तृतीयः सर्गः ३
श्रीवसिष्ठ उवाच ।
पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना ।
सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम् ॥ १ ॥
स्थूलादिजगदारोपनिरासाभ्यां प्रसाध्यते ।
प्रत्यक्चिदात्मा विषयो रामशङ्काह्नुतिच्छलात् ॥
इत्थं प्राक्तनं सर्वं प्रतिसन्धाय विस्तरेण तद्वक्तुकामः सद्गुरुस्मर##-
सर्वसंसारदुः-खोपशान्तिस्तदर्थं यज्ज्ञानं ज्ञानसाधनं
शास्त्रमुक्तं तदेवेदं कथयामि नान्यदिति सम्प्रदायशुद्धिरुक्ता ॥ १ ॥
श्रीराम उवाच ।
कथयिष्यसि विस्तीर्णां भगवन्मोक्षसंहिताम् ।
इमं तावत्क्षणं जातं संशयं मे निवारय ॥ २ ॥
इत्थं प्रतिज्ञया अवधापितो रामः [सत्यासत्यजिज्ञासायाम्]
सत्यामन्य-जिज्ञासायां तदवधानायोगात् सूचीकटाहन्यायेन
प्रथममुत्पन्नः संशयस्तदपनोदं प्रार्थयमान उवाच -
कथयिष्यसीति । एतत्संशय-निवृत्त्यनन्तरमिति भावः । इमं व्यासस्य
शिष्टलोकवत् जीवदर्शनाच्छुकस्य च विदेहमुक्तिश्रवणात्सञ्जातम् ॥ २ ॥
पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः ।
विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः ॥ ३ ॥
[तमेव] दर्शयति - पितेति । नन्वघटितोऽयं संशयः । न ।
आत्यन्तिकदुःखो##-
-##मुक्तिरेव ज्ञानफलं तच्चेत्सर्वज्ञस्यापि व्यासस्य न सम्पन्नं
ज्ञास्या-नित्यफलत्वं प्राप्तम् । किञ्च यदि ज्ञानेनाज्ञानं
निःशेषमुच्छिन्न तर्हि भृग्वादिवज्जीवनासम्भवः उपादाननाशे
कार्यावस्थानायोगात् अजीवने च
ब्रह्मविद्याप्रवर्तकाभावात्सम्प्रदायोच्छेदः । अथ नोच्छिन्नं तर्ह्यनिर्##-
[फलत्यविधेयत्वादिति] फलति तस्य कालत्रयेऽप्यखण्डात्मनाव##-
श्रीवसिष्ठ उवाच ।
परमार्कप्रकाशान्तस्त्रिजगत्रसरेणवः ।
उत्पत्योत्पत्य लीना ये न सङ्ख्यामुपयान्ति ते ॥ ४ ॥
इति पृष्टो भगवान्वसिष्ठो यावद्रामो बन्धस्याविद्यकत्वमविद्यास्वरूपं
तत्साक्ष्यपरिच्छिन्नसर्वाधारचित्स्वरूपं च न जानाति तावज्जिवन्मुक्तौ न
विश्वसितीति प्रथमं तदुपपाद्य पश्चात्समाधास्यामीति मन्यमानस्त##-
स्थूलप्रपञ्च-परम्पराध्यारोपं दर्शयति -
परमार्केत्यादिशोकत्रयेण । न तत्र सूर्यो भाति न चन्द्रतारकं येन
सूर्यस्तपति तेजसेद्धः इत्यादिश्रुतेः सूर्यादि-सर्वगजदवभासकत्वात्##-
त्रिजगदुपक्षिता-नन्तकोटिब्रह्माण्डलक्षणास्त्रसरेणव उत्पत्योत्पत्य
स्थित्वा स्थित्वा लीनास्ते सङ्ख्यां नोपयान्ति । सङ्ख्यातुं न शक्यन्त इत्यर्थः ।
एतेन व्यासादयोऽप्य सङ्ख्याता तुपद्यन्त इति सूचितम् ॥ ४ ॥
वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः ।
शक्यन्ते ताश्च सङ्ख्यातुं नैव काश्चन केनचित् ॥ ५ ॥
वर्तमानाः सन्तीति । आरब्धापरिसमाप्तत्वं वर्तमानता
उक्तिकालसम्बन्धोऽस्तितेति न पौनरुक्त्यम् ॥ ५ ॥
