१८

अष्टादशः सर्गः १८

श्रीराम उवाच ।

आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् ।
देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ १ ॥

आधिव्याधिबहुक्लेशजरामरणभङ्गुरः ।
निदानं मानतृष्णादेर्देह एवात्र निन्द्यते ॥

अस्तु तृष्णा दुःखहेतुस्तथापि जीवन्भद्राणि पश्यति इति न्यायाद्देहस्य
सुखभोगायतनत्वप्रसिद्धेः सर्वेषां तत्र प्रीत्यतिशयदर्शनाच्च
सुखहेतुत्वमित्याशङ्क्य तस्यापि दुःखहेतुत्वमेवेत्युपपादयति -
आर्द्रेत्यादिना । आन्त्राण्युदरस्थमलमूत्रादिभस्त्राः । तन्त्र्यो नाड्यः । परितः
पातः पतनोपघातो मरणं च ॥ १ ॥

अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः ॥ २ ॥

अज्ञो जडोऽपि तज्जडं जानातीति तज्झ आत्मा तत्सदृशस्तत्प्रायः । स्वतस्ता##-
आत्मचमत्कृतिरध्यस्तचित्तादात्म्यं यस्मिन् । भव्यो मोक्षाधिकारसम्पत्तौ ।
न जडो नेतरजडतुल्यः ॥ २ ॥

जडाजडदृशोर्मध्ये दोलायितदुराशयः ।
अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥ ३ ॥

अतएव चिज्जडदृष्ट्योर्मध्ये किमयमात्मकोटौ स्यादुतानात्मकोटाविति
संशये दोलायितोऽनिर्णयदुष्ट आशयो मनो यस्मिन् । विवेकः शोधस्तच्छुन्य##-
अजडदृग्विवेकी तयोराद्योऽस्मिन्देहे आत्मबुद्ध्या मोहं संसारमेव
प्रपश्यति न पुरुषार्थम् । यतोऽसौ दोलायितदुराशयः । चञ्चलाशुद्धचित्त
इत्यर्थः ॥ ३ ॥

स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् ।
नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ४ ॥

स्तोकेनाल्पेनान्नपानादिना शीतातपादिना च । नीचोअधमोऽशुचिरिति यावत् ॥ ४ ॥

आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ५ ॥

उपेक्षार्हतां वक्तुं वृक्षत्वेन रूपयति [रूपयति चतुर्भिः] -
आगमेत्यादिचतुर्भिः । प्रतिक्षणं प्रतिहर्षलवं प्रत्यार्तवं च ॥ ५ ॥

भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः ।
लोचनालिबिलाक्रान्तः शिरः पीठबृहत्फलः ॥ ६ ॥

घन उन्नतः स्कन्ध्ॐऽसः शाखा मूलं च । द्विजा दन्तास्त एव श्लेषात्प##-

श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः ।
गुल्मवान्कार्यसङ्घातो विहङ्गमकृतास्पदः [ततास्पद] ॥ ७ ॥

श्रवौ कर्णौ तावेव दन्तेन रसयत इति दन्तरसौ काष्ठकुट्टकाख्यौ
पक्षिणौ ताभ्यां ग्रस्तश्चञ्चुप्रहारैः कुट्टित इव सच्छिद्रः । गुल्मं
रोगविशेषो मूलप्ररोहाश्च तद्वान् । कार्यः कर्तुं शक्यः सम्यक् घात##-
मन्त्रप्रसिद्धौ जीवेश्वरौ बुद्धिजीवौ वा ताभ्यां दृतहृदयनीडः ॥ ७ ॥

सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः ।
कस्यात्मीयः कस्य पर आस्थानास्थे [आस्थानास्था] किलात्र के ॥ ८ ॥

छाया कान्तिः प्रसिद्धच्छाया च । परः शत्रुः । आस्था प्रीतिरनास्था
द्वेषशात्रास्मिन्देहतरौ के अयुक्ते इत्युपेक्ष्य इति भावः ॥ ८ ॥

तात सन्तरणार्थेन गृहीतायां पुनः पुनः ।
नावि देहलतायां च कस्य स्यादात्मभावना ॥ ९ ॥

