एकविंशः सर्गः २१
श्रीराम उवाच ।
मांसपाञ्चलिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनं ॥ १ ॥
प्रत्यक्षनरकव्रातनिष्पन्ननिखिलाङ्गिकाः ।
स्त्रियोऽप्यत्र विनिन्द्यन्ते पुंसां नरकजन्मदाः ॥
येषु स्त्रीपिण्डेषु यूनां रमणीयताभ्रमस्तेषां स्वरूपं विविच्य
दर्शयितुमुपक्रमते - मांसेत्यादिना । स्नायवः शिराः । ग्रथनं
ग्रन्थिस्तेन शालिन्याः शोभनाया मांसमय्याः पाञ्चालिकायाः प्रतिमायाः
स्त्रियाः शकटादियन्त्रमिव लोले चञ्चले अङ्गपञ्चरे शोभनमिव यन्मन्यन्ते
तत्किम् । न किञ्चिदित्यर्थः ॥ १ ॥
त्वड्वांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचनम् ।
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ २ ॥
उक्तमेव प्रपञ्चयिष्यन्प्रधमं यूनां यत्र नेत्रे विलासविभ्रमस्तत्र विवेके
अशोभनतां दर्शयति - त्वगिति । समाहारद्वन्द्वः । रम्यं चेत्सज्जस्व
[सज्जस्वेति फलितार्थकथनम्] । किं मुधेति । नोचेदिति शेषः । मुधा
व्यर्थम् ॥ २ ॥
इतः केशा इतो रक्तमितीयं प्रमदातनुः ।
किमेतया निन्दितया करोति विपुलाशयः ॥ ३ ॥
विपुलाशयो विवेकविस्तीर्णबुद्धिः ॥ ३ ॥
वासोविलेपनैर्यानि लालितानि पुनः पुनः ।
तान्यङ्गान्यङ्ग लुण्ठन्ति क्रव्यादाः सर्वदेहिनाम् ॥ ४ ॥
अङ्गेति कोमलामन्त्रणे । लुण्ठन्ति उपघ्नन्ति । क्रव्यादा मांसाशिनो
गृध्रगोमाय्वादयः ॥ ४ ॥
मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा ।
दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता ॥ ५ ॥
रयः प्रवाहः । मुक्ताहारस्य उल्लासशालिता शोभा यस्मिन्स्तने दृष्टा स एव
ललनास्तन इत्युत्तरेण सम्बन्धः ॥ ५ ॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ६ ॥
आस्वाद्यते रुच्या भक्ष्यते । अन्धस ओदनस्य ॥ ६ ॥
रक्तमांसास्थिदिग्धानि करभस्य यथा वने ।
तथैवाङ्गानि कामिन्यास्तां प्रत्यपि हि को ग्रहः ॥ ७ ॥
दिग्धान्युपचितानि करभस्य खरस्योष्ट्रस्य वा । ग्रह आग्रहः । आशातिशय इति
यावत् ॥ ७ ॥
आपातरमणीयत्वं [कल्प्यते केवलं स्त्रियः] कल्पते केवलं
स्त्रियाः ।
मन्ये तदपि नास्त्यत्र मुने मोहैककारणम् ॥ ८ ॥
अविचारजं ज्ञानमापातं पतनावधीति वा । कल्पते युज्यते । यतो
मोहैककारणं चित्तविभ्रमैकनिमित्तकं तत् । नहि तथाविधं
शुक्तिरजताद्यस्तीति भावः ॥ ८ ॥
विपुलोल्लासदायिन्या मदमन्मथपूर्वकम् ।
को विशेषो विकारिण्या मदिरायाः [स्त्रियस्तथा] स्त्रियास्तथा ॥ ९ ॥
विकारिण्याः स्वतः कामकिण्वादिविकारवत्याः स्खलनकलहादिविकारिण्या
[विकारकारिण्या] वा ॥ ९ ॥
ललनालानसंलीना मुने मानवदन्तिनः ।
प्रबोधं नाधिगच्छन्ति दृधैरपि शमाङ्कुशैः ॥ १० ॥
सम्यग्लीना मदमोहात्सुप्तप्रायाः । प्रबोधं विवेकजागरणम् ॥ १० ॥
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।
दुष्कृताग्निशिखा नार्थो दहन्ति तृणवन्नरम् ॥ ११ ॥
नार्यः स्त्रियः द्ष्कृताग्नीनां शिखा ज्वालाः । तदेव तद्धर्मैःरुपपादयति
- केशेति । केशा एव कज्जलानि केशान्कज्जलानि च धारयितुं शीलं यासाम् ।
दुःस्पर्शाः स्प्रष्टुमशक्याः । लोचनप्रियाः प्रियदर्शनाः । अतएव हि नरं
