०८

अष्टमः सर्गः ८

श्रीवसिष्ठ उवाच ।

नाकृतिर्न च कर्माणि न स्पन्दो न पराक्रमः ।
तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते ॥ १ ॥

वर्णितं दैवमिथ्यात्वमुदाहरणविस्तरैः ।
उपजीव्यविरोधादियुक्तिभिश्च समर्थ्यते ॥ १ ॥

इत्थं दैवं निरस्य पौरुषस्वातन्त्र्यसमर्थितेप्यनाश्वासेन
[स्वातन्त्र्यैक्यसमर्धिते इति पाठः] मोमुह्यमानं
प्राग्वैराग्यप्रकरणे पञ्चविंशे सर्गे अत्रैव दुर्विलासानां
चूडामणिरिहापरः । करोत्यत्तिति लोकेऽस्मिन्दैवं कालश्च कथ्यते ॥ तेनेयमखिला
भूतसन्ततिः परिपेलवा । तापेन हिममालेव नीता विधुरतां भृशम् ॥
नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः । नित्यं नियतिकान्तायां मुने
परमकामिता ॥ इत्यादिना स्वेन विस्तरेणोपवर्णितं
बहुतरश्रुतिस्मृतिपुराणैतिह्येषु [पुराणेतिहासेषु इति पाठः]
परमस्वतन्त्रतया प्रसिद्धं दैवं दुरपह्नवमिति मन्यमानं श्रीरामं
लिङ्गैरुपलक्ष्य यावदस्य दैवस्वातन्त्र्ये [स्वातन्त्र्यैक्य उपजीव्य इति
पाठः] उपजीव्यविरोधो न प्रदर्शितस्तावन्न विश्वसिष्यतीति तं
दिदर्शयिषुः श्रीवसिष्ठ उवाच - नाकृतिरित्यादिना ।
आकृतिर्जातिरनुगतसंस्थानं च । कर्मस्पन्दपराक्रमाणां
मानसशारीरफलोपधानैः सामान्यविशेषतद्विशेषभावेन वा भेदः ।
यस्यैते न सन्ति तद्दैवं किंस्वरूपमिति न तत्त्वतो निर्णीय जनैरुच्यते । यतो
दुर्वचं तत्तस्मान्मिथ्याज्ञानवदेव रूढमित्यर्थः । मिथोऽज्ञानवदिति
पाठेऽपि अज्ञानं भ्रान्तिज्ञानं तद्वदेव मिथोऽन्योन्यं व्यवहारे
रूढमित्यर्थः ॥ १ ॥

स्वकर्मफलसम्प्राप्ताविदमित्थमितीति याः ।
गिरस्ता दैवनाम्नैताः र्पसिद्धिं समुपागताः ॥ २ ॥

किमधिष्ठाना भ्रान्तिरिति चेत्तद्दर्शयन् मिथोव्यवहारं स्फुटयति -
स्वकर्मेति । इदं कर्म इत्थमनेन क्रमेणानुष्ठितमिति
एवंरूपफलसम्पन्नमिति या गिरो वाग्व्यवहारास्ताः लक्षणया तद्विषया
इत्यर्थः ॥ २ ॥

तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः ।
आत्तो दुरवबोधेन रज्ज्वामिव भुजङ्गमः ॥ ३ ॥

तत्र तेषु । दुरवबोधेन भ्रान्त्या । आत्तो गृहीतः ॥ ३ ॥

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत् ॥ ४ ॥

तथाच मदुक्तमेव फलितमित्याह - ह्यस्तनीति ॥ ४ ॥

मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।
दैवाद्दाहोऽस्ति नैवेति गन्तव्यं तेन पावके ॥ ५ ॥

उपजीव्यप्रमाणविरोधं विवक्षुः प्रथमं प्रत्यक्षस्वक्रियाविरोधमाह ##-

प्। ९०)

दैवमेवेह चेत्कर्तृ पुंसः किमिव चेष्टया ।
स्नानदानासनोच्चारान्दैवमेव करिष्यति ॥ ६ ॥

उच्चारान् दानाद्यङ्गमन्त्राद्युच्चारणानि ॥ ६ ॥

किंवा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।
सञ्चार्यते तु दैवेन किं कस्येहोपदिश्यते ॥ ७ ॥

