षड्विंशः सर्गः २६
श्रीराम उवाच ।
वृत्तेऽस्मिन्नेवमेतेषां कालादीनां महामुने ।
संसारनाम्नि कैवास्था मादृशानां [भवत्विह] वदत्विह ॥ १ ॥
इह प्रपञ्च्यते दोषैर्भूरिसंसारदुर्दशा ।
कालादिपारतन्त्र्येण वैराग्यस्योपपत्तये ॥
करोत्वेव कालः किं ते तत इत्याशङ्य कालादिसर्ववस्तुषु स्वस्य दोषदर्शनं
प्रपञ्चयिष्यंस्तत्फलं वैराग्यरूपानास्थासम्पत्तिं दर्शयति - वृत्त
इत्यादिना । एवमुक्तरूपे । वृत्ते चरित्रे । आस्था आश्वासः ॥ १ ॥
विक्रीता इव तिष्ठाम इतैर्दैवादिभिर्वयम् ।
मुने प्रपञ्चरजनैर्मुग्धा वनमृगा इव ॥ २ ॥
दैवं प्राक्तनं कर्म आदिः प्रधानं येषां तैरेतैः प्रागुक्तैश्चतुर्भिः
शब्दादिविषयप्रपञ्चरचनैर्मुग्धा मोहिताः ॥ २ ॥
एषोऽनार्यसमाम्नायः कालः कवलनोन्मुखः ।
जगत्यविरतं लोकं पातयत्यापदर्णवे ॥ ३ ॥
अनार्यैः सम आम्नायश्चरित्राभ्यासो यस्य । अविरतमसमाप्तभोगजीवितादि##-
समाम्नायो बौद्धाद्यसच्छास्त्रोपदेशो यस्य । कवलनोन्मुख
उदरभरणमात्रपरः । कालनामा धूर्तः असन्मार्गप्रवर्तनेन लोकं
जनमित्यर्थान्तरमपि गम्यते ॥ ३ ॥
दहत्यन्तर्दुराशाभिर्देवो दारुणचेष्टया ।
लोकमुष्णप्रकाशाभिर्ज्वालाभिर्दहनो यथा ॥ ४ ॥
दुराशाभिरन्तर्दहन्ति । दारुणचेष्टया दुश्चारित्र्येण बहिरपीति शेषः । तथा
दृष्टान्तेऽपि योज्यम् ॥ ४ ॥
धृतिं विधुरयत्येषा मर्यादारूपवल्लभा ।
स्त्रीत्वात्स्वभावचपला नियतिर्नियतोन्मुखी ॥ ५ ॥
कालमर्यादारूपकृतान्तस्य वल्लभा प्रिया इन्द्रियाणां
पराक्प्रवृत्तिनियम-लक्षणा नियतिर्नियतेषु समाधिपरेषु उन्मुखी
उद्युक्ता तेषां धृतिं धैर्यं विधूरयति वियोजयति । तत्र हेतुः -
स्त्रीत्वादिति ॥ ५ ॥
ग्रसतेऽविरतं भूतजालं सर्प इवानिलम् ।
कृतान्तः कर्कशाचारो जरां नीत्वाऽजरं वपुः ॥ ६ ॥
अजरं तरुणं वपुर्जरां नीत्वा प्रापय्य ॥ ६ ॥
यमो निर्घृणराजेन्द्रो नार्तं नामानुकम्पते ।
सर्वभूतदयोदारो जनो दुर्लभतां गतः ॥ ७ ॥
निर्दयराजानामिन्द्रः स्वामी । अतिनिर्दय इति यावत् ॥ ७ ॥
सर्वा एव मुने फल्गुविभवा भूतजातयः ।
दुःखाइअव दुरन्ताय दारुणा भोगभूमयः ॥ ८ ॥
सर्वा ब्रह्मान्ता अपि भूतजातयः प्राणिजातयो विरक्तदशा फल्गुविभवास्तु##-
आयुरत्यन्तचपलं मृत्युरेकान्तनिष्ठुरः ।
तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥ ९ ॥
जडतया मोहेन । हृतमपनीतम् ॥ ९ ॥
कलाकलङ्कितो लोको बन्धवो भवबन्धनम् ।
भोगा भवमहारोगास्तृष्णाश्च मृगतृष्णिकाः ॥ १० ॥
कलनं कला विषयानुसन्धानम् ॥ १० ॥
शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् ।
प्रहरत्यात्मनैवात्मा मनसैव मनो रिपुः ॥ ११ ॥
सत्यं परमार्थत आत्मेति गृहीतं देहादि । तस्य विवेके असत्यतां
अपरमार्थात्मताम् । यद्वा सत्यं सत्यज्ञानादिलक्षणं वस्तु असत्यताम् । मन
एव बन्धहेतुत्वाद्रिपुर्यस्य तथाभूत आत्मा मनोभिमानान्मनोभूत
