त्रयोविंशः सर्गः २३
श्रीराम उवाच ।
विकल्पकल्पनानल्पजल्पितैरल्पबुद्धिभिः ।
भेदैरुद्धुरतां नीतः संसारकुहरे भ्रमः ॥ १ ॥
रमयन्स्वविलासौघैः सर्वप्राणिक्रियाप्रियाम् [क्रियापराम्] ।
गुणदोषबलोत्कर्षैः काल एकोऽत्र वर्ण्यते ॥
इत्थं भोग्यायाः श्रियो भोगतृष्णाया भोगावसरभूतबाल्याद्यव##-
स्वस्येहामुत्रार्थफलभोगविरागो दर्शितः । सम्प्रति कामादिस्वभाव##-
विकल्पेति । ममेदं भोग्यम् अहमस्य भोक्ता इमानि च तत्साधनानि
अनेनेदमित्थं सम्पाद्य चिरं भोक्ष्यामि इदमद्य मया लब्धमिमं प्राप्स्ये
मनोरथम् इत्याद्यनन्तमनोविकल्पकल्पनैरनल्पानि जल्पितानि व्यवहारवचनानि
येषां तैः । स्ल्पे देहे आत्मबुद्धिरल्पेषु सुखलवेषु परमपुरुषार्थबुद्धिश्च
येषां तैर्मूढजनैः । शत्रुमित्रोदासीनादि##-
संसरत्यस्मिन्निति संसारो ब्रह्माण्डं तस्य कुहरे छिद्रे भ्रमोऽन्यथा##-
सतां कथमिवास्थेह जायते जालपञ्जरे ।
बाला एवात्तुमिच्छन्ति फलं मुकुरबिम्बितम् ॥ २ ॥
जालमिव दूरादप्याकृष्य बन्धका विषयाः पञ्जरमिव परिच्छिद्य बन्धको
देहस्तयोः समाहारे । भ्रान्तिसिद्धत्वादेवावस्तुभूते इह संसारे सतां
विवेकिनामास्था कथमिव जायते । तत्प्रकारे दृष्टान्तोऽप्यप्रसिद्ध इति
सूचनायेवकारः । तदेव दृष्टान्तेन द्रढयति - बाला एवेति । मुकुरे
दर्पणे ॥ २ ॥
इहापि विद्यते येषां पेलवा सुखभावना ।
आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ॥ ३ ॥
इह ईदृशेऽपि संसारे येषां पेलवा क्षुद्रा सुखभावना सुखाशा
तामाखुर्बिलतृणाग्रात्कूपे लम्बमानं तन्मात्रावलम्बजिजीविषुकीटा##-
न तदस्तीह यदयं कालः सकलघस्मरः ।
ग्रसते तज्जगज्जातं प्रोत्थाब्धिमिव वाडवः ॥ ४ ॥
इहास्यां व्यवहारभूमौ जगति जातमुत्पन्नं तत्तादृशं वस्तु नास्ति यत्कालो
न ग्रसत इति नञ आवृत्त्या सम्बन्धः । घस्मरो भक्षकः ।
चन्द्रोदादिनिमित्तैः प्रोत्थमुपचितमब्धिं वाडवो वडवानलः ॥ ४ ॥
समस्तसामान्यतया भीमः कालो महेश्वरः ।
दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ॥ ५ ॥
समस्तसामान्यतया सर्वपदार्थसाधारण्येन । काल एव महेश्वरः
संहाररुद्रः ॥ ५ ॥
महतामपि नो देवः प्रतिपालयति क्षणम् ।
कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥ ६ ॥
महतामपीति कर्मण एव शेषत्वविवक्षया षष्ठी । बलबुद्धिवैभवादिना
महान्त्यपि भूतानि क्षणमपि न प्रतिपालयति न प्रतीक्षते । सद्य एव
निहन्तीत्यर्थः ॥ ६ ॥
युगवत्सरकल्पाख्यैः किञ्चित्प्रकटतां गतः ।
रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ॥ ७ ॥
आक्रम्य वशीकृत्य ॥ ७ ॥
ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये ।
कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः ॥ ८ ॥
निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः ।
न तदस्ति यदद्यापि न कालो निगिरत्ययम् ॥ ९ ॥
पाषाणादिवत्कठिनः व्याघ्रादिवत्क्रूरः क्रकचादिवत्कर्कश इति भेदः ।
निगिरति ग्रसति ॥ ९ ॥
कालः कवलनैकान्तमतिरत्ति गिरन्नपि ।
अनन्तैरपि लोकोघैर्नायं तृप्तो महाशनः ॥ १० ॥
कवलनविषय एवैकान्तमतिर्नियतचित्तः । एकं गिरन्नपरमति । गिरीनपीति पाठे
स्पष्टम् ॥ १० ॥
हरत्ययं नाशयति करोत्यत्ति निहन्ति च ।
कालः संसारनृत्तं हि नानारूपं यथा नटः ॥ ११ ॥
हरणादि यत्किञ्चिद्धनादौ प्रसिद्धं तत्सर्वं तत्तत्कर्तृरूपेण स्थितः काल
एव करोत्तिति भावः ॥ ११ ॥
भिनत्ति प्रविभागस्थ भूतबीजान्यनारतम् ।
जगत्यसत्तया बन्धाद्दाडिमानि यथा शुकः ॥ १२ ॥
प्रविभागो व्याकृतावस्था तत्स्थान्यण्डजादिचतुर्विधभूतबीजानि असत्तया
बन्धात् नाशेन असत्त्वापादनात् भिनत्ति विदार्य भक्षयत्तित्युत्प्रेक्षा ।
दृष्टान्तः स्पष्टः ॥ १२ ॥
शुभाशुभविषाणाग्रविलूनजनपल्लवः ।
स्फूर्जति स्फीतजनताजीवराजीवनीगजः ॥ १३ ॥
स्फीता अभिमानाद्युपचिता या जनता जनसमूहास्तेषां जीवराजी जीवसमूहः
सैव वनी महद्वनं तत्रत्यो गजः कालः । राजीविनीति पाठे तु कमलिनी तस्या
विनाशने गज इत्यर्थः । तदनुरूपं विशिनष्टि - शुभाशुभेति । स्फूर्जति
गर्जति ॥ १३ ॥
विरिञ्चिमूलब्रह्माण्डबृहद्देवफलद्रुमम् ।
ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ॥ १४ ॥
विरिञ्चिरपञ्चीकृतभूतात्मा मूलं येषां तथाविधा ब्रह्माण्डा एव
[मूलस्थबृहच्छब्दपर्याया महान्त] महान्तो
देवतारूपफलविशिष्टा द्रुमा यस्मिंस्तथाभूतम् । वेषः कृत्रिम आभोगो
मायिकं जगद्रूपं तदस्यास्तीत्याभोगि । द्वे वाव ब्रह्मणो रूपे मूर्त
चैवामूर्तं च इति श्रुतेः सप्रपञ्चमित्यर्थः । ब्रह्मैव काननं
दुस्तरत्वादरण्यं परमत्यर्थमावृत्य सर्वतो व्याप्य कालस्तिष्ठति ।
कालोदर एव सर्ववस्तूनामुत्पत्तिस्थितिविनाशदर्शनादिति भावः ।
विरिञ्चिमजब्रह्माण्डं महद्दिवफलद्रुतम् इति पाठस्यैव सार्वत्रिकत्वे तु
विरिञ्चिमुक्तब्रह्माण्डकारणं मायाशबलमिति यावत् । अजाश्चतुर्मुखाः
प्रतिब्रह्माण्डं तस्यैव लीलाविग्रहास्तत्सहितं ब्रह्माण्डम् । जातावेकवचनम् ।
तदेव महत् । दिवा देवाः । गुणाभावश्छान्दसः ।
तदुपलक्षितचतुर्विधभूतान्येव तत्तत्कर्मफलयुक्ता द्रुमा
यस्मिंस्तथाविधम् । आभोगि कृत्रिमवेषवत् ईषद्भोगयुक्तं सर्वतः
सर्पवाप्तप्रायं वा ब्रह्मकाननमावृत्य तिष्ठतीत्यर्थः ॥ १४ ॥
यामिनी भ्रमरापूर्णा रचयन्दिनमञ्जरीः ।
वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ॥ १५ ॥
यामिन्यो रात्रयस्तद्रूपैर्भ्रमरैरापूर्णाः । दिनान्यहान्येव मँजर्यो यासु
ताः । वर्षः संवत्सरः कल्पो ब्रह्माहः कलास्त्रिंशत्काष्ठा##-
