सप्तविंशः सर्गः २७
श्रीरम उवाच ।
अन्यच्च ताताटितरामरम्ये मनोरमे चेह जगत्स्वरूपे ।
न किञ्चिदायाति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः ॥ १ ॥
उक्तानुक्तेषु भावेषु निःश्रेयसविरोधिषु ।
विस्तरेण पुनर्दोषा वैराग्यायेह कीर्तिताः ॥
प्रत्येकमुक्तेष्वनुक्तेषु च भावेषु समुच्चित्य दोषान्तराणि प्रपञ्चयन्स्व##-
शेषः । आपाततो मनोरमे वस्तुतस्त्वरम्ये जगत्स्वरूपे येन लब्धेन
चेतोऽतिविश्रान्तिं पूर्णकामतामुपैति तत्तादृशं किञ्चिदप्यर्थजातं नायाति
चेतसि ततोऽन्यच्च तत्त्वं नायाति न लभ्यत इति वार्थः ॥ १ ॥
बाल्ये गते कल्पितकेलिलोले मनोमृगे दादरीषु जीर्णे ।
शरीरके जर्जरतां प्रयाते विदूयते केवलमेव लोकः ॥ २ ॥
दारा एव दर्यो गिरिगुहाः । विशेषेण दूयते उपतप्यते । केवलं पुरुषार्थ##-
जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विमुच्य ।
क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरोऽवशुष्कम् ॥ ३ ॥
जीवितं जीवनं स एव चञ्चरीको भ्रमरः । संसारोऽत्रैहिकसमारम्भस्त##-
यदा यदा पाकमुपैति नूनं तदा तदेयं रतिमातनोति ।
जराभराऽनल्पनवप्रसूना विजर्जरा कालयता नराणाम् ॥ ४ ॥
रतिं प्रीतिमातनोति । मृत्योरिति शेषः । नराणां काय एव लता वल्लि ॥ ४ ॥
तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता ।
तटस्थसन्दोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके ॥ ५ ॥
सारतरो वेगवत्तरो बलवत्तरो वा मूलनिकाषो वप्रनिकृन्तनं तत्र दक्षा
समर्थाः ॥ ५ ॥
शारीरनौश्चर्मनिबन्धबद्धा भवाम्बुधावालुलिता भ्रमन्ती ।
प्रलोड्यते पञ्चभिरिन्द्रियाख्यैरधोभवन्ती मकरैरधीरा ॥ ६ ॥
सर्मणा निबन्धनेन आछादनेन बद्धा । चर्ममयी तरिर्दक्सिणदेशे प्रसिद्धा
। ऊर्मिभिरालुलिता व्याकुलिता स्वतश्च लघुत्वाद्भ्रमन्ती अतएवाधोभवन्ती
मज्जनोन्मुखी इन्द्रियग्राहैरपि प्रलोड्यते । यतोऽधीरा न विद्यन्ते धीरा
विवेकधीमन्तो वैराग्यधरियशालिनो वा जीवा यस्यां तथाविधा ॥ ६ ॥
तृष्णालताकाननचारिणोऽमी शाखाशतं काममहीरुहेषु ।
परिभ्रमन्तः क्षपयन्ति कालं मनोमृगा नो फलमाप्नुवन्ति ॥ ७ ॥
लताप्रथानं काननं लताकाननम् । शाख्याशतं परिभ्रमन्त इति
विशेषणान्मृगाः अत्र शाखामृगाः कालमायुः क्षपयन्ति ॥ ७ ॥
कृच्छ्रेषु दूरास्तविषादमोहाः स्वास्थ्येषु नोत्सिक्तमनोभिरामाः ।
सुदुर्लभाः सम्प्रति सुन्दरीभिरनाहतान्तःकरणा महान्तः ॥ ८ ॥
कृच्छ्रेषु आपत्सु । स्वास्थ्येषु सम्पत्सु । नोत्सिक्तेनागर्वितेन मनसा अभिरामाः
। नञर्थको नशब्दोऽप्यस्ति तस्य समासः ॥ ८ ॥
तरन्ति मागङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः ।
शूरास्त एवेह मनस्तरङ्गं देहेन्द्रियाम्बोधिमिमं तरन्ति ॥ ९ ॥
