त्रयस्त्रिंशः सर्गः ३३
सिद्धा ऊचुः ।
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।
निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ॥ १ ॥
अवतारोऽत्र सिद्धानां सभायामुपवर्ण्यते ।
यथोचितोपविष्टैस्तै रामवाक्यप्रशंसनम् ॥
सिद्धैः कृतां रामवाक्यादिप्रशंसामेव महीकुर्वंस्तेषां प्रश्न##-
सिद्धा ऊचुरित्यादिना । रघुशब्देन तद्वंशो लक्ष्यते तस्य
केतुवत्प्रख्यापके-नेत्यर्थः ॥ १ ॥
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।
आगच्छताश्वविघ्नेन सर्व एव महर्षयः ॥ २ ॥
आशु आगच्छत अविघ्नेन । श्रोतुमिति शेषः । श्रेयांसि बहुविघ्नानि इति न
विलम्बनमुचितमिति भावः ॥ २ ॥
[यतामः] पतामः परितः पुण्यामेतां दाशरथीं सभाम् ।
नीरन्ध्रां कनकोद्द्योतां पद्मिनीमिव षट्पदाः ॥ ३ ॥
नीरन्ध्रां पूर्णामर्थात्सम्पदेति गम्यते । अतएव
कनकैरुद्द्योतामुत्कृष्ट-प्रकाशाम् । पद्मिनीपक्षे केसरश्रिया
कनकैरिवोद्द्योतमानाम् ॥ ३ ॥
श्रीवाल्मीकिरुवाच ।
[इत्युक्ता सिद्धैरिति शेषः] इत्युक्ता सा समस्तैव व्योमवासनिवासिनी ।
तां पपात सभां तत्र दिव्या मुनिपरम्परा ॥ ४ ॥
व्योम वासो निवासस्थानं येषां विमानानां तेषु निवासिनी । विस्तीर्णयां
सभायां यत्र प्रदेशे रामादयस्तत्र ॥ ४ ॥
अग्रस्थितमनुत्सृष्टरणद्वीणं मुनीश्वरम् ।
पयःपीनघनश्यामं व्यासमेव किलान्तरा ॥ ५ ॥
तामेव वर्णयत्यष्टभिः । अग्रे प्रमुखस्थाने स्थितम् । न उत्सृष्टा रणद्वीणा
येन तं मुनीश्वरं नारदम् । पयसा जलेन पीनः पूर्णो घन इव श्यामं
व्यासमेव च अन्तरा । तयोरन्तराले इत्यर्थः । अन्तरान्तरेण युक्ते इति षष्ठ्यर्थे
द्वितीया । भृग्वङ्गिरः पुलस्त्यादिमुनिनायकैर्मण्डिता भूषितेत्युत्तरेण
सम्बन्धः ॥ ५ ॥
भृग्विङ्गरः पुलस्त्यादिमुनिनायकमण्डिता ।
च्यवनोद्दालकोशीरशरलोमादिमालिता ॥ ६ ॥
भृग्वादीनि तेषां नामानि ॥ ६ ॥
परस्परपरामर्शदुःसंस्थानमृगाजिना ।
लोलाक्षमालावलया सुकमण्डलुधारिणी ॥ ७ ॥
परामर्शेन सङ्घर्षणेन दुःसंस्थानानि विसंष्ठुलानि मृगाजिनानि
यस्याः ॥ ७ ॥
तारावलिरिव व्योम्नि तेजः प्रसरपाटला ।
सूर्यावलिरिवान्योन्यं भासिताननमण्डना ॥ ८ ॥
तेजःप्रसरेण पाटला श्वेतरक्ता ॥ ८ ॥
रत्नावलिरिवान्योन्यं नानावर्णकृताङ्गिका ।
मुक्तावलिरिवान्योन्यं कृतशोभातिशायिनी ॥ ९ ॥
कौमुतीवृष्टिरन्येव द्वितीयेवार्कमण्डली ।
सम्भृतेवातिकालेन पूर्णचन्द्रपरम्परा ॥ १० ॥
अन्या प्रसिद्धविलक्षणा । अतिकालेन चिरेण सम्भृता एकत्र सञ्चिता ॥ १० ॥
ताराजाल इवाम्भोदो [अम्भोधौ] व्यासो यत्र विराजते ।
तारौघ इव शीतांशुर्नारदोऽत्र विराजते ॥ ११ ॥
व्यास एकतः नारदोऽन्यत इति शेषः ॥ ११ ॥
देवेष्विव सुराधीशः पुलस्त्योऽत्र विराजते ।
