त्रिंशः सर्गः ३०
श्रीराम उवाच ।
एवमभ्युत्थितानर्थशतसङ्कटकोटरे ।
जगदालोक्य निर्मग्नं मनो मननकर्गमे ॥ १ ॥
स्वचित्तोद्वेगमेवेह हेतुभिः सम्प्रकाशयन् ।
तन्निरासाय विश्रान्त्यै प्रार्थयत्युपदेशनम् ॥
स्वचित्तोद्वेगमेव हेतुभिः प्रपञ्चयन्विश्रान्तिहेतुतत्त्वोपदेशमेव विस्तरेण
प्रार्थयति - एवमित्यादिना । एवमुक्तप्रकारैरनर्थशतैः सङ्कटे निबिडिते
अर्थात्संसारान्धकूपस्य कोटरे छिद्रे जगज्जीवजातं निर्मग्नमालोक्य मनो
मननमत्र चिन्ता तल्लक्षणे कर्दमे निमग्नं ममेति शेषः ॥ १ ॥
मनो मे भ्रमतीवेदं सम्भ्रमश्चोपजायते ।
गात्राणि परिकम्पन्ते पत्राणीव जरत्तरोः ॥ २ ॥
सम्भ्रमो भयम् । जरत्तरोर्जीर्णवृक्षस्य ॥ २ ॥
अनाप्तोत्तमसन्दोषधैर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ ३ ॥
न आप्त उत्तमसन्तोषो धैर्यलक्षणो मातुरुत्सङ्गो यया सा मतिः शिशुस्था##-
यथारण्यादौ बिभेति तद्वत् ॥ ३ ॥
विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्गास्तुच्छालम्बविडम्बिताः ॥ ४ ॥
तुच्छैरालम्बैर्विषयैर्विडम्बिता वञ्चिता अन्तःकरणवृत्तयो विकल्पेभ्यो
विक्षेपदुःखेभ्यो विक्षेपदुःखानि प्राप्तुम् । क्रियार्थोपपदस्य च कर्मणि
स्थानिनः इति कर्मणि चतुर्थी । लुठन्ति गच्छन्ति । दुःखगर्ते पतन्तीति यावत् ।
यथा सारङ्गा मृगास्तुच्छलम्बमानतृणादिवञ्चिताः श्वभ्रेषु पतन्ति
तद्वत् ॥ ४ ॥
अविवेकास्पदा भ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपमिवापन्ना [अवकारा] वराकाश्चक्षुरादयः ॥ ५ ॥
तत्र हेतुमाह - अविवेकेति । न विद्यते विवेको येषां पुरुषाणां
तदास्पदास्त-दाश्रिताश्चक्षुरादयो यतः कष्टे संसारस्थान एव
रूढाश्चिरपरिचयेन दृढवासिता नतु सत्पदे परमार्थवस्तुनीत्यर्थः ॥ ५ ॥
नावस्थितिमुपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता [श्वरायाता] कान्तेव प्रियसद्मनि ॥ ६ ॥
जीव एवेश्वरः पतिस्तस्मिन्नायत्ता निबद्धा । अवस्थितिमुपरमम् । यथेप्सितं
विषयं देशं च । याति प्राप्नोति ॥ ६ ॥
जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर्विधुरताम् गता ॥ ७ ॥
वस्तूनि विषयान् पर्णादींश्च विवेकहिमोपघातात्त्यजन्ती रसावशेषात्कानि##-
अपहस्तितसर्वार्थमनवस्थितिरास्थिता ।
गृहीत्वोत्सृज्य चात्मानं भवस्थितिरवस्थिता ॥ ८ ॥
तामन्तरालावस्थामेव क्लेशावहां स्वस्य प्रपञ्चयति - अपहस्तितेति । उक्ता
चित्तस्यानवस्थितिरस्थिरता । हस्तादपगमिताः सर्वे सांसारिकाः पारमार्थि##-
स्वविवेकमात्रेणार्धप्रबोधादर्धमुत्सृज्यार्धं च गृहीत्वाऽव##-
चलिताचलितेनान्तरवष्टम्भेन मे मतिः ।
दरिद्रा छिन्नवृक्षस्य मूलेनेव विडम्ब्यते ॥ ९ ॥
अन्तरवष्टम्भ आत्मतत्त्वनिश्चयावलम्बनं तेन दरिद्रा तद्रहिता ।
आत्मतत्त्वनिश्चये संशयितेति यावत् । मे मतिश्छिन्नवृक्षस्य मूलेन
स्थाणुना कर्त्रा यथा [मदान्धकारे] महान्धकारे स्थाणुर्वा चोरो
वेति सत्यासत्यकोटित्वाच्चलिताचलितेन संशयेन हेतुना मतिर्विडम्ब्यते
तद्वदिदं तत्त्वं स्यादिदं वा तत्त्वमिति संशयेन विडम्ब्यत इत्यर्थः ।
अथवा उक्तलक्षणा मे
मतिर्दोषदर्शनजन्यवैराग्यदार्ढ्याद्रागेभ्यश्चलितेन
[द्भोगेभ्यः] अपगतसंशयेन मूलाज्ञानानुच्छेदादचलितेन च
वासनाप्ररोहेण हेतुना छिन्नवृक्षस्य मूलेन मूलानुच्छेदात्पुनः
प्ररोहोन्मुखेन वोडम्ब्यते अनुक्रियत इवेत्यर्थः ॥ ९ ॥
चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च ।
न सम्भ्रमं जहातीदं स्वविमानमिवामराः ॥ १० ॥
स्वत एव चञ्चलमाभोगि नानाभोगवासनाविस्तीर्णं भुवनान्तर्विहरणेन च
दृढाभ्यस्तचापलमतो बलान्निगृह्यमाणमपि तत्त्वज्ञानावष्टम्भा##-
अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् ।
किं तत्स्थितिपदं साधो यत्र शोको न विद्यते ॥ ११ ॥
