अष्टाविंशः सर्गः २८
श्रीराम उवाच ।
यच्चेदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
तत्सर्वमस्थिरं ब्रह्मन्स्वप्नसङ्गमसन्निभम् ॥ १ ॥
इह सर्वेषु भोग्येषु वैरस्यप्रतिपत्तये ।
वर्ण्यते सर्वभावानां विपर्यासिस्वभावता ॥
सर्वभावानामविरतविपर्यासस्वभावतादर्शनादपि न तेष्वाश्वास इत्याहः
- यच्चेदमित्यादिना । स्वप्ने सङ्गमः समाजमेलनम् ॥ १ ॥
शुष्कसागरसङ्काशो निखातो योऽद्य दृश्यते ।
स प्रातरभ्रसंवीतो नगः सम्पद्यते मुने ॥ २ ॥
निखातो गर्तः । प्रातर्ग्रहणं कालान्तरोपलक्षणम् ॥ २ ॥
यो वनव्यूहविस्तीर्णो विलीढगगनो महान् [गगनोऽचलः] ।
दिनैरेव स यात्युर्वीसमतां कूपतां च वा ॥ ३ ॥
वनव्यूहेन वनसमुदायेन । विलीढगगनश्चुम्बितनभस्तलः । उन्नत इति यावत्
। महान्परिणाहतः । दिनैः कैश्चिदेव ॥ ३ ॥
यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तदेव श्वो दूरे विशरिताऽवटे ॥ ४ ॥
अवटे गर्ते । विशरिता विशीर्णं भविता । लुट् ॥ ४ ॥
यत्राद्य नगरं दृष्टं विचित्राचारचङ्चलम् ।
तत्रैवोदेति दिवसैः संशून्यारण्यधर्मता ॥ ५ ॥
चञ्चलं पुनः पुनश्चरत् ॥ ५ ॥
यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति ।
स भस्मकूटतां राजन्दिवसैरधिगच्छति ॥ ६ ॥
अधिगच्छति प्राप्नोति ॥ ६ ॥
अरण्यानि महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥ ७ ॥
महारण्यमरण्यानी । विस्तीर्णतया नीलतया च नभोमण्डलोपमा ॥ ७ ॥
या लतावलिता भीमा भात्यद्य विपिनावली ।
दिवसैरेव सा याति पुनर्मरुमहीपदम् ॥ ८ ॥
लताभिर्वलिता संवृत्ता । मरुमह्याः पदं लक्षणं निर्वृक्षजलताम् ॥ ८ ॥
सलिलं स्थलतां याति स्थलीभवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥ ९ ॥
वारिभूरुदकस्थानम् । विपर्यस्यति विपरीतावस्थामापद्यते ॥ ९ ॥
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः ।
भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् ॥ १० ॥
पूर्वस्वभावात्स्वभावान्तरम् ॥ १० ॥
वातान्तर्दीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसङ्काशा पदार्थश्रीर्जगत्रये ॥ ११ ॥
अल्पो दीपो दीपकः ॥ ११ ॥
विपर्यासमियं याति भूरिभूतपरम्परा ।
बीजराशिरिवाजस्त्रं पूर्यमाणः पुनःपुनः ॥ १२ ॥
यथा कुसूलादावजस्रं पुनःपुनः पूर्यमाणो धान्यादिबीजराशिर्व्ययेन
विपर्यासं क्षेत्रे उप्तो जलेन पूर्यमाणो वोच्छूनताङ्कुरसस्यादिभावेन
विपर्यासमित्यर्थः ॥ १२ ॥
मनःपवनपर्यस्तभूरिभूतरजःपटा ।
पातोत्पातपरावर्तपराभिनयभूषिता ॥ १३ ॥
इयं जागती स्थितिरेव संसारस्य [स्वकौशलातिश्याप्रकटनाय प्राणिनां
जन्ममृत्युसंसरणलक्षणायामारभट्यां नटी वंशनटी । भटीनटीति
समुदायो वा तद्वाचकः] कर्तृभोक्तृतासन्तानलक्षणा या आरभटी
आडम्बरातिशयः सैव नटी नर्तकी स्वकौशलातिशयप्रकटनाय नृत्ते
आवेशेन विवृत्ता परिवर्तनमानेव जनितभ्रमा आलक्ष्यते इति सम्बन्धः ।
तदनुरूपं विशिनष्टि । मन एव पवनस्तेन पर्यस्तमुद्भूतं भूरिभूतं
प्राणिलक्षणं रजोवृन्दमेव पटो यस्याः । अतएव प्राणिनां पातो
नरकादावुत्पातः स्वर्गे परावर्तो मध्यमलोकेऽत एव परा उत्कृष्टा
अभिनयाभावव्यञ्जकचेष्टास्ताभिर्भूषिता ॥ १३ ॥
आलक्ष्यते स्थितिरियं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥ १४ ॥
गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥ १५ ॥
तामेव वर्णयति द्वाभ्याम् - गन्धर्वेति । विपर्यासो भ्रान्तिः
वंशनटीनां नेत्रपिधानगारुडविद्या प्रसिद्धा । अपाङ्गाविव
भङ्गुरैश्चपलैरपाङ्ग-पातैश्च भङ्गुरैर्व्यवहारैर्मनोरमा ॥ १५
॥
तडित्तरलमामोलमातन्वाना पुनःपुनः ।
संसाररचना राजन्नृत्तसक्तेव राजते ॥ १६ ॥
तडितमेव तडितमिव च तरलं आलोकं आलोकनम् ॥ १६ ॥
दिवासास्ते महान्तस्ते सम्पदस्ताः क्रियाश्च ताः ।
सर्वं स्मृतिपथं यातं यामो वयमपि क्षणात् ॥ १७ ॥
ते उत्सवविभवशालिनः ॥ १७ ॥
प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥ १८ ॥
हतदग्धशब्दौ निन्दावचनौ ॥ १८ ॥
त्रियक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि ।
देवाश्चादेवतां यान्ति किमिवेह विभो स्थिरम् ॥ १९ ॥
तिर्यक्त्वं पश्वादिजन्म ॥ १९ ॥
रचयन्रश्मिजालेन रात्र्यहानि पुनःपुनः ।
अतिबाह्य रविः कालो विनाशवधिमीक्षते ॥ २० ॥
कालः कालत्मा रविः सूर्यः । रचयन् । भूतजातमिति शेषः । रात्र्यहानि अतिबाह्य
विनाशावधिं स्वरचितस्य भूतजातस्येति शेषः ॥ २० ॥
ब्रह्माविष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।
नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ २१ ॥
अनुधावन्त्यनुसरन्ति । वाडवं वडवानलम् ॥ २१ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥ २२ ॥
वाडवस्य भागलक्षणया वह्नेः । प्रसिद्धस्य वाडवस्याबिन्धनत्वेन
संशुष्कविशेषणानुपयोगात् ॥ २२ ॥
धनानि बान्धवा भृत्या मित्राणि विभवाश्च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ २३ ॥
स्वदन्ते तावदेवैते भावा जगति धीमते ।
यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥ २४ ॥
स्वदन्ते रोचन्ते ॥ २४ ॥
क्षणमैश्वर्यमायाति क्षणमेति दरिद्रताम् ।
क्षणं विगतरोगत्वं क्षणमागतरोगताम् ॥ २५ ॥
क्षणमल्पकालम् । जन इति शेषः ॥ २५ ॥
प्रतिक्षणविपर्यासदायिना निहतात्मना ।
जगद्भ्रमेण के नाम धीमन्तो हि न मोहिताः ॥ २६ ॥
निहगशब्दो निन्दावचनो नश्वरवचनो वा ॥ २६ ॥
तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् ।
क्षणं कनकनिष्यन्दकोमलालोकसुन्दरम् ॥ २७ ॥
अनियतस्थितिमेवोदाहरणेन प्रपञ्चयति - तम इत्यादित्रिभिः ।
आकाशमण्डलो-दाहरणम् दृष्टान्तार्थम् । तमोलक्षणेन पङ्केन
सम्यगालब्धं स्पृष्टम् । कनकस्य निष्यन्दो द्रव इव रम्येण कोमलेन
सुखस्पर्शेन चन्द्राद्यालोकेन ॥ २७ ॥
क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्षणमुड्डामररवं क्षणं मूकमिव [मूकमवस्थितम्]
स्थितम् ॥ २८ ॥
जलदा एव नीलाब्जमालास्ताभिर्वेष्टितोदरम् । उड्डामरस्तारः ॥ २८ ॥
क्षणं ताराविरचितं क्षणमर्केण भूषितम् ।
क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ २९ ॥
आलोकातिरिक्तैः पर्यायेण वा पूर्वोक्तैः सर्वैर्बहिष्कृतं रहितम् ॥ २९ ॥
आगमापायपरया क्षणसंस्थितिनाशया ।
न बिभेति हि संसारे धीरोऽपि [ऽधिक इव] क इवानया ॥ ३० ॥
इवशब्दोऽनर्थको दृष्टान्तदौर्लभ्यार्थो वा । एवमूत्तरत्रापि । अनया
जगत्स्थित्या ॥ ३० ॥
आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः ।
क्षणं जन्म क्षणं मृत्युर्मुने किमिव न क्षणम् ॥ ३१ ॥
