०४

चतुर्थः सर्गः ४

श्रीवसिष्ठ उवाच ।

सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा ।
समैवाब्धौ तथाडेहसदेहमुनिमुक्तता ॥ १ ॥

मुक्तानुभवतो मुक्त्योरविशेषोऽत्र कीर्त्यते ।
मूलदार्ढ्याय शास्त्रीयं पौरुषं च प्रशस्यते ॥

आत्मनो नित्यमुक्तस्वभावस्याज्ञानावरणमेव बन्धः । ज्ञानेन तन्नाश
एव मुक्तिः । नष्टे त्वज्ञाने परिज्ञातश्चित्रव्याघ्र इव दृश्यमानोऽपि
व्यवहारः कौतुकायैव नानर्थायेति न जीवन्मुक्तविदेहमुक्तयोर्विशेष इति
पूर्वशङ्कां समाधाय प्रस्तुतमात्मतत्त्वं विस्तरेणोपदेष्टुकामः
प्रथमं मूलदार्ढ्याय पुरुषप्रयत्नं समर्थयति - सौम्येत्यादिना । हे
सौम्य प्रियदर्शन अम्बुत्वे निश्चलाम्बुत्वे । समैव न विषमा । तथैव अदेह##-

सदेहा वास्त्वदेहा वा मुक्तता विषये न च ।
अनास्वादितभोगस्य कुतो भोज्यानुभूतयः ॥ २ ॥

विषये न च विषयाधीना तु न । यदि मुक्तिः स्वर्गादिरिव विषयाधीना स्यात्तर्हि
तथैव विषयवैषम्याद्विषमास्यादिति भावः । ननु तथापि
भोक्तृत्वाभोक्तृ-त्वकृतो विशेषोऽस्त्येव भोगार्थत्वाद्देहस्थितेस्तत्राह

  • अनास्वादितेति । भोगेषु सत्यबुद्ध्या भोक्तृत्वाभिमानेन । भोगास्वादने
    हि भोगकृतो विशेषः स्यान्न त्वसङ्गोदासीनात्मैकत्वदर्शिनः स इति भावः ॥
    २ ॥

जीवन्मुक्तं मुनिश्रेष्ठं केवलं हि पदार्थवत् ।
पश्यामः पुरतो नास्य पुनर्विघ्नोऽन्तराशयम् ॥ ३ ॥

तर्हि कथमस्य सदेहत्वं तत्राह - जीवन्मुक्तमिति । मुनिश्रेष्ठं व्यासं
पदार्थवत्सदेहवत्पुरतः पश्यामः । स्वकल्पनयेति शेषः । अन्तराशय##-
इति भावः ॥ ३ ॥

सदेहादेहमुक्तानां भेदः को बोधरूपिणाम् ।
यदेवाम्बुतरङ्गत्वे सौम्यत्वेऽपि तदेव तत् ॥ ४ ॥

अबोध एव हि भेदकस्तदपगमे बोधमात्रपरिशेषे को भेदक इत्यर्थः ।
सौम्यत्वे निश्चलतया प्रसन्नत्वे । तत् अम्बु । तदेव अम्ब्वेव ॥ ४ ॥

न मनागपि भेदोऽस्ति सदेहादेहमुक्तयोः ।
सस्पन्दोऽप्यथवाऽस्पन्दो वायुरेव यथानिलः ॥ ५ ॥

अम्बुनि कदाचिदस्वच्छत्वादिकृतो विशेषोऽपि स्यादिति दृष्टान्तान्तरेणोक्तं
समर्थयते - न मनागिति ॥ ५ ॥

सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् ।
अस्माकमपि तस्यास्ति स्वैकतास्त्यविभागिनी ॥ ६ ॥

अत्र क्वचित्पुष्तकेषु -

मयोक्तं केवलीभावं तत्तत्स्मरणजीवनम् ।
सदेहस्य विदेहस्य समतैव [समा शिवा] सदा शिवा ॥