भविष्यन्ति पराम्बोधौ जगत्सर्गतरङ्गकाः ।
तांश्च वै परिसङ्ख्यातुं सा कथैव न विद्यते ॥ ६ ॥
परः परमात्मा स एवाम्बोधिः । ये भविष्यन्ति तान् । सा प्रसिद्धा । कथा
वाक्प्रवृत्तिः । अनेन त्रैकालिकजतदुत्पत्त्याद्याधारभूते परमात्मनि
जगदध्यारोपो दर्शितः ॥ ६ ॥
श्रीराम उवाच ।
या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः ।
तासां विचारणा युक्ता वर्तमानास्तु का इव ॥ ७ ॥
पृष्टमर्थमुपेक्ष्यान्यद्वदतो गुरोर्निगूढाशयः स्वेन सम्यग्विदित इति
गोरोरुत्साहाय स्वकौशलं सूचयन् रामस्तेषु सर्गेषु स्वयं कञ्चिद्विशेष##-
प्रातिस्विकरूपेणासङ्ख्येयास्त-थापि ते कालतः
कूलद्वयदर्शनाद्भूतभविष्यत्सर्गापेक्षया न्यून-सङ्ख्या इति विदिता
एवेति भावः । का इव किम्भूता इवोत भविष्यन्त इव । नोभयसाम्यमपीति न
तत्पङ्क्तावेषां विचारणा युक्तेत्यर्थः । तथा-चानन्तानामागन्तुनां
तेषामुपादानमात्मतत्त्वमनन्तमेकमना-गन्तुकं चिद्रूपं त्वया
दर्शितमिति मया विदितमिति भावः ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
तिर्यक्पुरुषदेवादेर्यो नाम स विनश्यति ।
यस्मिन्नेव प्रदेशेऽसौ तदैवेदं प्रपश्यति ॥ ८ ॥
एवं निगूढाशयपरिज्ञानेन तत्र विशेषोक्त्या प्रोत्साहितः पूर्वोक्तस्थूल##-
स्थूलीभावावभासात्सूक्ष्मप्रपञ्चमात्रतेति दर्शयिष्यन् श्रीवसिष्ठ उवाच
- तिर्यगिति । तिर्यञ्चः पशुपक्ष्यादयः पुरुषा मनुष्या देवाः प्रसिद्धा
आदिः प्रधानो यस्य प्राणिनिकायस्य तस्य मध्ये यो यस्मिन्नेव प्रदेशे यदैव
विनश्यति म्रियते सोऽसौ प्रत्यगात्मा तस्मिन्नेव प्रदेशे तदैवेदं
वक्ष्यमाणं जगत्रयं प्रपश्यति नान्यत्र न वाचिरेणेत्यर्थः ॥ ८ ॥
आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्रयम् ।
व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः ॥ ९ ॥
स किमुपकरणः किंस्वरूपश्च पश्यति तत्राह - आतिवाहिकेति ।
अतिवहनमति-वाहो धूमार्चिरादिमार्गाभिमानिदेवैः परलोकप्रापणं
तत्र साधुराति-वाहिकस्तन्नाम्ना वासनामयेन सूक्ष्मशरीरेण
स्वहृद्येवान्तर्व्योम्नि दहराकाशे जगत्रयं वासनामयमेवानुभवति
भ्रान्त्या वासनामय-तत्तच्छरीराणि वा प्राप्नोति क्रमशः । वस्तुतस्तु स
व्योमात्मा प्रागुक्तचिदा-काशस्वरूपः अतएवाजो
जन्मादिविक्रियारहितश्चेत्यर्थः । ननु तेन प्रद्योते-नैष आत्मा निष्क्रामति
चक्षिषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य-स्तमुत्क्रामन्तं
प्राणोऽनूत्क्रामति उत्क्रामन्तं स्थितं वापि इत्याद्यनेक##-
कथमुच्यत इति चेत् । सत्यम् । कर्मोपासनानुरूपव्यवहारदृष्ट्या ते
श्रुतिस्मृतिवादाः । इह तु परमार्थदृष्ट्या अस्मिन्द्यावापृथिवी अन्तरेव
