०५

पञ्चमः सर्गः ५

श्रीवसिष्ठ उवाच ।

प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम् ।
प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् ॥ १ ॥

प्राबल्ये पौरुषस्यात्राप्यवश्यं फलसङ्गमे ।
दैवस्याव्यतिरेके च युक्तिदृष्टान्त ईर्यते ॥

यत्पूर्वमुक्तं पौरुषातिरेकेण दैवस्यासत्त्वं दैवात्पौरुषस्य प्राबल्यं
पौरुषादेव पुरुषार्थसिद्धिरिति च तत्सर्वमुपपत्तिभिः समर्थयितुं प्रतिजानीते

  • प्रवृत्तिरेवेति । शास्त्रमनतिक्रम्य विहारिणां वाङ्यनः##-
    पुरुषार्थानां सिद्धौ प्रथमं प्रवृत्तिरेव कारणं यथा नीलपीतादि##-
    प्रमाणं ते कार्याकार्यव्यवस्थितौ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
    इत्यादिस्मृतेरिति भावः ॥ १ ॥

मनसा वाञ्छ्यते यच्च यथाशास्त्रं न कर्मणा ।
साध्यते मत्तलीलासौ मोहनी नार्थसाधनी ॥ २ ॥

ननु तृप्त्यादिवद्दृष्टफलत्वाद्विद्यायाः कस्तत्साधने
शास्त्रीयनियमस्योप-योगस्तत्राह - मनसेति । असौ मत्तलीला
उन्मत्तचेष्टैव । साध्यते तेनेति शेषः । अतएव न पुरुषार्थसाधनी प्रत्युत
मोहनी । दृष्तफलत्वेऽप्यशास्त्रीयोपाय##-

यथा संयतते [संयत्यते] येन तथा तेनानुभूयते ।
स्वकर्मैवेति चास्तेऽन्या व्यतिरिक्ता न दैवदृक् ॥ ३ ॥

शास्त्रीयस्य यत्नस्य शास्त्रीयमेव फलमशास्त्रीयस्य चाशास्त्रीयमेवेत्यौ##-
दिअवादुभयवैपरीत्यमपि स्यात्तत्राह - यथेति । ननु
दैवादुभयवैपरित्यमपि स्यात्तत्राह - आस्तेऽन्या व्यतिरिक्ता न दैवदृगिति ।
प्राक्तनकर्मैव फलावस्थं दैवमित्युच्यते न ततोऽतिरिक्तं दैवं दृश्यत
इत्यर्थः ॥ ३ ॥

उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् ।
तत्रिच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ ४ ॥

उक्तमर्थमेव स्फुटयति - उच्छास्त्रमिति । शास्त्रितं शास्त्रनियतम् ।
प्रातिपदिकाद्धात्वर्थे णिचि क्तः ॥ ४ ॥

द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।
प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान् ॥ ५ ॥

हुडौ मेषौ । कदाचित्समौ कदाचिदसमौ । अत्र अनयोर्मध्ये ॥ ५ ॥

अतः पुरुषयत्नेन यतितव्यं यथा तथा ।
पुंसा तन्त्रेण सद्योगाद्येनाश्वद्यतनो जयेत् ॥ ६ ॥

तन्त्रेण शास्त्रीयनियमेन । अतन्द्रेण इति पाठे निरालस्येन पुंसा ॥ ६ ॥

द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।
आत्मीयश्चान्यदीयश्च जयत्यतिबलस्तयोः ॥ ७ ॥

ननु मनुष्याणां त्रिभिरृणवा [ऋणवान्] जायते इति श्रुतौ
देवादिऋणित्वश्रवणात् तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः इति
श्रवणाच्च तरस्यावश्यंविघ्नाचरणे कृतोऽपि यत्नो विफलः
स्यादित्याशङ्क्याह - द्वाविति । दोषेषु सत्स्वेव देवानां विघ्नशक्तेः
स्वप्रयत्नेन दोषजये तेषां विघ्नशक्तिः कुण्ठीभवतीति भावः ॥ ७ ॥

अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् ।
अनर्थकर्तृ बलवत्तत्र ज्ञेयं स्वपुरुषम् ॥ ८ ॥

ननु शास्त्रीयमार्गे यतमानानामपि क्वचिद्रोगाद्यनर्थः कथं दृश्यते
तत्राह - अनर्थ इति । तथाच तदपि जय्यमेवेति भावः ॥ ८ ॥

परं परुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन् ।
शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ॥ ९ ॥

शुभेनाद्यतनपौरुषेण । उद्युक्तं विघ्नाचरणायेत्यर्थः ॥ ९ ॥

प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः ।
बलादद्पदीकार्या प्रत्यक्षादधिका न सा ॥ १० ॥

पुरुषार्थः कर्मफलम् । अधस्पदीकार्या पादेनाक्रमणीया । विनाशनीयेति
यावत् । अधःशिरसी पदे इति सत्वम् ॥ १० ॥

तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् ।
प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥ ११ ॥

सुपौरुषमिति क्रियाविशेषणम् । स्वयमिति निःशेषतालाभाय विशेषणं परतः
शान्तौ तदपगमे पुनरुद्भवो मा भूदिति ॥ ११ ॥

दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः ।
दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्य गुणैः क्षयः ॥ १२ ॥

प्राक्तन एव प्रबलः किं न स्यात्तत्राह - दोष इति । ह्यस्तनस्य
पूर्वेद्युस्तनस्य दोषस्याजीर्णादेः । गुणैर्लङ्घनादिभिः ॥ १२ ॥

असद्दैवमधःकृत्वा नित्यमुद्रिक्तया धिया ।
संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि ॥ १३ ॥

असद्दैवं प्राक्तनदुरदृष्टमद्यतनसुकृतैरुद्रिक्तया धिया अधःकृत्वा
परिभूय आत्मनि संसारोत्तरणमाधातुं सम्पादयितुं भूत्यै
शमदमश्रवणादिसम्पदे यतेत ॥ १३ ॥

न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः ।
उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥ १४ ॥

लोकद्वितयं स्वर्गापवर्गौ ॥ १४ ॥

संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् ।
पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥ १५ ॥

हरिणा सिंहेन अरिभिर्मनुष्यैः कृताद्बन्धनपञ्जरादिव । विष्णुना असुरैः
प्रयुक्तान्मायापञ्जरादिवेति वा ॥ १५ ॥

प्रत्यहं प्रत्यवेक्षेत देहं न"वरमात्मनः ।
सन्त्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥ १६ ॥

तुल्यं तुल्यताम् । भावप्रधानो निर्देशः । सत्पुरुषोचितं
साधुसङ्गमसच्छास्त्रादि श्रयेत् ॥ १६ ॥

किञ्चित्कान्तान्नपानादिकलिलं कोमलम् गृहे ।
व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥ १७ ॥

कलिलं द्रवपिच्छिलम् । वयः सर्वपुरुषार्थसाधनं यौवनम् ।
भस्मसाद्भस्मप्रायम् ।व्यर्थमिति यावत् ॥ १७ ॥

शुभेन पौरुषेणाशु शुभमासाद्यते फलम् ।
अशुभेनाशुभं नित्यं दैवं नाम न किञ्चन ॥ १८ ॥

न किञ्चन प्राक्तनशुभाशुभातिरिक्तमित्यर्थः ॥ १८ ॥

प्रत्यक्षमानमुत्सृज्य योऽनुमानमुपैत्यसौ ।
स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते ॥ १९ ॥

अद्यतनयोरदृष्टरूपयोः शुभाशुभयोः प्रत्यक्षमानं श्रुतिः
दृष्टयोस्त्वन्वयव्यतिरेकसहकृतं चक्षुरादि तत्सिद्धमद्यतनशुभ##-
प्रत्यक्षश्रुतिप्रमाणं प्रभुसम्मितमुत्सृज्य पौरुषप्रयत्नफल##-
इत्यपादानता ॥ १९ ॥

दैवं सम्प्रेरयति मामिति दग्धधियां मुखम् ।
अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते ॥ २० ॥

