भावनेन विषादस्ते युक्त इति भावः ॥ ३७ ॥

सन्दिग्धायामपि भृशं शुभामेव समाहर ।
अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥ ३८ ॥

तर्हि किमिति शुभवासनावर्धने मां प्रवर्तयसि तत्राह -
सन्दिग्धायामपीति । समाहर उपचिनु । शुभादाचरणादस्यां शुभायां
वासनावृद्धौ तु न कश्चन दोषः । शुभाशुभफलारम्भे सन्दिग्धेऽपि
शुभं चरेत् । यदि न स्यात्तदा किं स्याद्यदि स्यान्नास्तिको हतः ॥ इति न्यायादिति
भावः ॥ ३८ ॥

यद्यदभ्यस्यते लोके तन्मयेनैव भूयते ।
इत्याकुमारं प्राज्ञेषु दृष्टं सन्देहवर्जितम् ॥ ३९ ॥

वस्तुतस्तु न सन्देहसम्भावना ।
अन्यत्राप्यभ्यासस्याभ्यस्यमानदार्ढ्यहेतुत्वकॢप्तेरित्याह - यद्यदिति ॥
३९ ॥

शुभवासनया युक्तस्तदत्र भव भूतये ।
परं पौरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥ ४० ॥

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ ४१ ॥

तर्हि कियत्कालं शुभवासना अभ्यसनीया तत्राह - अव्युत्पन्नेति ।
तत्त्वज्ञानपर्यन्तमित्यर्थः । प्रमाणानि युक्त्यनुभवादीनि ॥ ४१ ॥

ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।
शुभोप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥ ४२ ॥

पक्वा वस्त्रादिलग्नमलभागाः क्षारपाकेनेव शिथिलिता रागादिवासनाकषाया
यस्य तेन । ततस्तदनन्तरं विज्ञातात्मवस्तुना । तथाच स्मृतिः - कषाये
कर्मभिः पक्वे ततो ज्ञानं प्रजायते इति । अत एव निराधिना
अपगतमासदुःखेन पूर्णेनेति यावत् ॥ ४२ ॥

यदतिसुभगमार्यसेवितं त-
च्छुभमनुसृत्य मनोज्ञभावबुद्ध्या ।
अधिगमय पदं सदा विशोकं
तदनु तदप्यवमुच्य साधु तिष्ठ ॥ ४३ ॥

उक्तमेवार्थं सङ्क्षिप्योपसंहरन्नाचरणीयं शुभं लक्षयति - यदिति ।
मनोज्ञभावाः शुभवासनास्तत्सम्पन्नया बुद्ध्या पदं परमार्थवस्तु
अधिगमय साक्षात्कुरु । तच्छुभवासनानुसरणमप्यवमुच्यसाधुरूपे तिष्ठ
॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
कर्मविचरो नाम नवमः सर्गः ॥ ९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
कर्मविचारो नाम नवमः सर्गः ॥ ९ ॥