०१

प्रथमः सर्गः १

वाल्मीकिरुवाच ।

इति नादेन महता वचस्युक्ते सभागतैः ।
राममग्रगतं प्रीत्या विश्वामित्रोऽभ्यभाषत ॥ १ ॥

अजमजरमनाद्यमेकं निजसौख्यलवाञ्चिताखिलानन्दम् ।
हृदि निहितमात्मसारं निगमान्तामृतरसायनं वन्दे ॥

श्रीरामादिवचनमुखेन वर्णितापि साधनसम्पन्मुमुक्षिभिः केन क्रमेण
व्यवहरद्भिः सम्पाद्या कथं च तया तत्त्वविश्रान्तिलाभ इति प्रत्येकं विविच्य
तेषामुपदेशाय द्वितीयं प्रकरणमारभमाणः श्रीवाल्मीकि-रुवाच ##-

स्वयं विचारात्सम्बुद्धे पित्रा चोक्तेऽप्यविश्वसन् ।
जनकोक्त्या शुकस्तत्त्वे विश्रान्त इति कीर्त्यते ॥

तत्रादौ मन्दवैराग्यादिसाथनानां सहसैवाधिकारसम्पत्तिभ्रमेण
श्रवणादौ प्रवृत्तिर्मा भूदिति शुखाख्यायिकया तत्परिपाकलक्षणानि
दर्शयन् आचार्याद्धैव विद्या विदिता साशिष्ठं प्रापत् इति श्रुतेः कुलाचार्यं
विषिष्ठं श्रीरामस्योपदेशनाय पूर्ववृत्तन्तस्मारण##-
त्वरमाणो विश्वामित्र एव प्रथममभ्यभाषतेत्याह - इतीति ।
सभायामा-गतैः सिद्धैः अग्रगतं पुरःस्थितम् अधिकारसीम्नि स्थितं च ।
मुख्याधि-कारिणां दौर्लभ्याद्रामे
रसज्ञतमत्वाद्वर्तिष्यमाणब्रह्मचर्चायां च प्रीत्या ॥ १ ॥

न राघव तवास्त्यन्यज्ज्ञेयं ज्ञानवतां वर ।
स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवानसि ॥ २ ॥

ज्ञेयमज्ञातत्वादवश्यज्ञातव्यम् । सर्वं हेयोपादेयरहस्यम् । तथाच
सारासारविवेचनपरया बुद्ध्या परमार्थसारभूतमखण्डाद्वयचिन्##-

केवलं मार्जनामात्रं मनागेवोपयुज्यते ।
स्वभावविमले नित्यं स्वबुद्धिमुकुरे तव ॥ ३ ॥

तर्हि कुतो न विश्रान्तिस्तत्राह - केवलमिति । मार्जना
अविश्वाससन्देहमालिन्य-निराकारणं तावन्मात्रम् । स्वबुद्ध्या विदितेऽपि
प्रमाणाचार्यादिसंवाद-मन्तरेण विश्वासाभावादित्यर्थः । तथाचाहुः
बलवदपि शिक्षितानामा-त्मन्यप्रत्ययं चेतः इति ॥ ३ ॥

भगवद्व्यासपूत्रस्य शुकस्येव मतिस्तव ।
विश्रान्तिमात्रमेवान्तर्ज्ञातज्ञेयाप्यपेक्षते ॥ ४ ॥

भगवतो व्यासस्य । अत्र व्यासशुकौ प्राक्तनद्वापरान्तजातौ गृह्येते ।
प्रतिद्वापरान्तं व्यासावतारभेदप्रसिद्धेः ॥ ४ ॥

श्रीराम उवाच ।

भगवद्यासपुत्रस्य शुकस्य भगवन्कथम् ।
ज्ञेयेऽप्यादौ न विश्रान्तं विश्रान्तं च धिया पुनः ॥ ५ ॥

