षष्ठः सर्गः ६
श्रीवसिष्ठ उवाच ।
तस्मात्प्राक्पौरुषाद्दैवं नान्यत्तत्प्रोज्झस्य दूरतः ।
साधुसङ्गमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ॥ १ ॥
यत्रास्ति प्रबलं दैवं तत्रापि परपौरुषम् ।
प्रोच्यते बलवद्दैवं प्राक्तनं वा स्वपौरुषम् ॥
उक्तमेवार्थं प्रतिष्ठापयिष्यन्वसिष्ठ उवाच - तस्मादिति ।
तस्मात्स्वतन्त्रस्य दुर्वचत्वात्प्राक्तनपौरुषादन्यद्दैवं नास्ति । तद्दैवं
तदधीनोऽहं न स्वतन्त्र इति दैष्टिकतामिति यावत् । दूरतः प्रोज्झ्यत्यक्त्वा ।
उत्तारयेत् । संसारादिति शेषः ॥ १ ॥
यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा ।
इति पौरुषमेवास्ति दैवमस्तु तदेव च ॥ २ ॥
किं तद्बलं तद्दर्शयति - यथेति ॥ २ ॥
दुःखाद्यथा दुःखाके हा कष्टमिति कथ्यते ।
हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ॥ ३ ॥
हा कष्टमिति दुःखरूपेण परिणतं प्राक्तनं कर्मोच्यते तदेव
दैवमित्यर्थः ॥ ३ ॥
प्राक्स्वकर्मेतराकारं [प्राक्सकर्म] दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज्जेतुमिह शक्यते ॥ ४ ॥
इतराकारं स्वरूपान्तरवत् । अस्तु प्राक्तनकर्मैव दैवं किं ततस्तत्राह -
बाल इति ॥ ४ ॥
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतामेति प्राक्तनं कर्म तत्तथा ॥ ५ ॥
चारुणा आचारेण प्रायश्चित्तादिना । शुभतामशुभाक्षमताम् ॥ ५ ॥
तज्जयाय यतन्ते ये न लोभलवलम्पटाः ।
ते दीनाः प्राकृता मूढाः स्थिता दैवपरायणाः ॥ ६ ॥
लोभयन्तीति लोभा विषयसुखलवास्तेषु लम्पटाः सन्तो ये न यतन्ते ते दीनाः
प्राकृताः पामराः ॥ ६ ॥
पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति [द्यदपि] ।
तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ॥ ७ ॥
यत्रापि दैवप्राबल्यप्रसिद्धिस्तत्रापि पौरुषस्यैव प्राबल्यमिति दर्शयति -
पौरुषेणेति ॥ ७ ॥
यदेकवृन्तफलयोरथैकं शून्यकोटरम् ।
तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ॥ ८ ॥
नन्वस्तु पुरुषतन्त्रेष्वेवम् अपुरुषतन्त्रेषु तु दैवमेव शरणं स्यात्तत्राह ##-
शेषः । तद्रसं संवेत्त्युपभुङ्क्ते [सेवन्त्युप] यः पुरुषः
कीटादिर्वा तस्य प्राक्तन ऐहिको वा प्रयत्न एव तद्रसवि-घाताय स्फुरितः ॥ ८
॥
यत्प्रयान्ति जगद्भावाः संसिद्धा अपि सङ्क्षयम् ।
क्षयकारकयत्नस्य ह्यत्र ज्ञेयं महद्बलम् ॥ ९ ॥
एकत्रोक्तं न्यायमन्यत्रापि दर्शयति - यदित्यादिना । यत् यत्र । जगति
प्रसिद्धा भावाः पदार्थाः ॥ ९ ॥
द्वौ हुडाविव युध्येते पुरुषार्थौ परस्परम् ।
य एव बलवांस्तत्र स एव जयति क्षणात् ॥ १० ॥
तत्रोक्तं स्मारयति - द्वाविति ॥ १० ॥
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् ।
तदमात्येभपौराणां प्रयत्नस्य बलं महत् ॥ ११ ॥
राजवंशाभावे पौरामात्यविसृष्टेन मङ्गलालङ्कृतेनेमेन गजेन यः
कश्चिद्भिक्षुकोऽपि नृपः क्रियते इति प्रसिद्धं यत्तदिति सम्बन्धः ॥ ११ ॥
पौरुषेणान्नमाक्रम्य यथा दन्तेन चूर्ण्यते ।
अन्यः पौरुषमाश्रित्य तथा शूरेण चूर्ण्यते ॥ १२ ॥
