२०

विंशः सर्गः २०

श्रीराम उवाच ।

बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः ।
आरोहति निपाताय यौवनं सम्भ्रमेण तु ॥ १ ॥

लोभद्वेषमदासूयामानमात्सर्यदूषितम् ।
कामाद्यनर्थसदनं यौवनं चात्र निन्द्यते ॥

अस्तु बाल्यमतिमौर्ख्याशक्तिपारतन्त्र्येभ्यो दुःखबहुलम् यौवनं तु
तदभावान्नानाभोगरसरञ्जितत्वाच्च सुखहेतुरेवेति स्पृहणीयमेवे##-
बाल्यानर्थ-मित्यादिना । सम्भ्रमेण भोगोत्साहेन भ्रान्त्या
वक्ष्यमाणकामपिशाचा-दिना वा अभिहताशयो दूषितान्तःकरणः ।
आचतुर्दशवर्षं माण्डव्येन मर्यादाकरणान्न तथा बाल्यं निपाताय
यौवनं तु निपातायैवेति भावः ॥ १ ॥

तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।
वृत्तिरनुभवन्याति दुःखाद्दुःखान्तरं जडः ॥ २ ॥

तत्र यौवने । अनन्ता विलासाश्चेष्टा यस्य । वृत्ति रागद्वेषादिपरिणामान् । जडो
मूर्खः ॥ २ ॥

स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।
बलात्कामपिशाचेन विवशः परिभूयते ॥ ३ ॥

परिभूयते विवेकं तिरस्कृत्य वशीक्रियते ॥ ३ ॥

चिन्तानां लोलवृत्तीनां ललनानामिवाऽवृतीः ।
अर्पयत्यवशं चेतो बालानामञ्जनं यथा ॥ ४ ॥

अतएवाऽवशमस्वतन्त्रं चेतो ललनानां युवतीनामिव लोलवृत्तीनां
चञ्चलस्थितिकानां चिन्तानां अवृत्तिः वरणं वृतिस्तिरोधानं तदभावान् ।
स्वैरप्रसरानिति यावत् । अर्पयति प्रयच्छति । यथा निध्यादिदर्शनाय बालानां
करतलेऽर्पितं सिद्धाञ्जनं लोलवृत्तीनां तन्नयनप्रभाणां अवृतीः
अनावरणानि । भूमिशिलादिव्यवधानतिरस्कारेण स्वैरं
निधिदर्शनसमर्थतामिति यावत् ॥ ४ ॥

ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् ।
तद्रूपं प्रतिलुम्पन्ति दुष्तास्तेनैव ये मुने ॥ ५ ॥

तत्र यौवने तादृशाशयं कामचिन्तादिवशीकृतचित्तमतएव तद्रूपं
तत्प्रायं तं पुरुषं नरकादिहेतुत्वाद्व्ययक्लेशसाध्यत्वाच्च दुष्टा
आरम्भाः स्त्रीद्यूतकलहादिव्यसनारम्भा येभ्यस्ते तथाविधास्ते ते प्रसिद्धा
रागलोभादिदोषाः प्रतिलुम्पन्ति विनाशयन्ति । ये दोषास्तेन यौवनेनैव दुष्टाः ।
अतिशयं नीता इत्यर्थः ॥ ५ ॥

महानरकबीजेन सन्ततभ्रमदायिना ।
यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ ६ ॥

अतएव महानवरकेति । स्पष्टम् ॥ ६ ॥

नानारसमयी चित्रवृत्तान्तनिचयोम्भिता ।
भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥ ७ ॥

रसाः शृङ्गारादयः कट्वादयो विषयाभिलाषा दुस्तरजलानि च । प्राचुर्ये
मयट् । रागलोभादीनां चोरव्याघ्रसर्पादीनां च चैत्रैराश्चर्यहेतु##-

[भास्वराकार] निमेषभासुराकारमालोलघनगर्जितम् ।
विद्युत्प्रकाशमिवं यौवनं मे न रोचते ॥ ८ ॥

घनानि बहुलानि गर्जितानीव साभिमानोक्तयो घनानां मेघानां गर्जितानि च
यस्मिन् । अतएव विद्युदिव प्रकाशमानम् ॥ ८ ॥

मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।
सुराकल्लोलसदृशं यौवनं मे न रोचते ॥ ९ ॥

