सप्तदशः सर्गः १७
श्रीराम उवाच ।
हार्दान्धकारशर्वया तृष्णयेह दुरन्तया ।
स्फुरन्ति चेतनाकाशे [दोषाः कौशिक] दोषकौशिकपङ्क्तयः ॥ १
॥
सर्वपापौघजननी दैन्यकार्पण्यमृत्युदा ।
भ्रमयन्ती जगत्कृत्स्नं तृष्णैकात्र विनिन्द्यते ॥
हार्दस्य परमप्रेमास्पदस्य आत्मतत्त्वस्य हृदयोद्भवस्य विवेकादेश्च
तिरोधाने अन्धकारशर्वया तमिस्रया । दुरन्तया दुरुच्छेदया । इह चेतनाकाशे
जीवे । रागादिदोषलक्षणाः कौशिकपङ्क्तय उलुकश्रेणयः ॥ १ ॥
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ २ ॥
समूढे अपहृते रसमार्दवे स्नेहदये दाक्षिण्यविनयौ वा यस्य । शोषं
नैष्ठुर्यम् । प्रसिद्धे वा रसमार्दवे पङ्कसाधारणे । अथवा । सम्यगूढे
प्राप्ते रसमार्दवे येन तथाविधोऽहं सम्प्रति शोषं तच्छून्यतां नीत
इत्यर्थः ॥ २ ॥
मम चित्तमहारण्ये व्यामोहतिमिराकुले ।
शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ॥ ३ ॥
शून्ये विचारेण । अरण्यपक्षे जनैः ॥ ३ ॥
वचोरचितनीहारा काञ्चनोपवनोज्ज्वला ।
नूनं विकासमायाति चिन्ताचणकमञ्जरी ॥ ४ ॥
तत्तदार्तिविलापवचोभिर्विरचिताश्रुनीहारजलकणा । काञ्चनस्य स्वर्णादेरुप
समीपे वनं वननं मनोभिलाषातिशयस्तेन पाण्डुतापादनादुज्ज्वला । अन्यत्र
नीहारजलेनैव चणका वर्धन्त इति वचोभङ्ग्या निशारचिता नीहारजलकणा
यस्याम् । समीपस्थेन धत्तूरवनेनोज्ज्वलाशोभमाना चिन्तालक्षणा
चणकसस्यानां मञ्जरी अर्थात्तृष्णा क्षेत्रे विकासमायाति । नूनमित्युत्प्रेक्षा
॥ ४ ॥
अलमन्तर्भ्रमायैव तृष्णातरलिताशया ।
आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥ ५ ॥
तरलिताशया विक्षोभितचित्ता । अन्यत्र चञ्चलितमध्यभागा । तृष्णा
अम्बुनिधावूर्मिरिव अलमत्यर्थमन्तर्भ्रमायैव विषमोल्लासं कष्टबहलं
धनार्जनोत्साहं आयाता प्रापितवती [प्राप्तवती] । अन्यत्र भ्रमणायैव
विसदृशमूर्ध्वनाट्यं प्राप्तेत्यर्थः ॥ ५ ॥
उद्दामकल्लोलरवा देहाद्रौ वहतीह मे ।
तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी ॥ ६ ॥
उद्दामा उच्छ्रिताः अधिक्षेपानृतभाषणादयः प्रवृत्तिकल्लोलरवा यस्याः ।
अतएव उक्ततरङ्गैस्तरलाकारा तरन्ती विषयाद्विषयान्तरं प्लवमाना या
तृष्णा तल्लक्षणा तरङ्गिणी नदी मे देहपर्वते वहति प्रवहति ॥ ६ ॥
वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् ।
नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥ ७ ॥
वेगं स्वचापल्यम् । उदित उद्युक्तः । धर्ममेघाख्यसमाधिरसपानाये##-
वातसमूहेन क्वापि अयोग्ये विषये नीतः ॥ ७ ॥
यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ८ ॥
गुणश्रियां विवेकवैराग्यादिगुणसम्पदां विषये यां यामास्थामुत्##-
पयसीव जरत्पर्णं वायाविव जरत्तृणम् ।
नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ९ ॥
पयसि आवर्तजले ॥ ९ ॥
गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ १० ॥
आत्मीयं स्वीयमास्पदं प्रतिष्ठाम् । पारमार्थिकं रूपमिति यावत् । गन्तुं
प्राप्तुम् ॥ १० ॥
तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।
यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ११ ॥
आशङ्के सम्भावयामि ॥ ११ ॥
दूरं दूरमितो गत्वा समेत्य च पुनः पुनः ।
भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥ १२ ॥
द्विरुक्तिर्व्यवहितविप्रकृष्टविषयलाभाय ॥ १२ ॥
जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥ १३ ॥
धर्माधर्मरूपविषयानुसारात् कृतौ सम्पादितौ स्वर्गनरकयोर्गमागमौ
गमनागमने यया । क्षुब्धा सञ्चलिता । भोक्तृभोग्यतादात्म्यसंसर्गा##-
चत्वारि विषेषणानि प्रसिद्धान्येव ॥ १३ ॥
अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया ।
रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ १४ ॥
देहे अन्तर्मनसि [ग्रन्थितयेति क्वचित्] ग्रथितया प्रोतया बलीवर्दरज्जुपक्षे
नासादिप्रदेशे प्रोतया । वाह्यते ऐहिकामुष्मिकसाधनसहस्रभारमित्यर्थः ॥
१४ ॥
पुत्रमित्रकलत्रदितृष्णया नित्यकृष्टया ।
खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥ १५ ॥
नित्यं कृष्टमाकर्षणं यस्याह् स्वभावस्तथाभूतया तृष्णया किरात्या
खगेषु जालमिव इदं प्रसिद्धं पुत्रमित्रकलत्रादिजालं लोकेषु जनेषु रच्यते ॥
१५ ॥
भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् ।
खेदयत्यपि सानन्दं तृष्णा कृष्नेव शर्वरी ॥ १६ ॥
धीरं प्राज्ञं धैर्यवन्तं च । सेक्षणं विवेकचक्षुष्मन्तं प्रसिद्धं च ।
शर्वरी रात्रिः ॥ १६ ॥
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दशत्यपि मनाक्ष्पृष्टा तृष्ना कृष्णेव भोगिनी ॥ १७ ॥
कौटिल्यसहस्रवती । कोमलः सुखलवोन्मुखः स्पर्शो विषयलाभो यस्याः ।
परिणामे तु विषयसदृशं यद्वैषम्यं वैरबन्धवधादि
तच्छंसनशीला । दशतीव मोहयति । भोगिनीपक्षे स्पष्टोऽर्थः ॥ १७ ॥
भिन्दती हृदयं पुंसां मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ १८ ॥
मायाश्च आमया रोगाश्च तेषां मायाकार्यवञ्चनादीनां सर्वस्यैव वा
मायाकार्यप्रपञ्चस्य उत्पादनशीला । दौर्भाग्यं हतभाग्यता । दीना
दैन्यवती ॥ १८ ॥
तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥ १९ ॥
तन्द्रीभिः प्रमीलाभिस्तन्त्रीगणैर्नाडीसमूहैश्च परिवेष्टितं कोशं शरीरं
दधाना । जर्जरवल्लकी जीर्णस्फुटितालाबुका वीणा । सापि हि तन्द्र्या
अलाब्वन्तरसम्पादनालस्येन विच्छिन्नतन्त्रीभिः सीवनेन वेष्टितमलाबु##-
र्ष्णापि तृष्णाक्षयलभ्ये निर्विक्षेपनिरतिशयानन्दे न राजते । तथाचोक्तम्
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते
नार्हतः षोडशीं कलाम् ॥ इति ॥ १९ ॥
नित्यमेवातिमलिना कटुकोन्माददायिनी ।
दीर्घतन्त्री घनस्नेहा तृष्णा गह्वरवल्लरी ॥ २० ॥
कटुकः परिणामदुःखो य उन्मादस्तद्दानशीला । शेषं स्पष्टम् ।
गह्वरवल्लरी पर्वतगुहोत्पन्ना लता । सापि हि सूर्यरश्म्यसंस्पर्शान्नित्य##-
घनस्नेहा बहुनिर्यासा चेति तद्दर्शिनां प्रसिद्धम् ॥ २० ॥
अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ २१ ॥
तृष्णापक्षे स्पष्टोऽर्थः । अन्यत्र शून्या पुष्पैः । उन्नता
आम्रादेरूर्ध्वशाखासु स्थिता क्रूरा शुष्कत्वात्कण्टकप्राया ॥ २१ ॥
