द्वात्रिंशः सर्गः ३२
श्रीवाल्मीइरुवाच ।
वदत्येवं मनोमोहविनिवृत्तिकरं वचः ।
रामे राजीवपत्राक्षे तस्मिन्राजकुमारके ॥ १ ॥
रामवाक्यं श्रुतवतां वर्ण्यते भूरिविस्मयः ।
नराणाममराणां च पुष्पवर्षश्च स्वाज्ञ्युतः ॥
स्वविवेकसम्यग्विचारमूलमिदं श्रीरामवचनजातं स्वतो विचारा##-
न्यायसिद्धं देवादीनामपि वक्ष्यमाणब्रह्मविद्याधिकारं दर्शयितुं
तत्कृतां श्रीरामवाक्यप्रशंसां तत्समागममहोत्सवं च वर्णयितु##-
वक्ष्यमाणविष्मयरोमाञ्चादिविशिष्टा बभूवुरित्युत्तरत्रान्वयः ॥ १ ॥
सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः ।
भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः ॥ २ ॥
उक्ता रामगिरः श्रोतुमुद्धुरैरुत्सारितजाड्यभारैरुत्थितैरिति यावत् । देहरुहै
रोमभिर्भिन्नाम्बराश्छिद्रितवस्त्रा इवेत्युत्प्रेक्षा ॥ २ ॥
विरागवासनापास्तसमस्तभववासनाः ।
मुहूर्तममृताम्भोधिवीचीविलुलिता इव ॥ ३ ॥
विरागवासनया अपास्ता समस्ता भवहेतुरागद्वेषादिवासना येषाम् ॥ ३ ॥
ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव ।
संश्रुता शृणुकैरन्तरानन्दपदपीवरैः ॥ ४ ॥
शृणुकैः श्रवणसमर्तैः । आनन्दस्य पदेन लक्ष्मणा पीवरैः पुष्टैः ॥ ४
॥
वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः ।
जयन्तधृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः ॥ ५ ॥
नृपैर्दशरथप्रख्यैः पौरैः पारशवादिभिः ।
सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥ ६ ॥
[पर्श्वादय इति । पर्श्वादिगणे
परशुशब्दस्याभावात्तस्याकृतिगणत्वा-भावाच्चेदं विचारणीयम्]
पर्श्वादयो देशविशेषास्तद्राजादयः पारशवादयः । पर्श्वादित्वादण् ॥ ६ ॥
तथा भृत्यैरमात्यैश्च पञ्चरस्थैश्च पक्षिभिः ।
क्रीडामृगैर्गतस्पन्दैस्तुरङ्गैस्त्यक्तचर्वणैः ॥ ७ ॥
कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः ।
संशान्तभूषणारावैरस्पन्दैर्वनितागणैः ॥ ८ ॥
वातायनं गवाक्षः ॥ ८ ॥
उद्यानवल्लिनिलयैर्विटङ्कनिलयैरपि ।
अक्षुब्धपक्षततिभिर्विहङ्गैर्विरतारवैः ॥ ९ ॥
विटङ्कः सौधाग्रकपोतपालिका ॥ ९ ॥
सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः ।
नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः ॥ १० ॥
अन्यैश्च देवदेवेशविद्याधरमहोरगैः ।
रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥ ११ ॥
देवेशा दिक्पतयः । श्रुता इति सर्वत्र सम्बध्यते ॥ ११ ॥
अथ तूष्णीं स्थितवति रामे राजीवलोचने ।
तस्मिन्रघुकुलाकाशशशाङ्के शशिसुन्दरे ॥ १२ ॥
रघुकुलमेवाकाशो निर्मलत्वात्तस्य शशाङ्के पूर्णचन्द्रे । पूर्णे हि शशौ
लक्ष्यते तर्हि कलङ्कितापि स्यादित्याशङ्क्याह - शशिसुन्दरे इति ।
सौन्दर्याति-शयलाभाय पूर्णतोपलक्षणार्थं शशोपादानं न
स्वार्थमिति भावः ॥ १२ ॥
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।