इति श्लोकोऽधिकः पठ्यते तस्यायमर्थः - ननु वायुः सस्पन्दः
शिशिरस्तरु-तरङ्गादिकम्पहेतुस्त्वगिन्द्रियवेद्यश्च । अस्पन्दस्तु तद्विपरीत
इति तत्रापि इति तत्रापि भेदोऽस्त्येवेति कथं तदभावेऽसौ दृष्टान्तस्तत्राह -
मयेति । हे राम त्वं सर्वत्र उक्तं विवक्षितं तत्तद्दृष्टान्तस्मरणस्य
जीवनं सारभूतं केवलीभावं वस्तुनः स्वरूपाप्रच्युतिलक्षणं मय
उपमिनु नत्वविवक्षि-तं [विवक्षितकार्यकृतं भ्देअं
कल्पयेत्ययम्] कार्यभेदकृतं कार्यभेदकृतं वैलक्षण्यं
कल्पयेत्यर्थः । तथाचैकांशे [चैकांशेन दृष्टान्त] दृष्टान्तो
न सर्वांशे इति भावः । अत्र सदेहादेहमुक्तै-क्यमुपमेयं उक्तं
विवक्षितं तत्सादृश्यार्थं स्मर्यते तत्स्मरणं
सस्पन्दास्पन्दानिलैक्यमुपमानं तस्य जीवनं उपमेयसादृश्योल्लासा##-
किञ्च सदेहविदेहबन्धमोक्षादिव्यवहारोऽप्यज्ञदृशा कल्पनयैव न
परमार्थ-दृशेत्याह - सदेहेति (?) । अस्माकं
वसिष्ठस्य तस्य व्यासस्यापि सदेहा विदेहा वा मुक्तता प्रमायाः
परमार्थदृष्टेरास्पदं विषयो नास्ति किन्तु अविभा-गिनी द्वैतशून्या
स्वात्मैकतैवास्तीति तल्लाभरूपे ज्ञानफले विशेषा-भावान्न
ज्ञानस्यानित्यफलतादोषशङ्कावकाशः नापि ज्ञानोदये देहपातापत्तिः ।
स्वविरोध्यंशस्यैव ज्ञानेन बाधाद्देहधारणस्य च प्रारब्धफलत्वेन
ज्ञानतुल्यत्वेनोपजीव्यत्वेन च ज्ञानाविरुद्धत्वादुपा-दाननिद्रानाशेऽपि
स्वप्नसंस्कारस्य कञ्चित्कालमनुवृत्तिवदविद्योच्छेदेऽपि यावत्प्रारब्धं
देहादिप्रतिभासोपपत्तेरिति भावः ॥ ६ ॥

तस्मात्प्रकृतमेवेदं शृणु श्रवणभूषणम् ।
मयोपदिश्यमानं त्वं ज्ञानमज्ञान्ध्यनाशनम् ॥ ७ ॥

इत्थं निरस्ते संशये प्रकृतस्यावसरं दर्शयति - तस्मादिति ।
अज्ञानमज्ञा सैवान्ध्यं तस्य नाशनम् ॥ ७ ॥

सर्वमेवेह हि सदा संसारे रघुनन्दन ।
सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते ॥ ८ ॥

ननु शुक्रादीनां शमदमादीसाधनसम्पन्नानां श्रवणं पलितं
कथमन्येषामाधुनिकानां तत्फलिष्यति साधनानां दुःसम्पादत्वादि##-
सदा सर्वमेवावाप्यते तर्हि कथं क्वचिद्यत्नवैफल्यदर्शनं तत्राह -
सम्यगिति । अनुपरम् एव सम्यद्प्रयोगः । समवाप्यते सम्प्राप्यते ॥ ८ ॥

इह हीन्दोरिवोदेति शीतलाह्लादनं हृदि ।
परिस्पन्दफलप्राप्तौ पौरुषादेव नान्यतः ॥ ९ ॥

परिस्पन्दः शास्त्रविहितकायवाक्चित्तचलनरूपं कर्म तस्य फलं
चित्तशुद्धिद्वारा ज्ञानं तत्प्राप्तौ सत्यां हृति शीतलं कामक्रोधादि##-
ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य इति । स्मृतिश्च यच्च कामसुखं
लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं
कलाम् । इति तत्तु सर्व पौरुषादेव भवति नान्यत इति पुरुषप्रयत्न एव निर्भरः
कार्य इति भावः ॥ ९ ॥

पौरुषं स्पन्दफलवद्दृष्टं प्रत्यक्षतो नयत् ।
कल्पितं मोहितैर्मन्दैर्दैवं किञ्चिन्न विद्यते ॥ १० ॥

ननु दैवप्रातिकूल्ये पौरुषं व्यर्थं दृश्यते । तथाच श्रेयांसि
बहुविघ्नानि इति प्रवादान्न तत्फलाश्वास इत्याशङ्क्य दैवस्य
पौरुषेऽन्तर्भावं दौर्बल्यं च वक्ष्यमाणमभिप्रेत्य स्वतन्त्रं तन्निरस्यति

  • पौरुषमिति । गमनभोजनादिपौरुषं स्पन्दद्वारा देशान्तरं तृप्त्यादि
    वा नयत्प्रापयत् प्रत्यक्षतो दृष्तमिति नयत्पदस्य पूर्वत्र वा, यद्दैवं
    न दृष्टं तत् न विद्यत इति पदभङ्गेनोत्तरत्र वान्वयः ॥ १० ॥

साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् ।
तत्पौरुषं [तत्साफल्यम्] तत्सफलमन्यदुन्मत्तचेष्टितम् ॥ ११ ॥

किं तत्पौरुषं यत्प्रशस्यते तदाह - साध्विति । अङ्गग्रहणं
वाचोप्युपलक्षणम् ॥ ११ ॥

यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते ॥ १२ ॥

ईहते चेष्टते । क्वचिद्विघ्नैः प्रतिघातः शास्त्रोक्तक्रमभ्रंशादेवेति
सूचनाय क्रमादित्युक्तम् । साङ्गात्कर्मणः फलावश्यम्भावनियमादिति
भावः ॥ १२ ॥

पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम् ।
कश्चित्प्राणिविशेषो हि [वृषताम्, वृषा=इन्द्रः] शक्रतां
समुपागतः ॥ १३ ॥

तमेव नियमं बहुशः संवादेन द्रढयति - पौरुषेणेत्यादिचतुर्भिः ॥
१३ ॥

पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् ।
कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति ॥ १४ ॥

अम्भोरुहास्पदं पद्मासनं अधिष्ठायेति शेषः । ब्रह्मतां
हिरण्यगर्भतां गुणमूर्तिसारुप्यमुक्तिं वा । एवमुत्तरयोरपि ॥ १४ ॥

सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः ।
कश्चिदेव पुमानेव पुरुषोत्तमतां गतः ॥ १५ ॥

पौरुषेणैव यत्नेन ललनावलिताकृतिः [वलिताकृतिम्] ।
शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् ॥ १६ ॥

प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् ।
प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते ॥ १७ ॥

पुरुषार्थेन पौरुषेण जीयतेऽभिभूयते ॥ १७ ॥

यत्नवद्भिर्दृढाभ्यासैः [प्रजोत्साह] प्रज्ञोत्साहसमन्वितैः

मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥ १८ ॥

नन्वनन्तकोटिकल्पार्जितानामनन्तानां प्राक्तनकर्मणां कथमल्पेनाद्य##-
प्रलयाधिकारिदेवता-भावं प्राप्तैः पुरुषैरित्यर्थः । यद्यप्यनन्तानि
कर्माणि तथापि तेषऽम् मूलैक्यात्तन्नाशेन जयः सुकर इत्यभिप्रेत्याह -
कैवेति ॥ १८ ॥

शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् ।
अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय ॥ १९ ॥

उक्तमर्थमुपसंहरंस्तद्भ्रंशेऽनर्थमाह - शास्त्रेति । शास्त्रैः
श्रुत्यादिभिर्नियन्त्रितं नियमितं यत्पौरुषं तदेव परममवश्य##-
स्यात्सैवाभिमतफलभरस्य सिद्ध्यै भवति हि । अन्यथा अशास्त्रीया
त्वनर्थायेत्यर्थः ॥ १९ ॥

कस्याञ्चित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां
शनैरङ्गुल्यग्रनिपीडितैकचुलुकादावापबिन्दुर्बहुः ।
कस्याञ्चिज्जलराशिपर्वतपुरद्वीपान्तरालीकृता
भर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत् ॥ २० ॥

नन्वल्पधनबलबुद्धीनां कथं महाधनबलबुद्धिसाध्यपौरुषफल##-
जन्मान्तरे वा महाधनादिसम्पत्त्या तल्लाभः सिध्यति । नहि पुरुषस्य दुर्दशा
सुदशा वा सदैव भवतीत्यभिप्रेत्य शास्त्रीयप्रयत्नतच्छैथिल्ययोः फलतो
महदन्तरं दर्शयति - कस्याञ्चिदिति । पुंसः शास्त्रीयप्रयत्न##-
स्वहस्तादेरप्य-स्वाधीनत्वादङ्गुल्यप्राणां निपीडितेन पीडासाध्येनापि
निकुञ्चनेन सम्पाद्यादेकचुलुकात्करसम्मितसलिलात् मुखे आ उप्यते क्षिप्यत
इत्यावाप-स्तथाविधो बिन्दुरपि दुर्लभत्वाद्बहुमतो भवति । तस्यैव
शास्त्रीययत्न-दार्ढ्ये
धर्मोत्कर्षात्कस्याञ्चित्प्रियव्रतादिवत्सप्तद्वीपाधिपत्यदशायां
भर्तव्येभ्यः पुत्रादिभ्य उचितो दायादिसंविभागस्तत्करणे जलराश्याद##-
पृथ्वी न महती भवेत् । न न बहुमता भवेदित्यर्थः । तथाहि प्रसिद्धं
पुराणे प्रियव्रतोत्तानपादौ तावेवावां स्नुहीतरू इति ॥ २० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार##-

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
पौरुषप्रकरणं नाम चतुर्थः सर्गः ॥ ४ ॥