०२

द्वितीयः सर्गः २

विश्वामित्र उवाच ।

तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् ।
यथोपयुक्तं ते राम तावदेवोपयुज्यते ॥ १ ॥

इह रामोपदेशार्थं विश्वामित्रेण धीमता ।
प्रार्थितस्य विषिष्ठस्य तदुत्साहः प्रकीर्त्यते ॥

शुकाख्यायिकां प्रकृते योजयन् रामोपदेशाय वसिष्ठं प्रवर्तयितुमा##-
यावत्प्रकारमुपयुक्त्य-मुपपत्तियुक्तमुपदेशनमुपयुज्यते तावदेव ते
तवापि उपयुक्तं युज्यत इति सम्बन्धः । उपयुक्तमभूदिति
पूर्ववाक्यमात्रशेषतया तु न व्याख्येयम् । समानवाक्ये
युष्मदस्मदादेशविधानेन विरोधात् ॥ १ ॥

ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः ।
स्वदन्तेऽस्मै न यद्भोगा रोगा इव सुमेधसे ॥ २ ॥

उक्तमर्थ सर्वमुनिसम्मत्या समर्थयितुं मुनीश्वरा इति तेषां सम्बोधनम् ।
स्वदन्ते रोचन्ते । अस्मै रामाय । रुच्यर्थानां प्रीयमाणः इति
सम्प्रदानत्वाच्चतुर्थी ॥ २ ॥

ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् ।
न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ॥ ३ ॥

भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः ।
तयोपशान्तया याति बन्धो जगति तानवम् ॥ ४ ॥

भावनया वासनया । तानवमल्पताम् ॥ ४ ॥

वासनातानवं राम मोक्ष इत्युच्यते बुधैः ।
पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥ ५ ॥

यावद्विषयावासना क्षीयते तावता मुच्यते । सर्वथा क्षये तु सर्वतो मुक्तिरिति
भावः ॥ ५ ॥

स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् ।
मुने विषयवैरस्यं कदर्थादुपजायते ॥ ६ ॥

अभिगमनमापातज्ञानम् । प्रायशः अल्पश्रवणाद्यायासेनापि । अपरोक्ष##-
कदर्थात्क्लेशात् ॥ ६ ॥

सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः ।
न स्वदन्ते बलादेव तस्मै भोगा महात्मने ॥ ७ ॥

तर्ह्यलं तावता किं वैराग्येण तत्राह - सम्यगिति । सम्यक्
रागाद्यप्रतिहतं यथा स्यात्तथा यः पश्यति स एव
तज्ज्ञस्तत्त्वज्ञानजन्याविद्द्योच्छेदफल-भागिति ज्ञातज्ञेयः पण्डितश्च
। आपातदर्शी तु मौर्ख्यानपगमान्न तथेति भावः ॥ ७ ॥

यशःप्रभृतिना यस्मै हेतुनैव विना पुनः ।
भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते ॥ ८ ॥

प्रभृतिग्रहणेन पूजालाभादयो गृह्यन्ते । हेतुना उद्देश्येन फलेन विनैव
। तथाच न दाम्भिकभोगत्यागादिष्टसिद्धिरित्यर्थः ॥ ८ ॥

ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते ।
विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ॥ ९ ॥

वैराग्यबोधोपरमाणामभिवृद्धौ परस्परसहायत्वाज्ज्ञानपरिपाकाति##-
यावद्यावन्न विज्ञात। न्तावत्तावद्विषयेष्वरतिर्न जायत इति
व्यतिरेकप्रकर्षादन्वय-प्रकर्षो लक्ष्यते । रसोऽप्यस्य परं दृष्ट्वा
निवर्तते इति भगवद्वचनादिति भावः ॥ ९ ॥

अतएव हि विज्ञातज्ञेयं [विज्ञातं ज्ञेयम्] विद्धि रघूद्वहम् ।
[येनेदम्] यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ॥ १० ॥

भोगभूमयो विषयाः ॥ १० ॥

रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् ।
आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः ॥ ११ ॥

यदि रामस्तत्त्वज्ञस्तर्हि किमर्थमुपदेशार्थं वक्ष्यमाणा
वसिष्ठप्रार्थना तत्राह - राम इति । सतो वसिष्ठस्य मुकात् । आप्नोत्येव
अन्योऽप्यधिकारीति शेषः । तथा च सर्वोपकारायोपदेशप्रार्थनेत्यर्थः । अथवा
रामो यदन्तस्तत्त्वं जानाति तद्राम एव विश्वासदार्ढ्याभावाद##-

केवलं केवलीभावविश्रान्तिं समपेक्षते ।
रामबुद्धिः शरल्लक्ष्मीः खलु विश्रमणं यथा ॥ १२ ॥

तदेव स्फुटमाह - केवलमिति । केवलीभावविश्रान्तिं द्वैतनिरासे
अद्वितीय-चिन्मात्रपरिशेषम् । खल्विति निश्चयेन । विश्वासेनेत्यर्थः ॥ १२ ॥

अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः ।
युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम् ॥ १३ ॥

रघूणामेष सर्वेषां प्रभुः कुलगुरुः सदा ।
सर्वज्ञः सर्वसाक्षी च त्रिकालामलदर्शनः ॥ १४ ॥