ज्ञेये स्वेनैव विचारेण ज्ञातुं शक्येऽपि तत्त्वे । धिया गुरूपदेशसंवा##-

विश्वामित्र उवाच ।

आत्मोदन्तसमं राम कथ्यमानमिदं मया ।
शृणु व्यासात्मजोदन्तं जन्मनामन्तकारणम् ॥ ६ ॥

आत्मोदन्तसमं स्ववृत्तान्तसदृशम् । जन्मनामन्तो मोक्षः ॥ ६ ॥

योऽयमञ्जनशैलाभो निविष्टो हेमविष्टरे ।
पार्श्वे तव पितुर्व्यासो भगवान्भास्करद्युतिः ॥ ७ ॥

अञ्जनशैलो नीलाद्रिरिति प्रसिद्धो वर्षपर्वतः । निविष्ट उपविष्टः । विष्टरे आसने
॥ ७ ॥

अस्याभूदिन्दुवदनस्तनयो नयकोविदः ।
शुको नाम महाप्राज्ञो यज्ञो मूर्त्येव सुस्थितः ॥ ८ ॥

नयकोविदः सर्वशास्त्रज्ञः । मूर्त्या शरीरेण युक्तो यज्ञ इव सुस्थितः ॥ ८ ॥

प्रविचारयतो लोकयात्रामलमिमां हृदि ।
तवेव किल तस्यापि विवेक उदभूदयम् ॥ ९ ॥

विवेको विचारः । अयमीदृशः ॥ ९ ॥

तेनासौ स्वविवेकेन स्वयमेव महामनाः ।
प्रविचार्य चिरं चारु यत्सत्यं तदवाप्तवान् ॥ १० ॥

यत्परमार्थसत्यमात्मतत्त्वद्वितीयचिन्मात्ररूपं तदवाप्तवाञ्ज्ञातवान् ।
ज्ञानस्यैव तल्लाभत्वात् ॥ १० ॥

स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ।
इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ ॥ ११ ॥

अविश्रान्तौ हेतुरविश्वासः ॥ ११ ॥

केवलं विररामास्य चेतो विगतचापलम् ।
भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥ १२ ॥

विरराम उपरतम् । विरक्तमिति यावत् । भूरिभङ्गेभ्यो बहुतरविनाशदुःख##-

एकदा सोऽमलप्रज्ञो मेरावेकान्तसुस्थितम् ।
पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥ १३ ॥

कृष्णद्वैपायानं व्यासम् ॥ १३ ॥

संसाराडम्बरमिदं कथमभ्युत्थितं मुने ।
कथं च प्रशमं याति कियत्कस्य कदेति वा ॥ १४ ॥

परवञ्चनार्थ कृत्रिमचेष्टितमाडम्बरं कथं केन क्रमेण अभुत्थित##-
कस्य संसारः किं देहस्य उत इन्द्रियाणामुत मनसः प्राणस्य वा उत
सङ्घातस्य उत तदन्यस्य विकारिणो निर्विकारचिन्मात्रस्य वेति पप्रच्छेति
पूर्वेणान्वयः ॥ १४ ॥

इति पृष्टेन मुनिना व्यासेनाखिलमात्मजे ।
यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १५ ॥

विदितात्मना व्यासेन अखिलं वक्तव्यं यथावत्प्रोक्तमित्यन्वयः ॥ १५ ॥

आऽज्ञासिषं पूर्वमेतदहमित्यथ तत्पितुः ।
स शुकः शुभया बुद्ध्या न वाक्यं बह्वमन्यत ॥ १६ ॥