न दृष्टा श्रेष्ठानां पौरुषेणैव पुरुषार्थं प्राप्तानां
विश्वामित्रादीनां दृष्टिर्यैस्तेषाम् ॥ २० ॥

तस्मात्पुरुषयत्नेन विवेकं पूर्वमाश्रयेत् ।
आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥ २१ ॥

विवेकं नित्यानित्यादिविवेकोपलक्षितसाधनचतुष्टयम् ॥ २१ ॥

चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः ।
असंसाधयतामेव मूढाना। न्धिग्दुरीप्सितम् ॥ २२ ॥

श्रवणादिप्रवणतां स्थिरीकर्तुमन्यचेष्टां निन्दति - चित्ते इति ।
यथाशास्त्रं निजैरीहितैः श्रवणमननादिचेष्टाभिरर्थं
परमार्थभूतमात्मतत्त्वम-चिन्तयतामत एव तं
पुरुषार्थमसंसाधयतामेव मूढानां दुरन्त##-
एवकारो योग्यजन्मलाभेऽपि तदसाधने पुनस्तद्दौर्लभ्यद्योतनार्थः । तथा च
श्रुतिः इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः इति ॥ २२ ॥

पौरुषं च नवानन्तं न यत्नमभिवाच्छ्यते ।
न यत्नेनापि महता प्राप्यते रत्नमश्मतः [तैलमश्मनः] ॥ २३

नन्वियन्तं कालं पौरुषं कार्यमित्यवध्यवगमेन तस्यानन्त्यात्परि##-
तत्पौरुषम-नन्तमनवधिकं न । साक्षात्कारोदयस्यैवावधित्वात् । यत्नं
परिश्रम-मभिलक्ष्य च न वाञ्छ्यते नापेक्ष्यते । प्रत्यक्षावगमं
धर्म्यं सुसुखं कर्तुमव्ययम् इति भगवद्वचनादिति भावः । नन्विदं
पूर्णाहुत्या सर्वान्कामानवाप्नोति इतिवत्प्ररोचनामात्रं श्रमाधिक्ये सत्येवं
फलाधिक्यनियमादित्याशङ्क्यान्वयव्यभिचारमाह - नेति । रत्नतत्त्व##-
[व्यतिरेकेऽभिचारो] व्यभिचारोऽपि बोध्यः ॥ २३ ॥

यथा घटः परिमितो यथा परिमितः पटः ।
नियतः परिमाणस्थः पुरुषार्थस्तथैव च ॥ २४ ॥

पूर्वार्धोक्तं दृष्टान्तेन दृअधयति - यथेति । घटो जले
यत्रापरिच्छेदकत्वेन पटस्तु दैर्घ्यादिना परिमितः प्रमाणैर्निश्चितस्तथैव
पुरुषार्थः पौरुषयत्नोऽपि परिमाणे साक्षात्कारफलावधौ तिष्ठतीति
परिमाणस्थो नियत एव ॥ २४ ॥

स च सच्छास्त्रसत्सङ्गसदाचारैर्निजं फलम् ।
ददातीति स्वभावोऽयमन्यथा नार्थसिद्धये ॥ २५ ॥

स पौरुषयत्नः सदाचारैः सहित इति शेषः ॥ २५ ॥

स्वरूपं पौरुषस्यैतदेवं व्यवहरन्नरः ।
याति निष्फलयत्नत्वं न कदाचन कश्चन ॥ २६ ॥

स्वरूपं पौरुषस्यैतदित्युक्तोपसंहारः । तादृशस्य फलाव्यभिचारमाह

  • एवमिति ॥ २६ ॥

दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ २७ ॥

उक्तं द्रढयितुमन्यत्रापि [मन्यत्राप्यस्य] न्याय्यस्य पौरुषस्य
फलाव्यभिचारं दर्शयति - दैन्येति । अन्ये नलहरिश्चन्द्रादयः ॥ २७ ॥

आबाल्यादलमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयत्नेन स्वार्थः सम्प्राप्यते यतः ॥ २८ ॥

यदि न श्रमापेक्षा तर्ह्यन्ते तत्करिष्यामः किमधुनैव तेनेत्याशङ्क्याह ##-
कोमलकण्टकायमानै-रित्यर्थः ॥ २८ ॥

