चतुर्दशः सर्गः १४
श्रीराम उवाच ।
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥ १ ॥
व्याधिरोगजराग्रस्तं कामादिकलुषीकृतम् ।
जीवितं यौवनं चायुरिह मूर्खस्य निन्द्यते ॥
श्रीरिवायुरपि न सुखायेत्याह - आयुरित्यादिना । पल्लवस्य कोणः
प्रान्तभागस्तस्याप्यग्रे लम्बमानोऽम्बुकणो हिमजलबिन्दुरिव
भङ्गुरमस्थिरम् । उन्मत्तमिति प्रथमान्तमायुरुपमानं द्वितीयान्तं
शरीरोपमानं वा । अकाण्डेऽनवसरे । कुत्सायामनुकम्पायां च कन् ॥ १ ॥
विषयाशीविषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानामायुरायासकारणम् ॥ २ ॥
विषयलक्षणैः सर्पैरासङ्गेन सर्वतः शिथिलितचित्तानाम् । न विद्यते प्रौढ
आत्मनि विवेको येषां पुरुषाणाम् ॥ २ ॥
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वासमायुस्तेषां सुखायते ॥ ३ ॥
किं ब्रह्मविदामप्येवं नेत्याह - ये त्विति । वितते पदे अपरिच्छिन्ने वस्तुनि ।
भावाभावयोर्लाभालाभयोः सम आश्वासश्चित्तसमाधानं यस्य तत् ॥ ३ ॥
वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ ४ ॥
परिमिताकारे देहादौ परिनिष्ठित एतावदेवात्मरूपमिति सिद्धो निश्चयो येषाम् ।
निर्वृताः सुखिताः ॥ ४ ॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनं च गरङ्गाणामास्था [मास्थायुषि न युज्यते] नायुषि
युज्यते ॥ ५ ॥
आस्था विश्वासः ॥ ५ ॥
पेलवं शरदीवाभ्रमस्नेह इव दीपकः ।
तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥ ६ ॥
पेलवमल्पम् । अस्नेहो निस्तैलः । आयुरिति विपरिणामेन [व्यवहितं वा]
व्यवहितेन वा सम्बध्यते ॥ ६ ॥
तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् ।
ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥ ७ ॥
हतस्थितौ अस्थिरे ॥ ७ ॥
अविश्रान्तमनाः शून्यमायुराततमीहते ।
दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा ॥ ८ ॥
आत्यन्तिकतृष्णोपरमो मनसो विश्रान्तिः । [न्यं सुखेन व्यर्थम्]
शून्यं व्यर्थमित्यर्थः । आततं विस्तीर्णम् । ईहते इच्छति ।
अश्वाद्गर्दभ्यामुत्पन्ना अश्वतरी । तस्या उदरविदारणेनैव गर्भनिर्गमनं
प्रसिद्धम् ॥ ८ ॥
संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे ।
कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥ ९ ॥
अस्यां संसारसंसृतौ संसारसम्भ्रमणे प्रसिद्धा कायवल्ली देहलता
सर्गसागरे आम्भसो जलविकारभूतः फेन एव अत्यन्तास्थिरत्वात् । अतोऽस्मिन् जीवितं
जीवनं मे न रोचत इत्यर्थः ॥ ९ ॥
प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १० ॥
प्राप्यमवश्यं प्राप्तुं योग्यं परमपुरुषार्थरूपम् ।
निर्वृतेर्जीवन्मुक्तिसुखस्य ॥ १० ॥
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति ॥ ११ ॥
मननेन मननफलेन तत्त्वबोधेन वासनाक्षयेण वा न जीवति तुच्छीभवति ॥
११ ॥
जातास्त एव जगति जन्तवः साधुजीविताः ।
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १२ ॥
त एव साधुजीविताः प्रशस्यजीवना जाता इति सम्बन्धः । जरठाश्चिरजीविनोऽपि
गर्दभवदप्रशस्यजीवनाः । अशुचिदेहात्मबुधेरिति भावः ॥ १२ ॥
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १३ ॥
भारो भार इव व्यर्थश्रमहेतुः । ज्ञानं च ज्ञानमपि यत्सर्वश्रम##-
रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ १४ ॥
ईहितं चेष्टितम् । भारशब्दार्थं स्वयमेवाह - भारधरस्येवेत्यादिना ॥
१४ ॥
अविश्रान्तमनापूर्णमापदां परमास्पदम् ।
नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥ १५ ॥
विश्रान्तिः सर्वश्रमनिवृत्तिः । आपूर्तिः पूर्णकामता । आयासनं
श्रमसाधनम् ॥ १५ ॥
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।
आखुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥ १६ ॥
प्रत्यहमित्यस्य खेदमुत्सृज्येत्यनेनैव निराकाङ्क्षीकरणादनारतमित्यस्य
न वैयर्थ्यम् । विनिहन्यते आयुरित्यर्थः ॥ १६ ॥
शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।
रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥ १७ ॥
विषवद्दाहप्रदानशीलैः । आपीयते आयुरिति शेषः । व्यालैः सर्पैः ॥ १७ ॥
प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः ।
दुःखैरावृश्च्यते [राधृष्यते] क्रूरैर्घुणैरिव
जरद्द्रुमः ॥ १८ ॥
प्रस्नुवानैः क्षरद्भिः पूरक्तमलादि । धुणपक्षे रजांसि । दुःखै
रोगादिदुःखैः आसमन्ताद्वृश्च्यते च्छिद्यते । आघृष्यत इति
पाठेऽप्ययमेवार्थः । घुणाः काष्ठकीटकाः ॥ १८ ॥
नूनं निगरणायाशु घनगर्धमनारतम् ।
आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥ १९ ॥
निगरणं ग्रसनम् । घनगर्धं प्रचुराभिलाषं यथा स्यात्तथा ॥ १९ ॥
गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया ।
अन्नं महाशनेनेव [जरसा] जरया परिजीर्यते ॥ २० ॥
जरया वेश्यया अशक्ति क्षीणबलं यथा स्यात्तथा परिजीर्यते आयुः पुरुषो वा ।
तत्र दृष्टान्तः । महाशनेन बह्वाशिनान्नमिवेति ॥ २० ॥
दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।
दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥ २१ ॥
यौवनस्यादरः पुरुषार्थोपयोजनं तद्द्रहितं परिज्ञाय । गतादरमिति
क्रियाविशेषणं वा । दुर्जन इति यावन्न परिज्ञायते तावदेव सुजनैराद्रियत इति
प्रसिद्धम् ॥ २१ ॥
विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥ २२ ॥
किङ्गवरो विटश्रेष्ठः । रूपं सौन्दर्यमिव । अभिलष्यते आयुः पुरुषो वा ॥ २२
॥
स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च ।
जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा ॥ २३ ॥
तया जीवन्मुक्तप्रसिद्ध्यया सुखभासितया स्थिरतया च सततमुज्झितं
त्यक्तमुत्तमफल्गु अतितुच्छं गुणवर्जितं च यथेदमायुस्तथा
जगत्यन्यन्नास्तीति सम्बन्धः ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जीवितगर्हा
नाम चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे जीवितगर्हा
नाम चतुर्दशः सर्गः ॥ १४ ॥