२५

पञ्चविंशः सर्गः २५

श्रीरम उवाच ।

अत्रैव दुर्विलासानां चूडामणिरिहापरः ।
करोत्यत्तीति लोकेऽस्मिन्दैवं कालश्च कथ्यते ॥ १ ॥

[अपरस्यात्र] अपारस्यात्र कालस्य क्रियातत्फलरूपिणः ।
चित्रो नियतिकान्तस्य नृत्यविस्तर ईर्यते ॥

एवं महाकालं राजपुत्रत्वेनोपवर्ण्य तदुपाधिभूतं क्रियात्मक कालं
तद्विनोदाय द्वैरूप्येण नर्तकत्वेन परिकल्प्य वर्णयितुमुपक्रमते -
अत्रैवेत्यादिना । दुष्टो विलासो येषां तेषु चूडामणिरिव श्रेष्ठः । अपरः
पूर्वोक्तादन्यः । दीव्यति व्यवहरति प्राणिनां कर्मफलदानेनेति दैवं
फलावस्थः कृतान्तः । कलयत्यवश्यं फलं सम्पादयतीति क्रिया काल
इत्येक एव पूर्वोत्तरावस्थाभेदेन द्वेधा कथ्यत इत्यर्थः ॥ १ ॥

क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यदालक्ष्यते रूपं न कर्म न समीहितम् ॥ २ ॥

तत्र द्वितीयं सूचीकटाहन्यायेन प्रथमं वर्णयति - क्रियेति । क्रियात्र
फलसिद्धिः । समीहितमभिलषितम् ॥ २ ॥

तेनेयमखिला भूतसन्ततिः परिपेलवा ।
तापेन हिममालेव नीता विधुरतां भृशम् ॥ ३ ॥

भूतसन्ततिः प्राणिनिकायः । तापेनातपेन । हिममाला नीहारपटली । विधुरतां
विनाशितां । सर्वस्याप्यनर्थस्य स्वकर्मकृतत्वादिति भावः ॥ ३ ॥

यदिदं दृश्यते किञ्चिज्जगदाभोगि मण्डलं ।
तत्तस्य नर्तनागारमिहासावतिनृत्यति ॥ ४ ॥

आभोगि विस्तीर्णं जगन्मण्डलं नर्तनागारं नृत्यशाला । रागद्वेषादि##-
वर्ण्यते ॥ ४ ॥

तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् ।
कापालिकवपुर्मत्तं [वपुर्भूतम्] दैवं जगति नृत्यति ॥ ५ ॥

आद्यं शास्त्रैकगम्यत्वाद्विश्वासदार्ढ्याय विस्तरेण वर्णयितुमुपक्रमते

  • तृतीयमित्यादिना । पूर्वसर्गोक्तापेक्षया तृतीयम् । कापालिकवपुः
    कापालिक-वेषम् ॥ ५ ॥

नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः ।
नित्यं नियतिकान्तायां मुने परमकामिता ॥ ६ ॥

नियतिः कृतस्य कर्मणः फलावश्यम्भावनियमस्तस्यामतिरागिणः ।
अवश्यं फलं प्रयच्छत इत्यर्थः ॥ ६ ॥

शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा ।
उपवीते अवीते च उभौ संसारवक्षसि ॥ ७ ॥

तस्याङ्गेषु भूषणान्याह - शेष इति । त्रिधा प्रसिद्धो गङ्गावाहो
गङ्गाप्रवाहः । चकारेण समुच्चितयोरेकशेषेण ताविति परामर्शः । अवीते
प्राचीनावीते । संसरत्यस्मिन्निति संसारस्त्रैलोक्यं तदेव वक्षः ॥ ७ ॥

चन्द्रार्कमण्डले हेमकटकौ करमूलयोः ।
लीलासरसिजं हस्ते ब्रह्मन्ब्रमाण्डकर्णिका ॥ ८ ॥

करमूलयोः प्रकोष्ठयोः । ब्रह्माण्डकर्णिका मेरुः ॥ ८ ॥

ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौ तमेकमम्बरमम्बरम् ॥ ९ ॥

बिन्दवश्चित्रबिन्दवः । पुष्करावतौ संवर्तमेघौ पल्लवौ दशे यस्य ।
धौतं क्षालितमम्बरमाकाशमेवाम्बरं वस्त्रम् । कापालिकानां
मध्यच्छिद्रकण्ठावसक्तैककन्थाम्बरधारणप्रसिद्धेः ॥ ९ ॥

एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी ।
अनस्तमितसंरम्भमारम्भैः परिनृत्यति ॥ १० ॥

अनस्तमितसंरम्भमविरतप्रयत्नम् । प्राणिसभ्यभोगानुकूलकार्या##-

तस्या नर्तनलोलया जगन्मण्डपकोटरे [न्मण्डलकोटरे] ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥ ११ ॥