आदित्य इव देवानामङ्गिरास्तु विराजते ॥ १२ ॥
अस्थास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् ।
उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा ॥ १३ ॥
रसां [सीमाभूमिम्] सभाभूमिम् । पतन्त्यां प्रविशन्त्याम् ॥ १३ ॥
मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः ।
परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥ १४ ॥
परस्परं वृताभिर्मिश्रिताभिरङ्गानामाभाभिः कान्तिभिः ॥ १४ ॥
वेणुदण्डावृतकरा लीलाकमलधारिणः ।
दुर्वाङ्कुराक्रान्तशिखाः सचूडामणिमूर्धजाः ॥ १५ ॥
लीलाकमलधारिणः केचिदिति यथायोग्यं शेषः ॥ १५ ॥
जटाजूटैश्च कपिला मौलिमालितमस्तकाः ।
प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः ॥ १६ ॥
मौलावग्रभागो मालितं मालाभिर्वेष्टितं मस्तकं शिरो येषाम् । प्रकोष्ठः
करमूलम् ॥ १६ ॥
चीरवल्कलसंवीताः स्रक्कौशैयावगुण्ठिताः ।
विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः ॥ १७ ॥
चीरवल्कलयोरवान्तरजात्या भेदः । कलापिनो भूषिताः । कर्मधारयाद##-
वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्रमात् ।
अर्घ्यैः पाद्यैर्वचोभिश्च सर्वानेव नभश्चरान् ॥ १८ ॥
वसिष्ठविश्वामित्रौ ते पूजयामासुरादरात् ।
अर्थ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणाः ॥ १९ ॥
सर्वादरेण सिद्धौघं पूजयामास भूपतिः ।
सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥ २० ॥
कुशलप्रश्नसहितया वार्तया तत्कालोचितकथया ॥ २० ॥
तैस्तैः प्रणयसंरम्भैरन्योन्यं प्राप्तसत्क्रियाः ।
उपाविशन्विष्टरेषु नभश्चरमहीचराः ॥ २१ ॥
प्रणयः प्रीतिस्तदुचितैर्दानमानादिसंरम्भैः । सत्क्रिया पूजा ।
विष्टरेष्वासनेषु ॥ २१ ॥
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।
रामं ते पूजयामासुः पुरः प्रणतमास्थितम् ॥ २२ ॥
वचोभिरुचितकथालापैः । साधुवादेन प्रशंसनेन ॥ २२ ॥
आसाञ्चक्रे च तत्रासौ राज्यलक्ष्मीविराजितः ।
विश्वामित्रो वसिष्ठश्च वामदेवोऽथ मन्त्रिणः ॥ २३ ॥
तत्र तेषां मध्ये । असौ रामः । विश्वामित्रादयः अथ आस्थिता उपविष्टा इति
[सप्तमेन श्लोकार्धेनेति ज्ञेयम्] सप्तमेन सम्बन्धः ॥ २३ ॥
नारदो देवपुत्रश्च व्यासश्च मुनिपुङ्गवः ।
मरीचिरथ दुर्वासा मुनिराङ्गिरसस्तथा ॥ २४ ॥
क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।
वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुङ्गवः ॥ २५ ॥
उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा ॥ २६ ॥
एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः ॥ २७ ॥
ज्ञातमवश्यं ज्ञेयमात्मतत्त्वं ज्ञेयमात्रं वा यैः । नायकाः
श्रेष्ठाः ॥ २७ ॥
वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।
इदमूचुरनूचाना राममानमिताननम् ॥ २८ ॥
अनूचाना आचार्याद्विधिवदधीतसाङ्गवेदाः । आनमिताननं विनयेन ॥ २८ ॥
अहो बत कुमारेण कल्याणगुणशालिनी ।
वागुक्ता परमोदारा वैराग्यरसगर्भिणी ॥ २९ ॥
तदुक्तीरेव प्रपञ्चयति अहो इत्यादिभिरष्टादशभिः । कल्याणैर्वक्ष्यमाण##-
परिनिष्ठितवक्तव्यं सबोधमुचितं स्फुटम् ।
उदारं प्रियमार्यार्हमविह्वलमपि स्फुटम् ॥ ३० ॥
विचार्येत्थमेवेति व्यवस्थापिताः परिनिष्ठिता वक्तव्यार्था यस्मिन् । सबोधं
पदार्थतत्त्वबोधसहितं न कल्पनामात्रव्यवस्थापितार्थमिति यावत् । अतएव
विद्वत्सभोचितम् । स्फूटं व्यक्तवर्णम् । उदारमुत्कृष्टबह्वाशयगर्भम् ।
प्रियं हृदयानन्दनम् । आर्याणां पूज्यानामर्हमुचितम् । अविह्वलं चित्त##-
अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् ।
करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥ ३१ ॥
अभिव्यक्तानि व्याकरणपरिशोधितानि पदानि यस्मिन् । इष्टं हितम् । स्पष्टं
ग्रस्तादिदोषरहितम् । सुष्टिमत् तृष्णाक्षयप्रयुक्तासन्तोषवत् ॥ ३१ ॥
शतादेकतमस्यैव सर्वोदारचमत्कृतिः ।
ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥ ३२ ॥
सर्वेभ्यो वक्तृभ्यः सर्वाम्शेऽपि वा उदारा उत्कृष्टा चमत्कृतिः
सहृदया-स्वादनीयं सौष्ठवं यस्यास्तथाविधा अतएव
ईप्सितस्याभिप्रेतस्यार्थ-स्यार्पणे बोधने एकान्तदक्षा नियमेन समर्था
भारती वाणी वाग्मि-शतादपि मुख्येषु मुख्यतमस्यैव विकासं
स्फूर्तिमायाति न सर्वेषाम् । पञ्चमी विभक्ते इति शताद्विभज्य निर्धारितेषु
तमपा निर्धारणान्तरप्रत्य-यात्सर्वोदारतोपपत्तिः ॥ ३२ ॥
कुमर त्वां विना कस्य विवेकफलशालिनी ।
परं विकासमायाति प्रज्ञाशरलतातता ॥ ३३ ॥
प्रज्ञा शर इव सूक्ष्मार्थभेदिनी प्रज्ञाशरः सैव लता वल्ली । विकासं
विचारवैराग्यपुष्पपल्लवाभ्यामुपचयम् । शकारपाठे प्रकाशम् ॥ ३३ ॥
प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।
प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः ॥ ३४ ॥
असममनन्यसाधारणमालोकं पदार्थतत्त्वप्रकाशं करोति असमस्या##-
पुमान् । अन्यस्तु पुरुषार्थासमर्थः स्त्रीप्राय इति भावः ॥ ३४ ॥
रक्तमांसास्थियन्त्राणि बहून्यतितराणि च ।
पदार्थानभिकर्षन्ति नास्ति तेषु सचेतनः ॥ ३५ ॥
उक्तप्रज्ञाहीनाजना रक्तादियन्त्रात्मकदेहात्मबुद्धित्वात्तान्येव
शब्दस्पर्शादिपदार्थाननुकर्षन्त्युपभुञ्जते । अन्यश्च सचेतन आत्मा नास्तीति
चार्वाकतैवमेतेषां फलितेति भावः । अथवा यदि तेषु सचेतनः स्यादवश्यं
पुरुषार्थे यतेतैव यतो न यतन्ते तस्माद्धटकुड्यादिवद-चेतना एव ते इति
निन्दार्थमपह्नवः ॥ ३५ ॥
जन्ममृत्युजरादुःखमनुयान्ति पुनःपुनः ।
