त्रयोदशः सर्गः १३
श्रीराम उवाच ।
इयमस्मिन्स्थितोदारा संसारे परिकल्पिता ।
श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥ १ ॥
या प्रिया सर्वमूढानां या भोगानर्थदा सदा ।
दोषैर्बहुविधैः सा श्रीरासर्गान्तं विनिन्द्यते ॥
इत्थं विषयाणामसारानर्थतां प्रतिपाद्य विषयसम्पादनमूलश्रियोऽपि
तथाविधतां प्रतिपादयितुमुपक्रमते - इयमित्यादिना । अस्मिन्संसारे स्थिता
अनपगता सती बहुतरसुखहेतुत्वादुदारा उत्कृष्टेति परिकल्पिता । मूढजनैरिति
शेषः । वस्तुतस्तु सापि परिमोहायैव नूनम् । यतो वधबन्धनरकादिक##-
परिमोहायाप्राप्ता वियुक्ता वा कदर्थदेति वा कुत्सितानर्थान् धनानि ददाति न
विवेकमिति वा कदर्थदा ॥ १ ॥
उल्लासबहुलानन्तकल्लोलानलमाकुलान् ।
जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥ २ ॥
उल्लासैरुत्साहैर्बहुला अनन्ताः कल्लोला मनोरथपरम्परा येषां तान्
स्फारान्बहून् जडान्मूर्खान् प्रवहति पारवश्यमापाद्याकर्षति ।
तरङ्गिणीपक्षे ऊर्ध्वं लासो नाट्यं तेन बहुलानुपचिताननन्तान्##-
चिन्तादुहितरो बह्व्यो भूरिदुर्ललितैधिताः ।
चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ३ ॥
अस्याः श्रियश्चिन्तालक्षणा दुहितरः पुत्र्यः प्रभवन्ति ।
दुर्ललितैर्दुष्टचेष्टितैरेधिता वर्धिताः ॥ ३ ॥
एषा हि पदमेकत्र न निबध्नाति दुर्भगा ।
दग्धेवानियताचारमितश्चेतश्च धावति ॥ ४ ॥
यथा काचिद्दुर्भगा मोहाद्वह्निं पदा आस्कन्द्य दग्धा सती एकत्र पदं न
निबध्नाति पादं न स्थापयति किन्त्वनियतचेष्टं यथा स्यात्तथा इतश्चेतश्च
धावति तथा श्रीरपि पदं स्थानं अनियताचारं शास्त्र##-
जनयन्ती परं दाहं [परिक्षीणाङ्गका सती]
परामृष्टाङ्गिका सती ।
विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ५ ॥
व्ययापहारादिना परामृष्टैकदेशा परं दाहं जनयन्ती श्रीमत इत्यर्थः
। अन्तः मध्ये । अकाण्ड एवेत्यर्थः । विनाशं स्वस्याः स्वोपभोक्तुर्वा ।
दीपलेखापक्षे परामृष्टाङ्गिका स्पृष्टावयवा । विनाशस्य
तमोनिष्ठत्वद्योतनाय कज्जलदृष्टान्तः ॥ ५ ॥
गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥ ६ ॥
दुरारुढा दुःखेन सम्पादितापि न गुणवतां धार्मिकाणामेवोप##-
[सकामपुण्यवशाद्यं कचित्] कञ्चित्सन्निहितमवलम्बते । यथा
राज्ञां प्रकृतिः स्वभावः । बहुधा मूढा राजानो न
धार्मिकैर्गुणवद्भिः सह स्निह्यन्ति किन्तु येनकेनचित्सन्निहितेन सहेति
प्रसिद्धम् ॥ ६ ॥
कर्मणा [तेनैव] तेनतेनैषा विस्तारमनुगच्छति ।
दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥ ७ ॥
यस्य कर्मणः क्षीरं फलं
धनराज्यलाभादिलोभहिंसानृतादिदोषसर्प-वेगानां विस्ताराय भवति
तेनतेनैव युद्धद्यूतवाणिज्यादिकर्मणैषा श्रीर्विस्तारमधिगच्छति न
यागदानादिना । प्रत्युत तेषां व्ययहेतुत्वादित्यर्थः ॥ ७ ॥
तावच्छीतमृदुस्पर्शाः परे स्वे च जने [जनः] जनाः ।
वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः [परुषीकृतः] ॥ ८
॥
शीतमृदुस्पर्शपदेन दयादाक्षिण्यस्नेहाद्युपलक्ष्यते । वातसमूहो वात्या ।
परुषीकृता [कृतः इत्युभयत्रैकवचनं क्वचित्] दुःसहीकृताः ॥ ८
॥
प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये ।
पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ९ ॥
तदेव स्पष्टयति - प्राज्ञा इति । स्पष्टम् ॥ ९ ॥
न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते ।
गुप्ता विनाशनं धत्ते मृतिं विषलता यथा ॥ १० ॥