नन्वात्मत्वेन सर्वजनप्रसिद्धोऽयं कथमुपेक्ष्यस्तत्राह - तातेति ।
सन्तरणमायुर्नद्याः संसाराम्बुधेर्वा परतीरगमनम् । नावि नौकायाम् ॥ ९

देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनुरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ १० ॥

विश्वासं निःशङ्कचिरावस्थानयोग्यताप्रत्ययम् ॥ १० ॥

मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे ।
मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥ ११ ॥

स्नायवः शिराः । पटहो वाद्यविशेषः । अदृढे असारे सच्छिद्रे च ।
गतध्वनौ अप्राप्तिनिर्गमनोपायोपदेशशब्दे ॥ ११ ॥

संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥ १२ ॥

देहमेव पुनः षड्भिः प्लक्षत्वेन रूपयति - संसारेत्यादिना । घुणाः
काष्ठकीटास्तैः क्षतश्छिद्रितः ॥ १२ ॥

तृष्णाभुजङ्गमीगेह। कोपकाककृतालयः ।
स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥ १३ ॥

प्लक्षस्य त्वक्पल्लवादेर्माङ्गलिकत्वेन पुण्योद्गमहेतुत्वात्स्थितपुण्योद्गमः ।
पुष्पोद्गम इति वा पाठः ॥ १३ ॥

सुरस्कन्धौघलताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्तिताशेषस्वाङ्गावयवपल्लवः ॥ १४ ॥

स्कन्धशब्देन बाहू लक्ष्येते । लते शाखे । समे शास्त्रालते इत्यमरः ।
ओघजालशब्दौ शरीरभेदेन नेयौ । जात्यैक्येनैव प्लक्षत्वरूपणात्
[निरूपणात्] । पवनोऽत्र प्राणः ॥ १४ ॥

सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ १५ ॥

शोभने जानुनी मध्यमपर्वणी यस्य स तथाविधोऽधःकाय एव
स्तम्भसदृशो भागो यस्य । स यावत्सरसच्छायया यौवनकान्त्या
शीतलच्छायया च युक्तस्तावत्कामपान्थनिषेवितः इत्यर्थः ॥ १५ ॥

मूर्धसञ्जनिताऽऽदीर्घशिरोरुहतृणावलिः ।
अहङ्कारगृध्रकृतकुलायः सुषिरोदरः ॥ १६ ॥

आदीर्घेति छेदः । प्लक्षोपर्यपि क्वचित्तृणोत्पत्तिः प्रसिद्धा ॥ १६ ॥

विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः ।
व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥ १७ ॥

विभक्तवासनालक्षणप्ररोहजटाजालवेष्टितमूलत्वाद्दुर्लवा दुरुच्छेदा
आकृतिः स्वरूपं यस्य । व्यायामः श्रमः स एव विविध आयामो
विटपदैर्घ्यं तेन विरसः प्रियसंस्पर्शहीनो रूक्षश्च ॥ १७ ॥

कलेवरमहङ्कारगृहस्थस्य महागृहम् ।
लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥ १८ ॥

लुठतु भूमौ पतित्वा परिवर्तताम् ॥ १८ ॥

पङ्क्तिबद्धेन्द्रियपशुं बलत्तृष्णागृहाङ्गनम् ।
रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥ १९ ॥

वलन्ती मुहुः प्रसरन्ती तृष्णालक्षणा गृहस्वामिनी यस्मिन् । अतएव रागेण
कामेन गैरिकादिरञ्जकद्रव्येण च रञ्जितानि सर्वाङ्गानि यस्मिन् ॥ १९ ॥

पृष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् ।
आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम ॥ २० ॥

पृष्ठास्थिलक्षणकाष्ठानां सङ्घट्टनेन परितः सङ्कटः
सङ्कुचितावकाशः कोटरो यस्य । [अन्त्राणि] आन्त्राणि
मलमूत्रान्नरसादि-प्रसारार्था दीर्घपेश्यः ॥ २० ॥