घटाः समूहास्त एव तरङ्गा यस्मिन् । ये तरन्ति ते मयि शौर्योत्कर्षविमर्श##-
भावः ॥ ९ ॥
अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिदेव काचित् ।
क्रियादुराशाहतचित्तवृत्तिर्यामेत्य विश्रान्तिमुपैति लोकः ॥ १० ॥
ननु कर्मैव तत्रोपायोऽस्तु तत्राह - अक्लिष्टेति । अप्यर्थ एवकारः ।
कस्यचित्काचि-दपि क्रिया अक्लिष्टं क्लेशेन नाशेन वा रहितं पर्यन्तः
संसारावसानं तद्रूपं यत्फलं तेन अभिरामा न दृश्यते । तद्यथेह
कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत इत्यादिश्रुतेः ।
कृतकफलस्य नाशनियमादिष्टनाशस्य दुःखपर्यवसितत्वाच्चेति भावः ।
यां क्रियामेत्य आश्रित्य । विश्रान्तिं स्वास्थ्यम् ॥ १० ॥
कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।
ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥ ११ ॥
यत्र असति भाग्योदये कीर्तिप्रतापलक्ष्म्याद्यल्पफलानामपि धैर्यादिक्षति##-
मोक्षस्येत्यभिप्रेत्याह - कीर्त्येति । श्रिया सम्पदा । गृहमर्थिगृहम् ।
सत्त्वबलेन सात्त्विकक्षमाविनयौदार्यादिबलेन लक्ष्मीम् । तेन हि सा पुर्णेव
राजते ॥ ११ ॥
अप्यन्तरस्थं गिरिशैलभित्तेर्वज्रालयाभ्यन्तरसंस्थितं वा ।
सर्वं समायान्ति ससिद्धिवेगाः सर्वाः श्रियः सन्ततमापदश्च ॥ १२ ॥
सति तु भाग्योदये सर्वस्य सर्वत्र सर्वाभिलषितप्राप्तिः सुलभेति
पुरुषप्रयत्न-वैयर्थ्यमभिप्रेत्याह - अप्यन्तरस्थमिति । गिरेः शैली
शिलामयी या भित्तिः । कर्मधारयनिमित्तः पुंवद्भावः । तन्मध्ये स्थितमपि
वज्रनिर्मितत्वाद-भेद्यस्यालयस्याभ्यन्तरे संस्थितमपि वा सर्वं
सभाग्यजनमिति शेषः । सिद्धयोऽणिमादयस्तेषां वेगैस्त्वराभिः सहिताः ।
आपद्ग्रहनं दृष्टान्तार्थम् ॥ १२ ॥
पुत्राश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनाभम् ।
सर्वं तु तन्नोपकरोत्यथान्ते यत्रातिरम्या विषमूर्छनैव ॥ १३ ॥
अक्लिष्टपर्यन्तेत्यनुपदोक्तमेव प्रपञ्चयति - पुत्राश्चेत्यादिना । प्रकल्प्यते
भ्रान्त्येति शेषः । अन्ते मृत्युकाले । अतिरम्या अपि भोगविषया यत्र
विषमूर्छ-नावद्दुःखायैव ॥ १३ ॥
विषादयुक्तो विषमामवस्था मुपागतः कायवयोवसाने ।
भावान्स्मरन्स्वानिह धर्मरिक्तान् जन्तुर्जरावानिह दह्यतेऽन्तः ॥ १४ ॥
धर्मरिक्तान् पुण्यसङ्ग्रहशून्यान् ॥ १४ ॥
कामार्थधर्माप्तिकृतान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा ।
चेतश्चलद्बर्हिणपिच्छलोलं विश्रान्तिमागच्छतु केन पुंसः ॥ १५ ॥
आदौ धनार्जनभोगतृष्णाप्राबल्यात्कामार्थाभ्यामेव धर्मावाप्तौ
कृतान्तराभिराक्रान्तावकाशाभिर्लौकिकक्रियाभिः । बर्हिणो मयूरस्तस्य
पिच्छं बर्हमिव लोलम् । कायवयोवसाने इत्येतदत्राप्यनुषज्यते ॥ १५ ॥
पुरोगतैरप्यनवाप्तरूपैस्तरङ्गिणीतुङ्गतरङ्गकल्पैः ।