अरुद्धस्पन्दरूपायाः अप्रतिबद्धक्रियाशक्तेः । नृत्यद्रष्टृप्राणिनामा##-
इत्यभ्यासस्य नुक् उत्परस्यातः इत्युत्वम् ॥ ११ ॥

चारुभूषणमङ्गेषु देवलोकान्तरावली ।
आपातालं नभोलम्बं कबरीमण्डलं बृहत् ॥ १२ ॥

देवसहिता लोकान्तराणां भुवनभेदानामावलिस्तस्या नियतेरङ्गेषु चारु
भूषणं भवतीति प्रतिवाक्यं कल्प्यम् । आपातालं पातापपर्यन्तं
नभस्तस्यालम्बं लम्बमानं कबरीमण्डलं श्यामत्वात् ॥ १२ ॥

नरकाली च मञ्जीरामाला कलकलोज्ज्वला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता ॥ १३ ॥

कलकलै रोदनकोलाहलैरुज्ज्वला नरकाग्निभिर्दीप्यमाना या नरकाली तस्याः
पाताललक्षणे चरणे स्थिता मञ्जरीमाला । मञ्जरीशब्देन पादकिङ्किण्यो
लक्ष्यन्ते । अन्यथा सूत्रप्रोतत्वानुपपत्तेः ॥ १३ ॥

कस्तूरिकातिलककं क्रियासङ्ख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यमे वदनपट्टके ॥ १४ ॥

प्राणिकर्मसौरभ्यप्रकटनहेतुत्वात्कस्तूरीभूतेन चित्रगुप्तेन करणेन
यमरूपे वदनावयवभूते पट्टके फलकेललाटे इति यावत् । यमे हि चित्रगुप्तो
विराजते । पादललाटयोराद्यन्तावयवयोः कॢप्त्यैव
तद्वदतिरावयवकॢप्तिर्य-थायोगमर्थाद्बोध्या ॥ १४ ॥

कालास्यं समुपादाय कल्पान्तेषु किलाकुला ।
नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ॥ १५ ॥

कालस्य पत्युः आस्यं लक्षणया मुखविलासभ्रूभङ्गकटाक्षादिसूचित##-
तत्तथा ॥ १५ ॥

पश्चात्प्रालम्बविभ्रान्तकौमारभृतबर्हिभिः ।
नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥ १६ ॥

तस्या नृत्यप्रकारमेव प्रपञ्चयति षड्भिः । पश्चात्पृष्ठतः ।
बर्हिभ्र्मयूरैः । सर्वेषां तृतीयान्तानां राजते इति पञ्चमस्थेन
सम्बन्धः । बीषणैरित्यन्तस्य हरमूर्धभिरित्युत्तरेणान्वयः । भाङ्कारो
ध्वनिविशेषः ॥ १६ ॥

लम्बलोलजटाचन्द्रविकीर्णहरमूर्धभिः ।
उच्चरच्चारुमन्दारगौरीकबरचामरैः ॥ १७ ॥

चन्द्रान्तबहुर्वीहिघटितः कर्मधारयः । कबराः केशास्तद्रूपैश्चा##-

उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः ।
रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥ १८ ॥

अचलाः पर्वतास्तदाकारैस्तुम्बकैरलाबुपात्रैः । तैः कापालिकव्यवहारस्य
प्रसिद्धत्वात् । शतशब्दस्य कृतैकशेषस्य बहुवचनान्तस्य बहुव्रीहिस्तेन
[इन्द्रदेहस्य सहस्राक्षत्वेन सप्ताधिकसहस्राच्छिद्रत्वान्नवच्छिद्रत्वेन
प्रसिद्धेभ्यो देहेभ्यो वैलक्षण्यं ज्ञेयम्] सप्तोत्तरसहस्रलाभः ॥ १८ ॥

शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् ।
भीषयत्यात्मनात्मानं सर्वसंहारकारिणी ॥ १९ ॥

शारीरं शरीरावयवभूतं पृष्ठास्थि । भीषयति भापयतीव अन्येषां
भयार्थम् ॥ १९ ॥

विश्वरूपशिरश्चक्रचारुपुष्करमालया ।
ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते ॥ २० ॥

विश्वरूपाणि नानाकाराणि यानि शिरश्चक्राणि मस्तकवृन्दानि तान्येव
पुष्करमाला तया विविधं वल्गन्त्या भ्रमन्त्या ॥ २० ॥

प्रमत्तपुष्करावर्तडमरोड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते [तुम्बरादयः] तुम्बुरादयः ॥ २१ ॥

पुष्करावर्ताख्याः संवर्तमेघा एव डमरो डमरुकं तस्योड्डामरार##-

नृत्यतोऽन्तः कृतान्तस्य चन्द्रमण्डलभासिनः ।
तारकाचन्द्रिकाचारुव्योमपिच्छावचूलिनः ॥ २२ ॥

