सप्तमः सर्गः ७
श्रीवसिष्ठ उवाच ।
प्राप्य व्याधिविनिर्मुक्तं देहमल्पाधिवेदनम् ।
तथात्मनि समादध्याद्यथा भूयो न जायते ॥ १ ॥
पौरुषैकप्रधानत्वौदाहरणविस्तरैः ।
प्रत्युदाहरणिअश्चात्र युक्तिभिश्च समर्थ्यते ॥ १ ॥
कृतमेव दैवनिरासेन
पौरुषप्राधान्यसमर्थनमुदाहरणप्रत्युदाहरणैर्दृढीकरिष्यन्नधिका
रिणो हितोपदेशोपपत्तिभिः पुरुषार्थे अवतारयति - प्राप्येति । अल्पा आधिवेदना
मानसदुःखभोगा यस्मिन् । समादध्याच्चित्तसमाधानाय प्रयतेत ॥ १ ॥
दैवं पुरुषकारेण यो निवर्तितुमिच्छति ।
इह वामुत्र जगति स सम्पूर्णाभिवाञ्छितः ॥ २ ॥
अनिच्छतः कथं यत्नः स्यादिति तत्रेच्छावश्यकत्वमाह - दैवमिति ।
सम्पूर्णाभिवाञ्छितो भवतीति शेषः ॥ २ ॥
ये समुद्योगमुत्सृज्य स्थिता दैवपरायणाः ।
ते धर्मर्थं कामं च नाशयन्त्यात्मविद्विषः ॥ ३ ॥
अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयति - ये इति ।
आत्मविद्विषः स्वात्मशत्रवः ॥ ३ ॥
संवित्स्पन्दो मनःस्पन्द ऐन्द्रियस्पन्द एव च ।
एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः ॥ ४ ॥
प्रत्यक्षपौरुषविरुद्धं दैवं प्रत्याचिख्यासुः पौरुषस्य प्रत्यक्षसिद्धं
स्वरूपमाह - संवित्स्पन्द इत्यादिना । संवित्स्पन्दः
पुरुषार्थतत्साधनस्फूर्तिस्तेन तत्साधनेच्छायत्नो मनः स्पन्दस्तेन
कर्मेन्द्रियाणामङ्गचालनाय प्रवृत्तिरैन्द्रियस्पन्दः । एव
कारचकाराभ्यां तत्प्रयुक्तकायबाह्योपकरणस्पन्दोऽपि सङ्गृह्यते । एतानि
पुरुषार्थस्य पौरुषस्य रूपाणि क्रमिकविभेदाः । एतेभ्यो निरन्तरवृत्तेभ्यः
फलोदयोऽभिलषितार्थसिद्धिः प्रसिद्धेत्यर्थः ॥ ४ ॥
प्। ८८)
यथा संवेदनं चेतस्तथा [चैतत्तथा इति पाठः]
तत्स्पन्दमृच्छति ।
तथैव कायश्चलति तथैव फलभोक्तृता ॥ ५ ॥
उक्तमर्थ विवृणोति - यथेति । यथा संवेदनं साक्षिणि यादृशी
विषयस्फूर्तिः पूर्व भवति ततो मनस्तादृशं स्पन्दमृच्छति गच्छति ।
तथैव कर्मेन्द्रियस्पन्देन कायश्चलति । क्रियानुसारिणी च फलसिद्धिरित्यर्थः ॥ ५
॥
आबालमेतत्संसिद्धं यत्र यत्र यथा यथा ।
दैवं तु न क्वचिद्दृष्टमतो जगति पौरुषम् ॥ ६ ॥
यत्र यत्र फले लौकिके वैदिके वा यथा यथा पौरुषमुपयुज्यते ध्यानादौ
मानसमेव प्रधानमासनमौने तदङ्गे । स्तवनादौ वाचिकमेव
प्रधानमैकाप्यसाम्मुख्ये तदङ्गे । यात्रादौ तु कायिकमेव प्रधानं
वाङ्मनोनियमौ तदङ्गे । क्वचित्तु द्वयोर्द्वयोः प्राधान्यं
क्वचित्त्रयाणामिति तत्र तत्र तथा तथा तत्पौरुषमाबालं बालानभिव्याप्य
संसिद्धं प्रत्यक्षसिद्धं दैवं तु न क्वचिद्दृष्टमित्यसदेवेत्यर्थः ॥ ६ ॥
पुरुषार्थेन देवानां गुरुरेव बृहस्पतिः ।
शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥ ७ ॥
उक्तमर्थमुदाहरणैः स्फुटयति - पुरुषार्थेनेत्यादिचतुर्भिः ॥ ७ ॥
दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ ८ ॥
महान्तो विभवास्वादैर्नानाश्चर्यसमाश्रयाः ।
पौरुषेणैव दोषेण नरकातिथितां गताः ॥ ९ ॥
नानाविधनामाश्चर्यरूपाणां विभावानां [विभवानां इति
पाठः] समाश्रया नहुषादयः ॥ ९ ॥
