१२

द्वादशः सर्गः १२

वाल्मीकिरुवाच ।

इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः ।
उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥ १ ॥

भोगानां दुःखस्वरूपत्वं विषयादेरसत्यता ।
सम्पदामप्यनर्थत्वमित्याद्यत्रोपवर्ण्यते ॥

समाश्वस्य सम्यगाश्वास। म्प्राप्य । परुपूर्णार्थगौरवादिव मन्थरं
मन्दप्रवृत्तमतएव चारु ॥ १ ॥

श्रीराम उवाच ।

भगवन्भवता पृष्टो यथावदधुनाऽखिलम् ।
कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥ २ ॥

को लङ्घयतीति । तथा च भवदाज्ञापरिपालनाय वदामि नतु घाष्ट्येन्नेति
भावः ॥ २ ॥

अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि ।
क्रेमण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥ ३ ॥

इत्थं विनयोक्त्या मुनिं वशिकृत्य स्ववृत्तानुवादव्याजेन
धर्मानुष्ठान-जन्यचित्तशुद्ध्या विवेकवैराग्याभ्यां विचारोदयं
स्वस्य दर्शयति - अहं तावदित्यादिचतुर्भिः ॥ ३ ॥

ततः सदाचारपरो भूत्वाहं मुनिनायक ।
विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥ ४ ॥

विहृतः सञ्चरितवान् । गत्यर्थत्वात्कर्तरि क्तः ॥ ४ ॥

एतावताथ कालेन संसारास्थामिमां हरन् ।
समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ॥ ५ ॥

ईदृशो वक्ष्यमाणलक्षणः ॥ ५ ॥

विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥ ६ ॥

भोगेषु रसो रागस्तच्छून्यया ॥ ६ ॥

किन्नामेदं बत सुखं येयं संसारसन्ततिः ।
जायते मृतये लोको म्रियते जननाय च ॥ ७ ॥

किन्नाम सुखम् । न किञ्चिदित्यर्थः । सन्ततिर्विस्तारः । असुखत्वमेवोप##-
वचनादिति भावः ॥ ७ ॥

अस्थिराः सर्व एवेमे सचराचरचेष्टिताः ।
आपदां पतयः पापा भावा विभवभूमयः ॥ ८ ॥

नन्वस्तु तथा तथाप्यन्तराले विभवभूमिषु सुखमनुभूयत एवेति तत्राह ##-
दैवोपपन्नसाधनायत्तेत्युभयविधा [साधनोपपन्नेत्युभय]
भोगप्रवृत्तिस्तल्लक्षणचेष्टितसहिता अपि विभवभूमयो
वैभवसमयमात्रस्थितिका भावा विषयाः स्रक्चन्दनान्नपानादयो न
सुखदाः यतोऽस्थिराः । अलाभवियोगकालयोर्दुःखदा इत्यर्थः ।
तवाप्युम्पभोगकाले तेभ्यः सुखमाशङ्क्याह - आपदां पतय इति ।
पतयः स्वामिनः । श्रेष्ठा इति यावत् । रागादिदोषोपजननेन
परमापत्प्रापकत्वात्तद्रूपा एवेत्यर्थः । अनिषिद्धा एवं निषिद्धास्तु पापा अपि
पापजकत्वात् । तथाच विषसम्पृक्तान्नसदृश-त्वान्न तद्भोगे सुखमिति
नास्ति संसारे सुखमिति सिद्धमिति भावः ॥ ८ ॥

अयःशलाकासदृशाः परस्परमसङ्गिनः ।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ९ ॥

यदि न ते सुखदास्तर्हि कथं सुखकारकत्वेन परस्परं सम्बध्यन्ते तत्राह

  • अय इति । सर्वेऽपि भावाः स्वतो लोहशलाकाः सूच्यादय इव
    परस्परमसङ्गिनः सम्बन्धशुन्या एव परन्तु अनया ममेदं
    भोगसाधनमनेनेत्थमिदं करिष्यामीत्यादिमनःकल्पनया केवलं
    क्रियाकारकादिभावेन श्लिष्यन्ते सम्बन्ध्यन्ते । तथैवान्वयव्यतिरेक##-

मनः समायत्तमिदं जगदाभोगि दृश्यते ।
मनश्चासदिवाभाति केन [केन स्मः] स्म परिमोहिताः ॥ १० ॥

न केवलं भावानां सम्बन्धमात्रं मनोधीनं किन्तु जन्मस्थिति##-
तर्हि मन एव सुखसाधनमस्तु नेत्याह - मन इति । असच्छुन्यमिव विवेके
आभाति । तथाच न ततोऽपि सुखसिद्धिरिति व्यमेतावन्तं कालं केन सुखं स्यादिति
मोहिताः स्मः ॥ १० ॥