भोगकाले मधुरमतएव स्वादु हृद्यं तिक्तं परिणामतः दूषणं
निन्दाहेतुदोषाणां भूषणमलङ्कारायमाणम् । सुरायाः कल्लोला
मदविलासाः ॥ ९ ॥

असत्यं सत्यसङ्काशमचिराद्विप्रलम्भदम् ।
स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥ १० ॥

विप्रलम्भदं वञ्चनप्रदम् ॥ १० ॥

सर्वस्याग्रे सर्वपुंसः क्षणमात्रमनोहरम् ।
गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥ ११ ॥

सर्वस्य क्षणमनोहरस्य वस्तुजातस्य मध्ये अग्रे अग्रेसरं श्रेष्ठमित्यर्थः ।
गन्धर्वनगरदर्शनस्य मरणचिह्नत्वात्तत्पक्षे सर्वस्य वयसोऽग्रे अन्ते
इत्यर्थः ॥ ११ ॥

इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।
दाहपोषप्रदं नित्यं यौवनं मे न रोचते ॥ १२ ॥

ज्यामुक्त इषुर्यावता कालेन लक्ष्यं प्रपतति तावत्कालं सुखदम् ॥ १२ ॥

आपातमात्ररमणं सद्भावरहितान्तरम् ।
वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥ १३ ॥

रमणं रमणीयम् । सद्भावः शुभचित्तता ॥ १३ ॥

ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः ।
तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥ १४ ॥

सर्वेषां दुःखदा ये केचन समारम्भास्ते सर्वे इत्यन्वयः । क्षये प्रलये ॥ १४

हार्दान्धकारकारिण्या भैरवाकारवानपि ।
यौवनाज्ञानयामिन्या बिभेति भगवानपि [ज्ञानवानपि] ॥ १५ ॥

भैरवाकारवान् भगवानीश्वरोऽपि यौवनयुक्ताज्ञानरात्रेर्नूनं बिभेति
कथमन्यथा सदैव विवेकज्ञानचन्द्रं धारयतीति भावः ॥ १५ ॥

सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् ।
ददात्यतितरामेष भ्रमं यौवनसम्भ्रमः ॥ १६ ॥

भ्रमं भ्रान्तिम् । सम्भ्रमो मोहः ॥ १६ ॥

कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना ।
यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥ १७ ॥

दुःस्पर्"अः स्प्रष्टुमशक्यः शोकवह्निस्तेन हृदि चित्ते दह्यते ॥ १७ ॥

सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने ।
मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥ १८ ॥

दोषमार्जनेन निर्मला । औदार्येण । विस्तीर्णा । गुणाधानैः
[गुणाधानेन] पावनी । चकारः
शैत्यमाधुर्याद्यनुक्तसमुच्चयार्थः ॥ १८ ॥

शक्यते घनकल्लोला भीमा लङ्घयितुं नदी ।
न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ १९ ॥

तारुण्येन तरला चञ्चला चित्तवृत्तिः । भोगतृष्णया तरलितानि
आन्तराणीन्द्रियाणि यस्याम् ॥ १९ ॥

सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् ।
तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥ २० ॥

जर्जरतां शैथिल्यम् ॥ २० ॥

नरं तरलर्ष्णार्ति युवानमिह साधवः ।
पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा ॥ २१ ॥

तरलास्तृष्णार्तयो यस्मिन् । न [नेति क्वचिन्न लभ्यते] केवलं न
पूजयन्ति किन्त्ववमन्यन्तेऽपीति द्योतनाय तु शब्दः ॥ २१ ॥

नाशायैव मदार्तस्य दोषमौक्तिकधारिणः ।
अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥ २२ ॥

मानभङ्गस्तु मनस्विनां मरणोपम इत्यभिप्रेत्याह - नाशायैवेति ।
अभिमान एव महेभस्तस्य अथवा अभिमानैर्महेभवत्स्तब्धस्याविवेकि##-
॥ २२ ॥

मनोविपुलमूलानां दोषाशीविषधारिणाम् ।
शोषरोदनवृक्षाणां यौवनं बत काननम् ॥ २३ ॥

इष्टालाभवियोगाभ्यामन्तर्दाहाच्छोषस्तद्युक्तरोदनान्येव वृक्षाः । दोषा
एवाशीविषाः सर्पाः । बतेति खेदे ॥ २३ ॥

रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।
दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ २४ ॥