भावाभावसहस्रेषु दशासु विविधासु च ।
स्वपौरुषवशादेव निवृत्ता भूतजातयः ॥ १० ॥
भावा विभवा अभावा विपदस्तेषां सहस्रेषु । निवृत्ता अतिक्रान्ताः ॥ १० ॥
शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धयः ।
सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥ ११ ॥
लौकिकाःस् वत एव यागादयः स्वतः शास्त्रतश्च ज्ञानं तु स्वतः शास्त्रतो
गुरुतश्चेति त्रिसिद्धयः । ननु [ननु दैवासिद्धौ यमहानिः इति
मुद्रितपुस्तकपाठः] दैवस्य त्रिसिद्धयो निर्व्यापारदैवदुर्ग्रहवादिनां
मतावलम्बने सर्वविधीनामुच्छेदप्रसङ्गः । सोमेन यजेत
इत्यादिवाक्यबोधितयागानां व्यापारजन्यत्वाद्भावनानां च
पुरुषप्रवृत्तिनिमितत्वात्प्रवृत्तेश्च परिस्पन्दरूपत्वात् ॥ ११ ॥
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ।
प्रयत्नाच्चित्तमित्येष सर्वशास्त्रार्थसङ्ग्रहः ॥ १२ ॥
तेषु प्रस्तुतोपयोगिसारं दर्शयति - अशुभेष्विति ॥ १२ ॥
यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् ।
तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः ॥ १३ ॥
श्रेयः सर्वोत्कृष्टम् । अतुच्छं परमार्थसत्यम् । अपायविवर्जितं नित्यम् ।
फलओ यद्यदीदृशं तत्तदाचर ॥ १३ ॥
यथा यथा प्रयत्नो मे फलमाशु तथा तथा ।
इत्यहं पौरुषादेव फलभाङ् नतु दैवतः ॥ १४ ॥
आशु शीघ्रं भवतीति शेषः । इति निश्चित्य ॥ १४ ॥
पौरुषाद्दृश्यते सिद्धिः पौरुषाद्धीमतां क्रमः ।
दैवमाश्वासनामात्रं [दुःखपेलव इति पाठः] दुःखे
पेलवबुद्धिषु ॥ १५ ॥
क्रम आचरणम् । दुःखे रुदत्सु पेलवबुद्धिषु
आश्वासनामात्रमश्रुमार्जनतुल्यम् ॥ १५ ॥
प्रत्यक्षप्रमुखैर्नित्यं प्रमाणैः पौरुषक्रमः ।
फलितो दृश्यते लोके देशानतरगमादिकः ॥ १६ ॥
देशान्तरे गमनं गमः ॥ १६ ॥
भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः ।
वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥ १७ ॥
इति सफलं दृष्टमिति शेषः ॥ १७ ॥
पौरुषेण दुरन्तेभ्यः सङ्कटेभ्यः सुबुद्धयः ।
समुत्तरन्त्ययत्नेन न तु मोघतयानया ॥ १८ ॥
मोघतया निर्व्यापाररूपया [रूपतया इति पाठः] । अनया
दैवदृष्ट्या ॥ १८ ॥
यो यो यथा प्रयतते स स तत्तत्फलैकभाक् ।
न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् ॥ १९ ॥
एकभाक् नियतं भाजनम् ॥ १९ ॥
शुभेन पुरुषार्थेन शुभमासाद्यते फलम् ।
अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥ २० ॥
पुरुषार्थात्फलप्राप्तिर्देशकालवशादिह ।
प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता ॥ २१ ॥
यदि दैवे महती भक्तिस्तर्हि पौरुषमेव दैवबुद्ध्यावलम्ब्यतां
नत्वसत्कल्पनमन्यदित्यभिप्रेत्याह - पुरुषार्थादित्यादिना । फलप्राप्तिः
फलसम्पत् ॥ २१ ॥
न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् ।
उक्तं दैवाभिधानेन स्वर्लोके कर्मणः फलम् ॥ २२ ॥
ननु स्वर्गादिलोकस्थं दैवमिहादर्शनेन नापलपितुं शक्यं तत्राह -
नेति । स्वर्लोके स्वर्गलोके ॥ २२ ॥
पुरुषो जायते लोके वर्धते जीर्यते पुनः ।