तृणवद्दहन्ति ॥ ११ ॥
ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १२ ॥
अतिदूरे संयमिन्यां दारुणं यथा स्यात्तथा ज्वलतामपि नरकाग्नीना##-
स्वतश्च विरोधाभासः । अथवा दारुणमित्यपीन्धनविशेषणमेव । तथाच
तत्रापि स्वत एव विरोधाभासः । परिहारस्तु वासनादुष्टत्वात् सरसाः आपाततः
नीरसाः परमार्थतः । एवं चारु आपाततः दारुणं फलत इति ॥ १२ ॥
विकीर्णाकारकबरी तरत्तारकलोचना ।
पुर्णेन्दुबिम्बवदना कुसुमोत्करहासिनी ॥ १३ ॥
यामिन्या आकारोऽन्धकारः स एव स इव वा कबरी केशपाशो यस्याः । तरन्त्यो
भ्रमन्त्यस्तारका नक्षत्राण्येव लोचनानि तानीव च तरत्तारके चलत्कनीनिके वा
लोचने यस्याः । एवमिन्दुबिम्बमेव इन्दुबिम्बमिव वा वदनं यस्याः ।
कुसुमोत्कर एव कुसुमोत्कर इव वा हासोऽस्या अस्तीति विग्रहः ॥ १३ ॥
लीलाविलोलपुरुषा कार्यसंहारकारिणी ।
परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥ १४ ॥
शृङ्गारलीलाभिर्विलोलाः पुरुषायस्याम् । अतएव तेषां कार्याणामवश्य##-
व्यर्थमायुर्विनाशायेति भावः ॥ १४ ॥
पुष्पाभिराममधुरा करपल्लवशालिनी ।
भ्रमराक्षिविलासाढ्या स्तनस्तबकधारिणी ॥ १५ ॥
न केवलं पुरुषार्थविघातिता अपित्वनर्थहेतुतापीत्याह - पुष्पेत्यादि##-
स्तनावेव स्तनाविव ॥ १५ ॥
पुष्पकेषरगौराङ्गी नरमारणतत्परा ।
ददात्युन्मत्तवैवशं कान्ता विषलता यथा ॥ १६ ॥
पुष्पकेसरैः पुष्पकेसराणीव वा । उन्मत्तानां कामोन्मादात्स्वसेविनां
मूर्खाणां मूर्छामरणादिवैवश्यं ददाति ॥ १६ ॥
सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।
कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ॥ १७ ॥
करभ्यत्र भल्लुकी । सा हि बिलस्थान्सर्पादीन्श्वासबलेनाकृष्य भक्षयतीति
प्रसिद्धम् । तथा सत्कार्यैरलीकसत्कारैरुच्छ्वास आश्वासनं तावन्मात्रेण
भुजङ्गानां विटानां दलने वित्तचित्तापहारेण विनाशे सोत्कण्ठया कान्तया
जन्तुरुद्ध्रियते । वशीक्रियत इत्यर्थः ॥ १७ ॥
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् ।
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ १८ ॥
विकीर्णाः प्रसारिताः । वागुरा जालानि ॥ १८ ॥
ललनाविपुलालाने मनोमत्तमतङ्गजः ।
रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् ॥ १९ ॥
जन्मपल्वलमत्स्यानां [वित्तकर्दम] चित्तकर्दमचारिणाम् ।
पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ २० ॥
बडिशं मत्स्यवेधनकण्टकस्तत्रत्या पिष्टपिण्डिका ॥ २० ॥
कन्दुरं च तुरङ्गाणामालानमिव दन्तिनाम् ।
पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना ॥ २१ ॥
मन्दुरं मन्दुरा वाजिशाला ॥ २१ ॥
नानारसवती चित्रा भोगभूमिरियं मुने ।
स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् ॥ २२ ॥
इयं भोगभूमिर्ब्रह्माण्डलक्षणा इह संसारे परां दृढां संस्थितिं
चिरस्थितिं संयाता प्राप्ता ॥ २२ ॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयाऽनया ।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ २३ ॥
सुसमुद्गिकया दृढसम्पुटिकया । अलं पर्याप्तम् । प्रयोजनं नास्तीत्यर्थः ॥
