११

एकादशः सर्गः ११

विश्वामित्र उवाच ।

एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् ।
इहानयन्तु त्वरिता हरिणं हरिणा इव ॥ १ ॥

विश्वामित्राज्ञया रामस्यानीतस्य सभान्तरे ।
राज्ञाश्वासनमाध्यादिबीजप्रश्नश्च वर्ण्यते ॥

एवमुक्तप्रकारेण निर्विण्णो दुःखितो मोहितश्चेत्तस्मिन्विषये महाप्राज्ञाः
परीक्षणकुशला भवन्तः । हरिणं यूथपतिं । हरिणास्तदनुयायिनो मृगाः
॥ १ ॥

एष मोहो रघुपतेर्नापद्भ्यो न च रागतः ।
विवेकवैराग्यवतो बोध एव महोदयः ॥ २ ॥

आपद्भ्यो रागतो वा यो जडीभावः स एव मोहः । अयं तु विवेकादिमतो
बोधफलत्वाद्बोध एवेति महोदय एवेत्यर्थः ॥ २ ॥

इहायातु क्षणाद्राम इह चैव वयं क्षणात् ।
मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ॥ ३ ॥

क्षणशब्दौ शीघ्रमित्यर्थे । इहैव चेत्यन्वयः । द्वितीय इहशब्द आगमनदेश
एव मोहापनयनद्योतनार्थः । घनं मेघम् ॥ ३ ॥

एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः ।
विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥ ४ ॥

ननु मोहेऽपनीतेऽपि तस्य का सिद्धिस्तत्राह - एतस्मिन्निति । तस्मिन्नुपस्थिते
तद्विष्णोः परमं पदम् इति श्रुतिप्रसिद्धे उत्तमे पदे स्वात्मनि ॥ ४ ॥

सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् ।
पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥ ५ ॥

सत्यतामबाधितवस्तुताम् । मुदितां मुदितताम् । तलोपश्च्छान्दसः ।
परमानन्दरूपताम् । प्रज्ञां अपरिच्छिन्नज्ञानरूपताम् । मुदि
आनन्दाविर्भावे सति तां प्रसिद्धां प्रज्ञामिति वा । पीतामृतपक्षे
श्रुत्युक्तस्य धर्मफलस्य प्रत्यक्षीकरणाद्यथार्थतां स्वर्गसुखितां
दैवज्ञानसम्पन्नतां चेति क्रमादर्थः । पीनतां वरवर्णत्वं शरीरे ॥ ५ ॥

निजां च प्रकृतामेव व्यवहारपरम्पराम् ।
परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ॥ ६ ॥

ननु व्यवहारस्याविद्यकत्वप्रसिद्धेश्छत्रापाये छायापाय इव तदपायोऽपि
स्यात् स त्वनिष्टः प्रजानां तत्राह - निजामिति । निजां स्ववर्णाश्रमोचिताम् ।
प्रकृतामुपक्रान्ताम् । यद्यपि परिपूर्णकामस्तथापि जीवता सर्वव्यवहारस्य
दुस्त्यजत्वादवश्यमुपादेये व्यवहारे प्रकृतत्यागेऽन्योपादाने च
हेत्वभावात्स्वचरितग्राहिजनानुग्राहकत्वाच्च निजामेव
व्यवहारपरम्परामविच्छिन्नमाचरिष्यतीत्यर्थः ॥ ६ ॥

भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।
सुखदुःखशाहीनः समलोष्टाश्मकाञ्चनः ॥ ७ ॥

ननु तामाचरंस्तत्रासज्जेत ततः पूर्ववत्सुखदुःखदशावानपि स्यान्नेत्याह

  • भविष्यतीति । सत्त्वं मननादिजं ज्ञानदार्ढ्यबलम् । परं
    कारणतत्त्वमवरं कार्यतत्त्वम् । लोके तदुभयं ज्ञातं येन । अथवा
    लोकानां प्राणिनां परं परमपुरुषार्थरूपमवरं सांसारिक##-
    परमव्याकृतं अवरं हिरण्यगर्भाख्यं च परमार्थतो ब्रह्मैव न
    पृथगस्तीति ज्ञातं येन । अतएवानासक्तौ समलोष्टाश्मकाञ्चनः
    सुखदुःखादिहीनश्चेत्यर्थः ॥ ७ ॥

इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः ।
प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥ ८ ॥

भूय इत्युक्ते वसिष्ठवचनात्प्राक् प्रतीहारादन्येऽपि दूताः प्रेषिता एवेति गम्यते ॥
८ ॥

एतावताथ कालेन रामो निजगृहासनात् ।
पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥ ९ ॥

अथ प्रतीहारागमनानन्तरं निजगृहासनादुत्थितो राम एतावता
मुनिसंवादपरिमितेन कालेन स्वपितुः स्थानं जगामेत्युत्तरेण सम्बन्दः ॥ ९ ॥

वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह ।
तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ॥ १० ॥

वसिष्ठविश्वामित्रादिमहर्षिजुष्टत्वात्पुण्यम् ॥ १० ॥

दूरादेव ददर्शासौ रामो दशरथं तदा ।
वृतं राजसमूहेन देवौघेनेव वासवम् ॥ ११ ॥

वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः ।
सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ॥ १२ ॥

सेवितं प्रियहितमधुरोक्तिभिर्लालितम् । सर्वाञ्शास्त्रार्थांस्तन्वन्ति लोके
विस्तारयन्तीति सर्वशास्त्रार्थततस्तथाविधाश्च ते [ज्ञाश्चेत्यस्याग्रे तेषां
इना] ज्ञाश्च ये मन्त्रिणस्तेषां वृन्देन ॥ १२ ॥

चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।
ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥ १३ ॥

ककुब्भिर्दिग्भिः ॥ १३ ॥

वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः ।
ददृशु राघवं दूरादुपायान्तं गुहोपमम् ॥ १४ ॥

उप समीपे आयान्तम् । गुहः कार्तिकेयः ॥ १४ ॥

सत्त्वावष्टब्धगर्भेण शैत्येनेव हिमाचलम् ।
श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च ॥ १५ ॥

कीदृशं ददृशुस्तदाह - सत्त्वेत्यादिपञ्चभिः ।
शीतस्तापोपशमनेनाल्हाद-कस्तुषारश्च तद्भावः शैत्यं तेन
हिमाचलमिव श्रितम् । शैत्यस्यैव सत्त्वेत्यादीनि चत्वारि श्लिष्टानि विशेषणानि ।
सत्त्वेन शान्तिविवेकहेतुना सत्त्वगुणेन प्राणिनिकायेन च व्याप्तान्तरेण ।
सकलैः पूर्णैः कला-सहितचन्त्रेण च सिवेतुं योग्येन ।
गम्भीरेणानवगाह्यान्तेन स्फुटेन चेति यथोचितं सम्बन्धः ॥ १५ ॥

सौम्यं समं शुभाकारं विनयोदारमानसम् ।
कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥ १६ ॥

सौम्यं प्रियदर्शनम् । सममन्यूनानतिरिक्ताङ्गम् । कान्तं मनोहरम् ।
उपशान्तमनुग्रम् । परस्यार्थस्य पुरुषार्थस्य ॥ १६ ॥

समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् ।
अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ॥ १७ ॥

सम्यगुद्यन्यौवनारम्भो यस्य तम् । वृद्धवदुपशमेन शोभनम् ।
अनुद्विग्नमविवेकापगमात् । अनानन्दमप्राप्तपरमानन्दम् ॥ १७ ॥

विचारितजगद्यात्रं पवित्रगुणगोचरम् ।
महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥ १८ ॥

जगद्यात्रा संसारगतिः । पवित्राणां गुणानां पवित्रगुणानां पुरुषाणां
वा गोचरं विषयम् । गुणैः सर्वैर्महासत्त्विकलोभेनैव सम्यगाश्रितम् ॥ १८ ॥