प्रागासीदन्य एवेह जातस्त्वन्यो नरो दिनैः ।
सदैकरूपं भगवन्किञ्चिदस्ति न सुस्थिरम् ॥ ३२ ॥
इह सदैकरूपं सुस्थिरं न किञ्चिदस्तीति सम्बन्धः ॥ ३२ ॥
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ ॥ ३३ ॥
घटस्य कार्पासक्षेत्रे विशीर्णस्य कार्पासपरिणामक्रमेण पटता
दृष्टेत्यर्थः ॥ ३३ ॥
तनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् ।
सततं रात्र्यहानीव निवर्तते नरं प्रति ॥ ३४ ॥
वृद्धिविपरिणामापक्षयविनाशपुनर्जन्माख्याः पञ्च
भावविकारास्तनो-त्यादिभिरुच्यन्ते । तान्क्रमेण प्राप्नुवानं नरं
देहाभिमानिनं प्रति ते भावविकारा निवर्तन्ते न चिरं तिष्ठन्तीति तेऽपि
विपर्यस्यन्तीत्यर्थः । यद्यप्यस्तीति सतापि भावविकारेषु यास्केन पठ्यते तथापि
साधिष्ठान-ब्रह्मसत्तानुवेधो न विकार इति भावः ॥ ३४ ॥
अशूरेण हतः शूर एकेनापि हतं शतम् ।
प्राकृताः प्रभुतां याताः सर्वमावर्त्यते जगत् ॥ ३५ ॥
आवर्त्यते विपर्यस्यते ॥ ३५ ॥
जनतेयं विपर्यासमजस्रमनुगच्छति ।
जडस्पन्दपरामर्शात्तरङ्गाणामिवावली ॥ ३६ ॥
जनता चेतनसमूहः जडस्याचेतनस्य प्राणकरणादेः । डलयोरभेदा##-
बाल्यमल्पदिनैरेव यौवनश्रीस्ततो जरा ।
देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ ३७ ॥
अल्पदिनैर्यातीति शेषः ॥ ३७ ॥
क्षणमानन्दितामेति क्षणमेति विषादिताम् ।
क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥ ३८ ॥
नटो यथा हर्षविषादाद्यभिनयति तद्वत् ॥ ३८ ॥
इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः ।
रचयन्वस्तुनायाति खेदं लीलास्विवार्भकः ॥ ३९ ॥
त्रिभिरित आदिशब्दैर्हर्षविषादमोहहेतवो विचित्रा उच्यन्ते ॥ ३९ ॥
चिनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् ।
सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥ ४० ॥
चिनोति ब्रीह्यादीनिव सञ्चयेनोपचयं नयति तैरन्यानुत्पादयति तांश्च
निहत्यात्ति भक्षयति ततो लब्धास्वादस्तथैव निरन्तरं भोक्तुमन्यानपि
जन्तूनासृजति विधिः । सृष्टं च नरं प्रति हर्षविषादादयो रात्र्यहानीव
सदा प्राप्य निवर्तन्त इत्यर्थः ॥ ४० ॥
आविर्भावतिरोभावभागिनो भवभातिनः ।
जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥ ४१ ॥
तदेव हेत्वस्थैर्येण विशदयति - आविर्भावेति ॥ ४१ ॥
कालः क्रीडत्ययं प्रायः सर्वमापदि पातयन् ।
हेलाविचलिताशेषचतुराचारचञ्चुरः ॥ ४२ ॥
हेलया अनादरेणैव विचलिताः परिवर्तिता अशेषाश्चतुराः समर्था अपि येन
तथाविधे आचरणे चञ्चुरः कुशलः ॥ ४२ ॥
समविषमविपाकतो विभिन्नास्त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥ ४३ ॥
कर्मणां रसानां च समविषमविपाकतो नानाविधास्त्रैलोक्यप्राणि##-
भिन्नास्तल्लक्षणेभ्यो द्रुमेभ्यः समयः कालस्तल्लक्षणेन पवनेन पातिताः
प्रतिदिनं पतन्ति । तथाच पतनपर्यवसितं सर्वं दुष्टमेवेति न क्वचिदास्था
युक्तेति भावः ॥ ४३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
सर्वभावाऽविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः ॥ २८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
सर्वभावाऽविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः ॥ २८ ॥