एकत्रिंशः सर्गः ३१
श्रीराम उवाच ।
प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके ॥ १ ॥
संसारे जीवितं प्रावृड्घनदुर्जीवितोपमम् ।
येन सौख्यपदं याति स उपायोऽत्र पृच्छ्यते ॥
करिष्यमाणप्रश्नोपोद्धातत्वेन संसारे जीवितं प्रावृड्घनत्वेन कल्पयति
- प्रोच्चेत्यादिषड्भिः । सर्वेषां सप्तम्यन्तानां क उपाय इत्यादिभिः
सम्बन्धः । प्रोच्चः प्रांशुः । लम्बो लम्बमानोऽम्बुकण इव भङ्गुरे ।
यद्यपि हेमन्तेऽप्येतदस्ति तथापि वर्षास्वासारपातादाशुतरभङ्गुरतेति
विशेषः । ईशानः शिवस्तद्भूषणशीतांशुः कलामात्रशेष इव मृदुन्यल्पे
। दुर्लक्ष्य इति यावत् । वर्षासु चन्द्र एव दुर्लक्ष्यस्तत्रापि कलामात्रशेषः
सुतरामिति भावः । इदमप्यायुष एव विशेषणम् । कुत्सितेऽल्पे वा देहके [देहे
इति क्वचिन्न पठ्यते] देहे ॥ १ ॥
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्सुजनसङ्गमे ॥ २ ॥
केदारेषु शालिक्षेत्रेषु । कोणोऽत्र मध्यभागः स इव भङ्गुरे अस्थिरे देहके इति
पूर्वेण सम्बन्धः । सुहृदां मित्राणां सुजनानां आप्तबन्धु##-
वासनावातवलिते कदाशातडिति स्फुटे ।
मोहोग्रमिहिकामेघे घनं स्फूर्जति गर्जति ॥ ३ ॥
वासनालक्षणेन पुरोवातेन वलिते आवेष्टिते मोहोग्रमिहिकामेघे इत्यन्वयः ।
मिहिकातुषारो मे घानामारम्भावस्था । घनं निरन्तरम् । गर्जनं
सामान्यतः स्फूर्जनं त्वशनिपातपर्यन्तमित्यपौनरुक्त्यम् ॥ ३ ॥
नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सास्फोटे ह्यनर्थकुटजद्रुमे ॥ ४ ॥
लोले चञ्चले । कलापिनि मयूरे । आस्फोटः कलहः कलिकाः पुटभेदश्च ॥ ४ ॥
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रान्तस्यन्दसञ्चारे [स्पन्द] कुतोऽप्युपरिपातिनि ॥ ५ ॥
सर्वभूतान्येवाखवः । वर्षासु बहुजन्तुभक्षणान्मार्जाराणां बलातिशयः
प्रसिद्धः । स्यन्दो जलप्रवाहः । कुतो भूमितः ऐ शब्दान्न-भस्तश्च
कुतोऽप्यतर्कितस्थानादिति वा ॥ ५ ॥
क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयमशुभोदर्का न भवेज्जीविताटवी ॥ ६ ॥
आरण्यकवातवर्षादिपीडानिवृत्तौ छत्रच्छदिः कटादिरुपायाः ।
रसगुटिकौ-षधलेपादिना द्रुतं निर्दृष्टिदूरदेशे गतिः ।
सङ्कटोत्तरकमन्त्रदेवता-देश्चिन्ता । गिरिगुहादेः समाश्रयो वा
साधनानि यथा लोके प्रसिद्धानि तथा अत्रापि पृच्छ्यन्ते । अशुभमेवोदर्कं
औत्तरकालिकं फलं यस्यास्तथाविधा न भवेत् ॥ ६ ॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम् ॥ ७ ॥
सुधियस्तपोज्ञानशक्त्यूर्जितबुद्ध्यो भवादृश्यास्तुच्छमतिफल्ग्वपि
यद्वस्तु रम्यतां न नयन्ति । नेतुमसमर्था इति यावत् । तदेतत्पृथिव्यां
मनुष्यादिषु दिवि देवेषु वा नास्ति । यतस्त्रिशङ्कोस्तादृशो
गुरुशापोऽप्याकल्पभोग्यस्वर्ग-परिणतः शुनःशेपस्य च
मृत्युर्दीर्घायुषि [दीर्घायुष्यपर्यवसित] पर्यवसित इति भावः ॥ ७ ॥
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुतामेति नीरसो मूढतां विना ॥ ८ ॥
नीरन्ध्रं निरन्तरं दुःखकलनया आकुलः अतएव नीरसः । सुस्वादुतां
सरसताम् । मूढतां विना मूढतानिरासद्वारा । कथं केनोपायेन
सुस्वादुतामेतीत्यर्थः ॥ ८ ॥
आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव वसुन्धरा ॥ ९ ॥
सर्वदुःखनिदानभूताया आशायाः प्रसिद्धस्वभावप्रतिकूलो विपाकः
पूर्णकामता स एव क्षीरस्नानम् । उपैति संसार इति शेषः । पुष्पैः शुभ्रेण
रम्येण मधुना वसन्तेन ॥ ९ ॥
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्कितात् ॥ १० ॥
कामेन कलङ्कितान्मनश्चन्द्रमसः । तेन विद्वदनभवप्रसिद्धेन केन
क्षालनेनापकृष्टकामादिमला अमृतद्युतिराह्लादचन्द्रिका उदेतीत्यन्वयः ॥
१० ॥
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केनेव व्यवहर्तव्यं संसारवनवीथिषु ॥ ११ ॥
दृष्टा संसारस्य गतिरनर्थपर्यवसानलक्षणा येन । दृष्टादृष्टे