[समाहिते कल्पिते] समाहिते इति श्रुतिवाद-वद्धृद्येव
परलोककल्पनमुच्यते । आत्मनो वैपुल्याद्धृदयस्या##-
हृदयपरिच्छेदं निवार्य निष्क्रियत्वं प्रपञ्चस्य वासनामात्रमयत्वं च
व्युत्पादयितुं परलो-कवदुत्-क्रमणगमनादेरपि तत्रैव
कल्पनामात्रेणाप्युपपत्तेरित्यभि-प्रेत्येत्यविरोधः ॥ ९ ॥
एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः ।
भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक् ॥ १० ॥
एकत्र व्युत्पादितं न्यायं सर्वत्र दर्शयति - एवमिति । भूतानां कोटय
इत्यन्वयः । जगन्ति दृश्यजातानि मरणकाले तेषां जगतां वासनासु लीनानि
यानि यां आशां वासनां यस्यां यस्यां वासनायां कर्मपरिपाका##-
स्फुरन्ति तानि तान्येव प्राप्नुवन्तीति शेषः । यद्यद्भवन्ति तदाभवन्ति यं यं
वापि स्मरन्भावम् इत्यादिश्रुतिस्मृतिभ्य इति भावः ॥ १० ॥
सङ्कल्पनिर्माणमिव मनोराज्यविलासवत् ।
इन्द्रजालामाल इव कथार्थप्रतिभासवत् ॥ ११ ॥
इत्थं वासनामयत्वे जगतो यत्फलितं परमार्थदृष्ट्या भ्रमरूपत्वं
तदाह - सङ्कल्पेत्यादिषड्भिः । सङ्कल्पे मानसपूजादौ
रत्नमयप्रासादा-देर्यत्नेन निर्माणं मनोराज्ये त्वयत्नेनेति भेदः ।
निर्वाणम् इति पाठे निर्वृतिर्निर्वाणं सुखं
साङ्कल्पिकाङ्गनापरिष्वङ्गादिजम् । इन्द्रजालान्या-रचिता
[इन्द्रजालेनारचिता] मालेव यस्मिन्भ्रमे स एव ॥ ११ ॥
दुर्वातभूकम्प इव त्रस्तबालपीशाचवत् ।
मुक्तालीवामले व्योम्नि नौष्पन्दतरुयानवत् ॥ १२ ॥
दुर्वातो वातरोगविशेषस्तेन भूकम्पभ्रमः । बालस्य भीषणार्थं कल्पितः
पिशाचस्तद्वत् । मुक्ताली मौक्तिकसमूहः । नौकारूढानां नौष्पन्दे
तीरस्थतरूणां यानं गमनं भ्रान्त्या प्रसिद्धम् ॥ १२ ॥
स्वप्नसंवित्तिपुरवत्स्मृतिजातखपुष्पवत् ।
जगत्संसरणं स्वान्तर्मृतोऽनुभवति स्वयम् ॥ १३ ॥
संवित्तिर्दर्शनम् । स्मृतेः स्मरणाज्जातं कल्पितं खे पुष्पं तद्वत् ।
जगत्संसरणमिति प्रथमान्तं प्रथमान्तप्राक्तनदृष्टान्तान्वयानु##-
जातस्याप्युपलक्षणम् ॥ १३ ॥
तत्रातिपरिणामेन तदेव घनतां गतम् ।
इहलोकोऽयमित्येव जीवाकाशे विजृम्भते ॥ १४ ॥
तर्हि कथं वैधर्म्याच्च न स्वप्नादिवत् इति भगवतो बादरायणस्य सूत्रम्
भोक्तुश्चिरं तत्र वैधर्म्येण नियतव्यवहारादिः सत्यताप्रत्ययश्च तत्राह
- तत्रेति । अतिपरिणामश्चिरपरिचयः । घनतां पञ्चीकरणेन दृढताम् ।
तथा च तत्कृत एव वैधर्म्यादिव्यवहार इति भावः ॥ १४ ॥
पुनस्तत्रैव जन्मेहामरणाद्यनुभूतिमान् ।
परं लोकं कल्पयति मृतस्तत्र तथा पुनः ॥ १५ ॥
अनवस्थितस्वभावत्वादपि जगतो मिथ्यात्वमिति दर्शयितुमाह - पुनरिति । ईहा
जन्मोत्तरं मरणपर्यन्तं चेष्टा ॥ १५ ॥
तदन्तरन्ये पुरुषास्तेषामन्तस्तथेतरे [तथा परे] ।
संसार इति भान्तीमे कदलीदलपीठवत् ॥ १६ ॥