वितानकसमा व्योम्नः पौष्पी वृस्टिः पपात ह ॥ १३ ॥
सिद्धग्रहणं मुमुक्ष्हुदेवयोनिमात्रोपलक्षणम् । स्वार्थः सङ्घः ॥ १३ ॥
मन्दारकोशविश्रान्तभ्रमद्वन्द्वनादिनी ।
मधुरामोदसौन्दर्यमुदितोन्मदमानवा ॥ १४ ॥
द्वन्द्व मिथुनम् । मुदिताः सन्तुष्टाः । उन्मदा अस्वाधीनचित्ताः ॥ १४ ॥
व्योमवातविनुन्नेव तारकाणां परम्परा ।
पतितमेव धरापीठे स्वर्गस्त्रीहसितच्छटा ॥ १५ ॥
निनुन्ना पातिता । हसितच्छटा हास्यकान्तिः ॥ १५ ॥
[वृष्टमूक] वृष्यमूककचन्मेघलवावलिरिव च्युता ।
हैयङ्गवीनपिण्डानामीरितेव परम्परा ॥ १६ ॥
वृष्या वर्षणशीला मूका गर्जनवर्जिता विद्युद्भिः कचन्तो दीप्ता ये
मेघास्तेषां लवावलिर्लेशसमूहः ॥ १६ ॥
हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा ।
ऐन्दवी रश्मिमालेव क्षीरोर्मीणामिवाततिः ॥ १७ ॥
किञ्जल्काम्भोजवलिता भ्रमद्भृङ्गकदम्बका ।
सीत्कारगायदामोदिमधुरानिललोलिता ॥ १८ ॥
किञ्जल्कः केसरस्तत्प्रधानैरम्भोजैर्वलिता सहिता । जनानां स्पर्शसुखाभि##-
ईषच्चालिता ॥ १८ ॥
प्रभ्रमत्केतकीव्यूहा प्रस्फूरत्कैरवोत्करा ।
प्रपतत्कुन्दवलया चलत्कुवलयालया ॥ १९ ॥
व्यूहादयः समूहार्थाः ॥ १९ ॥
आपूरिताङ्गणरसा गृहाच्छादनचत्वरा ।
उग्द्रीवपुरवास्तव्यनरनारीविलोकिता ॥ २० ॥
रसा भूमिः । आपूरितानि चत्वरान्तानि यया । पुरवास्तव्यैः पुरवासिभिः ॥ २० ॥
निरभ्रोत्पलसङ्काशव्योमवृष्टिरनाकुला ।
अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥ २१ ॥
निरभ्रमत एवोत्पलसङ्काशं यद्व्योम ततः पतिता वृष्टिर्वर्णि (र्षि##?
अदृश्याम्बरसिद्धौघकरोत्करसमीरिता ।
सा मुहूर्तचतुर्भागं पुष्पवृष्टिः पपात ह ॥ २२ ॥
मुहूर्तस्य चतुर्थभागोऽर्धघटिका तावत्कालं पपात । ह किल ॥ २२ ॥
आपूरितसभालोके शान्ते कुसुमवर्षणे ।
इमं सिद्धगणालापं शुश्रुवुस्ते सभागताः ॥ २३ ॥
आपूरिताः सभा तद्गता लोकाश्च येन । शान्ते उपरते सति ॥ २३ ॥
आकल्पं सिद्धसेनासु भ्रमद्भिरभितोदिवम् ।
अपूर्वमिदमस्माभिः श्रुतं श्रुतिरसायनम् ॥ २४ ॥
दिवमभितः स्वर्गस्य सर्वप्रदेशेषु श्रुतिरसायनं श्रोत्रामृतं
वेदसारभूतं वा ॥ २४ ॥
यदनेन किलोदारमुक्तं रघुकुलेन्दुना ।
वीतरागतया तद्धि वाक्पतेरप्यगोचरम् ॥ २५ ॥
न गोचरा अर्था यस्मिंस्तथाविधम् ॥ २५ ॥
अहो बत महत्पुण्यमद्यास्माभिरिदं श्रुतम् ।
वचो राममुखोद्भूतं महाह्लादकरं धियः ॥ २६ ॥
बतेत्येताद्र्शवाक्यश्रवणहीनं जन्म व्यर्थमिति खेदे ॥ २६ ॥
उपशमामृतसुन्दरमादरादधिगतोत्तमतापदमेष यत् ।
कथितवानुचितं रघुनन्दनः सपदि तेन व्ययं प्रतिबोधिताः ॥ २७ ॥
अधिगतायाः प्राप्तायाः जातिकुलचारित्र्यधर्माभिज्ञतादिभिरुत्तमतायाः
सार्तह्क्यापादनात्पदं त्राणं लक्षणभूतं वा यद्वाक्यजातं कथित##-
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः ॥ ३२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः ॥ ३२ ॥