प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥ २१ ॥

स्नायवः शिरास्ता एव तन्त्र्यो वीणादिसूत्राणि बन्धनरज्जवो वा यस्मिन् ।
अस्वाङ्गत्वात् नाडीतन्त्र्योः स्वाङ्गे इति न कन्निषेढः । मङ्कोलं चूर्णम् ॥ २१

चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥ २२ ॥

अवष्टम्भः पतनप्रतिविधानम् । मिथ्या अनृतं मोहोऽज्ञानं च स्थूणे
आधारस्थम्भौ । कर्मधारयो वा ॥ २२ ॥

दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् ।
दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥ २३ ॥

दुरीहा दुश्चेष्टा सैव दग्धा दाहव्रणपीडिता दासी यस्मिन् ॥ २३ ॥

मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् ।
अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥ २४ ॥

अतएव मलाढ्यैर्दोषबहुलैरनिर्णिक्तैश्च विषयव्यूहलक्षणैर्भाण्डैरूप##-

गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥ २५ ॥

जङ्घास्तम्भस्य गुल्फो गुग्गुलुः आधारकाष्ठस्थानीयस्तत्र विश्रान्तस्य
प्रतिष्ठितस्यार्थात् जङ्घास्तम्भस्य जानु मस्तकं तदपि स्वाधाराधारे
परम्पर्या प्रतिष्ठितमेव । मूलशैथिल्ये सर्वशैथिल्यापत्तेः । दोषौ बाहू ॥ २५

प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ २६ ॥

प्रकटाण्यक्षाणि ज्ञानेन्द्रियाणि । प्रज्ञा बुद्धिः । प्रकटेति तद्विशेषेणं
क्रियाविशेषणं वा ॥ २६ ॥

मूर्धजाच्छादनछन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥ २७ ॥

मूर्धजाः केशास्त एव च्छादनं छदिः । कर्णावेव कुण्डलमुक्तादि##-

सर्वाङ्गकुड्यसङ्घातघनरोमयवाङ्कुरम् ।
संशून्यपेटविवरं नेष्टं देहगृहं मम ॥ २८ ॥

पेटविवरमुदरच्छिद्रम् ॥ २८ ॥

नखोर्णनाभिनिलयं सरमारनितान्तरम् ।
भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥ २९ ॥

सरमा शुनीव भ्रमणदैन्यकलहादिकारिणी क्षुत्तया रणितान्तरम् । भाङ्कारो
भीषणध्वनिः ॥ २९ ॥

प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।
वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥ ३० ॥

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ३१ ॥

मर्कटिका प्रसिद्धा कवाटविष्कम्भकाष्ठं वा ॥ ३१ ॥

त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् ।
मनः सदाखुनोत्खातं नेष्टं देहगृहं मम ॥ ३२ ॥

सुधा चूर्णम् । त्वगेव सुधालेपस्तेन मसृणं स्निग्धम् । यन्त्राणि
घरट्टशकटादीनि तेषामिव सन्धीनां सञ्चारो भ्रमणादिस्तेषामेव
सञ्चारो वा । मन एव सदातन आखुर्मूषकस्तेनोत्खातमिव शैथिल्य##-

स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् ।
क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ॥ ३३ ॥

स्मितानि ईषद्धसितान्येव दीपाः । तमःपूरैरज्ञानान्धकारप्रवाहैः ॥ ३३ ॥

समस्तरोगायतनं वलीपलितपत्तनम् ।
[सर्वातिसार] सर्वाधिसारगहनं नेष्टं देहगृहं मम ॥ ३४

वली त्वक्शैथिल्यम् । पत्तनं नगरं निवासस्थानमिति यावत् । आधयो
मानसदुःखानि तान्येव सारः प्राधान्येन भोग्यत्वात्तैर्गहनं
दुर्गममरण्यायमानं वा ॥ ३४ ॥

अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।
तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥ ३५ ॥

अक्षाणीन्द्रियाण्येव ऋक्षा बल्लुकाः ॥ ३५ ॥

देहालयं धारयितुं न शक्नोमि मुनीश्वर ।
पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ३६ ॥

किं श्रिया किं च राज्येन किं कायेन किमीहितैः ।
दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥ ३७ ॥