वासनाया अन्तः अन्तरे अन्ये पुरुषा देहाः । पुरुषा इति पश्वादीनामप्युप##-
न पृथ्व्यादिमहाभूतगणा न च जगत्क्रमाः ।
मृतानां सन्ति तत्रापि तथाप्येषां जगद्भ्रमाः ॥ १७ ॥
एवं मिथ्यात्वे सिद्धे तदपवादेनात्मपरिशेषसिद्धिरित्यभिप्रेत्याह - न
पृथ्व्यादीति । ज्ञानं विना नोच्छिद्यन्ते इति शेषः । एवं प्रपञ्चापवादेन
परिशिष्टात्मसिद्धिः ॥ १७ ॥
अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी ।
जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी ॥ १८ ॥
मूलोच्छेदं विना नापलापमात्रेण
तन्निवृत्तिसिद्धिरित्यभिप्रेत्याविद्योच्छेद्य-त्वमाह - अविद्यैवेति ।
जडानां भूढानां आदीर्घा दुष्तरेति यावत् । तरद्भिश्चलद्भिः
सर्गैस्तरङ्गिणी तरङ्गवती ॥ १८ ॥
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः ।
भूयोभूयोऽनुवर्तन्ते त एवान्ये च भूरिशः ॥ १९ ॥
अविद्यादिसर्वकल्पनाधिष्ठानं दर्शयति - परमार्थेति । ते प्राक्तना
अभिनवाश्च ॥ १९ ॥
सर्वतः सदृशाः केचित्कुलक्रममनोगुणैः ।
केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः ॥ २० ॥
इमं व्यासमुनिं तत्र द्वात्रिंशं संस्मराम्यहम् ।
यथासम्भवविज्ञानदृशा सन्दृश्यमानया ॥ २१ ॥
प्रकृतशङ्कासमाधानोपोद्घातेन जगद्व्यवस्थितिं
प्रकृतशास्त्रविषयं च व्युत्पाद्य शङ्कासमाधानमुपक्रमते -
इममित्यादिना । पुराणभारता-दिनिर्माणकारैः सन्दृश्यमानया
प्रसिद्धया । यथोचितेन सम्भवेन जन्मना विज्ञानेन शास्त्रादिज्ञानेन
दृशा ब्रह्मविद्यया चोपलक्षितेषु । तत्र तेषु व्याससर्गतरङ्गकेषु । इमं
द्वात्रिंशं संस्मरामीति सम्बन्धः ॥ २१ ॥
द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः ।
दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः ॥ २२ ॥
तेष्वप्यवान्तरविशेषमाह - द्वादशेति । अल्पधियो ब्रह्मविद्ब्रह्मविद्वरो
ब्रह्मविद्वरीयान् ब्रह्मविद्वरिष्ठ इति प्रसिद्धेषु चतुर्थस्थानाविश्रान्तेरल्प##-
अद्याप्यन्ये भविष्यन्ति व्यासवाल्मीकयस्तथा ।
भृग्विङ्गरःपुलस्त्याश्च तथैवाप्यन्यथैव च ॥ २३ ॥
तथैव पूर्वसदृशा अन्यथैव तद्विलक्षणाश्चेत्यर्थः ॥ २३ ॥
नराः सुरर्षिदेवानां गणाः सम्भूय भूरिशः ।
उत्पद्यन्ते विलीयन्ते कदाचिच्च पृथक्पृथक् ॥ २४ ॥
ब्राह्मी द्वासप्ततिस्त्रेता आसीदस्ति भविष्यति ।
स एवान्यश्च लोकाश्च त्वं चाहं चेति वेद्म्यहम् ॥ २५ ॥
ब्राह्मी ब्राह्मकल्पावयवभूता त्रेता साम्प्रतमस्ति प्रतिकल्पं चासीद्##-
२५ ॥
क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः ।
संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः ॥ २६ ॥
अस्य पुरोवर्तिनो व्यासस्य व्यासजीवस्य ॥ २६ ॥