अन्नमदनार्हं चर्वणयोग्यमिति यावत् । आत्तम् इति पाठे मुखेन गृहीतं
तदेव । आक्रम्य निष्पीड्य । अन्यो दुर्बलः शूरेण प्रबलेन ॥ १२ ॥
अन्नभूता हि महतां लघवो यत्नशालिनाम् ।
यथेष्टं विनियोज्यन्ते तेन कर्मसु लोष्टवत् ॥ १३ ॥
हि यस्माद्धेतोः । अन्नभूता उपभोग्यभूताः । लघवोऽल्पबलाः । तेन हेतुना ।
लोष्टं शुष्कमृत्पिण्डः ॥ १३ ॥
शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् ।
तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ॥ १४ ॥
आत्मनि स्वस्मिन् । अबुद्धिना मुधेन ॥ १४ ॥
भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् ।
तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः ॥ १५ ॥
तेषां शक्तानामपि भूतानां बलवद्भूतं यत्तदधिष्ठातृ
[यत्तत्तेषामधिष्ठातृ] नियन्तृ एतत्सतां विद्यमानप्राणिनां
मिथः परस्परं स्फुटं व्यक्तं नतु दैवं स्थितमित्यन्वयः । यत्नस्तेनेति
पाठे तु केन हेतुना यत्न एव स्थितो न दैवं स्थितमिति भित्त्वा व्याख्येयम् ॥ १५ ॥
शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः ।
या सा भिक्षुकाराज्यस्य कर्तृ धर्तृ प्रजास्थितेः ॥ १६ ॥
अविकल्पा ऐकमत्यापन्नेति यावत् । स्वभावधीः स्वारसिकी बुद्धिर्या सैव
भिक्षुकराजभावस्य कर्तृ कर्त्री प्रजास्थितेश्च धर्तृधारयित्री
पदसंस्कार-पक्षेऽन्तरङ्गं सामान्ये नपुंसकं बहिरङ्गेण
विशेष्यसम्बन्धेन न बाध्यते । तथाच महाभाष्ये शास्त्रेण धर्मनियमः
इति वार्तिकशेषप्र-सङ्गेन प्रयोगः शक्यं चानेन श्वमांसादिभिरपि
क्षुत्प्रतिहन्तुं अतः शास्त्रेण नियमः क्रियते पञ्चपञ्चनखा भक्ष्याः इतीति
॥ १६ ॥
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते क्वचित् ।
प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् ॥ १७ ॥
अन्यपौरुषेणान्यस्य फलभोगे अतिप्रसङ्गमाशङ्क्य पक्षान्तरमाह -
भिक्षुक इति । तत्र प्राक्तनं बलवत्पौरुषं वा कारणमित्यन्वयः ॥ १७ ॥
ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥ १८ ॥
पुरुषं स्पन्दयतीति पुरुषस्पन्दो यत्नः । अनुद्वेगवानुद्वेगादुपरतः । तथा##-
भावः ॥ १८ ॥
द्वयोरद्यतनस्य्विअ प्रत्यक्षाद्बलिता भवेत् ।
दैवं जेतुं [जेतुमतः] यतो यत्नैर्बालो यूनेव शक्यते ॥ १९ ॥
तमेव स्पष्टमाह - द्वयोरिति ॥ १९ ॥
मेघेन नीयते यद्वद्वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थोऽसौ जयत्यधिकयत्नवान् ॥ २० ॥
ननु करकादिनिपातेन कृषिफलविघातादौ वैपरीत्यमेव
दृष्टमित्याशङ्क्य सोऽप्यस्मदिष्टसाधक एव दृष्टान्त इत्याह -
मेघेनेति । नीयते अपनीयते विनाश्यत इत्यर्थः । मेघस्य
मेघाभिमानिपुरुषस्यासौ पुरुषार्थो यद्वत्तद्वदन्यत्रापि बोध्यमित्यर्थः ।
अभ्युपेत्य चेदम् । वस्तुतस्तु तत्रापि प्राक्तनं स्वस्य पौरुषमेवादृष्टद्वारा
हेतुः ॥ २० ॥
क्रमेणोपार्जितेऽप्यर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ॥ २१ ॥
अस्तु वा क्वचित्पौरुषवैफल्यं तथापि न खेदो युक्तः किन्तु पुनरुद्योग एव