ईहितैश्चेष्टितैर्मनोरथैर्वा । निकृन्तति छिनत्ति ॥ ३७ ॥

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३८ ॥

सबाह्याभ्यन्तरं विमृश्येति शेषः ॥ ३८ ॥

मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥ ३९ ॥

नानुसरन्ति नानुगच्छन्ति । कृतं पालनपोषणाद्युपकारं घ्नन्ति प्रत्युप##-

मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ४० ॥

चलश्चपलः । लम्बं लम्बमानं यदम्बु जलकणः । सन्निधानान्मत्तेभ##-

पवनस्पन्दतरलः पेलवः कायपल्लवः ।
जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥ ४१ ॥

आधिव्याधिकण्टकशतक्षतत्वाज्जर्जरः शिथिलः । तनुवृत्तः क्षुद्रस्वभावः
॥ ४१ ॥

भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् ।
तनुतामेत्य यत्नेन विनाशमनुधावति ॥ ४२ ॥

बालपल्लवमिव पेलवां मृद्वीं तनुतां कार्श्यम् । पेलवमिति पाठे
क्रियाविशेषणम् । आश्रयद्वारा उभयत्रापि योग्यता ॥ ४२ ॥

तान्येव सुखदुःखानि भावाभावमयान्यसौ ।
भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥ ४३ ॥

तानि पुनः पुनः पूर्वोपभुक्तान्येव । वीप्सितार्थस्यैव बुद्ध्यारूढस्य
सर्वनाम्ना परामर्शाद्विनापि द्विर्वचनं [र्वचनं वा लभ्यते]
वीप्सा लभ्यते । प्राकृतः पामरः ॥ ४३ ॥

सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ४४ ॥

संसेव्य सम्प्राप्य । उच्छ्रायमुपचयमुत्कर्षं वा । स्थैर्यमविनाशिताम् ॥ ४४

जराकाले जरामेति मृत्युकाले तथा मृतिम् ।
सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥ ४५ ॥

संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस्थिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ४६ ॥

तृष्णैव कुहरकमल्पच्छिद्रम् । सुप्तः सुप्त इव मूढः । अतएव मुक्तेह
आत्मोद्धारानुकूलेच्छाचेष्टाविधुरोऽतएव मूको गुरूपसर्पणेन
तत्प्रश्नादिवाग्विकलश्च । कच्छोपलक्षितदुरिन्द्रियैर्दुर्विषयकर्दमरसा##-

दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाविहोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ४७ ॥

दहनमेवैकोऽर्थो मुख्यं प्रयोजनं तद्योग्यानि । तेषु तेषां मध्ये ॥ ४७ ॥

दीर्घदौरात्म्यवलया निपातफलपातया ।
न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ४८ ॥

वलनं वलः प्रतानवेष्टनम् । निपातोऽधोगतिस्तत्फलस्तत्पर्यवसितः पातो
मरणं यस्याः । निपातफलैर्दुश्चरितैः पातो यस्या इति वा ॥ ४८ ॥

मज्जन्कर्दमकोशेषु झटित्येव जरां गतः ।
न ज्ञायते यात्यचिरात्कः कथं देहदर्दुरः ॥ ४९ ॥

कर्दमकोशेषु पङ्काधारेषु विषयपल्वलेषु । कथं कैर्दुर्दशाप्रकारैः ।
दुर्दुरो मेकः ॥ ४९ ॥

निःसारसकलारम्भाः कायाश्चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ५० ॥

निःसारा नीरसाः । काया एव चपला वायवो झञ्झापवनाः । रजोमार्गेण
राजसप्रवृत्त्या धूलिमात्रपरिशेषेण वा धूलिसहितेनाकाशमार्गेणान्यत्र ॥
५० ॥

वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥ ५१ ॥

अत्र दीपशरीरयोर्गत्यागती विनाशोत्पत्ति पूर्वश्लोकादनुकृष्य शरीरस्य नेह
केनचिज्ज्ञायत इति सम्बन्धः ॥ ५१ ॥

बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ ।
तान्मोहमदिरोन्मत्तन्धिग्धिगस्तु पुनः पुनः ॥ ५२ ॥