गुप्ता रक्षिता विनाशनं विनाशसाधनं धत्ते सम्पादयति । मृतिं
मरणम् ॥ १० ॥
श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ ११ ॥
ननु श्रीमन्तोऽपि धार्मिका यशस्विनश्च केचिद्दृश्यन्ते तत्राह -
श्रीमानिति । स्पष्टम् ॥ ११ ॥
एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥ १२ ॥
सुःखलक्षणानां भोगिनां सर्पाणाम् ॥ १२ ॥
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका [कैरवं
शुभ्रकमलम्] ।
सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ १३ ॥
सत्कार्याणि पुण्यकर्माणि तल्लक्षणपद्मानां रजनी रात्रिः ।
सङ्कोचहेतुरित्यर्थः । एवं दुःखकैरवाणां चन्द्रिका विकासहेतुः ।
सुदृष्टिर्दयादृष्टिः परमार्थदृष्टिर्वा तद्रूपदीपिकाया वात्या
वातसमूहः । कल्लोलौघयुक्ता तरङ्गिणीव । अस्या अपि दीपप्रशमन##-
सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खेदायभयभोगिनी ॥ १४ ॥
सम्भ्रमो भयं भ्रान्तिश्च तद्रूपाणामभ्राणामादिपदवी प्रथममार्गः
पुरोवातादिः । केदारिका क्षेत्रभक्तिर्विकल्पसस्यानाम् । खेदः आयो लाभो यस्य
तथाविधस्य भयस्य जनने भोगिनी सर्पिणी भयभागवती । खेदायेति
पृथक्पदं वा ॥ १४ ॥
हिमं वैराग्यवल्लिनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ १५ ॥
विकाराश्चित्तविकाराः कामादयः ॥ १५ ॥
इन्द्रायुधवदालोलनानारागमनोहरा ।
लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥ १६ ॥
इन्द्रायुधं शक्रधनुस्तद्वत् । चन्द्रायुधमिति पाठेऽप्यर्धचन्द्रवद्व##-
मूर्खाः । त एव प्रायः श्रीमन्तो दृश्यते ॥ १६ ॥
चापलावजितारण्यनकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥ १७ ॥
चापलेनावमत्य जिता अरण्यनकुल्यो यया । नकुलीनजा दौष्कुलेया । नशब्दोऽयं
नतु नञ् । विप्रलम्भनतात्पर्यं प्रतारणानुकूल्यम् । मृगतृष्णाया उग्रता
ग्रीष्मे प्रसिद्धा ॥ १७ ॥
लहरीवैकरूपेण पदं क्षणमकूर्वती ।
चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥ १८ ॥
एकरूपेण क्षणमपि पदं स्थानकार्यमवस्थानमकुर्वती । सदा
क्षयवृद्धिस्वभावत्वात् । दुर्ज्ञेया गतिरतर्कितदुर्दशा गोचरो यस्याः ॥ १८ ॥
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी [पातिनी] ।
खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया ॥ १९ ॥
विग्रव्यग्रा युद्धोत्सुकजनास्त एव करीन्द्राः । स्वयं च तीक्ष्णा
तीक्ष्णाशयान्क्रूरहृदयानाश्रयते च । कर्मधारये पूर्वतीक्ष्णापदस्य
पुंवद्भावः ॥ १९ ॥
नानयापहृतार्थिन्या दुराधिपरिलीनया ।
पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते [दृते यथा]
सुखम् ॥ २० ॥
अपहृतैः परस्वैरर्थवत्या अपहृतान्वा मृत्युना अर्थयते वाञ्छति
तच्छीलया । दुराधयः परिलीनाः प्रच्छन्नाश्चोरवद्यस्याम् । आहिता##-
दूरेणोत्सारिताऽलक्ष्म्या पुनरेव तमादरात् ।
अहो बताश्लिष्यतीव निर्लज्जा दुर्जना सदा ॥ २१ ॥
तमिति परामर्शाद्यस्येति लभ्यते । तथाच यस्य पुरुषस्य अलक्ष्म्या सपत्न्येव
स्वयं दूरेणोत्सारिता तमेव चिरं सपत्न्योपभुक्तं पुनरादरादाश्लिष्य##-
मनोरमा कर्षति चित्तवृत्तिं कदर्थसाध्या क्षणभङ्गुरा च ।
व्यालावलीगात्रविवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ २२ ॥
कुत्सितोऽर्थः पतनमरणादिर्यस्मादिति कदर्थः साहसं तेन साध्या लभ्या ।
व्यालावलीगात्रैर्विवृत्तदेहा वेष्टितशरीरा । श्वभ्रे जीर्णकूपादिगर्ते ॥ २२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥ १३ ॥