विमृशन्ति न संसारं पशवः परिमोहिताः ॥ ३६ ॥
ये न विमृशन्ति ते पशवः ॥ ३६ ॥
कथञ्चित्क्वचिदेवैको दृश्यते विमलाशयः ।
पूर्वापरविचारार्हो यथायमरिमर्दनः ॥ ३७ ॥
अयं रामः । अरयः कामादयस्तेषां मर्दनः ॥ ३७ ॥
अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।
भव्या हि विरला लोके सहकारद्रुमा इव ॥ ३८ ॥
अनुत्तमः सर्वोत्कृष्टश्चमत्कारो माधुर्यविशेषो येषां तथाविधानि
तत्त्वसाक्षात्कारफलानि येषु । सहकारद्रुमा आम्रवृक्षाः ॥ ३८ ॥
सम्यग्दृष्टजगद्यात्रा स्वविवेकचमत्कृतिः ।
अस्मिन्मान्यमतावन्तरियमद्यैव दृश्यते ॥ ३९ ॥
स्वबुद्धिकृतेनैव विवेकेन तत्त्वदर्शनपर्यन्ता चमत्कृतिः । अद्यास्मिन्नेव
वयसि । तच्चाश्चर्यमिति भावः ॥ ३९ ॥
सुभगाः सुलभारोहाः फलपल्लवशालिनः ।
जायन्ते तरवो देशे न तु चन्दनपादपाः ॥ ४० ॥
औभगाः सुन्दराः देशे सर्वत्रेति शेषः ॥ ४० ॥
वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः ।
नत्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥ ४१ ॥
ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी ।
पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ॥ ४२ ॥
आमोदलेखा परिमलपङ्क्तिः ॥ ४२ ॥
अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते ।
द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः ॥ ४३ ॥
उद्दामं दौरात्म्यं यस्य तथाविधस्य दैवस्य प्राक्तनकर्मणस्तदनु##-
विवेकेनात्मलाभः ॥ ४३ ॥
यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धियः ।
धन्या धुरि सतां गण्यास्त एव पुरुषोत्तमाः ॥ ४४ ॥
ध्यायन्तीति धियः सदा तत्त्वचिन्तनपराः सन्तो ये यतन्ते ते धन्याः सतां धुरि
गण्याः ॥ ४४ ॥
न रामेण समोऽस्तीह दृष्टो लोकेषु कश्चन ।
विवेकवानुदारात्मा न भावी चेति नो मतिः ॥ ४५ ॥
इह साम्प्रतं नास्ति प्राङ्न दृष्टोऽग्रे च न भावी ॥ ४५ ॥
सकललोकचमत्कृतिकारिणोऽप्यभिमतं यदि राघवचेतसः ।
फलति नो तदिमे वयमेव हि स्फुटतरं मुनयो हतबुद्धयः ॥ ४६ ॥
राममनोरथसम्पत्तेरवश्यकर्तव्यतां तत्प्रशंसनेनोत्तमाधिकार##-
समुचितप्रष्टव्य-रहस्योद्घाटनेन चानन्दस्तत्कारिणो
राघवचेतसोऽप्यभिमतं तत्त्वजिज्ञा-सालक्षणो मनोरथो यदि नो फलति
अस्मदाद्यभिज्ञोपदेशेनेति शेषः । नो इति नञ्पर्यायो निपातः । तत्तर्हि
हतबुद्धयो दुर्बुद्धयः । अभिज्ञता निष्फलैव स्यादिति भावः ।
तस्मादवश्यमुपदेष्टव्यमिति सिद्धम् ॥ ४६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
नभश्चरमहीचरसम्मेलनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
नभश्चरमहीचरसम्मेलनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
समाप्तमिदं वैराग्यप्रकरणम् ।