क्रियाफलैर्दैववशादुपेतैर्विडम्ब्यते भिन्नरुचिर्हि लोकः ॥ १६ ॥
ननु मास्तु धर्मार्जनशुन्यानां चेतसि विश्रान्तिस्तदर्जनवतां भवदादीनां
तत्फललाभात्कुतो न सेत्याशङ्क्य धर्मफलस्वर्गपुत्रादे##-
तरङ्गवद्भङ्गुरैरतएवानवाप्तरूपैर-प्राप्तप्रायैः । हि यस्माद्भिन्ने
अनात्मनि रुचिर्यस्य स लोको जनो विडम्ब्यते वञ्च्यते । अयं भावः - स एव हि
लाभ इत्युच्यते यल्लब्धं नापैति अनर्थे वा न पर्यवस्यति । अन्यस्तु लाभो
विडम्बनमात्रम् । यथा अल्पायुःपुत्रलाभो यथा वा मत्स्यस्य
बडिशामिषलाभः । तथाच श्रुतिः स योऽन्यदात्मनः प्रियम्ब्रुवाणं
ब्रूयात्प्रियं रोत्स्यति इति । तथाच न तल्लाभादाश्वास इति ॥ १६ ॥
इमान्यमूनीति विभावितानि कार्याण्यपर्यन्तमनोरमाणि ।
जनस्य जायाजनरञ्जनेन जवाज्जरान्तं जरयन्ति चेतः ॥ १७ ॥
उक्तमेवार्थमासुरसम्पद्विस्तारप्रदर्शनेन प्रपञ्चयति - इमानीत्यादिना
। इमानि सन्निहितानि सद्यः कर्तव्यान्यमूनि विप्रकृस्टानि देशकालान्तरे
कर्तव्यानीति विभावितानि निरन्तरं चिन्तितान्यपर्यन्तमनोरमाणि ।
परिणामेऽनर्थरूपाणि । जायानां जनानां च रञ्जनेन प्रियाचरणेन
देहजरान्तं चेतोऽपि जरयन्ति । विवेकाद्भ्रंशयन्तीति यावत् ॥ १७ ॥
पर्णानि जीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति ।
तथैव लोकाः स्वविवेकहीनाः समेत्य गच्छन्ति कुतोऽप्यहोभिः ॥ १८ ॥
कुतोऽप्यहोभिः कतिपयैरेव दिनैः ॥ १८ ॥
इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने ।
विवेकिलोकाश्रयसाधुकर्म रिक्तेऽह्नि रात्रौ क उपैति निद्राम् ॥ १९ ॥
अह्नि दिवसे विवेकिजनानामनुसरणेन सत्कर्मभिश्च रहिते सति को निद्रामुपैति
विना मूढमिति शेषः ॥ १९ ॥
विद्राविते शत्रुजने समस्ते समागतायामभितश्च लक्ष्म्याम् ।
सेव्यन्त एतानि सुखानि यावत्तावत्समायाति कुतोऽपि मृत्युः ॥ २० ॥
कुतोऽपि संवर्धिततुच्छरूपैर्भावैरमीभिः क्षणनष्टदृष्टैः ।
विलोड्यमाना जनता जगत्यां नवेत्युपायातमहो न पातम् ॥ २१ ॥
कुतोऽप्यनिर्धारिततत्त्वाद्धेतोः संवर्थितैः भावैर्विषयैर्विलोड्यमाना
भ्राम्यमाणा । पातं मृत्युम् । यातमिति पाठे उपायातमागतं यातं गतं
च अहो न वेत्ति ॥ २१ ॥
प्रियासुभिः कालमुखं क्रियन्ते जनैडकास्ते हतकर्मबद्धाः ।
यैः पीनतामेव बलादुपेत्य शरीरबाधेन न ते भवन्ति ॥ २२ ॥
सर्वप्राणिनां प्रियत्वेन प्रसिद्धैरसुभिः प्राणैर्यजमानैस्त एव जनैडका
नरमेषाः पशवः । हतशब्दः कुत्सायाम् । कुत्सितकर्मलक्षणेषु यूपेषु
बद्धाः सन्तो दोषाञ्जनैः कालवर्णं मुखं यथा स्यात्तथा क्रियन्ते
संस्क्रियन्ते । ते के । यैर्विषयासक्तिदेहपोषणादिबलात्पीनतामेवोपेत्य स्थितं न
विवेकवैराग्याद्यभ्यस्तमित्यर्थः । अत एव हि ते रोगर्त्विग्भिः सञ्ज्ञपन##-