युक्त इत्याह - क्रमेणेत्यादिचतुर्भिः ॥ २१ ॥
यन्न शक्नोमि तस्यार्थे यदि दुःखं करोम्यहम् ।
तदमारितमृत्योर्मे युक्तं प्रत्यहरोदनम् ॥ २२ ॥
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी ।
सर्व एव जगद्भावा जयत्यधिकयत्नवान् ॥ २३ ॥
देशेति । तथाच यत्र देशे काले वा स्वयत्नो विफलोऽभूत्तद्विहाय देशान्तरे
कालान्तरेण क्रियान्तरेण द्रव्यान्तरेण वा यतितव्यमेव । प्रागादिदिक्षु
विघ्नितस्यापि विश्वामित्रतपस उत्तरदिशि सिद्धिदर्शनादिति भावः ॥ २३ ॥
तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः ।
प्रज्ञाममलतां नीत्वा संसारजलधिं तरेत् ॥ २४ ॥
प्राक्तनश्चैहिकश्चेमौ पुरुषार्थौ फलद्द्रुमौ ।
सञ्जातौ पुरुषारण्ये जयत्यभ्यधिकस्तयोः ॥ २५ ॥
फलन्तौ फलजननसमर्थौ तथाविधौ च तौ द्रुमौ फलद्द्रुमौ सञ्जातौ
पुरुषारण्ये । एकस्य मूलच्छेदेन शोषो परस्य प्ररोहोऽत्र जयः ॥ २५ ॥
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुरनीशोऽसावात्मनः सुखदुःखयोः ॥ २६ ॥
उक्तार्थानभ्युपगमे अनिष्टं दर्शयन्नीश्वराधीनतावादं निराचष्टे -
कर्मेत्यादिना । यो न निहन्ति अनीशोऽस्वतन्त्रो यं जन्तुरीश्वरप्रेरितः सन्स्वर्गं
नरकमेव वा गच्छेद्विनापि पुण्यपापाभ्यामित्यर्थः ॥ २६ ॥
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा ।
स सदैव पराधीनः पशुरेव न संशयः ॥ २७ ॥
तथा चानिर्मोक्षप्रसङ्ग इत्याह - स इति ॥ २७ ॥
यस्तूदारचमत्कारः सदाचारविहारवान् ।
स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव ॥ २८ ॥
स्वपक्षे तु नायं दोष इत्याह - यस्त्विति । प्रयत्नकौशलमत्र चमत्कारः ॥
२८ ॥
कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने ।
यः [स्थितो दृष्टम्] स्थितोऽदृष्टमुत्सृज्य त्याज्योऽसौ
दूरतोऽधमः ॥ २९ ॥
ईश्वरस्वातन्त्र्यनिरासमुपसंहरति - कश्चिदिति । ननु एष ह्येव साधु कर्म
कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते य आत्मनि तिष्ठन्नात्मानमन्तरो
यमयति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति इत्यादिश्रुतिस्मृति##-
यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति
यजेत् जुहुयाद्दद्यात् कर्ता शास्त्रार्थवत्त्वात् न कर्तृत्वं न कर्माणि लोकस्य
सृजति प्रभुः इत्याद्यनेकश्रुतिसूत्रस्मृत्यनुभवविरुद्धं जीवस्य
पारतन्त्र्यमुच्यते । नह्यस्वतन्त्रो जीवः कर्ता भवति । स्वतन्त्रः कर्ता
इत्यनुशासनविरोधात् । न वा बलवत्तरेश्वरायत्तोऽयं विधिशतेन निषेध##-
ब्रह्मवधादौ प्रवर्तितोऽयमपराधी स्यात् । कथं वा विषमेषु स्वयमेव
कांश्चित्प्रवर्त्य तान्नरकादिभागिनः कुर्वाणस्येश्वरस्य
वैषम्यनैर्घृ-ण्यदोषौ न स्याताम् । कथं वा
अन्तर्यामिब्राह्मणवाक्यशेषे नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽस्तोऽस्ति
मन्ता इत्यादिना जीवापलापेनेश्व-रैकस्वातन्त्र्यसमर्थनं च
सङ्गछताम् । यदि तु क्द्वलाज्ञपुरुषदृष्टिम-वलम्ब्य
कर्मकाण्डप्रवृत्तेर्जीवस्वातन्त्र्यवादः तच्छैथिल्यापादनेन