अभूम व्यासवाल्मीकियुक्ता वयमनेकशः ।
अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ॥ २७ ॥
अभूम वयमेवेमे सदृशा इतरे विदः ।
अभूम वयमेवेमे नानाकाराः समाशयाः ॥ २८ ॥
इतरे विसदृशाः । विदः अभिज्ञाः ॥ २८ ॥
भाव्यमद्याप्यनेनेह ननु स्वाराष्टकं पुनः ।
भूयोऽपि भारतं नाम सेतिहासं करिष्यति ॥ २९ ॥
करिष्यति अयमिति शेषः ॥ २९ ॥
कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् ।
ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम् ॥ ३० ॥
कुलस्य स्ववंशस्य भरतवंशस्य वा प्रथां प्रख्यातिम । ब्रह्मत्वं
[हिरण्यगमाधिकारम्] हैरण्यगर्भाधिकारम् । वैदेहमोक्षणं
विदेहमुक्ततां प्राप्तेन शेषः । भाव्यमिति भावे कृत्यः । अथवा
वैदेहमोक्षणं भाव्यं प्राप्तव्यम् । भू प्राप्तावात्मनेपदी तस्मात्कर्मणि
कृत्यः ॥ ३० ॥
वीतशोकभयः शान्तनिर्वाणो गतकल्पनः ।
जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः ॥ ३१ ॥
तस्य साम्प्रतं जीवन्मुक्ततां दर्शयति - वीतेति । निर्वाणो निर्गतो
मोहबन्ध-नात् । गत्यर्थत्वात्कर्तरि क्तः । निर्वाणो वाते इति निष्ठानत्वम् ।
शान्तश्चासौ निर्वाणश्चेति कर्मधारयः । अतएव गता
अहम्ममेत्यध्यासकल्पना यस्य । अतएव च वीतशोकभयः ॥ ३१ ॥
वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः ।
समानि सन्ति भूतानि कदाचिन्नतु तानि तु ॥ ३२ ॥
द्वचित्तु तानि न समानीत्यन्वयः ॥ ३२ ॥
[क्वचिदिति पूर्वोत्तरान्वयि] द्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति
वा ।
कदाचिदपि मायेयमित्थमन्तविवर्जिता ॥ ३३ ॥
क्वचित्कदाचिदपि भवन्ति ॥ ३३ ॥
यच्छतीयं विपर्यासम् भूरिभूतपरम्परा ।
बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ॥ ३४ ॥
भूतपरम्परा प्राणिनिकायः । यथा धान्यादिबीजराशिर्मानाय पुनः पुनः
प्रस्थादौ पूर्यमाणः पुना राशिकृतो न पूर्वक्रमसन्निविष्टबीजो भवति
किन्तु विपर्यासं [गच्छति] यच्छति तद्वत् ॥ ३४ ॥
तेनैव सन्निवेशेन तथान्येन पुनःपुनः ।
सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः ॥ ३५ ॥
सन्निवेशोऽवयवसंस्थानविशेषः क्रमो वा ॥ ३६ ॥
आश्वस्तान्तःकरणः शान्तविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः ॥ ३६ ॥
जीवन्मुक्तस्य योगबलादाधिकारिकनानाशरीरपरिग्रहेऽपि न मुक्तिस्वरूप##-
सर्वस्योप-पादको हेतुर्निरावरण इति ।
अनाश्वासविकल्पासारदेहादिमयत्वाशान्ततृप्त्या##-
ज्ञानफलं सा च न पाक्षिकीति भावः ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार##-
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
भूयोभूयःसर्गानुवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