षोडशः सर्गः १६
श्रीराम उवाच ।
दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् ।
वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ॥ १ ॥
इह चित्तमनोदोषा विस्तरेणोपपत्तिभिः ।
रामेण सम्प्रकाश्यन्ते दृष्टान्तैश्चापि भूरिभिः ॥ १ ॥
अहङ्कारवच्चितमनसोरपि न सुखहेतुता किन्तु दुःखहेतुतैवेत्याह -
दोषैरित्यादिना । ल्यब्लोपे पञ्चम्यौ । महत्सेवां द्वारमाहुर्विमुक्तेः इति
वचनात्सद्भिर्मुमुक्षुभिरवश्यं कर्तव्यमार्यसेवनं विहायेत्यर्थः ।
दोषैः कामादिभिर्जर्जरतां शैथिल्यं पुरुषार्थसाधनापटुत्वमिति यावत् ।
वातान्तर्वायुप्रवाहमध्ये पिच्छलववद्बर्हाप्रवच्चलति । यतश्चञ्चलम्
चपलस्वभावमित्यर्थः । मनसोऽपि प्राणवाताधीनं चलनमिति वक्ष्यति ॥ १ ॥
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।
दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥ २ ॥
तदेव सदृष्टान्तं दर्शयति - इतश्चेति ।
युक्तायुक्तविमर्शमन्तरेणेत्यर्थः । सुव्यग्रमतिव्याकुलम् । क्वापि
स्वपूर्तिहेत्वलाभाद्दीनम् । कौलेयकः सारमेयः ॥ २ ॥
न प्राप्नोति क्वचित्किञ्चित्प्राप्तैरपि महाधनैः ।
नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥ ३ ॥
वंशवेत्रादिशलाकारचितो वस्त्राद्याधानपात्रविशेषः करण्डकः ॥ ३ ॥
नित्यमेव मुने शून्यं कदाशावागुरावृतम् ।
न मनो निर्वृतिं याति मृगो यूथादिव च्युतः ॥ ४ ॥
शून्यं स्वतो विषयतश्च । सजातीयानां तिरश्चां समूहो यूथः ॥ ४ ॥
तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् [दीर्घता] ।
परित्यज्य क्षणमपि हृदये याति न स्थितिम् ॥ ५ ॥
स्थूलावयवानां विभाग आलूनता । सूक्ष्माणां तु स [दीर्घता]
शीर्णता । कर्मथारयात्तल् ॥ ५ ॥
मनो मननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥ ६ ॥
मननैर्विषयानुसन्धानैर्विक्षुब्धं विविधक्षोभं प्राप्तम् ॥ ६ ॥
कल्लोलकलितावर्तं मायामकरमालितम् ।
न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ॥ ७ ॥
कल्लोलसदृशैर्भोगलाभोत्साहैः कलितावर्तं सम्पादितमज्जनानुकूल##-
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् ।
मनोहरिणको ब्रह्मन्दूरं विपरिधावति ॥ ८ ॥
श्वभ्रपातं नरकगर्तपातम् ॥ ८ ॥
न कदाचन मे चेतः स्वामालूनविशीर्णताम् ।
त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥ ९ ॥
आलूनविशीर्णता व्याख्याता ॥ ९ ॥
चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ॥ १० ॥
चञ्चुरमतिचपलम् । चरतेर्यङन्तात्पचाद्यचि यङोऽचि च इति यङ्लुकि
चरफलोश्च इत्यभ्यासस्य नुक् उत्परस्यातः इत्युत्वम् । धृतिं धैर्यम् । स्वत
एव चपलस्वभावं चिन्तानिचयेन चालमानं तु सुतरामिति
बलान्निरुध्यमान-मपि धैर्यं न बध्नातीत्यर्थः ॥ १० ॥
मनो मोहरथारूढं शरीरात्समतासुखम् ।
हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥ ११ ॥
उत्कर्षापकर्षयोरुपाधिकल्पितत्वात्परमार्थतः सर्वभूतेष्वात्मन एकरूपता ।
