एकोनत्रिंशः सर्गः २९
श्रीराम उवाच ।
इति मे दोषदावाग्निदग्धे महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरःस्विव ॥ १ ॥
दोषाणां दर्शनात्सर्वनिर्वेदः स्वस्य वर्ण्यते ।
रामेण तत्प्रशान्त्यर्थमुपदेशस्तथार्थ्यते ॥
इत्थं दोषदर्शनात्स्वचित्ते तत्त्वबुभूत्सापर्यवसितं निर्वेदं दर्शयति -
इतीत्यादिना । दोषपदेन तद्दर्शनं लक्ष्यते । दोषाणामेव वा विवेक##-
महति विवेकविपुले । मरुष्वेव हि मृगदृष्णाः स्फुरन्ति न सरःसु ॥ १ ॥
प्रत्यहं याति कटुतामेषा संसारसंस्थितिः ।
कालपाकवशाल्लोला रसा निम्बलता यथा ॥ २ ॥
एषेति पाठे स्पष्टम् । इतीति पाठे तु प्रत्यहमहन्यहनि याति सति संसार##-
पाकप्रकर्षवशादल्पकटुकटुतरमित्येवमवस्थाभेदैर्लोलाः कटुरसा यथा
निम्बानां लताः बालवृक्षान्यान्ति तद्वत् ॥ २ ॥
वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि ॥ ३ ॥
वैराग्याभावे भोगाशास्फुरणे त्वनर्थमाह - वृद्धिमिति । करञ्जः
कण्टकवृक्षः । प्रत्यहं धर्मपादापचयादधर्मपादोपचयाच्चेति
भावः ॥ ३ ॥
भज्यते भुवि मर्यादा झटित्येव दिनं प्रति ।
शुष्केव माषशिम्बीका टङ्कारकरवं विना ॥ ४ ॥
दिनं प्रति प्रतिदिनम् । ननु वीप्सायां द्विर्वचनाभावेऽवश्यं नित्येना##-
मर्यादा तु तं विनेत्येतावान्विशेषः इत्यर्थः ॥ ४ ॥
राज्येभ्यो भोगपूगेभ्यश्चिन्तावद्भ्यो मुनीश्वर ।
निरस्तचिन्ताकलिता वरमेकान्तशीलता ॥ ५ ॥
आकलिता स्विकृता । एकान्त ऐकाग्र्यम् ॥ ५ ॥
नानन्दाय ममोद्यानं न सुखाय मम स्त्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥ ६ ॥
अर्थाशा लक्षणया धनप्राप्तिः ॥ ६ ॥
अनित्यश्चासुखो लोकस्तृष्णा तात दुरुद्वहा ।
चापलोपहगं चेतः कथं यास्यामि निर्वृतिम् ॥ ७ ॥
शान्तिं विना मान्यो निर्वृतिहेतुरस्तीत्याह - अनित्यश्चेति ॥ ७ ॥
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥ ८ ॥
किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः ।
अहङ्कारवशादेतत्स एव गलितो मम ॥ ९ ॥
ईहितै राजादिविषयैरभिलाषैश्चेष्टितैर्वा । एतद्राज्यादि ॥ ९ ॥
जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।
ये बद्धास्तद्विमोक्षार्थं यतन्ते ये त उत्तमाः ॥ १० ॥
इन्द्रियाण्येव ग्रन्थयो दृढा विषयाशङ्गस्य दुस्त्यजत्वात् । तैर्ग्रन्थिभिर्ये
जन्मावलीलक्षणायां वरत्रायां चर्मरज्जौ बद्धा जीवास्तेषां मध्ये ये
तद्विमोक्षार्थं यतन्ते त एवोत्तमा इति सम्बन्धः ॥ १० ॥
मथितं मानिनीलोकैर्मनो मकरकेतुना ।
कोमलं कुरनिष्पेषैः कमलं करिणा यथा ॥ ११ ॥
मकरकेतुना कर्त्रा मानिनीलोकैः करणैर्मथितं हिंसितम् ॥ ११ ॥
अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः ॥ १२ ॥
अद्यास्मिन्बाल्ये वयसि । तत्तर्हि पेलवः सूद्धरो वृक्षो रूढस्कन्धो दुरुद्धर
इति न्यायादिति भावः ॥ १२ ॥
विषं विषयवैषम्यं न विषं विषमुच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥ १३ ॥
विषयलक्षणं वैषम्यमनार्जवम् । जन्मान्तरेष्वपि घ्नन्ति मृत्युं
प्रापयन्तीति जन्मान्तरघ्नाः ॥ १३ ॥
न सुखानि न दुःखानि न मित्राणि न बान्धवाः ।
न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥ १४ ॥
ननु तत्त्वज्ञा अपि विषयान्भुञ्जानाः सुखादिभागिनो दृश्यन्ते तथाच तेषु
को विशेषस्तत्राह - नेति । ज्ञस्यात्मज्ञस्य ॥ १४ ॥
तद्भवामि यथा ब्रह्मन्पूर्वापरविदां वर ।
वीतशोकाभयायासो ज्ञस्तथोपदिशाशु मे ॥ १५ ॥
सर्वदुःखासङ्गमूलोच्छेदित्वात् ज्ञत्वमेव महान्पुरुषार्थ इति