आ अज्ञासिषमिति च्छेदः । ननु यद्यत्र प्राक् स्वविचारेणैव ज्ञातस्य
स्मरणार्थोऽयं आ इति निपातस्तर्हि वाक्यस्मरणयोरङित् इत्यनाङ्त्वात् निपात
एकाजनाङ् इति प्रगृह्यत्वे प्रकृतिभावो न्याय्यः । सत्यम् । तथापि पूर्वं
आसमन्ताद्विशिष्याज्ञासिषमिति धात्वर्थातिशद्योतकतया क्रियायोगस्यापि
विवक्षितत्वात्तत्रैकशेषादिना आङोऽपि सङ्ग्रहात् निपात् एकाजनाङ् इत्यत्र
आङ्वर्ज्य इति प्रसज्यप्रतिषेधपक्षस्वीकारात् प्रतिषेधाश्च बलीयांसो भवन्ति इति
महाभाष्योक्तेः प्रगृह्यसञ्ज्ञानिषेधात्सन्धिः साधुरेव । अथ
उपदेशानन्तरं शुकस्तत्पितुर्वाक्यं आज्ञासिषमित्यनपूर्वार्थतया श्भया
बुद्ध्या न बह्वम्न्यतेत्यन्वयः ॥ १६ ॥

व्यासोऽपि भगवान्बुद्धा पुत्राभिप्रायमीदृशम् ।
प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥ १७ ॥

जनको नाम भूपालो विद्यते वसुधातले ।
यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १८ ॥

पुत्राभिप्रायं बुद्ध्वा तद्बुद्धिमेवानुसरन् प्रत्युवाच नाहं जानामि ।
उक्तादन्यदिति भावः ॥ १७ ॥ १८ ॥

पित्रेत्युक्ते शुकः प्रायात्सुमेरोर्वसुधातले ।
विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ १९ ॥

विदेहा नाम जनपदास्तेषां नगरीं मिथिलाम् ॥ १९ ॥

आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने ।
द्वारि व्याससुतो राजञ्शुकोऽत्र स्थितवानिति ॥ २० ॥

याष्टीकैर्द्वास्थैर्यष्टिधरैः ॥ २० ॥

जिज्ञासार्थं [शुकस्याज्ञायास्ताम्]
शुकस्यासावास्तामेवेत्यवज्ञया ।
उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २१ ॥

जनकोऽपि विदितशुकवृत्तन्तः सहसैवोपदेशे व्यासवचनवदवहेलनया
तस्याकृतार्थता मा भूदिति शुकस्य वैराग्यादिसाघनानां विश्वासस्य
स्थैर्यस्य च जिज्ञासार्थम् । अवज्ञया उपेक्षया ॥ २१ ॥

ततः प्रवेशयामास जनकः शुकमङ्गणम् ।
तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥ २२ ॥

अङ्गणं गृहान्तश्चत्वरम् । उन्मनाः तत्त्वजिज्ञासोत्कण्ठाविस्मृतानादर
इति यावत् ॥ २२ ॥

अथ प्रवेशयामास जनकोऽन्तःपुरं शुकम् ।
राजा न दृश्यते तावदिति सप्त दिनानि च ॥ २३ ॥

तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसञ्चयैः ।
जनको लालयामास शुकं शशिसमाननम् ॥ २४ ॥

यावद्भोजनादिभिस्त्वं न पूज्यसे तावद्राजा न दृश्यते इति वादनमिषेण
तत्रान्तःपुरे सप्त दिनानि भोगसञ्चयैर्लालयामासेत्युत्तरेण सम्बन्धः ॥ २३ ॥
२४ ॥

ते भोगास्तानि दुःखानि वासपुत्रस्य तन्मनः ।
नाजह्रुर्मन्दपवना बद्धपीठमिवाचलम् ॥ २५ ॥

नाजर्ह्नुर्न विचक्रुः । बद्धपीठं दृढमूलम् ॥ २५ ॥

केवलं सुसमः स्वस्थो मौनी मुदितमानसः ।
अतिष्ठत्स शुकस्तत्र सम्पूर्ण इव चन्द्रमाः ॥ २६ ॥