अनावर्जितचित्तापि सर्वमेवानुधावति ।
न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ २२ ॥
अनावर्जितमवशीकृतं चित्तं यया । फलं लाभं भोगं वा । जीर्णा कामिनी
वृद्धवेश्या ॥ २२ ॥
संसारवृन्दे महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ॥ २३ ॥
नानारसैः शोकमोहादिभिः नर्तकीपक्षे करुणहास्यबीभत्सादिभिः । रङ्गेषु
नृत्यशालासु ॥ २३ ॥
जराकुसुमितारूढा पातोत्पातफलावलिः ।
संसरजङ्गले दीर्घे तृष्णा विषलता तता ॥ २४ ॥
जङ्गले जीर्णारण्ये । तता विस्तीर्णा ॥ २४ ॥
यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।
न्ट्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ २५ ॥
न शक्नोति साधयितुमिति शेषः । अन्यत्र यद्यत्र गन्तुमिति शेषः । आनन्दरहितं
नैर्बल्येन निरुत्साहत्वात् ॥ २५ ॥
भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।
दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी ॥ २६ ॥
नीहारे वर्षावश्याये तत्सदृशमोहावरणे च स्फूरति नृत्यति । आलोके
विवेकप्रकाशे प्रकाशोपलक्षिते शरदि च । दुरलङ्घ्येषु असाध्यदुर्गमेषु ।
पदं व्यवसायं नीडं च ॥ २६ ॥
जडकल्लोलबहुला चिरं शून्यान्तरान्तरा ।
क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥ २७ ॥
फलजलान्यकाले चिरम् शून्या । तत्कालेऽपि अन्तरान्तरामध्ये मध्ये शून्या ।
उल्लासं फलजलसम्पत्त्योपचयम् । प्रावृट्तरङ्गिणी वर्षर्तुमात्रप्रवहा
नदी ॥ २७ ॥
नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् ।
पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ २८ ॥
नष्ट्ं नष्टफलम् । तृष्णालोला क्षुत्तड्व्याकुला ॥ २८ ॥
पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ २९ ॥
अलङ्घ्ये दुष्प्रापे दुर्लङ्घ्ये च । पदं व्यवसितं पादन्यासं च । फलं
लाभं शलाटुं च ॥ २९ ॥
इदं कृत्वेदमायाति सर्वमेवासमञ्चसम् ।
अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥ ३० ॥
इदं शुभमुचितं वा कृत्वा आरभ्य तदपरिसमाप्यैव
इदमशुभमनुचितं च असमञ्जसं प्रक्रमविरुद्धं सर्वमेव कार्यं
सहसैवायात्यनुसरति तथापि नोपरमते किन्तु अनारतं सर्वदैव यतते
शुभाशुभफलाय । यथा प्राणिकर्मानुसारिणो देवस्य विधातुश्चेष्टा तद्वत्
॥ ३० ॥
क्षणमायाति पातालं क्षणं याति नभस्थलम् ।
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृपद्मषट्पदी ॥ ३१ ॥
हृत्पद्मे षट्पदी भ्रमरिका । शेषं प्राग्व्याख्यातप्रायम् ॥ ३१ ॥
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ३२ ॥
दीर्घसुःखदा चिरदुःखदा । दीर्घबडिशरज्जुरिव वधकसन्निधावाकृष्य
मरणादिदुःखदा । तदेवोपपादयति - अन्तःपुरस्थमपीति ॥ ३२ ॥
पयच्छति परं जाड्यं परमालोकरोधिनी ।
मोहनीहारगहना तृष्णा जलदमालिका ॥ ३३ ॥
जाड्यं मौर्ख्यं शैत्यं वा । परमालोकः परं ज्योतिरात्मा सूर्यश्च ।
मोहयति पूर्वापरं दिग्विभागं चेति मोहोऽविवेकस्तद्रूपेण नीहारेण गहना
दुर्गमा ॥ ३३ ॥
सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् ।
परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥ ३४ ॥
यथा बहुनां पशूनां कण्ठदामभिः प्रोता मालोपमाना तिर्यग्दीर्घ##-
विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।
शून्या शून्यपदा तृष्णा शक्रकार्मुकधरिणी ॥ ३५ ॥
विचित्रविषयानुरञ्जितत्वाद्विचित्रवर्णा विविधविस्मयहेतुरूपवती च । विगुणा
असद्गुणा ज्याशून्या च । मलिनः पुरुषो मेघश्च संस्थितिराधारो यस्याः
स्वतस्तुच्छत्वाच्छून्या अवस्तुः मनोनभोधिष्ठितत्वाच्छून्यपदा ।
शक्रकार्मुकमिन्द्रायुधम् ॥ ३५ ॥
अशनिर्गुनसस्यानां फलिता शरदापदाम् ।
हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥ ३६ ॥
गुणलक्षणसस्यानां अशनिः । संवित्सरोजानां बोधपद्मानां हिमं
विघातिकेत्यर्थः । आपदां तु फलिता फलितसस्या शरद्वर्धिकेत्यर्थह् । एवं
तमसामपि हेमन्तरात्रिः ॥ ३६ ॥
संसारनाटकनटी कार्यालयविहङ्गमी ।
मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ३७ ॥
कार्यालयस्य प्रवृत्तिलक्षणनीडस्य गृहविटङ्कस्य वा । मानसा
मनोरथाः । वल्लकी वीणा ॥ ३७ ॥
व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।
सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका ॥ ३८ ॥
न्यग्रोहतीति न्यग्रोधो वटस्तस्य सुलता प्ररोहवल्ली । कैरवाणां कुमुदानाम् ॥
३८ ॥
जरामरणदुःखानामेका रत्नसमुद्रिका ।
आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥ ३९ ॥
समुद्गिका सम्पुटिका ॥ ३९ ॥
क्षणमालोकविमला [आलोकविषया] सान्धकारलवा क्षणम् ।
व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥ ४० ॥
आलोक ईषद्विवेकप्रकाशः । व्योमैव वीथी तदुपमा । नीहारसदृशैर्व्या##-
गच्छत्युपशमं तृष्णा कायव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ४१ ॥
एवं तृष्णामुपवर्ण्य तदुपशान्तिफलमाह - गच्छतीत्यादिना ।
कायव्यायामो देहप्रयुक्तश्रमस्तस्य शान्तये । मुक्तय इति यावत् । तमी
कृष्णपक्षरात्रिः । घनतमो मेघान्धकारस्तेन कृष्णा । सा यथा
रक्षोनिवृत्तये नक्तञ्चरप्रचाराभावाय उपशमं विनाशं गच्छति तद्वत्
॥ ४१ ॥
तावन्मुह्यत्ययं मूको लोको विलुलिताशयः ।
यावदेवानुसन्धत्ते तृष्णा विषविषूचिका ॥ ४२ ॥
मूकः अध्यात्मशास्त्रकथाशून्यः । लोको जनः । विलुलिताशयो व्याकुलचित्तः ।
विषविशेषप्रयुक्तविषूचिकारोगवन्मृत्युहेतुस्तृष्णा यावदेवानुसरन्ती
सन्धत्ते सम्यग्धारयति । न सन्त्यजतीत्यर्थः ॥ ४२ ॥
लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति ।
तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ॥ ४३ ॥
तर्हि तत्त्यागे क उपायस्तत्राह - लोक इति । चिन्तात्र विषयानुस्मरणम् । उज्झितया
त्यक्तया । तथाच भगवद्वाक्यम् - ध्यायतो विषयान्पुंसः
सङ्गस्तेषुप-जायते इति ॥ ४३ ॥
तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया ।
आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥ ४४ ॥
आमिषशङ्कया भक्ष्यमिति सम्भावनया । सा यथा अन्ते बडिशमप्यादा##-
रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् ।
उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ॥ ४५ ॥