आत्मानं मनसैवात्मना प्रहरतीव दुःखीकरोति ॥ ११ ॥
अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः ।
क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥ १२ ॥
अहङ्कारोऽभिमानप्रधानमन्तःकरणं कलङ्काय लाञ्छनाय ।
स्वरूपदूषणायेति यावत् । बुद्धयोऽध्यवसायात्मिकास्तद्वृत्तयो
बहिर्मुखत्वात्परिपेलवा मृदवः स्वरूपनिष्ठा दार्ढ्यशून्याः । क्रियाः
प्रवृत्तयः शारीराः । लीला मानसविलासाः ॥ १२ ॥
वाञ्छाविषयशालिन्यः सच्चमत्कृतयः क्षताः ।
नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥ १३ ॥
सच्चमत्कृतय आत्मस्फूर्तिचमत्काराः । दोषाणां पताकिन्यो ध्वजिन्यः । रसा
अनुरागाः । नीरसतामनुरागशून्यताम् । विषया अस्पृहणीयतामिति वा ॥ १३ ॥
वस्त्ववस्तुतया ज्ञातं दत्तं चित्तमहङ्कृतौ ।
अभाववेधिता भावा भावान्तो नाधिगम्यते ॥ १४ ॥
वस्तु अलौकिकं कार्यकारणसङ्घातात्मना ज्ञातम् । चित्तं दत्तम् ।
अभिनिवेशितमिति यावत् । अभाववेधिता नाशग्रस्ताः । भावानामनित्य##-
तप्यते केवलं साधो मतिराकुलितान्तरा ।
रागरोगो विलसति विरागो नोपगच्छति ॥ १५ ॥
नोपगच्छतीत्यादिर्लोके अतिदौर्लभ्योक्तिर्नतु स्वस्य प्रक्रमविरोधात् ॥ १५ ॥
रजोगुणहता दृष्टिस्तमः सम्परिवर्धते ।
न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥ १६ ॥
अधिगम्यते लभ्यते ॥ १६ ॥
स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी ।
धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि ॥ १७ ॥
स्थितिर्जीवनम् । अवस्तुनि फल्गुविषये ॥ १७ ॥
मतिर्मान्द्येन मलिना पातैकपरमं वपुः ।
ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् ॥ १८ ॥
मान्द्येन मौर्ख्येण । पातैकपरमं नाशैकपर्यवसितम् ॥ १८ ॥
यत्नेन याति युवता दूरे सज्जनसङ्गतिः ।
गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता ॥ १९ ॥
ननु धार्मिकस्य तव कथं गतिर्न विद्यते तत्राह - क्वचिदिति ।
स्वर्गादिगतेरप्य-नित्यतया स्वप्न सुखप्रायत्वादिति भावः ॥ १९ ॥
मनो विमुह्यतीवान्तर्मुदिता दूरतां गता ।
नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥ २० ॥
मुदिता परसुखदर्शनसन्तोषः । नीचताशब्देन तद्धेतुरसूयादिर्गृह्यते ॥
२० ॥
धीरताऽधीरतामेति पातोत्पातपरो जनः ।
सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः ॥ २१ ॥
अधीरतामस्थिरताम् । पातोत्पातौ मरणजन्मनी ऊर्ध्वाधोगमने वा । आश्लेषः
सङ्गः ॥ २१ ॥
आगमापायिनो भावा भावना भवबन्धनी ।
नीयते केवलं क्वापि नित्यं भूतपरम्परा ॥ २२ ॥
भावना वासना । भावेष्वपगतेष्वपि सा नापैतीति भवे बन्धनी बन्धहेतुः
भूतपरम्परा प्राणिनिकायः । कालेनेति शेषः ॥ २२ ॥
दिशोऽपि हि न दृश्यन्ते देशोऽप्यन्यापदेशभाक् ।
शैला अपि विशीर्यन्ते कैवास्था मादृशे जने ॥ २३ ॥