२३ ॥
किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भुवा ।
मांसमात्रैकसारेण करोम्यहमवस्तुना ॥ २४ ॥
अवस्तुना तुच्छेन ॥ २४ ॥
इति मांसमितो रक्तमितोऽस्थीनीति वासरैः ।
ब्रह्मन्कतिपयैरेव याति स्त्री विशरारुताम् ॥ २५ ॥
विशरारुतां विशीर्णताम् ॥ २५ ॥
यास्तात् पुरुषैः स्थूलैर्ललिता मनुजैः प्रियाः ।
ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूइषु ॥ २६ ॥
स्थूलैरसूक्ष्मदर्शिभिः । ललिता लालिताः । पितृभूमिषु श्मशानेषु ॥ २६ ॥
यस्मिन्घनतरस्नेहं मुखे पत्राङ्कुराः स्त्रियः ।
कान्तेन रचिता ब्रह्मन्पीयते तेन जङ्गले ॥ २७ ॥
कर्पूरगोरोचनचन्दनादिकृतास्तिलकरचनाविशेषाः पत्राङ्कुराः । पीयते
शुष्यते । पै शोषणे । अकर्मत्वाद्भावे लः ॥ २७ ॥
केशाः श्मशानवृक्षेषु यान्ति चामरलेखिकाम् ।
अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ॥ २८ ॥
स्त्रियः केशाः लेख उल्लेख उत्प्रेक्षा सैव लेखिका ताम् । भस्मधूसरत्वा##-
पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः ।
चर्माणि च शिवा भुङ्क्ते खं यान्ति प्राणवायवः ॥ २९ ॥
पिबन्ति शोषयन्ति । पांसवो धूलयः । क्रव्यं मांसमदन्तीति क्रव्यादा
अनेकशः सन्तीति शेषः । शिवा सृगाली ॥ २९ ॥
इत्येषा ललनाङ्गानामचिरेणैव भाविनी ।
स्थिर्मया वः कथिता किं भ्रान्तिमनुधावथ ॥ ३० ॥
स्थितिः परिणतिः ॥ ३० ॥
भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् ।
रसादभिपतत्वेतकथं नाम धियान्वितः ॥ ३१ ॥
सङ्घट्टनं सङ्घट्टस्तकृतं संस्थानं सन्निवेशम् ।
रसाद्रागाद्धियान्वितो बुद्धिमान्कथमभिपततु । अर्हे कृत्यतृचश्च इति
चकारेण लोडपि समुच्चीयत इति केचित् ॥ ३१ ॥
शाख्याप्रतानगहना कट्वम्लफलमालिनी ।
सुतालोत्तालतामेति चिन्ता कान्तानुसारिणी ॥ ३२ ॥
पारलौकिकं दुःखं कटुफलमैहिकशोकरागादिकं त्वीषत्सुखलवमिश्र##-
वानानामम्लता । उत्तालतामूर्ध्वविस्तीर्णताम् ॥ ३२ ॥
कान्दिग्भूततया चेतो घनगर्धान्धमाकुलम् ।
परं मोहमुपादत्ते यूथभ्रष्टमृगो यथा ॥ ३३ ॥
आकुलमुक्तचिन्तयेति गम्यते । अतएव घनेन निबिडेन गर्धेन
धनाभिलाषेणान्धम् । कां दिशं गमिष्यामि क्व धनं
लप्स्यामीत्येवम्भूततया चेतोमोहमुपादत्ते ॥ ३३ ॥
शोच्यतां परमां याति तरुणस्तरुणीपरः ।
निबद्धः करिणीलोलो विन्ध्यखाते यथा गजः ॥ ३४ ॥
खाते गर्ते ॥ ३४ ॥
यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ।
स्त्रियं त्यक्त्वा जतत्त्यक्तं जतत्त्यकत्वा सुखी भवेत् ॥ ३५ ॥
भवनं भूः सम्भवः ॥ ३५ ॥
आपातमात्ररमणेषु सुदुस्तरेषु
भोगेषु नाहमलिपक्षतिचञ्चलेषु ।
ब्रह्मन्नमे मरणरोगजरादिभीत्या
शाम्याम्यहं परमुपैमि पदं प्रयत्नात् ॥ ३६ ॥
पक्षतिः पक्षमूलम् । मरणजन्मजरादिभीत्या भोगेष्वहं न रमे इति
सम्बन्धः । शाम्याम्युपरतोऽस्मि । उपैमीति वर्तमानसामीप्ये वर्तमानवत् ॥ ३६
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
स्त्रीजुगुप्सा नामैकविंशतितमः सर्गः ॥ २१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे स्त्रीजुगुप्सा
नामैकविंशतितमः सर्गः ॥ २१ ॥