उदारमार्यमापूर्णमन्तःकरणकोटरम् ।
अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥ १९ ॥

अविक्षुभितया वृत्त्या स्थित्या सर्वसाधनसम्पत्तावपि तत्त्वबोधविश्रान्त्य##-
दर्शयन्तं सूचयन्तम् । अनुत्तममिति रामविशेषणं वा ॥ १९ ॥

एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः ।
परिमेयस्मिताञ्छाच्छस्वहाराम्बरपल्लवः ॥ २० ॥

रघूद्वहः प्रणनामेत्युत्तरेणान्वयः । अम्बरमेव पल्लवोऽम्बरपल्लवः
परिमेयौ स्मितमिवाच्छादच्छौ स्वीयौ हाराम्बरपल्लवौ यस्य यः ॥ २० ॥

प्रणनाम चलच्चारुचूडामणिमरीचिना ।
शिरसा वसुधाकम्पलोलदेवाचलश्रिया ॥ २१ ॥

चूडामणिः शिरोरत्नम् । देवाचलः सुमेरुः ॥ २१ ॥

एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम् ।
कर्तुमभ्याजगामाथ रामः कमललोचनह् ॥ २२ ॥

एवं सर्गादिश्लोकसप्तकोक्तप्रकारेण मुनीन्द्रे विश्वामित्रे ब्रुवति सति अथ
रामः पितुः पादाभिवन्दनं कर्तुमभ्याजगामेति सम्बन्धः ॥ २२ ॥

प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ ।
ततो विप्रांस्ततो बन्धूंस्ततो गुरुगणान्सुहृत् ॥ २३ ॥

मुनी वसिष्ठविश्वामित्रौ । मान्यैरपि मुख्यतया मानितौ । सुहृत्
शोभनहृदयो रामः ॥ २३ ॥

जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा ।
राजलोकेन विहितां तां प्रणामपरम्पराम् ॥ २४ ॥

मनाङ्नम्रेण मूर्ध्नेति तदुचितेषु विनयसूचनाय ॥ २४ ॥

विहिताशीर्मुनिभ्यां तु रामः सुसममानसः ।
आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ २५ ॥

सुसममानसः आशीरर्थलाभालाभयोः ॥ २५ ॥

पादाभिवन्दनपरं तमथासौ महीपतिः ।
शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनःपुनः ॥ २६ ॥

शिरसि आघ्रायेति शेषः । अभ्यालिलिङ्ग अभिमुखमालिङ्गितवान् ॥ २६ ॥

शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।
आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा ॥ २७ ॥

यथा रामं तथैव । राजहंसोऽम्बुजे यथेति चुम्बने दृष्टान्तः ॥ २७ ॥

उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ ।
भूमौ परिजनास्तीर्णे स्ॐऽशुकेऽथ न्यविक्षत ॥ २८ ॥

उत्सङ्गे अङ्के । अंशुके वस्त्रे । न्यविक्षत उपाविशत् ॥ २८ ॥

राजोवाच ।

पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् ।
जडवज्जीर्णया बुद्ध्या खेदायात्मा न दीयताम् ॥ २९ ॥

जडवदविवेकिवत् । जीर्णया शिथिलया । खेदाय दैन्याय । आत्मा जीवः ॥ २९ ॥

वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।
पदमासाद्यते पुण्यं न मोहमनुधावता ॥ ३० ॥

वृद्धैः पित्रादिभिः । गुरुभिराचार्यैः । प्रजापालनधर्मसाधनत्वात्##-

तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः ।
यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥ ३१ ॥

असन्निहिता दूरे तिष्ठन्ति नोपसर्पन्ति । सन्निहितास्तु परिपेलवाः सर्वतो
लधीयस्यस्तिष्ठन्ति न कार्यक्षमा इत्यर्थः । मोहस्य प्रसरे तु तद्विपरीता
भवन्तीत्यर्थः ॥ ३१ ॥