तदर्थमुपदेशं प्रार्थयते - तदिति । तत्तस्मादुक्तहेतोर्यथाऽहं ज्ञः सन्
वीतशोकभयायासो भवामि शीघ्रं भविष्यामि । वर्तमानसामिप्ये लट् ।
तथैव आशु उपदिशेति सम्बन्धः ॥ १५ ॥
वासनाजालवलिता दुःखकण्टकसङ्कुला [सङ्कटसङ्कुला] ।
निपातोत्पातबहुला भीमरूपाऽज्ञताटवी ॥ १६ ॥
उपदेशाविलम्बाय स्वस्य दुःखातिशयासहिष्णुतानिर्वेदुत्कण्ठ्ये दर्शयति ##-
वेष्टिता । निपतन्त्युत्पतन्ति चानयोरिति निपातोत्पातौ निम्नोन्नतप्रदेशौ
विपत्सम्पदौ निरयस्वर्गौ वा । अज्ञतैवाटवी अरण्यम् ॥ १६ ॥
क्रकचाग्रविनिष्पेषं सोढुं शक्नोम्यहं मुने ।
संसारव्यवहारोत्थं नाशाविषयवैशसम् ॥ १७ ॥
क्रकचस्याग्रैर्दशनैर्विनिष्पेषं घर्षणम् । आशाविषयाभ्यां ततं
वैशसं विशसनम् ॥ १७ ॥
इदं नास्तीदमस्तीति व्यवहाराञ्जनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिमिवानिलः ॥ १८ ॥
इदमनिष्टमस्तीति तन्निवारणे इदमिष्टं नास्तीति तत्सम्पादने च
प्रवृत्तिनिवृ-त्यादिव्यवहाररूपोऽविद्याञ्जनप्रयुक्तो भ्रमः स्वभावत
एव चलं चेतः रजोराशिमनिलो वायुरिव धुनोति कम्पयति ।
हर्षविषादचिन्तादिभ्हिर्विशारयती-त्यर्थः । तूलराशिमिवानलः इति पाठे तु
दाहो लक्ष्यते ॥ १८ ॥
तृष्णातन्तुलवप्रोतं जीवसञ्चयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यं विकसच्चित्तनायकम् ॥ १९ ॥
तृष्णैव तन्तुलवः सूक्ष्मतन्तुस्तत्र प्रोतं गुम्भितम् । जीवसञ्चया
जीवसमूहा एव मौक्तिकानि यस्मिन् । साक्षिचिद्व्याप्त्या तैजसत्वेन स्वच्छ##-
शिखामणिर्यस्मिंस्तथाविधम् ॥ १९ ॥
संसारहारमरतिः कालव्यालविभूषणम् ।
त्रोटयाम्यहमक्रूरं वागुरामिव केसरी ॥ २० ॥
कालो मृत्युः स एव व्यालः षिङ्गस्तस्य विभूषणमलङ्कारभूतं
संसारलक्षणं हारं [मुक्तासरम्] मुक्ताहारमरतिर्वैराग्यादि##-
स्यात्तथा वागुरां केसरीव त्रोटयामि । भवदुपदेशजन्यज्ञानेनेति भावः ॥
२० ॥
नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे ।
केन विज्ञानदीपेन भिन्धि तत्त्वविदांवर ॥ २१ ॥
हृदयं हृत्पुण्डरीकस्थानं तदेव दुष्प्रवेशत्वादटवी । तस्य जाड्या##-
मनसस्तिमिरमिव विवेकनेत्रपिधायकमज्ञानं केन सुखकरेण शिर इव
प्रधानेन वा विज्ञायते अनेनेति विज्ञानमुपदेशः स एव दीपयति दिश इति दीपः
सूर्यस्तेन भिन्धि विदारय ॥ २१ ॥
विद्यन्त एवेह न ते महात्मन् दुराधयो न क्षयमाप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां निशातमांसीव निशाकरेण ॥ २२ ॥
ये उत्तममानसानां सङ्गेन तत्फलेनोपदेशेन क्षयं नाप्नुवन्ति ते तथा##-
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।
लोलायौवनलालनाजलरयश्चेत्याकलय्य द्रुतं
मुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये ॥ २३ ॥
ननु शान्त्यादिदार्ढ्यशून्ये बाले त्वयि कृतोऽप्युपदेशः कथं फलिष्यती##-
बहुष्वधिकारलिप्सुषु सत्सु येषु लोभकातरतादिदोषै राष्ट्रे पीडापराक्रम##-
तृष्णाचापलादिदोषैश्चित्तदुःखनाशाद्यनर्थमाकलय्य तानि विहाय
सर्वदोषरहितायै समर्थायै च शान्तये प्रशमायैव दृढा
[अचञ्चला] अचला चित्ते विषये अधिकारमुद्रा अर्पितेत्यर्थः ।
वायुविघट्टितायामभ्रपटल्यां लम्बमानं यदम्बु तद्वद्भङ्गुरम् ।
मेघानां वितानो विस्तारो वितानमिव विस्तृता वा मेघास्तेषां मध्ये विलसन्ती
सौदामिनी विद्युदिव चञ्चलाः यौवनसम्बन्धिन्यो लालनाश्चित्तविनोदाः ।
इवार्थे च शब्दः । जलस्य रयो वेग इव लोलाः । तुल्ययोरेवोत्सर्गतः समुच्चयो
दृष्ट इत्यर्थाद्वा इवार्थलाभः । द्रुतं शीघ्रमाकलय्य विचार्य ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