सर्वभूतेष्वैकात्म्यव्युत्पादनाय प्रवृत्तां विवेकदृष्टिमवलम्ब्येश्व##-
तदेतद्-ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म
सर्वानुभूः न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः
इत्यादिश्रुतिस्मृतिवादाः । यथा स्वप्नदर्पणादौ दारुहस्तिधावनस्य
हस्तिदृष्ट्या दर्शने हस्ती धावति न दारु । दारुदृशा दर्शने तु दार्वेव
धावति न हस्ती । परमार्थदृशा तु न हस्ती न वा दारु न वा
धावत्यविकृतं पुरुषदर्पणादिस्वरूपमेवास्ते इति वादास्तद्वदित्यविरोधं
ब्रूषे तर्हि मोक्षोपायप्रवर्तकवसिष्ठवचनस्या-प्यज्ञविषयत्वाद्युक्त
एवात्रेश्वरस्वातन्त्र्यनिरासः । तथाच भगवत्पा-दीयं भाष्यम्
तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे
प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः सर्वाणि च शास्त्राणि
विधिनिषेधमोक्षपराणि इति । एवं चाज्ञदृष्टिसिद्धजीवस्वातन्त्र्य##-
वैषम्यनैर्घृण्यादिप्रसक्ति-रपीति भावः ॥ २९ ॥
व्यवहारसहस्राणि यानुपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥ ३० ॥
उपायान्ति लाभादिफलेन । यान्ति तद्विघातेन । तेषु प्रियाप्रिये रागद्वेषौ त्यक्त्वा
यथाशास्त्रमेव व्यवहर्तव्यमित्यर्थः ॥ ३० ॥
यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधाविव ॥ ३१ ॥
सर्वाणि अभीष्टानीति शेषः ॥ ३१ ॥
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥ ३२ ॥
पौरुषशब्दार्थमाह - स्वार्थेति । स्वार्थः सुखं दुःखनिवृत्तिश्च
तत्प्रापकाणि यान्यवश्यकर्तव्यानि साधनानि तदेकप्रयत्नतत्परतेत्यर्थः । सा
सिद्ध्यै परमपुरुषार्थाय ॥ ३२ ॥
क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् ।
साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नियते धिया ॥ ३३ ॥
स्पन्दो देहादिचलनं तद्धर्मिण्या तत्परम्परारुपया शुश्रूषया
श्रवणादिक्रियया साधुसङ्गमेन सच्छास्त्रैश्चासम्भावनादि##-
स्वार्थसाधकतेत्यर्थः ॥ ३३ ॥
अनन्तं समतानन्दं परमार्थं विदुर्बुधाः ।
स येभ्यः प्राप्यते नित्यं ते सेव्याः शास्त्रसाधवः ॥ ३४ ॥
साधुसच्छास्त्रयोर्लक्षणमाह - अनन्तमिति । समता
अज्ञानकृतवैषम्य-निवृत्तिः ॥ ३४ ॥
देवलोकादिहागत्य लोकद्वयहितं भवेत् ।
प्राक्तनं पौरुषं तद्वै दैवशब्देन कथ्यते ॥ ३५ ॥
यल्लोकद्वयहितं पौरुषं भवेत्तदेव देवलोकभुक्तशिष्टं
देवलोकादिहागत्य स्थितस्य दैवशब्देन कथ्यत इत्यर्थः ॥ ३५ ॥
तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे ।
मूढैः प्रकल्पितं दैवं मन्यन्ते ये क्षयं गताः ॥ ३६ ॥
तदेतद्युक्तमेतस्मिन्नास्ति सन्देह इति शेषः । तन्नापवदामहे न निन्दामः ।
किं तर्हि निन्द्यते तदाह - मूढैरिति । ते क्षयं गता इत्यपवदामहे इति
शेषः ॥ ३६ ॥
नित्यं स्वपुरुषादेव लोकद्वयहितं भवेत् ।
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ॥ ३७ ॥
ननु प्राग्देवलोकावाप्तिरपि दैवादेव किं न स्यात्तत्राह - नित्यमिति ।