रस्यते इति रसः सुखलवमकरन्दस्तेन के सुखे विषये सरन्ति प्रसरन्तीति
रागादय एव केसरास्तैश्च सम्बाधं निबिडितम् । दलानि पत्राणि । चञ्चरीका
भ्रमारः । पुष्करं पद्मम् ॥ २४ ॥

कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।
आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥ २५ ॥

कृतं पापमकृतं पुण्यं लौकिककार्याणि वा कृताकृतानि
पतनहेतुत्वात्कु-पक्षाः । आलयो नीडम् ॥ २५ ॥

जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।
अमपेक्षितमर्यादो वारिधिर्नवयौवनम् ॥ २६ ॥

असङ्ख्यत्वादेव गतसङ्ख्यानां कल्लोलानां विकल्पतरङ्गाणाम् । विलासिनां
विलसनशीलानाम् । अनपेक्षितमर्यादोऽनवधिः । अनपेक्षित-मनिष्टं
जरादिदुःखमेव मर्यादा पर्यवसानभूर्यस्येति वा ॥ २६ ॥

सर्वेषां गुणसर्गाणां परिरूढरजस्तमाः ।
अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः ॥ २७ ॥

चिताकाशे प्रसादप्रकाशविवेकदृक्प्रसरादीनां सर्वेषां गुणानां
सृज्यन्ते साधुसङ्गमसच्छास्त्रप्रयत्नादिभिरुत्पाद्यन्त इति सर्गास्तेषाम् ।
विशेष्यविशेषणभावे कामचारात्परनिपातः । प्रयत्नसहस्रसाधितानामपि
[साध्यानामपि] सद्गुणानामिति यावत् । स्थितिं स्थैर्यमपनेतुं दक्षः
समर्थः । अनिलपक्षे गुणसर्गाणां लूतासृष्टतन्तूनां च ॥ २७ ॥

नयन्ति पाण्डुतां वक्रमाकुलावकरोत्कटाः ।
आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ २८ ॥

पाण्डुतामिति । विषयवासनोत्थरोगैरित्यर्थः । आकुलैश्चालितैरवकरैरुत्करा##-
दोषोत्कर्ष-मूर्ध्वदेशं च ॥ २८ ॥

उद्बोधयति दोषालिं [विकृन्नति] निकृन्तति गुणावलिम् ।
नराणां यौवनोल्लासो विलासो दुऋकृतश्रियाम् ॥ २९ ॥

दोषाणामालिं समूहम् । दुष्कृतश्रियां पापसम्पदां
विलासहेतुत्वाद्विलासः ॥ २९ ॥

शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् ।
निबन्धन्मोहयत्येष नवयौवनचन्द्रमाः ॥ ३० ॥

रजोगुणपरागनिरुद्धविवेकपक्षत्वाद्देहपङ्कज एव चञ्चलां मतिषट्पदीं
बुद्धिभ्रमरीमर्थात्तदभिमानकोशे निबध्नन्मोहयति ॥ ३० ॥

शरीरखण्डकोद्भूता रम्या यौवनवल्लरी ।
लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥ ३१ ॥

शरीरलक्षणे खण्डके अल्पे वनखण्डे कुञ्जे वा । वल्लरी पुष्पमञ्जरी ।
मदयति मोहयति । उन्नतिमुत्कर्षमूर्ध्वदेशं च ॥ ३१ ॥

शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् ।
मनोमृगाः प्रधावन्तः पतन्ति विषयावटे ॥ ३२ ॥

शरीरमेव मरुभूमिस्तत्र कामातपतापेनोत्थां प्रतिभातां युवता यौवनं
सैव मृगतृष्णिका तां प्रति धावन्तः । विषयलक्षणे अवटे गर्ते ॥ ३२ ॥

शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा ।
लहरी जीविताम्भोधेर्युवता मे न तुष्टये ॥ ३३ ॥

शरीरमेव शर्वरी रात्रिस्तस्या ज्योत्स्ना चन्द्रिका । चित्तलक्षणस्य केसरिणः
सटास्कन्धलोम । तेन हि स शोभते । लहरी वीचिमाला ॥ ३३ ॥

दिनानि कतिचिद्येयं फलिता देहजङ्गले ।
युवता शरदस्यां हि न समाश्वासमर्हथ ॥ ३४ ॥

येयं युवता सेयं हि यस्माद्देहजङ्गले कतिचिद्दिनानि फलिता सञ्जातफला
शरत् शरत्कालः । अचिरादेव क्षयमेष्यतीति भावः । अतोऽस्यां समाश्वासं
नार्हथेति स्वजनान्प्रत्युक्तिः ॥ ३४ ॥