इति प्रत्यक्षतो दृष्टमनुभूतं श्रुतं कृतम् ।
[दैवोत्थमिति] दैवात्तमिति मन्यन्ते ये हतास्ते कुबुद्धयः ॥ २९ ॥

प्रत्यक्षतो दृष्टमस्मदादिभिर्जीवन्मुक्तैरित्यर्थः । कृतं साधनतः ॥ २९ ॥

आलस्यं यदि न भवेज्जगत्यनर्थः
को न स्याद्बहुधनको बहुश्रुतो वा ।
आलस्यादियमवनिः ससागरान्ता
सम्पूर्णा नरपशुभिश्च निर्धनैश्च ॥ ३० ॥

यद्येवं तर्हि न कुतः सर्वे यतन्ते - तत्राह - आलस्यमिति ।
अनर्थहेतुत्वादर्थ-विघातकत्वाच्चानर्थः । बहुधनकः सम्पन्नतमः ।
शेषाद्विभाषा इति कपू । बहुशुतः पण्डितः । सागरान्तैः समुद्रान्तैः सहिता
अवनिर्भूमिः । तस्मादालस्यमुत्सृज्य बाल्यात्प्रभृति सत्सङ्गमादिपरेण
भाव्यमिति मुख्यः पक्ष इति भावः ॥ ३० ॥

बाल्ये गतेऽविरतकल्पितकेलिलोले
दोर्दण्डमण्डितवयः [मण्डनवयः] प्रभृति प्रयत्नात् ।
सत्सङ्गमैः पदपदार्थविशुद्धबुद्धिः
कुर्यान्नरः [सुगुण] स्वगुणदोषविचारणानि ॥ ३१ ॥

यत्यप्यत्यन्तबाल्यप्रभृति कर्तुं न शक्यते तर्हि यौवनमारभ्य वा
यतितव्यमित्याह - बाल्य इति । नरः अविरतैश्चपलैर्बालैः कल्पिताभिः
क्रीडाभिर्लोले बाल्ये गते सति दोर्दण्डाभ्यां दुरुशुश्रूषादिसमर्था##-
पदपदार्थविशुद्धबुद्धिः पदतदर्थतत्परीक्षाकुशलः
[तत्त्वपरीक्षा] । व्युत्पन्नः सन्नित्यर्थः ।
गुरुसतीर्थ्याभिज्ञतमादिसत्सङ्गमैः । स्वस्य आत्मनो गुणानां
शान्त्यादीनां दोषाणां रागादीनां चार्थानर्थपर्य##-

वाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरेण [रविकरैश्च] सहाजगाम ॥ ३२ ॥

श्रीवाल्मीकिरुवाचारिस्।टनेमिनं प्रतीति देवदूतोक्तिः । मुनौ वाल्मीकौ इति
उक्तप्रकारेण वसिष्ठोक्तं भरद्वाजं प्रत्युक्तवति सति दिवसो जगाम । इनः
सूर्यश्चास्तं जगाम । भरद्वाजादिमुनिसभा च वाल्मीकये कृतनमस्करणा
सायन्तनाय सन्ध्योपास्त्यग्निहोत्रादिविधये स्नातुं जगाम । अथ श्यामाया
रात्रेः क्षये सति प्रातः रविकरेण आतपेन सह आजगाम ।
पुनर्वाल्मीकिसन्निधिमित्यर्थः । उत्तरत्रापि सर्वत्रायं श्लोक एवमेव
व्याख्येयो नतु मुनौ वसिष्ठे इत्युक्तवतीति । उत्तरत्र विस्तरेण तत्र तत्र
दशरथसभोत्थानवर्णनस्याह्निकशेषानुष्ठानस्य रात्रौ रामादिभिः
श्रुतार्थचिन्तनस्योषःकालसूर्योदयादेश्च वर्णनविस्तरस्याकाण्डप्रस्तुत##-

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार##-

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
पौरुषस्थापनं नाम पञ्चमः सर्गः ॥ ५ ॥

प्रथमो दिवसः ।