२२

द्वाविंशः सर्गः २२

श्रीराम उवाच ।

अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम् ।
यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥ १ ॥

शोकमोहवियोगार्तिविषादगदसङ्कुलम् ।
चिन्तापरिभवस्थानं वृद्धत्वमिह निन्द्यते ॥

ननु कामादिदोषप्राबल्यान्मास्तु यौवने सुखम् वृद्धावस्थायां तु
तदुपशान्तौ विनीतैः पुत्रपौत्रादिभिर्गृहे सेव्यमानस्य बहुतरं सुखं
भविष्यतीत्याशङ्क्य तत्र दुःखस्थानामानन्त्यं विस्तरेण विवक्षुः
प्रथमं स्वकुलग्रासिसर्पाणां दया परकुले कुतः इति न्यायेन कर्क##-
१ ॥

हिमाशनिरिवाम्भोजं वात्येव शरदम्बुकम् [दम्बुजम्] ।
देहं जरा नाशयति नदी तीरतरुं यथा ॥ २ ॥

पामराणां परमप्रेमास्पदसुखायतनस्य देहस्यैव शिथिलीकरणे क्व तत्र
सुखप्रत्याशेत्याह - हिमाशनिरिवेत्यादिना । हिममशनिर्वज्रमिवेति
हिमाशनिः । [दम्बुजम्] अम्बुकमम्बुकणं तृणाग्रस्थमिति यावत् ॥
२ ॥

जर्जरीकृतसर्वाङ्गी जरा जरठरूपिणी ।
विरूपतां नयत्याशु देहं विषलवो यथा ॥ ३ ॥

जरठरूपिणीत्यौत्प्रेक्षिकम् । यदि स्वयं तथा न स्यात्कथमन्यांस्तथा
कुर्यादिति । विषलवो भुक्त इति शेषः ॥ ३ ॥

[दीर्घसर्वाङ्गम्] शिधिलादीर्णसर्वाङ्गं जराजीर्णकलेवरम् ।
समं पश्यन्ति कामिन्यः पुरुषं करभं यथा ॥ ४ ॥

समशब्दोऽत्र सर्वपर्यायः । कामिन्यो जराजीर्णकलेवरं सर्वं पुरुषं
करभं उष्ट्रं यथा तथा पश्यन्ति । तदेवोपपादयति - शिथिलेति ।
शिथिलान्यादीर्णानि सर्वाङ्गानि यस्य तम् ॥ ४ ॥

अनायासकदर्थिन्या गृहीते जरसा जने ।
पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना ॥ ५ ॥

अनायासेन विनैवायासम् । कदर्थयितुं दैन्यं प्रापयितुं शीलं यस्याः ।
आहता परिभूता ॥ ५ ॥

दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ६ ॥

उन्मत्तकमिति कुत्सायां कन् ॥ ६ ॥

दुष्प्रेक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः ।
गृधो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धकम् ॥ ७ ॥

आदीर्घमतिदीर्घम् । गर्धोऽभिलाषातिशयः । वृक्षपक्षे सफलशाखा##-

दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।
सर्वापदामेकसखी वार्धके वर्धते स्पृहा ॥ ८ ॥

दैन्यदोषप्रचुरा ॥ ८ ॥

कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम् ।
अप्रतीकारयोग्यं हि वर्धते वार्धके भयम् ॥ ९ ॥

कष्टमिति दौर्मनस्यद्योतको निपातः ॥ ९ ॥

कोऽहं वराकः किमिव करोमि कथमेव च ।
तिष्ठामि कौनमेवेति दीनतोदेति वार्धके ॥ १० ॥

कोऽहमित्यादिर्दीनताया एवोल्लेखः । किङ्कथंशब्दौ साध्यसाधनचिन्ता##-

कथं कदा मे किमिव स्वादु स्याद्भोजनं [जनादिति] जनात् ।
इत्यजस्रं जरा चैषा चेतो दहति वार्धके ॥ ११ ॥

वार्धके जनान्प्राप्य । एषा उक्तलक्षणा अपरापि जरा चेतो दहतीति सम्बन्धः । इह
पूर्वश्लोके च इवशब्दो विषयविसंवादद्योतनार्थः ॥ ११ ॥

गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते ।
हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥ १२ ॥

भोक्तुं शक्तौ जरणाशक्तिस्तच्छक्तौ भोक्तुमशक्तिरित्यादिशक्तिदौस्थ्यम् ॥ १२

जराजीर्णबकी यावत्कायक्लेशापकारिणी ।
रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥ १३ ॥