खेदाद्विरमतीति यावत् ॥ १५ ॥
भिद्यते [न च भग्नोऽपि] नावभग्नोऽपि दग्धोऽपि हि न दह्यते ।
दृश्यते नापि दृश्योऽपि धुर्तचूडामणिर्मुने ॥ १६ ॥
तत्तत्कार्यात्मना अवभग्नो दग्धो दृश्योऽपि वा स्वरूपेण न भङ्गादि
प्राप्नोतीत्यर्थः ॥ १६ ॥
एकेनैव निमेषेण किञ्चिदुत्थापयत्यलम् ।
किञ्चिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ॥ १७ ॥
दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया ।
द्रविअय्करूपकृद्रूपं जनमावर्तयन्स्थितः ॥ १८ ॥
तत्तद्युगानुरूपचेष्टैव स्वकीयदुर्विलासेषु विलासिनी प्राणिनां कष्टेनैव
पुष्टा कालस्य भार्या तया द्रव्यैर्भौतिकदेहेन्द्रियादिभिस्तादात्म्याध्या##-
स्वर्गनरकादिस्वावर्तयन्स्थितः ॥ १८ ॥
तृणं पांसुं महेन्द्रं च सुमेरुं पर्णमर्णवम् ।
आत्मम्भरितया सर्वमात्मसात्कर्तुमुद्यतः ॥ १९ ॥
आत्मम्भरितया स्वकुक्षिपूरणमात्रस्वभावेन । आत्मसात्स्वाधीनं कर्तुम् ।
ग्रसितुमिति यावत् ॥ १९ ॥
क्रौर्यमत्रिव पर्याप्तं लुब्धतात्रैव संस्थिता ।
सर्वदौर्भाग्यमत्रैव चापलं [चापि] वापि दुःसहम् ॥ २० ॥
पर्याप्तं समग्रम् । अत्रास्मिन्काले ॥ २० ॥
प्रेरयṁल्लीलयार्केन्दू क्रीडतीव नभस्तले ।
निक्षिप्तलीलायुगलो निजे बाल इवाङ्गणे ॥ २१ ॥
निक्षिप्तं पुनःपुनरास्फालितं लीलार्थं कन्दुकयुगलं येन ॥ २१ ॥
सर्वभूतास्थिमालाभिरापादवलिताकृतिः ।
विलसत्येव कल्पान्ते कालः कलितकल्पनः ॥ २२ ॥
कलितकल्पनो नाशितप्राणिविभागः ॥ २२ ॥
अस्योड्डामरवृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः ।
प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥ २३ ॥
उड्डामरं निरङ्कुशं वृत्तं चरित्रं यस्य । अङ्गेभ्यो
विनिर्गतैर्वायुभिर्मेरुर्भूर्जत्वगिव सर्वतो विशीर्यमाणः ॥ २३ ॥
रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः ।
शक्रो वैश्रवणश्चापि पुनरेव न किञ्चन ॥ २४ ॥
धत्तेऽजस्रोत्थितोद्ध्वस्तान्सर्गानमितभास्वरान् ।
अन्यान्दधद्दिवानक्तं वीचीरब्धिरिवात्मनि ॥ २५ ॥
अन्यान्सर्गान्दधद्धारयन्नैवार्थादन्यानजस्रमुत्थितानुद्ध्वस्तांश्च
सर्गान्धत्ते । अजस्रोत्थितो नित्योद्युक्त इति कालविशेषणं वा । वीचीस्तरङ्गान् ॥ २५ ॥
महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।
देवासुरगणान्पक्वान्फलभारानिव स्थितः ॥ २६ ॥
शातयन् पातयन् ॥ २६ ॥
कालोऽयं भूतमशकघुङ्घुमानां प्रपातिनाम् ।
ब्रह्माण्डोदुम्बरौघानां वृहत्पादपतां गतः ॥ २७ ॥
भूतानि प्राणिन एव मशकास्तैर्घुघुमानां घुङ्घुमिति ध्वनतां
ब्रह्माण्डोदुम्बरफलौघानाम् ॥ २७ ॥
सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।
वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः ॥ २८ ॥