भवन्तीत्युत्प्रेक्षा । असन्नेव स भवति असद्ब्रह्मेति वेद चेत् इति श्रुतेः । यज्ञ##-
लक्षणा । अथवा यैरेव जनैडकैः पोषकैः स्वयं पीनतामुपेत्य स्थितास्त एव
क्रियन्ते उपह्रियन्ते । अतएव कृतघ्ना असवः शरीरबाधेन हेतुना ते प्रियासवो
न भवन्ति किन्त्वप्रियाः शत्रवः । तथाच न प्राणपोषणमात्र-परेण
भाव्यमिति भावः । अथवा असुपोषणपरा अपि न मूढजनाः प्रियासवः ।
तेषां मृत्युमुखप्रवेशोपायाचरणेन प्रत्युत प्राणविघात-कत्वात् ।
किन्तु तत्त्वज्ञा एवेह प्रियासवः । प्राणानां तत्त्वदृशा नित्यात्म##-
मूढजनैडकाः कालमुखमिव क्रियन्ते । नाद्रियन्त इति यावत् ।
कस्तेष्वतिशयस्तत्राह - यैष्तत्त्वज्ञानबलाच्छरीरत्रयबाधेन
पीनतामपरि-च्छिन्नतामेवोपेत्य स्थितमिति हेतोस्ते
जनैडकवद्देहात्ममतयो न भवन्तीत्ययमेवातिशय इत्यर्थः ॥ २२ ॥
अजस्त्रमागच्छति सत्वरैवमनारतं गच्छति सत्वरैव ।
कुतोऽपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥ २३ ॥
यथा आगच्छति एवं सत्वरैव गच्छति । कुतोऽपीत्युक्त्या यत आगच्छति यत्र च
गछति तज्जिज्ञासितमिति सूचितम् ॥ २३ ॥
प्राणापहारैकपरा नराणां मनो मनोहारितया हरन्ति ।
रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो विषद्रुमालोललताः स्त्रियश्च ॥ २४ ॥
रक्तच्छदा रक्तौष्ठ्यो रक्तवस्त्रा वा रक्तपल्लवाश्च । षट्पदा इव षट्पदा एव
चाक्षीणि यासाम् । विषद्रुमेष्वालोला लता विषलताः ॥ २४ ॥
इतोऽन्यतश्चोपगता मुधैव समानसङ्केतनिबद्धभावा ।
यात्रासमासङ्गसमा नराणां कलत्रमित्रव्यवहारमाया ॥ २५ ॥
इतो मनुष्यलोकादन्यतः स्वर्गनरकादिभ्यश्च । मुधा व्यर्थमेव ।
इहास्माभिर्मिलितव्यमिति परस्पराभिप्रायनिबन्धनः सङ्केतस्तेन
सम्पादितस्वरूपा । देवोत्सवादियात्रायां समासङ्गः समाजमेलनम् ॥ २५ ॥
प्रदीपशान्तिष्विव भुक्तभूरिदशास्वतिस्नेहनिबन्धनीषु ।
संसारमालासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु ॥ २६ ॥
संसारा जन्ममरणपरम्परास्तेषां मालासु प्रदीपानां शान्तिषु
क्षणिकज्वालोपरमप्रवाहेष्विव तत्त्वं पारमार्थिकं वस्तु न ज्ञायते इति
सम्बन्धः । सर्वाणि विशेषणान्युभयसाधारणानि । दशा बाल्यादयो
वर्तिकाश्च । स्नेहो रागस्तैलं च । चलाचलासु चञ्चलासु । अतात्त्विकीषु
मिध्याभूतासु ॥ २६ ॥
संसारसंरम्भकुचक्रिकेयं प्रावृट्पयोबुद्बुदभङ्गुरापि ।
असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति ॥ २७ ॥
यथा कुलालचक्रिका भ्रमन्त्यप्यसावधानपुरुषबुद्धौ चिरं स्थिरैवेयं न
भ्रमतीति प्रतीतिं जनयति एवमियं [प्रवृत्तिकुचक्रिका]
संसारप्रवृत्ति-रूपा कुचक्रिका वार्षिकलजबुद्बुद्वदनित्यापि
चिरस्थायिताप्रतीतिं जनयतीत्यर्थः ॥ २७ ॥
शोभोज्ज्वला दैववशाद्विनष्टा गुणाः स्थिताः सम्प्रति जर्जरत्वे ।