श्रीवसिष्ठ उवाच ।

राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया ।
दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥ ३२ ॥

त्वमेव शूरो यतस्त्वया विषयारयो विजिताः । प्रसिद्धा अरयो दुरुच्छेदा एव न ते
स्वेन दुःखेनारभ्यन्ते । विषयारयस्तु स्वेनैव सम्पादिता सुःखान्तरपर##-

किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे ।
विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ॥ ३३ ॥

एवम्भूतोऽपि त्वमज्ञानां योग्ये व्यामोहसागरे अतज्ज्ञ इवानात्मज्ञ इव किं
निमज्जसि । कल्लोला बृहत्तरङ्गा विक्षेपकाः । जाड्यं मौढ्यमावरणम् ॥ ३३

विश्वामित्र उवाच ।

चलन्निलोत्पलव्यूहसमलोचनलोलताम् ।
ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥ ३४ ॥

चलता नीलोत्पलसमूहेन समां लोचनयोर्लोलतां चञ्चलताम् । चेतो व्यग्रचित्तं
तेन कृताम् । केन हेतुना विमुह्यसि भ्राम्यसि । तव भ्रान्तिहेतुः क इत्यर्थः ॥ ३४

किन्निष्ठाः के च ते केन कियन्तः कारणेन ते ।
आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ॥ ३५ ॥

आधयो मानसव्यथा मनः परिलुम्पन्ति विषादयन्ति । कस्मिन्निष्ठा
समाप्तिर्येषां ते । कस्मिन्कामे सम्पन्ने शामन्तीत्यर्थः । अथवा किमाश्रिताः
के चेति तत्स्वरूपप्रश्नः । केनेति तन्निमित्तप्रश्नः । कियन्त इति तद्विभागप्रश्नः
। कारणेनेति केनेत्यनेन सम्बध्यते । गेहं गृहं आखनन्तीत्याखवो
मूषकाः ॥ ३५ ॥

मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् ।
आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः ॥ ३६ ॥

नन्वाधिहेत्वादयो जगति प्रसिद्धा एव ते कुतः पृच्छ्यन्ते तत्राह - मन्य
इति । सत्यं प्रसिद्धाः त्वं तु तेषामनुचितानामुत्तममुचितं पदं स्थानं न
भवसि । आपन्नो दरिद्रो वा तत्पदं स्यात् । ते तव च आपत्सु अप्रयोज्यं प्रतीकार्यं
नास्ति । पितृप्रभावेणैव सर्वापदां निरस्तत्वात् । अपिच ते आधयो निहीनाः स्वत
एव निरस्ताः । सर्वसौभाग्यसम्पन्नतया पूर्णत्वादिति भावः ॥ ३६ ॥

यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ ।
सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ॥ ३७ ॥

अभिमतमनतिक्रम्य यथाभिमतम् । अभिमतार्थमप्रच्छाद्येत्यर्थः ।
अनघेति हेतुगर्भम् । सर्वमेवाभिमतं प्रप्स्यसीति सम्बन्धः ।
येनाभिमतलाभेन पुनराधयस्त्वां न भेत्सन्ते ॥ ३७ ॥

इत्युक्तमस्य सुमते रघुवंशकेतु-
राकर्ण्य वाक्यमुचितार्थविलासगर्भम् ।
तत्याज खेदमभिगर्जति वारिवाहे
बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ॥ ३८ ॥

सुमतेर्विश्वामित्रस्य इति उक्तमुचितानां स्वाभिलाषानुरूपाणामर्थानां
विलासः प्रकाशो गर्भे तात्पर्ये यस्य तथाविधं वाक्यं निशम्य
रघुवंशकेतुः श्रीमः अनुमिताभिमतार्थसिद्धिः सन् खेदं तत्याजेति
सम्बन्धः । वारिवाहे मेघे । बहीं मयूरः ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
राघवसमाश्वासनं नामैकादशः सर्गः ॥ ११ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
राघवसमाश्वासनं नामैकादशः सर्गः ॥ ११ ॥