ननु त्वयैव कुतो नोपदिश्यते तत्राह - रघूणामिति । रघूपलक्षितानामि##-
साक्षी तत्त्वतो योगबलेन विभागशश्च साक्षाद्द्रष्टा । साक्षाद्द्रष्टरि
सञ्ज्ञायाम् इतीनिः । तत्र हेतुः त्रिष्वपि कालेष्वमलं मोहातिरस्कृतं
दर्शनसाधनं मनो यस्य ॥ १४ ॥

वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् ।
आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥ १५ ॥

कच्चिदिति हितप्रश्ने । महाधियां मुनीनामित्युत्तरेणान्वयः ॥ १५ ॥

निषधाद्रेर्मुनीनां च सानौ सरलसङ्कुले ।
उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥ १६ ॥

सानौ प्रस्थदेशे । सरला वृक्षविशेषाः । बहुश्रेष्ठमुपपत्तितो वा
बहु ॥ १६ ॥

येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना ।
सांसारी नूनमायाति शमं श्यामेव भास्वता ॥ १७ ॥

येन ज्ञानेन । युक्तिरुपपत्तिस्तदेकतानता च ॥ १७ ॥

तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने ।
ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ॥ १८ ॥

कदर्थना च नैवैषा रामो हि गतकल्पषः ।
निर्मले मुकुरे वक्रमयत्नेनैव बिम्बति ॥ १९ ॥

अल्पफलो बहुप्रयासः कदर्थना ॥ १९ ॥

तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् ।
सच्छिष्याय विरक्ताय [यत्किञ्चिदुपदिश्यते] साधो यदुपदिश्यते ॥
२० ॥

नेयं कदर्थना प्रत्युताभिज्ञतादयादिसार्थक्यापादनादभ्युदय एवेत्याह

  • तदिति । विदग्धः पण्डितस्तद्भावो वैदग्ध्यम् । अनिन्दितं प्रशस्तम् ।
    पात्रेष्वप्रतिपत्तौ वैयर्थ्यान्निन्दितमेव स्यादिति भावः ॥ २० ॥

अशिष्यायाविरक्ताय यत्किञ्चिदुपदिश्यते ।
तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥ २१ ॥

दृतिश्चर्मभस्त्रा ॥ २१ ॥

वीतरागभयक्रोधा निर्माना गलितैनसः ।
वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥ २२ ॥

रागादीनामविद्यामूलकत्वात्तदुच्छेदादेव वीतरागादयः । गलितैनसो
निष्पापाः । इहास्यामुपदेशदशायामेव । अस्मिन्नित्यपरोक्षे आत्मतत्त्वे वा ॥ २२ ॥

इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः ।
मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥ २३ ॥

गाधिपुत्रेण विश्वामित्रेण । अपूजयन् प्राशंसन् ॥ २३ ॥

अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः ।
ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः ॥ २४ ॥

यतोऽयं ब्रह्मणः पुत्रो ब्रह्मेव महातेजस्त्वादिगुणविशिष्टोऽतो दिव्यानामपि
महर्षीणां पुरतो ब्रह्मेवोवाचेति भावः ॥ २४ ॥

श्रीवसिष्ठ उवाच ।

मुने यदादिशसि मे तदविघ्नं करोम्यहम् ।
कः समर्थः समर्थोऽपि सतां लङ्घयितुं वचः ॥ २५ ॥

तत्त्वज्ञानां लक्षणभूतानमानित्वादिगुणान्स्वाचरितैः शिक्षयन्निव
विनयोक्तिभिः प्रार्थितार्थनिरूपणं प्रतिजानीते - मुने इत्यादिना । आदिशसि
आज्ञापयसि ॥ २५ ॥

अहं हि राजपुत्राणां रामादीनां मनस्तमः ।
ज्ञानेनापनयाम्याशु दीपेनेव निशातमः ॥ २६ ॥

ज्ञानोदये अज्ञाननिवृत्तौ न विलम्ब इति द्योतनायाश्विति ॥ २६ ॥

स्मराम्यखण्डितं सर्वं संसारभ्रमशान्तये ।
निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना ॥ २७ ॥

यज्ज्ञानं पुरा पद्मजन्मना प्रोक्तं तत्सर्वमखण्डितमविच्छिन्नं
ग्रन्थतोऽर्थतश्च स्मरामि । अथवा अखण्डितं निरन्तरं स्मरामि अनुसन्दधे
॥ २७ ॥

वाल्मीकिरुवाच ।

इति निगदितवानसौ महात्मा परिकरबन्धगृहीतवक्तृतेजाः ।
अकथयदिदमज्ञतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः ॥ २८ ॥

असौ महात्मा वसिष्ठ इति निगदितवान्व्यक्तं प्रतिज्ञातवान्सन् यथा शूरो नटो
वा भूषणाच्छादनायुधादिपरिकरबन्धनेनोद्युक्तः शोभते तथैव
शिष्यप्रबोधानुरञ्जनोपायदृष्टान्तोपाख्यानप्रमाणतर्काद्यनुसन्धानो
त्साहादिपरिकरबन्धनेन गृहीतं स्वीकृत्ऽम् वक्तॄणां व्याख्यातॄणां
तेजः शोभाविशेषो येन तथाविधः सन् सर्वेषां जगतामज्ञताया उपशान्त्यै
मूलोच्छेदायेदं वक्ष्यमाणं परमपदस्यैकं मुख्यं वोबोध्यते एन
तद्विबोधनं शास्त्रमकथयत् ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार##-

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
विश्वामित्रवाक्यं नाम द्वितीयः सर्गः ॥ २ ॥