इत्थं नियतेः सपरिकरं नृत्यमुपवर्ण्य तद्भर्तुरपि
तद्वर्णयन्भूषणा-न्याह - नृत्यत इत्यादिना । अन्तः
प्रागुक्तनृत्यशालान्तः । चन्द्रमण्डलेन वक्ष्यमाणकुण्डलभूतेन
भासिनः शोभमानस्य । तारकाभिश्चन्द्रिकया च
तारकालक्षणचन्द्रप्रतिकृतिभिश्च चारु मनोहरं व्योमैव पिच्छं
तेनावचूलिनो भूषितकेशस्य कृतान्तस्य श्रवणे इत्युत्तरेणान्वयः ॥ २२ ॥

एकस्मिञ्छ्रवणे दीप्ता हिमवानस्थिमुद्रिका ।
अपरे च महामेरुः कान्ता काञ्चनकर्णिका ॥ २३ ॥

एकस्मिन्दक्षिणे श्रवणे कर्णे । अस्थिमयी मुद्रिका मुद्र्काकारं कुण्डलं
कापालिकानुरूपम् । अपरे वामे । कर्णिका कर्णभूषणं कुण्डलमिति यावत् ॥ २३ ॥

अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥ २४ ॥

अत्र अनयोरेव कर्णयोः । श्रेणीति शृङ्गबाहु।यात् कल्पब्रह्माण्डभेदाद्वा ॥
२४ ॥

इतश्चेतश्च गच्छन्ती विद्युद्वलयकर्णिका ।
अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥ २५ ॥

विद्युद्वलयकर्णिका कर्णिकाकृति कङ्कणम् । नीरदा मेघा एव
नानावर्णत्वाद्वस्त्रपट्टादिपटच्चरघटिता कन्था ॥ २५ ॥

मुसलैः पट्टिशैः प्रासैः शूलैस्तोमरमुद्गरैः ।
तीक्ष्णैः [जगद्वातकृतान्त] क्षीणजगद्वान्तकृतान्तैरिव
सम्भृतैः ॥ २६ ॥

क्षीणेभ्यो जगद्भ्यः पूर्वसर्गेभ्यो वान्तैर्निगतैः कृतान्तरिमृत्युभिः
सम्भृतैर्मिलितैरिव स्थितैर्मुसलादिभिर्वरिचिता अस्य माला शोभते इत्युत्त##-

संसारबन्धानादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रप्रोते मालास्य शोभते ॥ २७ ॥

शेषस्य नागराजस्य भोगः शरीरम् । आयुधभृच्छरीरसामान्योपलक्षण##-
प्रोत इव सम्बद्धे कालस्य पूर्वोक्तराजपुत्रस्य कराद्दैवाच्च्युते संसरण##-
इत्यादिफलितोऽर्थः] आमुक्ते पाशे ग्रथिता माला अस्य कृतान्तस्य कण्ठे
शोभते ॥ २७ ॥

जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ॥ २८ ॥

मकरिकादिलाञ्छनान्यन्येषां कङ्कणेषु निर्जीवानि प्रसिद्धानि
तद्वैलक्षण्यार्थं जीवोल्लसदिति ॥ २८ ॥

व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णतमःश्यामा रोमाली तस्य राजते ॥ २९ ॥

व्यवहाराः शास्त्रीयाः स्वाभाविकाश्च त एव महान्तो लक्षणभूता
रोमावर्ताः । रजस्तमसी प्रकृतिगुणौ ॥ २९ ॥

एवम्प्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् ।
उपसंह्र्त्य नृत्येहां सृष्ट्वा सह [महेश्वरैः]
महेश्वरम् ॥ ३० ॥

ताण्डवस्योद्भवो यशास्तथाविधां नृत्येहां गात्रविक्षेपेच्छामुप##-
सृष्ट्वा इमां नृत्यलीलां तनोतीत्युत्तरेण सम्बन्धः ॥ ३० ॥

पुनर्लास्यमयीं नृत्यलीलां सर्गस्वरूपिणीम् ।
तनोतीमां जराशोकदुःखाभिभवभूषिताम् ॥ ३१ ॥

लास्यमयीमभिनयप्रचुराम् ॥ ३१ ॥

भूयः करोति भुवनानि वनान्तराणि
लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनामचलां चलां च
पङ्काद्यथार्भकजनो रचनामखिन्नः ॥ ३२ ॥

आचाराणां श्रौतस्मार्तादिसत्कर्मणां चारुकलनां सम्यक्प्रवृत्तिम् ।
अचलां कृतत्रेतयोः चलां कलिद्वापरयोः । रचनां क्रीडापुत्रिकादिरूपाम् ॥ ३२

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
कृतान्तविलसितं नाम पञ्चविंशतितमः सर्गः ॥ २५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
कृतान्तविलसितं नाम पञ्चविंशतितमः सर्गः ॥ २५ ॥