चतुर्विंशः सर्गः २४
श्रीराम उवाच ।
अस्योड्डामरलीलस्य दूरास्तसकलापदः ।
संसारे राजपुत्रस्य कालस्याकलितौजसः ॥ १ ॥
स एव वर्ण्यते कालश्चण्डीप्रियतमान्वितः ।
मृगयाकौतुकाविष्टराजपुत्रतयाधुना ॥
साम्प्रतं तमेव कालं मृगयाकौतुकविहारिमहाराजपुत्रभावेन
रूपयितुं प्रतिजानीते - अस्येति । उड्डामरा उद्भटा लीला यस्य । दूरे अस्ता
निरस्ताः सकलापदो यस्य । अकलितौजसः अचिन्त्यपराक्रमस्य । राजते प्रसिद्ध##-
पुत्रस्य कालस्य [मृगया वर्ण्यते] चरित्रं वर्ण्यत इति शेषः ॥ १ ॥
अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः ।
आखेटकं जर्जरिते जगज्जङ्गलजालके ॥ २ ॥
अस्यैव कल्पकालमहार्णवः क्रीडापुष्करिणीकृत इत्युत्तरत्र सम्बन्धः ।
मुग्धैरज्ञैः । भूतान्येव मृगव्रजास्तैः । वध्यानामपि वधकविनोद##-
एकदेशोल्लसच्चारुवडवानलपङ्कजा ।
क्रीडापुष्करणी रम्या कल्पकालमहार्णवः ॥ ३ ॥
अर्थाज्जगज्जङ्गलस्यैकदेशे ॥ ३ ॥
कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः ।
तैरेव तैः पर्युषितैर्जगद्भिः कल्यवर्तनम् ॥ ४ ॥
भूतपदं प्रत्येकं सम्बध्यते । दधिक्षीरादिसागरसहितैस्तैरेव
प्रत्यहमेकरूपैः पर्युषितैश्चिरस्थितैर्जगद्भिः कल्यवर्तनं प्रातरशनं
तस्येत्यनुषज्यते । कटुतिक्तदध्यादिसहितपर्युषितप्रातराशो द्रविडेषु प्रसिद्धः
॥ ४ ॥
चण्डी चतुरसञ्चारा सर्वमातृगणान्विता ।
संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी ॥ ५ ॥
तस्यानुरूपां प्रियामाह - चण्डीति । व्याघ्रीव भूतौघघातिनी
संसारवने विन्यस्ता विहर्तुं विनियुक्ता चण्डी कालरात्रिस्तस्य प्रियेति शेषः ॥ ५ ॥
पृथ्वी करतले पृथ्वी पानपात्री रसान्विता ।
कमलोत्पलकल्हारलोलजालकमालिता ॥ ६ ॥
तस्य् पानपात्रीमाह - पृथ्वीति । पृथ्वी भूरेव तस्य करतले पृथ्वी महती
पानपात्री । आसवसौगन्ध्यशोभाद्यर्थं पानपात्र्या अपि कमलोत्पलादि##-
विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे ।
सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ॥ ७ ॥
तस्य भुजावष्टब्धे पञ्जरे नृसिंहोऽवतारो दानवादिवधक्रीडार्थं
वाजाख्यः शकुन्तकः पक्षी कृतः । स कीदृक् । विरावी गर्जनशीलः । विकटो
दुःसह आस्फोटो भुजास्फालनध्वनिर्यस्य । सटाभिः केसरैर्विकटो दुर्दर्शः
पीन्ॐऽसः स्कन्धो यस्य ॥ ७ ॥
अलाबुवीणामधुरः शरद्व्योमलसच्छविः ।
देवः किल महाकालो लीलाकोकिलबालकः ॥ ८ ॥
महाकालः पाषाणाख्यायिकायां वक्ष्यमाणः संहारभैरवो लीलार्थं
कोकिलबालकः कृतः । सोऽपि कीदृक् । तस्य ब्रह्माण्डमालाधा##-
तत्स्वरूपध्वनी अन्येषां भीषणौ तथापि ततोऽप्युग्रशीलानां दृष्ट्या
मधुर एवेति तथोक्तिः । शरद्व्योमेव श्यामलस्वच्छकान्तिः ॥ ८ ॥
अजस्र स्फूर्जिताकारो वान्तदुःखशरावलिः ।
अभावनामकोदण्डः परिस्फुरति सर्वतः ॥ ९ ॥
स्फूर्जितं टङ्कारध्वनिः । वान्ता निःसारिता दुःखशरावलिर्येन तस्य
अभावः संहारस्तन्नामा कोदण्डो धनुः सर्वतः परिस्फूरति ॥ ९ ॥
अनुत्तमस्त्वधिकविलासपण्डितो भ्रमच्चलन्परिविलसन्विदारयन् ।
जरज्जगज्जनितविलोलमर्कटः परिस्फूरद्वपुरिह काल ईहते ॥ १० ॥
भ्रमत्स्वपि लक्ष्येषु स्वयं चलन्नप्यमोघबाणत्वाल्लक्ष्यं विदारयन्नत एव
सर्वेभ्यो लक्ष्यवेधिभ्यः परि उपरि विलसन्नत एव जरति जगति जनिताः सम्पादिता
विलोला व्याकुला मर्कटा मर्कटवच्चपलवृत्तयो विषयलम्पट-जना येन
स तथाविधः कालो राजकुमारः परिस्फुरद्वपुर्विराजमानशरीर ईहते
मृगयाविहारेण चेष्टते । मर्कटत्वेन रूपणं तु प्रक्रमविशेषणा##-
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालविलासो
नाम चतुर्विंशतितमः सर्गः ॥ २४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे कालविलासो
नाम चतुर्विंशतितमः सर्गः ॥ २४ ॥