कायस्य क्लेशैः पीडनैरपकारिणी । बक्या अपि स्वाश्रयद्रुमपीडकत्वं
[पिडिकात्वम्] प्रसिद्धम् । रोगलक्षणेनोरगेणाकीर्णा ग्रस्ता यावद्रौति
रोदिति तावन्मरणकौशिकः कुतोऽप्यागत एव दृश्यत इति सम्बन्धः ॥ १३ ॥

तावदागत एवाशु कुतोऽपि परिदृश्यते ।
घनान्ध्यतिमिराकाङ्क्षी मुने मरणकौशिकः ॥ १४ ॥

घनमान्ध्यं मूर्च्छा तदेव तिमिरमन्धकारः ॥ १४ ॥

सायंसन्ध्यां प्रजातां वै तमः समनुधावति ।
जरां वपुषि दृष्ट्वैव मृतिः समनुधावति ॥ १५ ॥

पूर्वार्थार्थो दृष्टान्तः । प्रजातां सम्भूताम् ॥ १५ ॥

जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।
अध्यापतति वेगेन मुने मरणमर्कटः ॥ १६ ॥

अथि उपर्यापतति तद्विनाशायेति भावः ॥ १६ ॥

शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः ।
भात्यनावृष्टिमान्देशो न जराजर्जरं वपुः ॥ १७ ॥

आभाति ईषच्छोभतेऽपि ॥ १७ ॥

क्षणान्निगरणायैव कासक्वणितकारिणी ।
गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥ १८ ॥

कास एव क्वणितं ध्वनिस्तत्करणशीला । गृध्री आमिषमिव नरं तरसा वेगेन
निगरणायैवादत्त इत्यन्वयः ॥ १८ ॥

दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणम् ।
प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥ १९ ॥

प्रलुनाति विनाशयति । कुमारी बालिका । कैरवं कुमुदम् ॥ १९ ॥

सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।
शरीरं शातयत्येषा वात्येव तरुपल्लवम् ॥ २० ॥

वात्यात्र शिशिरर्तुवायुसमूहः । सा हि सीत्कारादि कारयति शरीरं तरुपल्लवं च
पांसुध्वस्तं कृत्वा विदारयत्येवं जरापि ॥ २० ॥

जरसोपहतो देहो धत्ते जर्जरतां गतः ।
तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥ २१ ॥

परिम्लानाम्बुजस्य श्रियं साम्यम् ॥ २१ ॥

जरा ज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः ।
विकासयति संरब्धं वातकासकुमुद्वती ॥ २२ ॥

जरैव ज्योत्स्ना कौमुदी । शिर एव शिखरिपृष्ठं पर्वतोर्ध्वदेशः ।
वातकासौ रोगौ तावेव कुमुद्वतीं कुमुदलतां संरब्धं सोद्योगं
विकासयति ॥ २२ ॥

परिपक्वं समालोक्य जराक्षारविधूसरम् ।
[कूश्माण्डेत्युभयत्र] शिरःकूष्माण्डकं भुङ्क्ते पुंसां
कालः किलेश्वरः ॥ २३ ॥

जरैव क्षारो लवणादिचूर्णं तेन विधूसरमुपस्कृतमिति यावत् । ईश्वरः
स्वामी शिरःकुष्माण्डस्य [कूश्माण्डेत्युभयत्र] । तेनैवोत्पाद्य
वर्थितत्वात् ॥ २३ ॥

जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति ।
शरीरतीरवृक्षस्य चलत्यायुषि सत्वरम् ॥ २४ ॥

जह्नुसुत गङ्गा । अविरामादुद्युक्तेव । आयुषि आयुःप्रवाहे सत्वरं चलति सति ॥ २४

जरामार्जारिका भुङ्क्ते यौवनाखुं तथोद्धता ।
परमुल्लासमायाति शरीरामिषगर्धिनी ॥ २५ ॥

यौवनमेवाखनति विषयबिलमित्याखुस्तं भुङ्क्ते तथा शरीराभिषस्य
गर्धिनी भक्षणेच्छुः ॥ २५ ॥

काचिदस्ति जगत्यस्मिन्नाम"गलकरी तथा ।
यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥ २६ ॥