केवलमित्यवधारणे । भोगानादरयोः सुसमोऽतएव स्वस्थः । तत्र हेतुः##-

परिज्ञातस्वभावं तं शुकं स जनको नृपः ।
आनीतं मुदितात्मानमवलोक्य ननाम ह ॥ २७ ॥

इत्थं परीक्षणेन परिज्ञातस्तत्त्वदर्शनपर्यन्तप्रतिष्ठितो विचारवैराद्यादि##-

निःशेषितजगत्कार्य प्राप्ताखिलमनोरथ ।
किमीप्सितं तवेत्याशु कृतस्वागतमाह तम् ॥ २८ ॥

निःशेषितानि निरवशेषं कृतानि जगति प्रसिद्धानि कार्याण्यवश्यकर्तव्यानि
परमपुरुषार्थसाधनानि येन तथाविध । हे कृतकृत्येत्यर्थः ।
सर्वसुखल-वानामात्मसुखेऽन्तर्भावात्तत्प्राप्त्यैव प्राप्ताखिलमनोरथ ॥
२८ ॥

श्रीशुक उवाच ।

संसाराडम्बरमिदं कथमभ्युत्थितं गुरो ।
कथं प्रशममायाति यथावत्कथयाशु मे ॥ २९ ॥

संसारेति प्राग्व्याख्यातम् ॥ २९ ॥

विश्वामित्र उवाच ।

जनकेनेति पृष्टेन शुकस्य कथितं तदा ।
तदेव यत्पुरा प्रोक्तं तस्य पित्रा महात्मना ॥ ३० ॥

इति पृष्टेन जनकेन तस्य शुकस्य पित्रा पुरा पूर्व यत्प्रोक्तं तदेव
कथितमित्यन्वयः ॥ ३० ॥

श्रीशुक उवाच ।

स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः ।
एतदेव च पृष्टेन पित्रा मे समुदाहृतम् ॥ ३१ ॥

समुदाहृतं सम्यगुदाहरणोपपत्तिभिर्व्याख्यातम् ॥ ३१ ॥

भवताप्येष एवार्थः कथितो वाग्विदां वर ।
एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते ॥ ३२ ॥

व्यक्यार्थः सर्वोपनिषद्गतमहावाक्यानामर्थः । तत्तात्पर्यनिर्णायक##-

यथायं स्वविकल्पोत्थः स्वविकल्पपरिक्षयात् ।
क्षीयते दग्धसंसारो निःसार इति निश्चयः ॥ ३३ ॥

स्वस्मिन्नज्ञानोपहिते आत्मनि विविधं कल्पयतीति विकल्पोऽनन्तकामकर्मवा##-
समष्टिव्यष्टिसंस्कारपरिशेषेणाव्या-कृते
लीनमनादिजीवभावोपाधिभूतमन्तःकरणं तस्मात्प्रलयक्रमविप##-
वर्तते । स च कर्मोपासनसमुच्चयमात्रानुष्ठानेनाध्यात्मिकव्यष्टिभाव##-
श्रवणादिपरिपाकजन्यतत्त्वसाक्षात्कारेण सवासनकार्यकारणाविद्या##-
दग्धशब्दो निन्दायाम् । अथवा स्वप्रकाशात्मनि दुःस्थितत्वान्मिथ्यात्वाच्च
पूर्वमेव दग्धप्रायोऽतएव निःसारः स भूयः साक्षात्कारप्रलयानल##-
पुनःपुनः प्ररोहशङ्कावारणाय वा निःसार इति निश्चयः । तत्त्वविदामिति
शेषः ॥ ३३ ॥

तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम् ।
त्वत्तो विश्रान्तिमाप्नोमि चेतसा भ्रमता जगत् ॥ ३४ ॥

एतत् मया स्वयमेव पूर्व विचारेण परिज्ञातं यत् तदेव सत्यं किं तर्हि
तदचलमसन्दिग्धं हृदि यथा भवति तथा ब्रूहि । जगत् नानाविषयानिदं
वा तत्त्वं स्यादन्यद्वेत्यविश्वासेन भ्रमता चेतसा भ्राम्यमाणोऽहं त्वत्तः ।
त्वद्वचनविश्वासादिति यावत् । विश्रान्तिं तत्रैव स्थैर्यमाप्नोमि ॥ ३४ ॥