आश्वासनादूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य ॥ २८ ॥
जनस्य अम्बुजस्येव सम्प्रति यौवने शरदि च ये सौन्दर्यसौगन्ध्यादयो गुणाः
शोभोज्ज्वलाः स्थितास्त एव गुणा वार्धकेन जर्जरत्वे हेमन्ते च
दैववशाद्विनष्टाः सन्त आश्वासनायाश्चित्तसमाधानस्य आघ्राणस्य च
दूरतरं प्रयाता दुर्लभा भविष्यन्तीति न तेषु विश्वास इति भावः ॥ २८ ॥
पुनःपुनर्दैववशादुपेत्य स्वदेहभारेण कृतोपकारः ।
विलूयते यत्र तरुः कुठारैराश्वासने तत्र हि कः प्रसङ्गः ॥ २९ ॥
यत्र संसारे भूजलपवनादि दैववशात्पुरुषोपकारमनपेक्ष्यैवेति यावत् ।
जन्माभिवृद्धिफलपुष्पादिसमृद्धिमुपेत्य स्वदेहस्य भारेण धारणेन
पुनःपुनर्जनेभ्यश्छायापत्रपुष्पफलादिभिः कृतोपकारोऽनपराध्यपि
तरुर्वृक्षः कुठारैर्विलूयते छिद्यते । तत्र संसारे । तत्र प्रतिपदप्रसक्ता##-
मृत्युरनपकारिणमपि हनिष्यत्येवेति भावः ॥ २९ ॥
मनोरमस्याप्यतिदोषवृत्तेरन्तर्विघाताय समुत्थितस्य ।
विषद्रुमस्येव जनस्य सङ्गादासाद्यते सम्प्रति मूर्छनैव ॥ ३० ॥
नन्वस्त्वन्यत्र दोषस्तथापि हितैषिषु स्वजनेषु को दोषस्तत्राह -
मनोरमस्येति । अतिशयितदोषाः स्नेहभोगादिवृत्तयो
दाहभ्रमणादिवृत्तयश्च यस्मात् । अन्तरुपशमस्य जीवितस्य च
विघातायोद्युक्तस्योत्पन्नस्य च मूर्च्छना मूढता कश्मलं वा आसाद्यत
इत्ययमेव दोष इति भावः ॥ ३० ॥
कास्ता दृशो यासु न सन्ति दोषाः
कास्ता दिशो यासु न दुःखदाहः ।
कास्ताः प्रजा यासु न भङ्गुरत्वं
कास्ताः क्रिया यासु न नाम माया ॥ ३१ ॥
संसारदृष्टिषु कास्ता दृशो दृष्टयः । क्रिया लौकिक्यः । माया छलम् ॥
३१ ॥
कल्पाभिधानक्षणजीविनो हि कल्पौघसङ्ख्याकलने [विरिञ्च्या]
विरिञ्च्याः ।
अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियोऽप्यसत्याः ॥ ३२ ॥
नन्वन्यासां प्रजानां भङ्गुरत्वेऽपि विरिञ्चिसालोक्यं प्राप्तानां प्रजानां
कल्पायुषां न भङ्गुरत्वमित्याशङ्क्याह - कल्पेति ।
कल्पौघानामतीतानागतानन्तकल्पानां सङ्ख्याया अकलने अपरिज्ञाने
आनन्त्याविशेषात्कल्पा अपि विष्णुरुद्रादिदृशा क्षणा एवेति विरिञ्च्या अपि
कल्पाभिधानक्षणजीविन एव । अतोऽवयवशालिनि कालसमूहे लघुत्वदीर्घ##-
तुल्यन्यायेन ब्रह्माण्डा अप्यनन्तकोटिब्रह्माण्डदृशां दृशा अणव
एवेत्यणुमहत्त्वादिबुद्धयोऽप्यसत्या बोध्याः ॥ ३२ ॥
सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिरेव वृक्षाः ।
मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ॥३३॥
एवं प्रकृतिदृष्टौ विकारजातमप्यसत्यमेव प्रतिभातीताह - सर्वत्रेति ।
स्वार्थे मयट् । प्रकृत्या चारुरित्यादिवदभेदे तृतीया । महीध्ना वस्तुतः
पाषाणा एव । मही मृदेव । जना मांसादीन्येव । कथं तर्हि पर्वतादि##-