चित् सर्वाधिष्ठानचैतन्यमेव ज्योत्स्ना चन्द्रिका तत्सन्निधानमात्रेण परितः
फुल्लया व्यक्ततां प्राप्तया जगत्सत्तासामान्यलक्षणया कुमुद्वत्या
कुमुदिन्या विनोदहेतुभूतया तत्तत्प्राणिशुभाशुभक्रियालक्षण##-
[विहारकौतुकैः] व्यवहारकौतुकैः कालक्षेपस्तत्र कालस्य विहर्तुः
कालान्तराप्रसिद्धेः स्ववपुरेव विनोदयतीति भावः ॥ २८ ॥
अनन्तापारपर्यन्तबद्धपीठ निजं वपुः ।
महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ॥ २९ ॥
अनन्तेऽपरिच्छिन्ने अनन्तायां भुवि च अतएवापारपर्यन्ते पूर्वोत्तरावधिशुन्ये
ब्रह्मणि प्रदेशे च बद्धपीठं प्रतिष्ठितम् ॥ २९ ॥
क्वचिच्छ्यामतमःश्यामं क्वचित्कान्तियुतं ततम् ।
द्वयेनापि क्वचिद्रिक्तं स्वभावं भावयन् स्थितः ॥ ३० ॥
क्वचिन्निशीथाञ्जनादौ श्यामैस्तमोभिस्तम इव वा श्यामम् । स्वभावं
स्वकार्यम् ॥ ३० ॥
संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया ।
उर्व्येव भारघनया निबद्धपदतां गतः ॥ ३१ ॥
संलीनानामसङ्ख्यप्राणिसंसाराणां सारवत्परिशिष्टया स्वात्मसत्तया
स्वरूपस्थित्या सर्वाधारत्वाद्भारघनया निबद्धपदः प्रतिष्ठितस्तद्भावम्
॥ ३१ ॥
न खिद्यते नाद्रियते नायाति न च गच्छति ।
नास्तमेति न चोदेति महाकल्पशतैरपि ॥ ३२ ॥
केवलं जगदारम्भलीलया घनहेलया ।
पालयत्यात्मनात्मानमनहङ्कारमाततम् ॥ ३३ ॥
[घनेति] घनहेलया अनास्थया । पालयति न विनाशयति । अनहङ्कारं
निरभिमानं यथा स्यात्तथा आततं विस्तीर्णम् ॥ ३३ ॥
यामिनीपङ्ककलितां दिनकोकनदावलीम् ।
[भ्रमरिकां स्वात्म]
मेघभ्रमरिकामात्मसरस्यारोपयन्स्थितः ॥ ३४ ॥
यामिनी रात्रिः सैव मालिन्यात्पङ्कस्तस्मात्कलितामुद्गताम् । दिनान्येव
कोकनदावली रक्तोत्पलसमूहः स्वात्मा कालस्वरूपमेव सरस्तस्मिन् ॥ ३४ ॥
गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् ।
आलोककनकक्षोदानाहरत्यभितो गिरिम् ॥ ३५ ॥
कृपणो लुब्धोऽत एव नूतनसम्मार्जन्यन्तरसम्पादनासमर्थः ।
सकृन्मार्जनेन बहुतरकनकलाभेऽप्यसन्तुष्टश्चेति भावः । गिरिं
कनकाचलम् । अतएव कनकक्षोदान् गिरेः शीर्णानिति गम्यते ॥ ३५ ॥
संआरयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् ।
जगत्सद्मनि कार्पण्यात्क्व किमस्तीति वीक्षते ॥ ३६ ॥
प्रकारान्तरेण तस्य कार्पण्यमाह - सञ्चारयन्निति । कोणकेषु दिक्कोणेषु ॥
३६ ॥
प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् ।
लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥ ३७ ॥
सूर्याक्ष्णोऽनुरूपोऽहरेव विनिमेषस्तेन ॥ ३७ ॥
जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे ।
क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥ ३८ ॥
जगदेव जीर्णा कुटी तृणगृहं तत्र कीर्णान्प्रमादात्पतितान् । मृत्युरेव