असतैव वयं कष्टं विकृष्टा मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ११ ॥

अतः परिशेषाद्भ्रान्तिरेवेयमिति दर्शयति - असतैवेति । संसारे
सौखतत्साध-नयोरसत्वादेवेत्यर्थः । कष्टं यथा स्यात्तथा विकृष्टा
आकृष्टाः । दार्ष्टान्तिके मृगतृष्णाम्भःसदृश्या सुखाशयेति गम्यते
। मुग्धमृगा मूढहरिणाः ॥ ११ ॥

न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।
बत मूढा वयं सर्वे जानानां अपि शाम्बरम् ॥ १२ ॥

संस्थिताः [पारवश्यादित्यर्थः] परवशा इत्यर्थः । जाअनाना
अभिज्ञम्मन्या अपि वयं मूढा एव । शाम्बरं शम्बरसम्बन्धि ।
मायेयमिति भावः ॥ १२ ॥

किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ १३ ॥

भोगा विषयसुखलवाः किन्नाम । दृष्टनष्टस्वभावत्वाद्दुरन्तदुःख##-
व्यर्थमेव बद्धा इति भावना भ्रान्तिर्येषां ते तथाभूताः संस्थिताः ॥ १३ ॥

आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥ १४ ॥

आ इति स्मरणाभिलापे । बहुकालेन ज्ञातम् । किं तदाह - व्यर्थमेव मोहे
निपतिता इति । वने श्वभ्रे वनान्तर्गतगर्ते ॥ १४ ॥

किं मे राज्येन किं भिगैः कोऽहं किमिदमागतम् ।
यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ १५ ॥

कोऽहम् इदं दृश्यजातं किंस्वरूपम् किमर्थं चागतम् राज्येन च मे किम्
भोगैश्च किम् किमिदं सर्वं मिथ्यैवोत किञ्चित्सत्यमपि । तत्र किं दृष्टिः
सत्योत [सत्योत असत्या] दृश्यम् । तर यन्मिथ्यैअ तदेव मिथ्यास्तु नतु
वैपरीत्यम् । तस्य मित्यात्वे कस्य किमागतम् । न कापि क्षतिरिति भावः ॥ १५ ॥

एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम ।
भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ १६ ॥

एवं किन्नामेदमित्यादिनवश्लोकोक्तप्रकारेण विमृशतो विचारयतः ।
अरतिर्वैरस्यम् । मरुषु निर्जलभूमिषु ॥ १६ ॥

तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति ।
किमिदं जायते भूयः किमिदं परिवर्धते ॥ १७ ॥

एवं स्वस्य विचारोत्पत्तिप्रकारमुपवर्ण्य प्रष्टव्यांश। न्दर्शयति -
तदेतदित्यादिपञ्चभिः । तत्तस्माद्विमर्शे असारत्वात्तत्रादौ विनाशोत्पत्ति##-
मिमिदमित्यादिना । इदं सत्यतया सर्वानुभवप्रमाणसिद्धं दृश्यं
परिणश्यति सर्वात्मना असदिवापद्यते तत्किं सतोऽसत्त्वविरोधात् यद्यसदेवेति
कश्चिद्ब्रूयात्तर्हि भूयो जायते सत्त्वमापद्यते तदिदं किं
सत्त्वासत्त्वबहिर्भूतान्वृद्ध्यादि-विकारांश्चेदं भजते तदपि यदि
पूर्वावस्थं नश्यत्यवस्थान्तर-वच्चोत्पद्यते तर्हि प्रत्यभिज्ञाविरोधो
वृद्ध्यादिव्यवहारानुपपत्तिश्च । यदि पूर्वावस्थं न नश्यति तर्हि
युगपदुभयावस्थत्वप्रसङ्गः अवस्थान्तर##-
भिद्येरंस्तर्हि तासामभावत्वम् अभेदे च [अवस्थायिनि अवस्था चेति अनयोः
पर्यायवृत्तिता स्यात्] स्थायिन्यवस्थावति पर्यायवृत्ति##-
प्रश्नत्रयस्योत्तरार्थमुत्पत्तिस्थित्युपशमप्रक-रणानि । अथवा इदं
शरीरं किं नश्यति । पुनः किं जायते किं वर्धते । न कश्चिदस्य
जन्मादिनार्थ इत्यर्थः ॥ १७ ॥

जरामरणमापच्च जननं सम्पदस्तथा ।
आविर्भावतिरोभावैर्विवर्धन्ते [विवर्धन्ति] पुनः पुनः ॥ १८ ॥

अर्थो नास्तीत्येतावदेव न प्रत्युतानर्थपरम्पराप्यस्तीत्याह - जरेति ।
सम्पदामप्यनर्थहेतुत्वादनर्थेषु गणनम् ॥ १८ ॥

भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल ।
पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ १९ ॥

ननु भोगहेतुत्वाद्देहस्यार्थो।प्यस्तीत्याशङ्क्याह - भोगैरिति । तैरेव
तैरेवेति तेषामपूर्वत्वाभावात्पिष्टपेषणवद्वैरस्यद्योतनाय । अमी
भोगलम्पटाः । जर्जरतां शैथिल्यम् । तथाच भोगानामप्यनर्थत्वमेवेति
भावः ॥ १९ ॥

अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ २० ॥

प्रज्ञावतामप्यात्यन्तिकदुःखोपशमनोपायासम्पादने वृथैव सा
प्रज्ञेत्यचेतनप्रायास्त इत्यभिप्रेत्याह - अचेतना इति । व्यर्थं
पुरुषार्थोपयोगं विना । वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ २० ॥

शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ २१ ॥

हेतुना केन मुह्यसीति प्रश्नस्योत्तरमाह - शाम्यतीति ॥ २१ ॥

संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।
निजलोकभयादेव गलद्बाष्पं न रोदिमि ॥ २२ ॥

संसारदुःखैः पाषाण इव नीरन्ध्रं निश्छिद्रं निबिडपूरितं हृदयं
यस्येत्यर्थः । निजलोकाः स्वजनास्तेऽपि मदर्थं [मारोदिषुरिति] रुद्युरिति
भयादेव ॥ २२ ॥

शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ २३ ॥

शुष्केणानश्रुणा रोदनेन नीरसाः प्रीतिशून्या अतएव स्वहेतुहर्षादि##-
कृत्रिमस्मिताभिलापादिवृत्तिर्मम विवेक एव पश्यतीत्यर्थः ॥ २३ ॥

भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥ २४ ॥

भावानां प्रियतमविषयाणामभावो विनाशस्तत्प्रचुराम् । अथवा भावः
सर्वदुःखोपशमनोपलक्षितपरमानन्दभावस्तदभावोऽज्ञानं
तद्विकारभूतां स्थितिं संस्मृत्य विचार्य संसारचेष्टया भृशं
मुह्यामि । सुभगो धनादिसम्पन्नो दूरे अर्थात्सौभाग्यात्परतो दैवात्प्राप्तेन
दारिद्र्येण पूर्वदशां संस्मृत्य यथा मुह्यति तद्वत् ॥ २४ ॥

मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् ।
दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ २५ ॥

ननु श्रीभिरेव त्वदभिमतोऽर्थः सेत्स्यति श्रीमतां किं नु दुर्लभम् इति
प्रवादात्तत्राह - मोहयन्तीति । विप्रलम्भो वञ्चनम् ॥ २५ ॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ २६ ॥

तदेव प्रपञ्चयति - चिन्तेति । धनिनश्चिन्ताधाराभिस्तिलशः खण्डनेन
निचयाय राशीकरणाय प्रवृत्तानि चक्राणि । उग्रापदां दारिद्र्यशत्रु##-

विविधदोषदशापरिचिन्तनैर्विततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः ॥ २७ ॥

देहादिभावानां सन्ततसम्भावितभङ्गुरत्वहेतुसमर्थितैर्विविधानां
दृष्टादृष्टदोषाणां दुर्दशानां च परिचिन्तनैर्हेतुभिर्मम मनो
नोर्वृतिं सुखं नैति । दन्तिपक्षे
विस्ताररहितगर्तपिधानभङ्गुरकाष्ठादि-दुर्दशानां च
परिचिन्तनैरित्यर्थः ॥ २७ ॥

खलाः कालेकाले निशि निशितमोहैकमिहिका-
गतालोके लोके विषयशतचौराः सुचतुराः ।
प्रवृताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे
रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्य सुभटाः ॥ २८ ॥

अज्ञानलक्षणायां निशि लोके जने मोहोऽविचारस्तल्लक्षणाभिर्मिहिकाभिस्तु##-
सुचतुरा विषयशतचौराः कालेकाले सर्वदा दिशिदिशि सर्वदिक्षु विवेकलक्षण##-
वर्तन्त इति शेषः । रणे युद्धे तेषां वधाय विदुषः प्रोज्झ्य
तत्त्वज्ञानविहायान्ये के सुभटाः शक्ताः । न केऽपीत्यर्थः ।
इवकारस्तत्सदृशानामपि दौर्लभ्यद्योतनार्थः । विना तमोनाशं
तद्वधासम्भवादिति भावः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
प्रथमपरितापो नाम द्वादशः सर्गः ॥ १२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
प्रथमपरितापो नाम द्वादशः सर्गः ॥ १२ ॥