रोगपीडा स्त्रीतृष्णा च । गम्भीरं धीरम् । उत्तानतां अधीरताम्
ऊर्ध्वविकासितां च ॥ ४५ ॥
अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।
मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥ ४६ ॥
ग्रन्थयो दृढाभिनिवेशाः पर्वाणि च । तृष्णाया अङ्कुरा"चिन्ताः । कण्टका
दुःखानि । मुक्तामणयश्च प्रिया यासाम् । वेणुलतापक्षे तासां मुक्ताकर##-
अहो बत महच्चित्रं तृष्णामपि महाधियः ।
दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ४७ ॥
विवेकोऽपि तदुच्छेदहेतुरिति दर्शयति - अहो इति ॥ ४७ ॥
नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा भ्रमंस्तृष्णेयं हृदि संस्थिता ॥ ४८ ॥
असिधारादयो बाह्यत्वात्कदाचिदेवानर्थः तृष्णा तु हृदि स्थितत्वात् सदैवेति
तेभ्योऽप्याधिक्यमिति भावः ॥ ४८ ॥
उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा ।
प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥ ४९ ॥
मध्ये भोगविभवोज्ज्वला अन्ते तु असितं तीक्ष्णं चाग्रं यस्याः सा ।
तमोमृत्युपर्यवसानेत्यर्थः । मातृभार्यापुत्रस्नेहैर्दीर्घा
बाल्ययौवनवार्धकदशाः परा उत्कृष्टा यस्याः । प्रकाशा प्रत्यक्षा ।
इष्टवियोगप्रयुक्तैरन्तर्दाहैर्दुःस्पर्शा असह्या । दीपशिखापक्षे स्नेहस्तैलम् ।
दशा वर्तिः । शिष्टं स्पष्टम् ॥ ४९ ॥
अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ५० ॥
मेरुसमं गौरवेण । स्थिरं अपरिग्रहव्रतेन तृणीकरोति याञ्चादैन्यमा##-
तृणाल्लघुतरस्तूलस्तूला-दपि च याचकः । वायुना किं न नीतोऽसौ
मामयं याचयिष्यति ॥ इति ॥ ५० ॥
संस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥ ५१ ॥
संस्तीर्णानि विस्तीर्णानि गहनानि साहसकार्याण्यरण्यानि च यस्याम् । अथवा
एकैव तृष्णा आशा कामलोभलाम्पट्यादिभावैश्चतुर्दशसु लोकेषु विस्तीर्णा
चासौ गहना दुर्लक्ष्या चेति कर्मधारयः । एवं निबिडजालबद्बन्धन##-
निबिडताजालधूलिप्रचुरा च । शिष्टं स्पष्टम् ॥ ५१ ॥
एकैव सर्वभुवनान्तरलब्धलक्ष्या
दुर्लक्ष्यतामुपगतैव वपुःस्थितैव ।
तृष्णा स्थिता जगति चञ्चलवीचिमाले
क्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥ ५२ ॥
कथं विस्तीर्णा कथं च गहना कथं चैका । आश्रयविषयशब्दादिभेदे##-
दृष्टान्तेनोपपाद-यति - एकैवेति । अपुःस्थितैव तृष्णा एकैव
सर्वभुवनानामान्तरेषु भोग्येषु लब्धलक्ष्या प्राप्तविषया सती जगति
व्यवहारभूमौ दुर्लक्ष्यतामुपगतैव स्थिता देहतृष्णैव
सर्वतृष्णात्वमाशाकामादिभावं च प्राप्तेति न स्पष्टं विभाव्यत् इत्यर्थः
। यथा रसनेन्द्रियात्मना वपुःस्थिता एकैव माधुर्यशक्तिः सर्वेषां
भुवनानां जलानामान्तरे जलसामान्ये लब्धप्रतिष्ठा चञ्चलवीचिमाले
नदीसमुद्रादौ क्षरणात्क्षीरमुन्दनात् क्लेदनादुदकमम्भनात्
शब्दनादम्ब्वति क्रियाशब्दभेदेन तरले अव्यवस्थिते जले शिता
दुर्लक्ष्यतामुपगता एकैवेति न विभाव्यते तद्वत् । जीवनं भुवनं वनम्
नीरक्षीराम्बुशम्बरम् इत्यमरः ॥ ५२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥ १७ ॥