झटित्येव प्रयात्येव शरीराद्युवताखगः ।
क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ ३५ ॥

उक्तमेव प्रपञ्चयति - झटितीत्यादिभिः षड्भिः ॥ ३५ ॥

यदा यदा परां कोटिमध्यारोहति यौवनम् ।
वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् ॥ ३६ ॥

परां कोटिमुत्कर्षकाष्ठाम् । वल्गन्ति गच्छन्ति । वृद्धमिति यावत् । सज्वराः
ससन्तापाः । पूर्वत्र वीप्सादर्शनात्तदातदेति परिणेयम् ॥ ३६ ॥

तावदेव विवल्गन्ति रागद्वेषपिशाचकाः ।
नास्तमेति समस्तैषा यावद्युवनयामिनी ॥ ३७ ॥

विवल्गन्ति विशेषेण सञ्चरन्ति । यामिनी रात्रिः ॥ ३७ ॥

नानाविकारबहुले वराके क्षणनाशिनि ।
कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥ ३८ ॥

विकाराश्चित्तविकारा बाललीलाश्च ॥ ३८ ॥

हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना ।
यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ ३९ ॥

क्षणभङ्गिना यौवनेन मोहाद्यो हर्षमायाति स नरमृगो मनुष्यः
सन्नपि पशुरेव । यतोऽसौ महामुग्धः ॥ ३९ ॥

मानमोहान्मदोन्मत्तं यौवनं योऽभिलष्यति ।
अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥ ४० ॥

मानमोहादभिमानसहितादज्ञानात् । अभिलष्यति सारबुद्ध्या सज्जते ॥ ४० ॥

ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि ।
ये सुखेन समुत्तिर्णाः साधो यौवनसङ्कटात् ॥ ४१ ॥

सुखेन अहिंसासत्यास्तेयब्रह्मचर्याद्यनुपक्षयेण ॥ ४१ ॥

सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः ।
न कल्लोलबलोल्लासि सदोषं हतयौवनम् ॥ ४२ ॥

उत्कृष्टानां महतां मकराणां ग्राहाणामाकरः खनिः ।
रागादिकल्लोलानां बलेनोल्लसनशीलम् । हतं निन्दितम् । कुत्सितानि कुत्सनैः इति
तत्पुरुषः ॥ ४२ ॥

विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः ।
इह हि दुर्लभमङ्ग सुयौवनं जगति काननमम्बरगं यथा ॥ ४३ ॥

ननु बाल्यवार्थकयोर्मौर्ख्याशक्तिभ्यां [मौग्ध्याशक्तिभ्याम्]
पुरुषार्थसाधनायोग्यत्वाद्यौवनस्यापि दोषबहुलत्वान्नास्ति कदापि पुरुषस्य
साधनसम्पत्त्या [पुरुषार्थं प्रत्याशेति]
पुरुषार्थप्रत्याशेत्याशङ्क्य न सर्वं यौवनं निन्द्यते किन्तु
दुर्यौवनमेव सुयौवनं तु पुरुषार्थपर्यवसितमेवेति
लक्षणैस्तद्दर्शयंस्तस्य दुर्लभतामाह - विनयेति । आर्याः पूज्या जना
मुनिजना आस्पदं स्थानं यस्य आर्यजनानां
साधुनामास्पदमावासस्थानवद्विश्रान्तिदमिति वा । गुणैः
शान्तिदान्त्यादिभिः । जगति संसारे । हिशब्दोऽप्यर्थे । इहास्मिन्मनुष्यजन्मन्यपि
सुदुर्लभं किमन्यत्रेत्यर्थः । अम्बरगं काननं नन्दनवनम् । तत्पक्षे वीन्
पक्षिणो नयन्ति प्रापयन्ति स्वसन्निधिमिति विनयाः कल्पवृक्षास्तैर्भूषितम् ।
आर्यजना देवास्तेषामास्पदम् । अतएव करुणया दयया ऊर्जितम् । गुणैः
फलपुष्पसमृद्ध्यादिभिः कल्पलतागुणैरावलितं वेष्टितमिति वा । इह भुवि
सुदुर्लभमिति योज्यम् ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
यौवनगर्हा नाम विंशतितमः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे यौवनगर्हा
नाम विंशतितमः सर्गः ॥ २० ॥