अतुच्छं परमार्थसत्यम् । जन्ममरणायासरहितं देहाद्युपाधिशून्यम् ।
भ्रमहेतूच्छेदाद्गतभ्रमम् । स्थितिपदं विश्रान्तिस्थानम् । यत्र गत्वा
यत्प्राप्य ॥ ११ ॥
सर्वारम्भसमारुढाः सुजना जनकादयः ।
व्यवहारपरा एव कथमुत्तमतां गताः ॥ १२ ॥
वयमिव सर्वेषु दृष्टादृष्टफलारम्भेषु । परास्तत्पराः ।
तदनुकूललौकि-कवैदिकव्यवहारपरा एवेत्यर्थः ॥ १२ ॥
लग्नेनापि किलाङ्गेषु बहुधा बहुमानद ।
कथं संसारपङ्केन पुमानिह न लिप्यते ॥ १३ ॥
संसारपङ्केन पुण्यपापरूपेण शोकमोहादिना च ॥ १३ ॥
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥ १४ ॥
लोभयन्तो भयायैव विषयाभोगभोतिनः ।
भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ॥ १५ ॥
विषयाभोगा विषयवेषा भोगिनः सर्पाः । भङ्गुरौ नश्वरौ कुडिलौ
चाकारविभवौ येषाम् । सर्पपक्षे विभवो विषसामर्थ्यम् । भव्यतां
मङ्गलताम् ॥ १५ ॥
मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परं प्रसादमायाति शेमुषीसरसी कथम् ॥ १६ ॥
मृदिता विलोडिता । कलङ्काः कामादयः कर्दमशैवलादयश्च । प्रसादं
नैर्मल्यम् । शेमुषी प्रज्ञा सैव सरसी महत्सरः । दक्षिणापथे महान्ति
सरांसि सरस्य इत्युच्यन्ते इति महाभाष्योक्तेः ॥ १६ ॥
संसार एव निवहे जनो व्यवहरन्नपि ।
न बन्धं कथमाप्नोति पद्मपत्रे पयो यथा ॥ १७ ॥
निवहे प्रवाहरूपे ॥ १७ ॥
आत्मवत्तृणवच्चेदं सकलं कलयञ्जनः ।
कथमुत्तमतामेति मनोमन्मथमस्पृशन् ॥ १८ ॥
परदुःखादावात्मवत्स्वदुःखादौ तृणवत् । अन्तर्दृष्ट्या आत्मवत्
बहिर्दृष्ट्या तृणवत् । कलयन्पश्यन् । मनसो मन्मथं कामादिवृत्तिम् ॥
१८ ॥
कं महापुरुषं [उपयातम्] पारमुपायातं महोदधेः ।
आचारेणानुसंस्मृत्य जनो याति न दुःखिताम् ॥ १९ ॥
महापुरुषं जीवन्मुक्तम् । महदत्राज्ञानं तल्लक्षणादुदधेः । आचारेण
चरित्रेणानु लक्षीकृत्य स्मृत्वा तद्वदेव स्मृत्वा आचर्येत्यर्थः ॥ १९ ॥
किं तस्यादुचितं श्रेयः किं तत्स्यादुचितं फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥ २० ॥
उचितमनश्वरत्वात्प्राप्तुं योग्यम् । श्रेयो मोक्षः । फलं कर्मोपासनादेः ॥
२० ॥
तत्त्वं कथय मे किञ्चिद्येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरं धातुश्चेष्टितस्यानवस्थितेः ॥ २१ ॥
येन उपदेशेन । अनवस्थितेः अव्यवस्थितस्य । असमस्थितेः इति पाठे विषमस्थितेः
। धातुश्चेष्टितस्य जगतः । पूर्वापरमाद्यन्तयोरविशिष्टं वस्तु ॥ २१ ॥
हृदयाकाशशशिनश्चेतसो मलमार्जनम् ।
यथा मे जायते ब्रह्मंस्तथा निर्विघ्नमाचर ॥ २२ ॥
चेतसः साभासान्तःकरणस्य । मलमज्ञानम् ॥ २२ ॥
किमिह स्यादुपादेयं किंवा हेयमथेतरत् ।
कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ॥ २३ ॥
इतरत् अहेयमनुपादेयं च ॥ २३ ॥
केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयमनायासमायासशतकारिणी ॥ २४ ॥
रोगाणां पापमूलत्वात्तन्निरासद्वारा पावनेन पवनदोषोपशमन##-
कथं शीतलतामन्तरानन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां [भृशं साक्षाद्दया]
भृशमासादयाम्यहम् ॥ २५ ॥
आनन्दतरोर्मञ्जरीमिव स्थितां शीतलताम् । भृशं दैशिकपरिच्छेद##-
प्राप्यान्तः पूर्णतां पूर्णो न शोचामि यथा पुनः ।
सन्तो भवन्तस्तत्त्वज्ञास्तथेहोपदिशन्तु माम् ॥ २६ ॥
अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं सततं महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः श्वानो वने देहमिवाल्पजीवम्
[आत्मजीवम्] ॥ २७ ॥
आनन्दपदे प्रधानविश्रान्तिरात्यन्तिकं स्थैर्यं तेन रिक्तं शून्यम् ।
कदर्थयन्ति पीडयन्ति ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
प्रयोजनकथनं नाम त्रिंशः सर्गः ॥ ३० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
प्रयोजनकथनं नाम त्रिंशः सर्गः ॥ ३० ॥