ऐहिकामुष्मिकभोगौ [विवेकेति क्वचिन्न]
विवेकवैराग्यबोधदार्ढ्याभ्यां विनाशितवता केन महापुरुषेणेव
व्यवहर्तव्यमस्माभिस्तमुदाहरेति शेषः । केनैव इति पाठे व्यवहारेणेति
शेषः ॥ ११ ॥
रागद्वेषमहारोगा भोगपूगा विभूतयः ।
कथं जन्तुं न बाधन्ते संसाराणवचारिणम् ॥ १२ ॥
कथं च धीरवर्याग्नौ पततापि न दह्यते ।
पावके पारदेनेव रसेन रसशालिना ॥ १३ ॥
धीर्वर्येति सम्बोधनम् । अग्नौ अग्निवद्दाहके संसारे । रसो ज्ञानामृतं तेन
शालिना ॥ १३ ॥
यस्मात्किल जगत्यस्मिन्व्यवहारक्रिया [क्रियां विना] विना ।
न स्थितिः सम्भवत्यब्धौ पतितस्याजला यथा ॥ १४ ॥
ननु यदि व्यवहारद्दुःखं तर्हि सन्त्यज्यतां तत्राह - यस्मादिति ।
व्यवहाराणां क्रियाः सम्पादनानि विना । अब्धौ पतितस्य जातस्य
मत्स्यादेर्यथा अजला स्थितिर्न सम्भवति तद्वत् ॥ १४ ॥
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ॥ १५ ॥
नन्वस्तु दुर्व्यवहारे दुःखं सत्क्रियायां तु न तत्सम्भावनेत्या##-
मनोमननशालिन्याः सत्ताया भुवनत्रये ।
क्षयो युक्तिं विना नास्ति ब्रूत तामलमुत्तमाम् ॥ १६ ॥
तिष्ठतु बाह्यव्यवहारो मनश्चाञ्चल्यमेव परं दुःखम् अतस्तच्चिकित्सैव
वक्तव्येत्याह - मन इति । मनसो मननं विषयावलम्बस्तच्छालिन्येव
सता-विषयावलम्बक्षय एव । मनःसत्ताक्षयः स च
सर्वविषयबाधकतत्त्व-बोधहेतुयुक्त्युपदेशं विना नास्ति । अतस्तां
युक्तिमलमत्यर्थं यावद्-दोधोदयं ब्रूत । उपदिशन्त्वित्यर्थः ॥ १६ ॥
व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथवा व्यवहारस्य ब्रूत तां युक्तिमुत्तमाम् ॥ १७ ॥
तत्कथं केन वा किं वा कृतमुत्तमचेतसा ।
पूर्वं येनैति विश्रामं परमं पावनं मनः ॥ १८ ॥
तत् युक्त्या मोहनिरसनं केन वा पूर्वं कृतं कथं केन प्रकारेण कृतं
तेन किं वा प्राप्तं तत्त्वं यथा जानासि तथा ब्रूहीत्युत्तरेण सम्बन्धः ॥ १८ ॥
यथा जानासि भगवंस्तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः ॥ १९ ॥
अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते ।
न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम् ॥ २० ॥
तादृशयुक्त्यलाभे स्वस्य देहत्यागान्तं प्रायोपवेशनमेव न
जीवनव्यवहारादय इत्याह - अथवेत्यादिसप्तभिः ॥ २० ॥
स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।
तदहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥ २१ ॥
स्वयमेव विचार्य वा नाप्नोमि चेत्तर्हि ॥ २१ ॥
न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥ २२ ॥
न च तिष्ठामि कार्येषु सम्पत्स्वापद्दशासु [सम्पत्स्वापत्सु चैव
हि] च ।
न किञ्चिदपि वाञ्छामि देहत्यागादृते मुने ॥ २३ ॥
केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः ॥ २४ ॥
मौने वागादिसर्वव्यवहाराभावे । लिपिकर्मसु चित्रक्रियासु । अर्पितो लिखितः ॥
२४ ॥
अथ क्रमेण सन्त्यज्य प्रश्वासोच्छ्वाससंविदः ।
सन्निवेशं त्यजामीममनर्थं देहनामकम् ॥ २५ ॥
सन्निवेशमवयवसंस्थानरूपम् ॥ २५ ॥
नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् ।
सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ॥ २६ ॥
न मे इदमिति शेषः । अन्योऽपि न मे । अस्नेहो निस्तैलः ॥ २६ ॥
वाल्मीकिरुवाच ।
इत्युक्तवानमलशीतकराभिरामो
रामो महत्तरविचारविकासिचेताः ।
रूष्णीं बभूव पुरतो महतां घनानां
केकारवं श्रमवशादिव नीलकण्ठः ॥ २७ ॥
शीतकरश्चन्द्रः । इति उक्तवान्सन् महतां गुरूणां वसिष्ठादीनां
पुरतस्तूष्णीं बभूव । यथा केकारवमुक्तवान्नीलकण्ठो मयुरो घन्नानां
पुरतस्तूष्णीं भवति तद्वत् ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
राघवप्रश्नो नामैकत्रिंशः सर्गः ॥ ३१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
राघवप्रश्नो नामैकत्रिंशः सर्गः ॥ ३१ ॥