पुरुषकृतैर्नामरूपसङ्केतैः प्रतिनियतस्वभावा इत्यर्थः । परमार्थतस्तु
अपूर्व पूर्वसिद्धकारणाद-न्यन्नास्ति । तथाच सर्वत्र
न्यायसाम्याद्विकारहीनं परित्यक्तविकारं सर्वं जगत्प्रकृतिभूतमेकमेव
परमार्थवस्त्वस्तीति युक्त्या सम्भाव्यत इत्यर्थः । अथवा अस्तु
पर्वतादिविकाराणामसत्यत्वं तत्प्रकृतीनां पाषाण-मृदादीनां तु
तत्कुतस्तत्राह - नापूर्वमिति । तेषामपि स्वकारणमहाभूत##-
एवेत्यर्थः ॥ ३३ ॥
आलोक्यते चेतनयाऽनुविद्धा पयोनुबद्धोऽस्तनयो नभः स्थाः ।
पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किञ्चित् ॥ ३४ ॥
पाषाणमृदादीनां महाबूतमात्रत्वमुक्तं स्फुटयति - आलोक्यत इति ।
अनुवित् हा इति च्छेदः । पयो जलं तदनुबद्धस्तत्कारणत्वेन तदिन्धनत्वेन वा
तत्सम्बद्धो वह्निः । यद्यपि भौमो वह्निः पार्थिवेन्धनस्तथापि काष्ठा##-
सूर्यचन्द्राप्न्युदकादीनीत्यस्तनयो वायुः । नभ आकाशः । तिष्ठति न चलतीति
स्थाः पृथिवी । इत्येतन्महाभूतपञ्चकमेवानुविध्यते पर्स्परं सम्बध्यत
इत्यनुवित् मिलितं सत् गोघटादिनानापदार्थलक्ष्म्या एतज्जगच्चेतनया बुद्ध्या
आलोक्यते अविवेकिभिः । हा इति खेदावद्योतको निपातः । विवेकदृशा
पृथग्विभागेन प्रयालोचने तु इतरत्पञ्चभूतातिरिक्तं न किञ्चिदस्तीत्यर्थः ।
तथाच श्रुतिः - यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्य । अपागामदग्नेरग्नित्वं वाचारम्भणं विकारो
नामधेयं त्रीणि रूपाणीत्येव सत्यम् इति ॥ ३४ ॥
चमत्कृतिश्चेह मनस्विलोकचेतश्चमत्कारकरी नराणाम् ।
स्वप्नेऽपि साधो विषयं कदाचित्केषाञ्चिदभ्येति न चित्ररूपा ॥ ३५ ॥
नन्वेवं पदार्थानामसत्यत्वे कथं जनानां व्यवहारभोगचमत्कारः नहि
शुक्तिरजतेन कङ्कणं कर्तुं शक्यमित्याशङ्क्याह - चमत्कृतिरिति । इह
मिथ्याभूतेऽपि पदार्थजाते व्यवहारकुशलतया मनस्विनां प्रिक्षावता##-
चित्ररूपा नाश्चर्यभूता । यतस्तथाविधा चमत्कृतिः कदाचित्केषाञ्चिन्न##-
यावत् । यद्यपि सर्वेषामपि स्वप्ने भोगाः प्रसिद्धास्तथापि सुखदुःखाति##-
चिरभोगचमत्कृतिर्यथा हरिश्चन्द्रस्य स्वर्गनरकभोगयोरिति सूचनाय
कदाचित्केषाञ्चिदित्युक्तम् ॥ ३५ ॥
अद्यापि यातिऽपि च कल्पनाया आकाशवल्लीफलवन्महत्त्वे ।
उदेति नो लोभलवाहतानामुदारवृत्तान्तमयी कथैव ॥ ३६ ॥
ननु यद्यस्ति भोगचमत्कृतिस्तर्हि किमधुनैव विरज्यसे । भोगान्भुक्त्वोत्तरे
वयसि विरज्यात्मविचारस्य कर्तुं युक्तत्वादित्याशङ्क्य भोगासक्तौ वैराग्यस्य
विचारस्य च सदैव दौर्लभ्यमित्याह - अद्येति । अद्याधुनातने पूर्वे वयसि
यातेऽस्मिन्नुत्तरेऽपि च वयसि आकाशवल्लिफलवन्मिथ्याभूताया अपि
भोगासक्तिकल्पनाया अविचारान्महत्त्वे सति भोगतत्साधनादिलोभलवेना##-
सर्वोत्कृष्टस्य परमात्मनो यो वृत्तान्तः स्वरूपनिरूपणवार्ता तत्प्रचुरा
