एकोनविंशः सर्गः १९
श्रीरम उवाच ।
लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि ।
संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥ १ ॥
अज्ञानक्षुत्तृषारोगाशौचचापलदूषितम् ।
तिर्यग्जन्तुसमावस्थं बाल्यमप्यत्र निन्द्यते ॥
ननु न देहस्य सर्वा अवस्था दुःखरूपास्तद्बाल्यस्य सर्वजनस्पृहणीयतया
रम्यतरत्वात् तद्यथा महाराजो वा महाब्राह्मणो वा महाकुमारो वा
अतिघ्नीमानन्दस्य गत्वा शयीत इति श्रुत्यापि बाल्यस्यानन्दबहुलत्वप्रति##-
- लब्ध्वापीति । कार्यभारैर्नानाकर्तव्याभिनिवैशैः ।
प्रकृत्यादित्वात्तृतीया । धान्येन धनवातिवत्तद्धितप्रकृत्यर्थे
अभेदेनान्वयः । तरला अस्थिरा आकाराश्चतुर्विधशरीराणि यस्मिन् । अन्यत्र
चञ्चलस्वभावे संसारसागरे जन्म मनुष्यजन्म । बाल्यं केवलं
दुःखायैव लभते जन्तुरिति शेषः । अपिना मनुष्यजन्मनोऽतिदौर्लभ्यं द्योत्यते
। तथाच श्रुतिः ततो वै तद्दुर्निष्प्रपतरम् इति ॥ १ ॥
अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥ २ ॥
प्रतिज्ञातार्थं प्रपञ्चयति - अशक्तिरित्यादिना । गृध्नुता साभिलाषता ।
तृष्णा भक्षणादिविषये । गृध्नुता क्रीडाकौतुकादिविषये तदलाभे
दैन्यमिति भेदः ॥ २ ॥
रोषरोदनरौद्रासु दैन्यजर्जरितासु च ।
दशासु बन्धनं बाल्यमालानं करिणामिव ॥ ३ ॥
चकारोऽनुक्तानन्तदुर्दशासमुच्चयार्थः । बन्धनम् । अधिकरणे ल्युट् । आलानं
गजबन्धनस्तम्भः ॥ ३ ॥
न मृतौ न जरारोगे न चापदि न यौवने ।
ताश्चिन्ताः [विनिकृन्तति] परिकृन्तन्ति हृदयं शैशवेषु याः
॥ ४ ॥
जरारोगे । समाहारद्वन्द्वे एकवद्भावः । तास्तादृश्यः । परितः कृन्तन्ति
छिन्दन्तीव पीडयन्ति । या यादृश्यः ॥ ४ ॥
तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः ।
लोलो बालसमाचारो मरणादपि दुःखदः ॥ ५ ॥
तिर्यग्जातयः पश्वादयस्तैः सम आरम्भो यस्य । अवधीरितो भर्त्सितः ॥ ५ ॥
प्रतिबिम्बघनाज्ञानं नानासङ्कल्पपेलवम् ।
बाल्यमालूनसंशीर्णमनः [संशीर्णं मन] कस्य
सुखावहम् ॥ ६ ॥
पुरःस्थितं प्रतिबिम्बमिव स्फुटं घनं निबिडं अज्ञानं प्रतिक्षणं चित्ते
तत्तद्विषयप्रतिबिम्बनैर्वा घनानि बहुलानि भ्रान्तिज्ञानानि यस्मिन् । अतएव
नानासङ्कल्पैः पेलवं मृदु । तुच्छमिति यावत् । तत्तत्सङ्कल्पित##-
यस्मिन् ॥ ६ ॥
जलवह्न्यनिलाजस्रजातभीत्या पदे पदे ।
यद्भयं शैशवेऽबुद्ध्या कस्यापदि हि तद्भवेत् ॥ ७ ॥
भयं लक्षणया दुःखं मुख्यमेव वा भयादपि भयान्तरोत्पत्तेः ।
अबुद्ध्याऽज्ञानेन । हिशब्दोऽप्यर्थे ॥ ७ ॥
लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमं मोहमाधत्ते बालो बलवदापतन् ॥ ८ ॥
सामान्यविशेषाभ्यां बुद्ध्यबुद्धिपूर्वकत्वाभ्यां [कायिकत्वेनेति
क्वचिन्न] कायिकत्वेन मानसत्वेन च लीलादीनां भेदः । मोहं
सारताभ्रमम् ॥ ८ ॥
विकल्पकल्पितारम्भं दुर्विलासं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ॥ ९ ॥
निष्फलेऽपि कर्मणि बालप्रमत्तादिवचनादपि कौतुहलेन कल्पितमहारम्भम् ।
दुरास्पदं दुष्प्रतिष्ठम् । शासनाय गुर्वादिकृतकशाताडनादिदुःखा##-
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये [दुर्गते इव] दुर्गर्त इव कौशिकाः ॥ १० ॥
दुष्क्रमा दुरुत्तराः । कौशिका वायसारात्यः ॥ १० ॥
बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये ।
तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हतचेतसः ॥ ११ ॥
यच्छङ्कितं बाल्यं रम्यतरमिति तत्राह - बाल्यमिति । श्रुतिस्तु रागादि##-
यत्र दोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्याऽभव्यमप्पि तत्कथं भवति तुष्टये ॥ १२ ॥
तदरम्यतामेवोपपादयति - यत्रेत्यादिना । त्रैलोक्ये अभव्यममङ्गलं
तदपीत्यन्वयः ॥ १२ ॥
सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि ।
मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥ १३ ॥
न केवलं मनुष्याणामेवाभव्यमपि तु सर्वजन्तूनामित्याह - सर्वेषामिति
। मनश्चाञ्चल्यातिशयस्य दुःखातिशयहेतुता प्रसिद्धैवेति भावः ॥ १३ ॥
मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् ।
तयोः संश्लिष्ट्यतोस्त्राता क इवान्तः कुचापले ॥ १४ ॥
संश्लिष्यतोर्मिलतोः । कुचापले तत्प्रयुक्तानर्थे ॥ १४ ॥
स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वालाजालैस्तरङ्गकैः ।
चापलं शिक्षितं ब्रह्मञ्छैशवाक्रान्तचेतसः ॥ १५ ॥
शैशवेनाक्रान्ताच्चेतसश्चित्तात्सकाशात् शिक्षितमभ्यस्तं नूनमित्युत्प्रेक्षा ॥
१५ ॥
शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु ।
भ्रातराविव लक्ष्येते सततं भङ्गुरास्थिती ॥ १६ ॥
भङ्गुरस्थिती । नुमभावश्छान्दसः । चपलस्वभावे ॥ १६ ॥
सर्वाणि दुःखभूतानि सर्वे दोषा दुराधयः ।
[बाल्यमेव] बालमेवोपजीवन्ति श्रिमन्तमिव मानवाः ॥ १७ ॥
दु।खभूतानि प्रभूतदुःखानि दुर्व्यसनादीनि ॥ १७ ॥
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तदसौ याति विषयैषम्यमूर्छनाम् ॥ १८ ॥
तत्तदा विषयद्दुःसहेन वैषम्येण चित्तविकारेण । मूर्छनां मूर्छाम् ॥ १८ ॥
स्तोकेन वशमायाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ॥ १९ ॥
कौलेयकः श्वा । विशेषणानि साधारणानि ॥ १९ ॥
अजस्रबाष्पवदनः कर्दमाक्तो जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥ २० ॥
बाष्पमश्रु ऊष्मोद्गमश्च । जडाशयोऽज्ञबुद्धिरचेतनश्च ।
वर्षोक्षिततप्तभूमावपि बाष्पादयः प्रसिद्धाः ॥ २० ॥
भयाहारपरं दीनं दृष्टादृष्टाभिलाषि च ।
लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् ॥ २१ ॥
भयं च आहारश्च भयाहारौ । दृष्टं सन्निहितम् । अदृष्टमसन्निहितम् ।
लोले बुद्धिवपुषी यस्य ॥ २१ ॥
स्वसङ्कल्पाभिलषितान्भावानप्राप्य तप्तधीः ।
दुःखमेत्यबलो बालो [विनिष्कृत] विनिष्कृत्त इवाशये ॥ २२ ॥
भावान्पदार्थान् । विनिष्कृत्तश्छिन्नः ॥ २२ ॥
दुरीहालब्धलक्षाणि [लक्ष्याणि] बहुवक्रोल्बणानि च ।
[बाल्यस्य] बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥ २३ ॥
दुरीहाभिर्दुश्चेष्टाभिर्दुष्टमनोरथैर्वा लब्धलक्षाणि प्राप्तास्पदानि ।
बहुभिर्वक्रैरनृजुभिर्वञ्चनोपायैरुल्बणानि क्रूराणि ॥ २३ ॥
बालो बलवता स्वेन मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली ॥ २४ ॥
विद्यागृहगतो बालो परामेति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ॥ २५ ॥
अपरां प्रागुक्तादन्यामपि कदर्थनां पारवश्यकशाघाद्यनिष्ट##-
नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥ २६ ॥
मिथ्यावस्तुष्वेव कल्पिता कल्पना सत्यताबुद्धिर्यस्याम् ॥ २६ ॥
संहृष्टो भुवनं भोक्तुमिन्दुमादातुमम्बरात् ।
वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥ २७ ॥
कदाचिद्भोजनेच्छया रुदन्बालो भुवनं ते भोजनं दास्यामीति प्रतारणेन
संहृष्टस्तदेव भोक्तुं वाञ्छते वाञ्छतीति प्रसिद्धम् ॥ २७ ॥
अन्तश्चित्तेरशक्तस्य शीतातपनिवारणे ।
को विशेषो [महाबाहो] महाबुद्धे बालस्योर्वीरुहस्तथा ॥ २८ ॥
अन्तर्मनै चित्तिः शीतातपादिदुःखसंवेदनं यस्य । उर्वीरुहोवृक्षस्य ॥ २८ ॥
उड्डीतुमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यं बाला विहगधर्मिणः ॥ २९ ॥
उड्डीतुमुड्डयितुम् । इङ्गुणाभावश्छान्दसः । पक्षाभ्यां लक्षणया
बाहुभ्याम् । विहगधर्मिणः पक्षिसमाः ॥ २९ ॥
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।
जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ ३० ॥
सकलदोषदशाविहताशयं शरणमप्यविवेकविलासिनः ।
इह न कस्यचिदेव महामुने भवति बाल्यमलं परितुष्टये ॥ ३१ ॥
सकलाभिर्दोषदशाभिर्विहताशयं दूषितान्तःकरणम् । अविवेकलक्षणस्य
विलासिनो निरङ्कुशविहारशीलस्य शरणं गृहम् । चिदिति निपातोऽप्यर्थे ।
एवकारो भिन्नक्रमः । कस्यापि परितुष्टये सुखाय अलमत्यर्थे नैव
भवतीत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
बाल्यजुगुप्सानामैकोनविंशः सर्गः ॥ १९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
बाल्यजुगुप्सानामैकोनविंशः सर्गः ॥ १९ ॥