जनक उवाच ।

नातः परतरः कश्चिन्निश्चयोऽस्त्यपरो मुने ।
स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ॥ ३५ ॥

अतोऽस्मात्त्वया परिज्ञातात् । निश्चयो निश्चेतव्योऽर्थः ॥ ३५ ॥

अविच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत् ।
स्वसङ्कल्पवशाद्बद्धो निःसङ्कल्पश्च मुच्यते ॥ ३६ ॥

तमेव दृढनिशयाय पुनराह - अविच्छिन्नेति ॥ ३६ ॥

तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः ।
भोगेभ्यो विरतिर्जाता [दृश्याद्वा] र्ड्श्यात्प्राक्सकलादिह ॥ ३७ ॥

महात्मनस्तवेति शेषः । प्राक् भोगेभ्यः । इहास्यां निश्चयदशायाम् ।
दृश्यात् दृश्यमात्रात् ॥ ३७ ॥

तव बाल महावीर मतिर्विरतिमागता ।
भोगेभ्यो दीर्घरोगेभ्यः किमन्यच्छ्रोतुमिच्छसि ॥ ३८ ॥

बालोऽपि विषयत्यागशूरत्वान्महावीर ॥ ३८ ॥

न तथा पूर्णता जाता सर्वज्ञानमहानिधेः ।
तिष्ठतस्तपसि स्फारे पितुस्तव यथा तव ॥ ३९ ॥

यथा तव पूर्णता जाता तथा तव पितुर्नेति दार्ढ्यार्थं प्रशंसा ।
एवमुत्तरत्रापि ॥ ३९ ॥

व्यासादधिक एवाहं व्यासशिष्योऽसि तत्सुतः ।
भोगेच्छातानवेनेह मत्तोऽप्यत्यधिको भवान् ॥ ४० ॥

प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा ।
न दृश्ये पतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥ ४१ ॥

दृश्ये बाह्यविषये न पतसि दृश्यदर्शनस्यैव संसारपातत्वात् ।
उदरमन्तरं कुरुते अथ तस्य भयं भवति इति श्रुतेः । भ्रान्तिं
ज्ञेयान्तरसद्भावभ्रमं दृश्यदर्शनभ्रमं वा ॥ ४१ ॥

अनुशिष्टः स इत्येवं जनकेन महात्मना ।
अतिष्ठत्स शुकस्तूष्णीं स्वच्छे परमवस्तुनि ॥ ४२ ॥

स पूर्वोक्तोऽविच्छिन्नचिदात्मैकस्त्वमित्येवमनुशिष्टः स शुकः । स्वच्छे
दृश्यमालिन्यशून्ये ॥ ४२ ॥

वीतशोकभयायासो निरीहश्च्छिन्नसंशयः ।
जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ॥ ४३ ॥

सात्त्विकदेवाधिष्ठितत्वेन विक्षेपहेत्वभावादनिन्दितम् । समाध्यनुकूलमिति
यावत् ॥ ४३ ॥

तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।
दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ ४४ ॥

शशाम विदेहमुक्तोऽभूत् ॥ ४४ ॥

व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेऽसौ ।
सलिलकण एवाम्बुधौ महात्मा विगलितवासनमेकतां जगाम ॥ ४५ ॥

कलना दृश्योनमुखता कलङ्कस्तन्मूलमज्ञानं तदुभयापगमा##-
परमात्मवस्तुनि । सलिलकणपक्षे कलना पृथग्भावः । कलङ्को नीलमेघ##-
चोक्तं विष्णुपुराणे - विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो
ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ इति ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये [मोक्षोपाये]
मुमुक्षु-व्यवहारप्रकरणे शुकनिर्याणं नाम प्रथमः सर्गः ॥
१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे
शुकनिर्याणं नाम प्रथमः सर्गः ॥ १ ॥