तथाच वेदादिप्रामाण्यविरोध इत्याह - किमिति । मूको
वाग्व्यापारेऽप्यस्वतन्त्रः ॥ ७ ॥

न च निस्पन्दता लोके दृष्टेह शवतां विना ।
स्पन्दाच्च फलसम्प्राप्तिस्तस्माद्दैवं निरर्थकम् ॥ ८ ॥

दृष्टविरोधोऽपीत्याह - न चेति ॥ ८ ॥

न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।
पुंसः सन्दृश्यते काचित्तस्माद्दैवं निरर्थकम् ॥ ९ ॥

ननु देहादिस्पन्दः कर्त्रन्तरसमुच्चयकर्तृकः क्रियात्वात्
शिबिकोद्वहनवदित्यनुमाने मूर्तकर्त्रन्तरस्य प्रत्यक्षबाधे अमूर्तः
सहकारिकर्ता सेत्स्यति तदेव दैवं नः सिद्धमित्याशङ्क्याह - न चेति ।
तथा च मूर्तसमुच्चितकर्तृकत्वं दृश्यसमुच्चितकर्तृकत्वं
चोपाधिरित्यर्थः । तथाच पक्षे उपाध्यभावाभावेन साध्याभावः सिद्ध
इत्याह - तस्मादिति ॥ ९ ॥

मिथोऽङ्गानि समासाद्य द्वयोरेकैककर्तृता ।
हस्तादीनां हतत्वे ह न दैवेन क्वचित्कृतम् ॥ १० ॥

क्वचिल्लेखनवपनादौ मिथः परस्परं लेखनीक्षुराद्यङ्गानि समासाद्य
प्राप्तयोर्द्वयोर्मध्ये द्वितीयस्य प्रत्याख्यानमेकैकस्य कर्तृता च
सन्दृश्यत इत्यनुषज्यते । क्वचित्तु पुस्तके पुंसः सन्दृश्यत इत्यर्धं
पुनः पठ्यते । एतेन हस्तपादमनोबुद्ध्यादिवत्क्रियोपकरणत्वेनापि
दैवकल्पनाशा निरस्तेत्याह - हस्तादीनामिति । तत्र हस्तादौ सति तेन
दैवस्यान्यथासिद्धेः करणत्वायोगाद्बातरोगादिना हतत्वे नष्टत्वे सतीत्युक्तम् ।
ह इति किल्लर्थे ॥ १० ॥

मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते ।
आगोपालं कृतप्रज्ञैस्तेन दैवमसत्सदा ॥ ११ ॥

पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः ।
कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते ॥ १२ ॥

किञ्च दैवसिद्धौ कर्त्रादिकारकबुद्धिरेव मानं तत्पृथग्भूतबुद्धिर्वा ।
द्वितीये क्रियायामनुपयुक्तोऽन्य एव दैव्मिति निरर्थकोऽर्थः कल्पितः स्यात् । आद्ये
प्रसिद्धकर्त्रादिरेव दैवशब्देनोक्तः स्यादित्याह - पृथगिति । ननु
समानपाण्डित्यादिफलमीहमानानामधीयानानां केचिदेव तत्फलेन युज्यन्ते
न सर्वे तत्रावश्यं वैषम्ये निमित्तं कल्प्यम् कार्यवैषम्यलिङ्गस्य
कल्पनाप्रमाणत्वादितिचेत्तत्राह - कल्पनायामिति । तत्रापि
दृष्टसजातीयपौरुषमेव प्राक्तनं कल्प्यते नाप्रसिद्धं दैवमित्यर्थः ॥ १२

नामूर्तेस्तेन सङ्गोऽस्ति नभसेव वपुष्मतः ।
मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ॥ १३ ॥

कारकान्तरसहकारित्वायोग्यत्वादपि न तत्कल्पना युक्तेत्याह - नेति । तेन
कारकान्तरेण । सङ्गः संयोगः । वपुष्मतोऽस्मदादेः । चकारोऽवधारणे ।
यस्मान्मूर्तमेव लग्नं परस्परसंयुक्तं दृश्यते तस्मात् ॥ १३ ॥

विनियोत्क्रथ भूतानामस्त्यन्यच्चेज्जगत्त्रये ।
शेरते भूतवृन्दानि दैवं सर्वं करिष्यति ॥ १४ ॥