दिशो यासु कालाद्भयं नास्ति तादृश्यः । तदेव प्रपञ्चयति - देश इति ।
देशः सद्व्यवहारोपदेशः । यद्वा - दिशति प्रयच्छति
प्राणिभ्योऽवकाशमिति देश इति । व्यपदेशादन्यं विरुद्धमपदेशं
व्यवहारम् । स्वस्यैव निरवका-शत्वमिति यावत् ॥ २३ ॥
अद्यते सत्तयापि द्यौर्भुवनं चापि भुज्यते ।
धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥ २४ ॥
दौराकाशोऽपि सत्तया सन्मात्रस्वभावेनेश्वरेणाद्यते ॥ २४ ॥
शुष्यन्त्यपि समुद्राश्च श्रीयन्ते तारका अपि ।
सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने ॥ २५ ॥
सिद्धा ज्ञातिरिक्तैर्योगमन्त्ररसायनादिभिः ॥ २५ ॥
दानवा अपि दीर्यन्ते ध्रुवोऽप्यध्रुवजीवितः ।
अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥ २६ ॥
शक्रोऽप्याक्रम्यते वक्त्रैर्यमोऽपि हि नियम्यते ।
वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने ॥ २७ ॥
वक्त्रैराक्रम्यते चर्व्यते । नितरां यम्यते उपरमं प्राप्यते ॥ २७ ॥
सोमोऽपि व्योमतां याति मार्तण्डोऽप्येति खण्डताम् ।
मग्नतामग्निरप्येति कैवास्था मादृशे जने ॥ २८ ॥
व्योमतां शून्यताम् ॥ २८ ॥
परमेष्ठ्यपि निष्ठावान्ह्रियते हरिरप्यजः ।
भवोऽप्यभावमायाति कैवास्था मादृशे जने ॥ २९ ॥
निष्ठा परिसमाप्तिः । ह्रियते संह्रियते ॥ २९ ॥
कालः सङ्काल्यते येन नियतिश्चापि नीयते ।
खमप्यालीयतेऽनन्तं कैवास्था मादृशे जने ॥ ३० ॥
कालः प्रागुक्तस्त्रिविधः । खमत्र बहिरावणाकाशः ॥ ३० ॥
अश्राव्यावाच्यदुर्दर्शतत्त्वेनाज्ञातमूर्तिना ।
भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना ॥ ३१ ॥
अश्राव्यं श्रोत्रेन्द्रियाविषयः । अवाच्यं वागगम्यं दुर्दर्शं
चक्षुराद्यगम्यं च तत्त्वं सूक्ष्मं रूपं यस्य । मूर्तिः स्थूलं रूपम् ।
विडम्ब्यन्ते स्वात्मन्येव मायया प्रदर्श्यन्ते । तत्त्वमाच्चाद्य कल्पितमेव
प्रदर्शयत्तित्यर्थः ॥ ३१ ॥
अहङ्कारकलामेत्य सर्वत्रान्तरवासिना ।
न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते ॥ ३२ ॥
अहङ्कारकलामभिमानांशमेत्य प्राप्य स्थितेषु मध्ये इति शेषः ॥ ३२ ॥
शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः ।
वनपाषाणवन्नित्यमवशः परिचोद्यते ॥ ३३ ॥
सर्वबाधकत्वोपपादनाय तस्य निरङ्कुशं स्वातन्त्र्यमाह -
शिलेत्यादित्रिभिः । साश्वोऽश्वसहितो रथस्तद्भावं प्राप्तः । य आदित्ये तिष्ठन्
इत्यादिश्रुतेः । स्वाधिरूढेनेश्वरेण प्रेर्यमाणः शिलाशैलवप्रादिदुर्गम##-
वनं जलं योग्यतया पर्वतशिखराद्वेगेन प्रवहत्तेन यथा वर्तुलाः
स्फतिकादिपाषाणा अधोधः प्रेर्यन्ते तद्वदवशोऽस्वतन्त्रः । सूर्यादी##-
धरागोलकमन्तस्थसुरासुरगणास्पदम् ।
वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा ॥ ३४ ॥