कथैव नोदेति । निरन्तरं तद्विचारस्तु दूरनिरस्त इति भावः ॥ ३६ ॥
आदातुमिच्छन्पदमुत्तमानां स्वचेतसैवापहतोऽद्य लोकः ।
पतत्यशङ्कं पशुरद्रिकूटादानीलवल्लीफलवाञ्छयैव ॥ ३७ ॥
आसक्तौ न केवलं पुरुषार्थहानिः प्रत्युत महाननर्थोऽपीत्याह - आदातु##-
अमुमर्थमर्थान्तरन्यासेन दृअढयति - पशुरित्यादिना ।
पशुश्छागादिः पततीत्यनुषज्यते । आनीला हरिता वल्लि अर्थाद्विषमस्था
करीरादिवल्ली गृह्यते ॥ ३७ ॥
अवान्तरन्यस्तनिरर्थकांशच्छायालतापत्रफलप्रसूनाः ।
शरीर एव क्षतसम्पदश्च श्वभ्रद्रुमा अद्यतना नराश्च ॥ ३८ ॥
अवान्तरे दुर्गमे गर्तोदर एव न्यस्तान्यतएव निरर्थकांशानि अंशतोऽपि
प्राणिभिरनुपभोग्यत्वाद्व्यर्थानीति यावत् । छायादीनि येषां तथाविधाः
श्वभ्रद्रुमाः शरीरे स्वशरीरपोषणायैवोपयोगात्क्षता व्यर्थं नाशिता
विद्याविनयधनादिसम्पदो यैस्तथाविधा नराश्च तुल्या एव । व्यर्थजन्म##-
क्वचिज्जना मार्दवसुन्दरेषु द्वचित्कठोरेषु च सञ्चरन्ति ।
देशान्तरालेषु निरन्तरेषु वनान्तखण्डेष्विव कृष्णसाराः ॥ ३९ ॥
यद्यपि क्वचिद्धार्मिका अपि सन्ति तथापि विवेकिनो दुर्लभा इति वक्तुं जनद्वै##-
प्रकृतानुसाराच्चित्तभूमयो गृह्यन्ते । मार्दवं
दयादाक्षिण्यक्षमादिसौन्दर्यं विद्याविनयादि च तद्वत्सु । कठोरेषु
क्रोधलोभनैष्ठुर्यशालिषु [तैक्ष्ण्यशालिषु] । वनमध्यभागानां
खण्डेष्ववयवेषु ॥ ३९ ॥
धातुर्नवानि दिवसं प्रति भीषणानि
रम्याणि वा विलुलितान्ततमाकुलानि ।
कार्याणि कष्टफलपाकहतोदयानि
विस्मापयन्ति न शवस्य मनांसि केषाम् ॥ ४० ॥
जनानां दुर्दशां दृष्ट्वा दुःखितस्तन्निमित्तं दैवं निन्दति - धातुरिति
। शवस्य अचेतनत्वान्मृतकल्पस्य धातुर्दैवस्य । यदि जीवन्स्यान्नेदृशो
निद्रयः स्यादित्यभिप्रायः । दिवसं प्रति दिने दिने । कर्मप्रवचनीयेनैव
वीप्साद्योत-नान्न द्विवचनं कृतम् । फलसो भीषणान्यापाततो रम्याणि ।
वाशब्दः समुच्चये । विलुलितान्ततमैः रागादिभिरत्यन्तवाकुलितचित्तैराकुलानि ।
परिणामे कष्टफलपाकेन दूषितारम्भाभ्युदयानि नवानि कार्याणि केषां
विवेकिनां मनांसि न विस्मापयन्ति ॥ ४० ॥
जनः कामासक्तो विविधकुकलाचेष्टनपरः
स तु स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः ।
क्रिया दुःखासङ्गाऽविधुरविधुरा नूनमखिला
न जाने नेतव्या कथमिव दशा जीवितमयी ॥ ४१ ॥
उक्तमर्थमनूद्योपसंहरंस्तन्निमित्तं स्वस्योद्वेगं दर्शयति - जन इति ।
कुकलाभिः कौटिल्य चातुर्यैः । सुजनो विवेकी । दुःखैरसङ्गोऽसम्बन्धस्तद##-
रहिता । अवश्यं दुःखानुबन्धिन्येवेति यावत् ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नं नाम सप्तविंशतितमः
सर्गः ॥ २७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नं नाम सप्तविंशतितमः सर्गः
॥ २७ ॥