शेरते शयीरन् । व्यत्ययेन लिङर्थे लट् ॥ १४ ॥

दैवेन त्वभियुक्तोऽहं तत्करोमीदृशं स्थितम् ।
समाश्वासनवागेषा न दैवं परमार्थतः ॥ १५ ॥

अभियुक्तः प्रेरितः । स्थितं दैवसङ्कल्पसिद्धम् ॥ १५ ॥

मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः ।
प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः ॥ १६ ॥

ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।
तैस्तैः किमिव लोकेऽस्मिन्वद दैवं प्रतीक्ष्यते ॥ १७ ॥

किमिति काकुः प्रश्नच्छलेनाक्षेपे ॥ १७ ॥

कालविद्भिर्विनिर्णीता यस्यातिचिरजीविता ।
स चेज्जीवति सञ्छिन्नशिरास्तद्दैवमुत्तमम् ॥ १८ ॥

ननु दैवज्ञा ग्रहान् निवेदयन्ति तदेव दैवमित्याशङ्क्य तेषां
लिङ्गविदयाचारभेदेन पौरुषतत्फलसूचकत्वमेव न कारणतेत्यभिप्रेत्याह

  • कालविद्भिरिति ॥ १८ ॥

कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥ १९ ॥

उत्तमं श्रेष्ठं कारणं सिद्ध्येदिति शेषः ॥ १९ ॥

विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः ।
पौरुषेणैव सम्प्राप्तं ब्राह्मण्यं राम नान्यथा ॥ २० ॥

अस्माभिरपरै राअम पुरुषैर्मुनितां गतैः ।
पौरुषेणैव सम्प्राप्ता चिरं गगनगामिता ॥ २१ ॥

विश्वासदार्ढ्याय पुरोगतेष्वेव पौरुषफलमुदाहरति - विश्वाब्मितेणेति ॥
२० ॥ २१ ॥

उत्साद्य देवसङ्घातं चक्रुस्त्रिभुवनोदरे ।
पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥ २२ ॥

यत्तु प्रसिद्धमिन्द्रादिदैवं तदपि पौरुषेण पराजितं प्रसिद्ध्मित्याह -
उत्साद्येति ॥ २२ ॥

आलूनशीर्णमाभोगि जगदाजह्नुरोजसा ।
पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥ २३ ॥

योऽपि तस्य जयः सोऽपि पौरुषादेव न स्वत इत्याह - आलूनेति । आभोगि विस्तीर्णं
जगत् आलूनं छिन्नं शीर्णं जर्जरीकृतं च शत्रुसैन्यं यस्मिन्
युद्धादिकर्मणि तद्यथा स्यात्तथा आजह्नुः प्रत्याजह्नुः । तथाच दैवस्यापि
दैवं पौरुषमेवेति भावः ॥ २३ ॥

राम पौरुषयुक्त्या च सलिलं धार्यतेऽनया ।
चिरं करण्डके चारु न दैव तत्र कारणं ॥ २४ ॥

अनया रालमधूच्छिष्टादिलेपनादिरूपेण प्रसिद्धया पौरुषयुक्त्या ।
करण्डके वंशसम्पुटके ॥ २४ ॥

भरणादानसंरम्भविभ्रमश्रमभूमिषु ।
शक्तता दृश्यते राम न दैवस्यौषधेरिव ॥ २५ ॥

भरणं स्वजनपोषणं । आदानं बलात्परराष्ट्रदेः । संरम्भः क्रोधेन
परनिग्रहः । विभ्रमा भोगविलासाः । अन्येऽपि ये श्रमभूमयः कष्टसाध्याः
पुरुषार्थास्तेषु दैवस्य शक्तता न दृश्यते । ओषधिग्रहणं
मणिमन्त्राद्युपलक्षणं तस्येव ॥ २५ ॥

प्। ९१)

सकलकारणकार्यविवर्जितं
निजविकल्पवशादुपकल्पितम् ।
त्वमनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमुत्तमम् ॥ २६ ॥

हे शुभाशय त्वं निजः स्वीयो विकल्पो भ्रमस्तस्मादुपकल्पितमिवासन्मयं
तुच्छप्रायं दैवमनपेक्ष्य पौरुषं श्रय आश्रय ॥ २६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
दैवनिराकरणं नामाष्टमः सर्गः ॥ ८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
दैवनिराकरणं नामाष्टमः सर्गः ॥ ८ ॥