सैव तथा जीवन्मुक्तैरनुभूयमाना समता सुखमित्युच्यते । सा च मनसो
मोहरथानारोहणे नित्यसिद्धत्वादस्मिन्नेव शरीरे प्राप्तापि मोहरथारूढेन
मनसा ग्रस्तत्वादसारदेहमात्रात्मभावः परिशिष्यत इति भावः ॥ ११ ॥
अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ॥ १२ ॥
चित्तस्य प्रत्यक्प्रवणवृत्तयो [प्रवृत्तय]
बहुतरद्वैतविषयासक्तिकल्पना-लक्षणशय्यायां विलीनाः सुप्तप्रायाः
प्रबोधकशास्त्राचार्योपदेश-मन्तरेण
केवलस्वबुद्धिकृतविचारसहस्रेणापि न प्रबुध्यन्ते । तेन तदप्रबोधेनाहं
तप्ये ॥ १२ ॥
क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना ।
विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ॥ १३ ॥
क्रोडीकृता अन्तर्निवेशिता अहमिदं ममेदमित्यन्योन्यतादात्म्यसंसर्गा##-
स्थितात्मनेति जालकविशेषणम् । आमिषतृष्णासूत्रे स्थितात्मना व्याधेन कर्त्रा
जालकेन करणेनेति वार्थः ॥ १३ ॥
सन्ततामर्षधूमेन चिन्ताज्वालाकुलेन च ।
वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ १४ ॥
सन्ततो विस्तारितः अमर्षः क्रोध एव धूमो यस्य । चिन्तैव ज्वाला तया आकुलेनेति
रूपकसम्पादितधूमादिसम्पत्त्या वह्निसादृश्यमेव विवक्ष्यते न
वह्नित्वमिति न रूपकोपमानविरोधः । उपमानविशेषणत्वपक्षे न मृष्यते
सह्यत इत्यमर्षो दुःसहस्तथाविधेन धूमेन । चिन्त्यते दग्धैरिति चिन्ता ज्वालेति
व्याख्येयम् । एवमन्यत्रापि ॥ १४ ॥
क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना ।
शवं कौलेयकेनेव ब्रह्मन्भुक्तोऽस्मि चेतसा ॥ १५ ॥
जडतामज्ञतां यातः प्राप्तोऽहमिति शेषः । क्रूरेण निष्ठुरेण । तृष्णा
भार्येवेत्युपमितसमासो रूपकं वा । अन्यत्र तृष्णावत्सदाऽपूर्णोदरी भार्या
शुनी तदनुगामिना कौलेयकेन शुना जडतां भारतां प्राप्तं शवं
कुणप इवेति सम्बन्धः ॥ १५ ॥
तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ १६ ॥
तरङ्गवत्तरला आस्फालाः अलभ्यविषये प्रतिहन्यमाना वृत्तयो यस्येति
चेतःपक्षे । अन्यत्र तरङ्गास्तरला आस्फालवृत्तयो यस्मिंस्तेन डलयोर##-
अवान्तरनिपाताय शून्ये वा भ्रमणाय च ।
तृणं चण्डानिलेनेव [दूरं नीतोऽस्मि] दूरे नीतोऽस्मि चेतसा ॥ १७ ॥
धर्मप्रवृत्त्या स्वर्गारोहे अकाण्डनिपाताय तदभावे सुखलेशशून्ये इहैव
कीटपतङ्गादिजन्मभिर्भ्रमणाय । तथाच श्रुतिः एतमेवाध्वानं
पुनर्निवर्तन्ते इति अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्य##-
उपमानपक्षे स्पष्टम् ॥ १७ ॥
संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ १८ ॥
संसारजलधेरुत्तरणोन्मुखो निर्गमनोद्युक्तः । जलधौ ह्यस्मादिति
सप्तमीपाठे उत्तरणोन्मुखोऽहं संसारजलधावेव निरुध्य
स्थापितोऽस्मीत्यर्थः । यथा सेतुना क्षुद्रनदीपयःपूरो रुध्यते तद्वत् ॥ १८ ॥
पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ १९ ॥
पृथ्वीपातालशब्दाभ्यां तत्सदृशावूर्ध्वाधोदेशौ लक्ष्येते । रज्ज्वा
जलादिभाराकर्षणायैकतो बद्धभारं त्रियक्काष्ठप्रोतवलयाकार##-
मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा ।
बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥ २० ॥
बालबिभीषिकार्थं कल्पितवेतालको यथा बालबुद्धा स्फारतां प्राप्तस्तस्येव
बाल्यापगमे विचारादसत्त्वमापद्यते तथाऽज्ञबुद्ध्या दुर्जयं मनो विवेके तु
निःस्वरूपमेवेत्यर्थः ॥ २० ॥
वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः ।
वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥ २१ ॥
दुःखेनापि ग्रतीतुमशक्यो मनोलक्षणे गृह्णातीति ग्रहः पिशाच उष्णतरः
सदासन्तापकत्वात् । कष्टतरः क्रमः अतिक्रमणं वशीकार इति यावत् ।
वज्राद्धीरकादपि दृढो दुर्भेदः । अशनेरपि निष्ठुर इति वा ॥ २१ ॥
चेतः पतति कार्येषु विहगः सामिषेष्विव ।
क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ २२ ॥
कार्येषु विषयेषु पतति झटित्येवासज्जते । विरतिं निवृत्तिम् । चिराभ्यस्तेभ्योऽपि
सद्व्यापारेभ्य इति शेषः । यथा बालः कदाचिदपि प्राप्ताक्रीडनकान्निमित्ता##-
जडप्रकृतिरालोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिरहितव्यालो दूरं नयति तात् माम् ॥ २३ ॥
सर्वाणि विशेषणान्यब्धिमनसोस्तुल्यानि स्पष्टानि । अहिताः कामाद्यरयः षट् त
एव व्यालाः सर्पा यस्मिन् ॥ २३ ॥
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ॥ २४ ॥
विषमः कष्टतरः ॥ २४ ॥
चित्तं कारणमर्थानां तस्मिन्सति जगत्रयम् ।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २५ ॥
चिकित्स्यं रोगवदवश्यमपनेयम् ॥ २५ ॥
चित्तादिमानि सुखदुःखशतानि नून-
मभ्यागतान्यगवरादिव काननानि ।
तस्मिन्विवेकवशतस्तनुतां प्रयाते
मन्ये मुने निपुणमेव गलन्ति तानि ॥ २६ ॥
उक्तमेव दृष्टान्तेन स्पष्टयति - चित्तादिति । नूनमिति वितर्के । अभ्यागतानि
प्ररूढानि । अगवराद्गिरिश्रेष्ठाद्विन्ध्यादेः । तनुतां सूक्ष्मताम् ।
निर्वासनतया भर्जितबीजप्रायतामिति यावत् ॥ २६ ॥
सकलगुणजयाशा यत्र बद्धा महद्भि-
स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् ।
विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं
जडमलिनविलासां मेघलेखामिवेन्दुः ॥ २७ ॥
महद्भिर्मुमुक्षुभिर्यत्र यस्मिंश्चित्ते जिते सति सकलानां शान्तिदान्त्यादि##-
गुणा आनन्दलवा यस्मिन्निरतिशयानन्दे तस्य जयः प्राप्तिस्तस्य वा ।
आशानिबद्धेत्यर्थः । इह अस्मिन्नेव शरीरे । इह चेदवेदीदथ सत्यमस्ति न
चेदिहावेदीन्महती विनष्टिः इति श्रुतेः । अभ्युद्यत उद्युक्तोऽस्मि । विगतरतितया
वैराग्यसम्पत्त्या अन्तर्मनसि जडान्मूर्खान्मलिनानशुद्धांश्च
विलासयत्युत्साहयति शोभयति वा । जडो मोहहेतुर्मलिनः पापहेतुर्विलासो यस्या
वा ताम् । मेघलेखापक्षे जलेन मलिना नीला विलसतीत्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
वैराग्यचित्तदौरात्म्यं नाम षोदशः सर्गः ॥ १६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
वैराग्यचित्तदौरात्म्यं नाम षोदशः सर्गः ॥ १६ ॥