धरा भूमिः सैव गोलकम् । ज्योतिःशास्त्रे तथा प्रसिद्धेः । धिष्ण्यं
देवानामायतनभूतं चक्रं ज्योतिश्चक्रं तेन वेष्ट्यते परितो व्याप्यते ।
अक्षोटं फलविशेषः । युगावर्तेषु भूमेर्दाहप्लवनादिविकारेऽप्याकल्पं
ज्योतिश्चक्रस्याविनाशाद्दार्ढ्यसूचनाय पक्वेति विशेषणम् ॥ ३४ ॥
दिवि देवा भुवि नराः पातालेषु च भोगिनः ।
कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥ ३५ ॥
कल्पमात्रेण सङ्कल्पमात्रेण । तथाचात्यन्तपारवश्यमपि जगतो महान् दोष
इति भावः ॥ ३५ ॥
कामश्च जगदीशानरणलब्धपराक्रमः ।
अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥ ३६ ॥
दोषान्तराण्यप्याह - काम इत्यादिना । अक्रमेण अनुचितप्रकारेण । आक्रम्य
वशीकृत्य । नियन्तुरीश्वराद्बिभेति चेन्न विशृङ्खलः स्यात् । नासौ तथेत्याह
- जगदीशानेति ॥ ३६ ॥
वसन्तो मत्तमागङ्गो मदैः कुसुमवर्षणैः ।
आमोदितककुप्चक्रश्चेतो नयति चापलम् ॥ ३७ ॥
वसन्त एव मत्तमातङ्गः कुसुमवर्षणमेव मदवर्षणमिति व्यस्तरूपकम् ।
चापलमिति भयोन्मादभावद्वयसम्भेदः ॥ ३७ ॥
अनुरक्ताङ्गनालोललोचनालोकिताकृति ।
स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि ॥ ३८ ॥
परोपकारकारिण्या परार्तिपरितप्तया ।
बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया ॥ ३९ ॥
बुद्धः प्रबुद्धतत्त्वः पुरुषः । बोधश्चातिदुर्लभ इति भावः ॥ ३९ ॥
उत्पन्नध्वंसिनः कालवडवानलपातिनः ।
सङ्क्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ ॥ ४० ॥
ध्वंसित्वे हेतुः - कालेति । भावा इति शेषः ॥ ४० ॥
सर्व एव नरा मोहाद्दुराशापाशपाशिनः ।
दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले ॥ ४१ ॥
पूर्वोक्तदोषलक्षणेषु गुल्मकेषु स्थिताः सारङ्गाः मृगाः पक्षिणो वा
दुराशापाशेन पाशिनो बधाः सन्तो जन्मजङ्गले विशीर्णा इति सम्बन्धः ॥ ४१
॥
सङ्क्षीयते जगति जन्मपरम्परासु
लोकस्य तैरिह कुकर्मभिरायुरेतत् ।
आकाशपादपलताकृतपाशकल्पं
येषां फलं नहि विचारविदोऽपि विद्मः ॥ ४२ ॥
[] तैरुक्तदोषप्रयुक्तैः कुकर्मभिः काम्यनिषिद्धाचरणैरायुः
सङ्क्षीयते । फलं स्वर्गनरकादि । आकाशे चेत्पादपस्तत्र लतापि
स्यात्कृतकण्ठपाशोल्ल-म्बनसदृशमसारं इरालम्बनदुःखं
पतनावसानस्थितिकमित्यर्थः । आस्तां तन्निवृत्त्युपायो दूरे तच्चिन्दापि
दुर्लभेत्याह - नहीति ॥ ४२ ॥
अद्योत्सवोऽयमृतुरेष तथेह यत्रा
ते बन्धवः सुखमिदं सविशेषभोगम् ।
इत्थं मुधैव कलयन्सुविकल्पजाल-
मालोलपेलवमतिर्गलतीह लोकः ॥ ४३ ॥
तत्प्रमोषसामग्री तु प्रतिक्षणमतिसुलभेत्याह - अद्येति । गलति विशीर्यते ॥ ४३
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
दैवदुर्विलासवर्णनं नाम षड्विंशतितमः सर्गः ॥ २६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
दैवदुर्विलासवर्णनं नाम षड्विंशतितमः सर्गः ॥ २६ ॥