न तत्र दृश्यते दैवं जरायौवनबाल्यवत् ॥ २३ ॥
तत्र पुरुषे ॥ २३ ॥
अर्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेऽनया ॥ २४ ॥
सदसत्पौरुषयोर्विभागमाह - अर्थेत्यादिना ॥ २४ ॥
देशाद्देशान्तरप्राप्तिर्हस्तस्य द्रव्यधारणम् ।
व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः ॥ २५ ॥
देशान्तरप्राप्तिः पदयोः पौरुषेण । अन्यो व्यापारश्चाङ्गान्तराणां
पौरुषेणैव न दैवतो दृष्ट इत्यर्थः ॥ २५ ॥
प्। ८९)
अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या ।
प्रोक्ता प्रोन्मत्तचेष्टेति न किञ्चित्प्राप्यतेऽनया ॥ २६ ॥
अनर्थस्य प्राप्तिर्यस्मादिति व्यधिकरणपदबहुव्रीहिः । कर्मणि क्तिनि
समानाधिकरणपदो वा । न किञ्चिच्छुभमिति शेषः । अशुभं तु प्राप्यत एव
॥ २६ ॥
क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् ।
साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥ २७ ॥
अधिकविवक्षयोक्तमेव पुनराह - क्रिययेत्यादिना । क्रिययेति
तृतीयान्तपाठः प्राग्व्याख्यातः । क्वचित्तु क्रियायाः स्पन्दधर्मिण्याः इति
पाठस्तत्र क्रियायाः स्वार्थसाधकता प्रसिद्धेति तत्फलभूतया धिया
स्वयमुन्नीयते उद्ध्रियत इत्यर्थः ॥ २७ ॥
अनन्तसमतानन्दं परमार्थं स्वकं विदुः ।
स येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः ॥ २८ ॥
समता अज्ञानकृतवैषम्यनिवृत्तिस्तदुपलक्षितमानन्दं ये विदुः स
चानन्दो येभ्यः प्राप्यते ते सव्याः
प्रणिपातपरिप्रश्नशुश्रूषादिभिरभ्यासेन चावर्जनीयाः ॥ २८ ॥
सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः ।
विवर्धेते मिथोऽभ्यासात्सरोब्जाविव कालतः ॥ २९ ॥
यद्विवक्षयोक्तमपि पुनरुक्तं तदाह - सच्छास्त्रेति ।
आदिपदात्साधुसङ्गमपरिग्रहः । तत्र साधुसङ्गमाभ्यासस्य
गुणस्तत्समशीलताप्राप्तिः । शास्त्राभ्यासस्य गुणः शास्त्रतात्र्पर्यज्ञानम् ।
मतिस्तत्त्वबोधः । यथा यथायं गुरुशुश्रूषाशास्त्राभ्यासपरो भवति तथा
तथास्य बोधो विवर्धते । यथा यथा च बोधाभिवृद्धिस्तथा तथा
गुरुशास्त्रविश्वासवृद्धिस्तद्गुणवृद्ध्या
सुखादिवृद्ध्योत्तरोत्तरभूमिकामारोहति । कालतश्चिरकालतो वर्षाकालतश्च ॥
२९ ॥
आबाल्यादलमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयतेन स्वार्थः सम्पद्यते हितः ॥ ३० ॥
तथा तद्विवृद्धये चिरं यत्नः कार्य इति वक्तुमुक्तमेव पुनराह -
आबाल्यादिति ॥ ३० ॥
पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः ।
रचितानि जगन्तीह विष्णुना न च दैवतः ॥ ३१ ॥
जगति पुरुषकारकारणेऽस्मिन्
कुरु रघुनाथ चिरं तथा प्रयत्नम् ।
व्रजसि तरुसरीसृपाभिधानां
सुभग यथा न दशामशङ्क एव ॥ ३२ ॥
पुरुषकारः पौरुषं तदेव पुरुषार्थकारणं यस्मिंस्तथाविधे जगति ।
रघुनाथेत्यधिकृतकुलश्रेष्ठत्वद्योतनाय सम्बोधनम् । सरीसृपः सर्पः
॥ ३२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे
[२] पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः ॥ ७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः ॥ ७ ॥