समुद्गकः सम्पुटकस्तस्मिन् ॥ ३८ ॥
गुणैरापूर्यते यैव लोकरत्नावली भृशम् ।
भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तन्ति ॥ ३९ ॥
गुणैस्तन्तुभिर्विद्याविनयादिभिश्च । लोको जनः अङ्गे स्वावयवे कृतत्रेतादौ ।
यद्यपि सर्वं निकृन्तति तथापि गुणवतां विनाश एव प्रसिद्धिमायातीति
श्लोकद्वये तदुक्तिः ॥ ३९ ॥
दिनहंसानुसृतया निशेन्दीवरमालया ।
तारकेसरयाजस्रं चपलो वलयत्यलम् ॥ ४० ॥
ताराणि दीर्घाणि नक्स्ऽत्राण्येव वा केसराणि यस्यामुत्पलमालायाम् ।
हंसनिवेशस्यानौचित्यद्योगनाय चपल इति । वलयति वलयवद्धारयति ।
पञ्चर्त्वङ्गुलिकवत्सरकरप्रकोष्ठे इति शेषः ॥ ४० ॥
शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।
प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि ॥ ४१ ॥
अर्णा अर्णवाः । द्यौर्लोकः । शैलादयश्चत्वारः प्रधानत्वाच्छृङ्गाणि
येषां जगल्लक्षणानामूर्णायूनां मेषाणां सूना हिंसास्थानं तत्र
भवः सौनिको हिंसकः कालो नभोङ्गणविकीर्णांस्तारा नक्षत्राण्येव
रक्तकणास्तानपि प्रेक्ष्य प्रत्यहमहन्यहनि पिबते लेढीत्युत्प्रेक्षा ।
आत्मनेपदं छान्दसम् ॥ ४१ ॥
तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।
न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥ ४२ ॥
तुच्छस्य न क्षुद्रस्यातुच्छस्य महतश्च वस्तुजातस्य मध्ये यस्यायं तस्करो
न भवति तन्नास्तीति सम्बन्धः ॥ ४२ ॥
कल्पकेलिविलासेन पिष्टपातितजन्तुना ।
अभावो भावभासेन रमते स्वात्मनात्मनि ॥ ४३ ॥
पिष्टाः सञ्चूर्णिता मृत्युमुखे पातिताश्च जन्तवो येन तथाभूतेन । कल्पः
संवर्तस्तद्रूपेण केलिविलासेन । न विद्यन्ते भावा यस्य तथाभूतः सन्
सुषुप्ताविव भावरूपज्ञानावभासकेन स्वात्मना स्वाधिष्ठानब्रह्म##-
इत्यर्थः ॥ ४३ ॥
कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः ॥ ४४ ॥
एवं प्रलये विश्रम्याथ पुनः सर्गकाले विश्वस्य कर्ता भोक्ता संहर्ता
स्मर्तेत्यादिसर्ववस्तुभावं गतः स्वयमेव भवतीति शेषः ॥ ४४ ॥
सकलमप्यकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः ।
प्रकटयन्सहसैव च गोपयन् विलसतीह हि कालबलं नृषु ॥ ४५ ॥
न कलाभिर्बुद्धिकौशलैः कलितं केनापि निश्चितमान्तरं रहस्यं यस्य तत् ।
तथा सुभगं पुण्यफलभोगानुरूपं तद्विपरीतं दुर्भगं यद्रूपं तस्य
धर्ऽम् सकलमपि वपुः प्रकटयन् गोपयन्नुपसंहरंश्च विलसति । काल इति
शेषः । हीति प्रसिद्धौ । इह जगति कालस्य बलं नृषु प्रसिद्धमेवेत्यर्थः ॥ ४५
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
कालापवादो नाम त्रयोविंशतितमः सर्गः ॥ २३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे कालापवादो
नाम त्रयोविंशतितमः सर्गः ॥ २३ ॥