प्रसाधितं फलेनोपसंहरति - ह्यस्तनीत्यादिना ॥ ३७ ॥
अद्यैवं प्राक्तनी तस्माद्यत्नाद्यः कार्यवान्भवेत् ।
करामलकवद्दृष्टं पौरुषादेव तत्फलम् ॥
मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ॥ ३८ ॥
एवं अद्य [क्वचित् अद्य इति न लभ्यते] अद्यतन्या प्राक्तनी शोभामभ्येतीति
पूर्वेणान्वयः । नन्वस्तु प्राक्तनजयः पुरुषार्थसिद्धिस्तु कुतस्तत्राह -
तस्मादिति । यः कार्यवान्भवेत्तस्य तत्फलं करामलकद्दृष्टमित्यन्वयः ॥
३८ ॥
सकलकारणकार्यविवर्जितं
निजविकल्पबलादुपकल्पितम् ।
तदनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमात्मनः ॥ ३९ ॥
हे शुभाशय तत्तस्मात्कारणान्निजस्य स्वस्य विकल्पोऽथशून्या
चित्तवृत्तिस्तद्-वशादुपकल्पितमत एवासन्मयम् । स्वार्थे मयट् । तत्र हेतुः
- सकलैः कारणैः कार्यैः प्रयोजनैश्च विवर्जितमिति । तथाविधं
दैवमनपेक्ष्य पौरुषं श्रय स्वीकुरु ॥ ३९ ॥
शास्त्रैः सदाचरविजृम्भितदेशधर्मैर्य-
त्कल्पितं फलमतीव चिरप्ररूढम् ।
तस्मिन्हृदि स्फुरति चोपनमेति चित्त-
मङ्गावली तदनु पौरुषमेतदाहुः ॥ ४० ॥
किं तत्पौरुषं यच्छ्रयेत्युच्यते तदाह - शास्त्रैरिति । वेदस्मृत्यादिभिः
शास्त्रैः सतामाचरणं सदाचरः । घञर्थे कविधानम् इति कः । तेन
विजृम्भिता विस्तीर्णा ये देशधर्मास्तत्तद्देशनियताचारास्तैश्च यच्चित्त##-
प्ररूढं प्रसिद्धं च तस्मिन् हृदि बुद्धौ स्फुरति अभिलषिते सति
तत्साधना-चरणेच्छया चित्तं चोपनं स्पन्दम् । चुप मन्दायां गतौ
ल्युट् । एति प्राप्नोति तदनुसारेण अङ्गावली इन्द्रियहस्तपादादिश्चोपनमेति
श्रवणादिना व्यवहरति एतदेव पौरुषमित्याहुः शिष्टा इत्यर्थः ॥ ४० ॥
बुद्ध्वैव पौरुषफलं पुरुषत्वमेत-
दात्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततः सफलतां परमामथासौ
सच्छास्त्रसाधुजनपण्डितसेवनेन ॥ ४१ ॥
एतत्पुरुषत्वमधिकारिपुञ्जन्मपौरुषफलं पुरुषार्थसिद्धावेव सफलं
नान्यथेति बुद्ध्वा सदैव आत्मप्रयत्नपरतैव कार्या । अथासौ प्रयत्नपरता
सच्छास्त्राणां साधुजनानां सेवनेन तदनुगतविचारेणात्मज्ञानफल##-
द्वितीया ॥ ४१ ॥
दैवपौरुषविचारचारुभि-
श्चेदमाचरितमात्मपौरुषम् ।
नित्यमेअ जयतीति भावितैः
कार्य आर्यजनसेवयोद्यमः ॥ ४२ ॥
इदमात्मपौरुषं नित्यमाचरितं सद्दैवं जयत्येवेति दैवपौरुषयोर्बला##-
नित्यं भावितैः श्रवणादिभिरुद्यमः कार्यस्तत्त्वज्ञायेत्यर्थः ॥ ४२ ॥
जन्मप्रबन्धमयमामयमेष जीवो
बुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै ।
शान्तिं नयत्ववितथेन वरौषधेन
मृष्टेन तुष्टपरपण्डितसेवनेन ॥ ४३ ॥
एष जीव ऐहिकमिहास्मिन्नधिकारिजन्मनि सम्पाद्यमानं सहजं शास्त्र##-
परमपुरुषार्थलाभायेति बुद्ध्वा नित्यसन्तुष्टानां पराणां सर्वोत्##-
जन्मपरम्परा तन्मयं तत्प्रचुरमामयं शान्तिं नयतु । अधीष्टे लोट् ।
अतिसुलभोपाये सति किमर्थमवसीदतीत्यर्थः ॥ ४३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार##-
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
दैवनिराकरणं नाम षष्ठः सर्गः ॥ ६ ॥