जरैव देहजङ्गले तम्बुकी शिवा । आक्रोशो रोदनमारावश्च ॥ २६ ॥

कासश्वासससीत्कारा दुःखधूमतमोमयी ।
जराज्वाला ज्वलत्येषा यस्यासौ दग्ध एव हि ॥ २७ ॥

आर्द्रकाष्ठे दह्यमाने ज्वालायामपि सीत्कारः प्रसिद्धह् ॥ २७ ॥

जरसा वक्रतामेति शुक्लावयवपल्लवा ।
तात तन्वी तनुर्नॄणां लता पुष्पानता यथा ॥ २८ ॥

तन्वी अल्पा । तनुः शरीरम् ॥ २८ ॥

जराकर्पूरधवलं देहकर्पूरपादपम् ।
मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥ २९ ॥

कर्पूरपादपं कदलीतरुम् । उद्धरति उन्मूलयति ॥ २९ ॥

मरणस्य मुने राज्ञो जराधवलचामरा ।
आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥ ३० ॥

आगच्छत आगमिष्यतः । वर्तमानसामीप्ये वर्तमानवत् । जरा धवलचामरं
यस्याः । स्वा स्वीया आधिव्याधीनां पताकिनी सेना ॥ ३० ॥

न जिताः शत्रुभिः सङ्ख्ये प्रविष्टा येऽद्रिकोटरे ।
ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥ ३१ ॥

अद्रिकोटरे दुष्प्रवेशे पर्वतविवरेऽपि ये धैर्येण प्रविष्टाः ॥ ३१ ॥

जरातुषारवलिते शरीरसदनान्तरे ।
शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥ ३२ ॥

तुषारो हिमं तेन बलिते सङ्कोचिते । अक्षाणीन्द्रियाण्येव शिशवो बालाः ॥ ३२ ॥

दण्डतृतीयपादेन प्रस्खलन्ती मुहुर्मुहुः ।
कासाधोवायुमुरजा जरा योषित्प्रन्र्त्यति ॥ ३३ ॥

दण्डोऽवलम्बनयष्टिस्तद्रूपेण तृतीयपादेनोपलक्षिता । कासाधोवायू मुरजो
वाद्यविशेषो यस्याः ॥ ३३ ॥

संसारसंसृतेरस्या गन्धकुट्यां शिरोगता ।
देहयष्ट्यां जरानाम्नी चामरश्रीर्विराजते ॥ ३४ ॥

अस्याः प्रसिद्धायाः । संसाराख्यस्य [संसाराख्यराज्ञः] राज्ञः
संसृतेर्व्यवहारस्य सम्बन्धिनी । गन्धयति रागादिभिर्वासयति चित्तं सभां
चेति गन्धो विषयभोगः कस्तूर्यादिगन्धद्रव्यं च तस्य कुठ्यां
आश्रयभूतायां देहयष्ट्यां शिरोगता जरानाम्नी चामरश्रीर्विराजते ।
सौन्दर्यसौरभ्यमन्दवायुप्रसरादिभिरित्यर्थः ॥ ३४ ॥

जराचन्द्रोदयसिते शरीरनगरे स्थिते ।
क्षणाद्विकासमायाति मुने मरणकैरवम् ॥ ३५ ॥

स्थिते जीविताशासरसीति शेषः ॥ ३५ ॥

जरासुधालेपसिते शरीरान्तःपुरान्तरे ।
अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः ॥ ३६ ॥

सुधा चूर्णम् ॥ ३६ ॥

अभावोऽग्रेसरी यत्र जरा जयति जन्तुषु ।
कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने ॥ ३७ ॥

यत्र येषु जन्तुषु चतुर्विधशरीरेषु प्रथमं जरा जयत्यभिभवति । अग्रे च
अभावो मृत्युः सरणं सरः सरोऽस्यास्तीति सरी । अवश्यमागन्तेत्यर्थः ।
अभावाग्रेसरीति पाठश्चेत्स्पष्टः । तत्र तेषु शरीरेषु मध्ये इहास्मिन् शरीरे
मम कः समाश्वासो विस्रम्भः । ननु वसिष्ठादीनामपि तुल्यमेतदित्या##-

किं तेन दुर्जीवितदुर्ग्रहेण जरागतेनापि हि जीव्यते यत् ।
जराजगत्यामजिता जनानां सर्वैषणास्तात् तिरस्करोति ॥ ३८ ॥

दुर्जीविते दुःखजीवने दुर्ग्रहो दुराग्रहस्तेन किम् । व्यर्थमित्यर्थः ।
सर्वैषणाः सर्वानभिलाषान् ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
जराजुगुप्सा नाम द्वाविंशतितमः सर्गः ॥ २२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे जराजुगुप्सा
नाम द्वाविंशतितमः सर्गः ॥ २२ ॥