पञ्चदशः सर्गः १५
श्रीराम उवाच ।
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ १ ॥
सर्वानर्थसमारम्भमूलस्तम्भोऽत्र निन्द्यते ।
ममताव्रततेर्मूलमहङ्कारो विशेषतः ॥
एवमहङ्कारस्यापि न सुखहेतुता प्रत्युत सर्वदोषाणामभिमानमूल##-
मोहादज्ञाना-न्निमित्तान्मुधा व्यर्थमेवाहङ्कारोऽभ्युत्थितो व्यर्थमेव
च परितो वर्धते न ततः पुरुषार्थोऽस्तीत्यर्थः । तस्योपादानमपि मोह एवेति
दर्शयति - मिथ्यामयेनेति । आमयेनेति वा च्छेदः । अहङ्काराख्येन
शत्रुणा शातनशीलेन रोगेणेति तदर्थः ॥ १ ॥
अहङ्कारवशादेव दोषकोशकदर्थताम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥ २ ॥
विविधाः साध्यसाधनफलवृत्तिलक्षणा आकारा यस्य स तथाविधः
संसारः [कालमारभ्य] अनादिकालादारभ्य
जन्ममरणनरकाद्यनन्तदुःखपरम्परामनुभूयापि
पुनःपुनस्तद्धेतून्सुखलवानायाससहस्रैरपि लिप्समानत्वाद्दीनेभ्योऽपि
दीनानां विषयलम्पटानां [दुर्वासनादि]
रागद्वेषदुर्व्यसनादिदोषलक्षणेषु कोशगृहेषु सद्व्यवहारानुप##-
अहङ्कारवशादापदहङ्काराद्दुराधयः ।
अहङ्कारवशादीहा [नाहङ्कारात्परो रिपुः] त्वहङ्कारो
ममामयः ॥ ३ ॥
तत्फलमेव दिक्प्रदर्शनेन प्रपञ्चयति - अहङ्कारवशादिति । आपत्
शारीरदुःखम् । आधयो मानसदुःखानि । ईहा रागो दुश्चेष्टा वा । मम आमयो
रोगः । मनोमय इति पाठेऽपि लुप्तैकदेशः मनस आमयो मनोविकार इति वार्थः
॥ ३ ॥
तमहङ्कारमाश्रित्य परमं चिरवैरिणम् ।
न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने ॥ ४ ॥
भुजे भुञ्जे । विकरणलोपश्छान्दसः । भजे इति वा पाठः ॥ ४ ॥
संसाररजनी दीर्घा माया मनसि मोहिनी ।
ततोऽहङ्कारदोषेण किरातेनेव वागुरा ॥ ५ ॥
संसारलक्षणतमिस्रायां दीर्घा आयता वागुरा मृगबन्धनी ॥ ५ ॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥ ६ ॥
विषमाणि दुरुत्तराणि । अगात्पर्वतात् । खदिरा वृक्षविशेषाः ॥ ६ ॥
शमेन्दुसैंहिकेयास्यं [सिंहिकेयास्यमिति; सिहिकेयो=राहुः;
वृद्ध्यभावश्छान्दसः] गुणपद्महिमाशनिम् ।
साम्यमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥ ७ ॥
सैंहिकेयो राहुः । हिममशनिरिवेत्युपमितसमासः । साम्यं समदर्शिता स
एव सर्वभूतेषु दयावर्षित्वान्मेघः ॥ ७ ॥
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥ ८ ॥
अहङ्कारत्यागे देहाभिमानममतादयः स्वयमेव शाम्यन्तीति दर्शयति -
नाहमिति । शान्तो निर्वैरः । स्वात्मनीव आत्मौपम्येन सर्वभूतानि
पश्यन्नित्यर्थः । जिनो बुद्धः । स यथा अहिंसापरस्तद्वत् । निन्द्येष्वपि गुणो
ग्राह्यः इति न्यायेन जिनोदाहरणम् । जित इति वा पाठः ॥ ८ ॥
अहङ्कारवशाद्यद्यन्मया भुक्तं हुतं कृतम् ।
सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥ ९ ॥
अवस्तु तुच्छमसारं वा ॥ ९ ॥
अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः ।
नास्ति चेत्सुखितस्तस्मादनहङ्कारिता [वरा] वरम् ॥ १० ॥
अहङ्कारं परित्यज्य मुने शान्तमनस्तया ।
अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥ ११ ॥