आस्था सारत्वचिरस्थायित्वसत्यत्वाद्यभिमानः । कण्ठोक्तेऽपि पौनःपुन्ये
द्विर्वचनमतिशयार्थम् ॥ ५२ ॥

नाहं देहस्य नो देहो मम नायमहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ५३ ॥

अयमिदन्त्वेन घटादिवज्जडो देहोऽहं नेति विचार्य विश्रान्तचित्तः ।
परमात्मनीति शेषः । पुरुषोत्तमाः पुरुषश्रेष्ठाः विष्णुस्वरूपा एवेति वा ॥
५३ ॥

मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥ ५४ ॥

दोषदृशो दुर्दृष्टयो विशेष्याः । घ्नन्ति मृत्युवशं नयन्ति ॥ ५४ ॥

शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया ।
अहङ्कारचमत्कृत्या छलेन छलिता वयम् ॥ ५५ ॥

अहङ्कारस्य चमत्कृतिर्भोगतृष्णादिः सैव पिशाची । छलेन कपटेन छलिता
असारे सारतामापाद्य सारापहारेण प्रतारिताः ॥ ५५ ॥

प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया ।
मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥ ५६ ॥

प्रज्ञा सद्बुद्धिः । वराकी दीना । मिथ्याज्ञानमेव कुराक्षसी । एकिका
विवेकादिस्वसहायशून्या ॥ ५६ ॥

न किञ्चिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ५७ ॥

यदा दृश्यवर्गे न किञ्चिदपि सत्यं तदा तदन्तःपाति शरीरमपि तथैवेति
स्वत एव दग्धप्रायेणासतापि शरीरेण जीवसमूहः प्रतार्यते
चित्रमाश्चर्यमेतदित्यर्थः ॥ ५७ ॥

दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।
पतत्ययमयत्नेन जरठः कायपल्लवः ॥ ५८ ॥

यदि जनताविप्रलम्भेन कायस्य किञ्चित्प्रयोजनं स्यात्तदा युज्येतापि तदपि
नास्तीत्याह द्वाभ्याम् ॥ ५८ ॥

कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
व्यर्थं कार्यपरावर्ते परिस्फूरति निष्फलः ॥ ५९ ॥

कार्याणि सांसारिकधावनान्येव पर आवर्तोऽम्भसां भ्रमः । व्यर्थं
स्वार्थशून्यं यथा स्यात्तथा निष्फलः । परार्थशून्योऽपीत्यर्थः ॥ ५९ ॥

मिध्याज्ञानविकारेऽस्मिन्स्वप्नसम्भ्रमपत्तने ।
काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ६० ॥

कुतः कायादिदृश्यवर्गस्यासत्यत्वं तत्राह - मिथ्येति । यतो
मिथ्याभूतस्याज्ञानस्य विकार इत्यर्थः । स्वप्नसम्भ्रमनगरतुल्ये । अथवा
स्वाप्नभ्रान्तीनामाधारे । शरीरे एव स्वप्नदर्शनात् । स्वे शरीरे यथाकामं
परिवर्तत इति श्रुतेः । नगरस्य नागरिकव्यापारतुल्यसत्ताक-त्वादित्यर्थः ॥
६० ॥

तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ६१ ॥

विश्वसितु विश्वासं करोतु । विग्रहे देहे ॥ ६१ ॥

सतत्भङ्गुरकार्यपरम्परा विजयिजातजयं हठवृत्तिषु ।
प्रबलदोषमिदं तु कलेवरं तृणमिवाहमपोह्य सुखं स्थितः ॥ ६२ ॥

हठवृत्तिषु भङ्गुरताशैघ्र्ये स्वस्वोत्कर्षख्यापनाय बलात्प्रवृत्तेषु
पदार्थेषु मध्य् सततभङ्गुरकार्यसमूहविजयिनो ये ये तडिच्छरदभ्रा##-
नाशहेतुदोषसामग्रीबाहुल्यादित्यर्थः । अपोह्य तुछबुद्ध्या निरस्य ॥ ६२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
कायजुगुप्सानामष्टादशः सर्गः ॥ १८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
कायजुगुप्सानामष्टादशः सर्गः ॥ १८ ॥