उद्वेगानामशान्तमनोमूलत्वात्तच्छान्त्या गदोद्वेगः । ननु
भोगसम्पत्तिभिरेव कुतो न तथा स्यात्तत्राह - भोगौघ इति । भङ्गुरो
देहेन्द्रियविषयाद्यधीनः । तथाच तत्तदेकैकभङ्गेऽद्वेगप्रसक्तिर्दुर्वारेति
भावः ॥ ११ ॥
ब्रह्मन्यावदहङ्कारवारिदः परिजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ १२ ॥
अहङ्कार एव [एवेति क्वचिन्नोपलभ्यते]
विवेकज्योतिर्गणतिरोधायकत्वाद्वारिदः । परितो जृम्भते गात्राणि विस्तारयति ॥ १२
॥
अहङ्कारघने शान्ते तृष्णा नवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् ॥ १३ ॥
वृत्तिरत्र तुल्यशीलता ॥ १३ ॥
अहङ्कारमहाविन्ध्ये मनोमत्तमहागजः ।
विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥ १४ ॥
स्तब्धत्वदुर्विनामत्वाभ्यां विन्ध्यसाम्यम् । विस्फूर्जति गर्जति ।
घनैरास्फोतैर्युद्धोत्साहैः घनानां निबिडशिलादीनामास्फोटन##-
इह देहमहारण्ये घनाहङ्कारकेसरी ।
योऽयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥ १५ ॥
स्फारस्तैस्तैर्गर्वहेतुभिरुपचितः । जगदाततं सुकृतदुष्कृतादिबीजोपचयेन
विस्तारितम् । सहीदमन्नं धियाधिया जनयते कर्मभिः इति श्रुतेरिति भावः ॥ १५ ॥
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥ १६ ॥
लव एकदेशः । जन्मपरम्परा देहपरम्परा । खिङ्गो विटः ॥ १६ ॥
पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् ।
प्रसारितमनेनेह मुनेऽहङ्कारवैरिणा ॥ १७ ॥
पुत्रमित्रादिरूपं तन्त्रमन्त्रविवर्जितं वशीकरणोन्मादादिसाधनमिति शेषः ।
लौकिकयौक्तिकोपायस्तन्त्रम् ॥ १७ ॥
प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् ।
प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥ १८ ॥
प्रमार्जिते मूलोच्छेदेन निरस्ते ॥ १८ ॥
अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी ।
मनोगगनसम्मोहमिहिका क्वापि गच्छति ॥ १९ ॥
अहङ्कारोच्छेदस्य मन्दाधिकारिणां चिरसाधनाभ्यासुप्रबोधसाध्य##-
शमशातनी शान्तिनिकृन्तनी । मनोगगनस्था मोहमिहिका महाभ्रान्तिनीहा##-
निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।
यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥ २० ॥
सर्वापदां निलयमध्रुवमन्तरस्थ-
मुन्मुक्तमुत्तमगुणेन न संश्रयामि ।
यत्नादहङ्कृतिपदं परितोऽतिदुःखं
शेषेण मां समनुशाधि महानुभाव ॥ २१ ॥
एवमहङ्कारं तत्प्रयुक्तानर्थं तदुच्छेदफलं चोपवर्ण्य स्वस्य
तत्त्यागप्रयुक्तां श्रवणाधिकारसम्पत्तिं वदन्नुपदेशं प्रार्थयते -
सर्वापदामिति । अन्तरस्थं हृदयस्थम् । उत्तमगुणेन शान्त्यादिनोन्मुक्तम् ।
अहङ्कृतिरूपं पदं लक्ष्म लाञ्छनमित्यर्थः । पदं व्यवसितत्राण##-
शेषेणावशिष्टेन सम्पाद्येन सह मामनुशाध्युपदिश । आत्मतत्त्वमिति
शेषः ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
अहङ्कारजुगुप्सा नाम पञ्चदशः सर्गः ॥ १५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
अहङ्कारजुगुप्सा नाम पञ्चदशः सर्गः ॥ १५ ॥