१०

दशमः सर्गः १०

वाल्मीकिरुवाच ।

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
सम्प्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥ १ ॥

राज्ञात्र प्रहितो गत्वा याष्टीको रामचेष्टितम् ।
विज्ञाय पुनरागत्य राज्ञे कृत्स्नं न्यवेदयत् ॥

तथेति । उक्तिफलस्य सम्प्रहर्षस्य परगामित्वाद्ब्रूञः परस्मैपदम् । हेतौ
शता ॥ १ ॥

दशरथ उवाच ।

प्रतिहारं महाबाहुं रामं सत्यपराक्रमम् ।
सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥ २ ॥

अविघ्नेन पुण्यार्थं निर्विघ्नं मुनेर्यज्ञसिद्ध्यर्थं । अथवा सत्यवचन##-
मा भूदित्यभिप्रेत्यैवमुक्तम् । शीघ्रपदेनाप्येतदेव द्योत्यते ॥ २ ॥

इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ३ ॥

विसृष्टः प्रेषितः । अन्तःपुरान्तस्थं राममन्दिरम् ॥ ३ ॥

देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ४ ॥

विमनाः विषण्णमनाः ॥ ४ ॥

आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः ।
न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ५ ॥

क्षणो घटिकायाः पृष्ठो भागः । एकत इति वक्तीत्यनेनापि सम्बध्यते ।
उक्तिर्वाङ्मात्रेण न मनःपूर्वकं मुख्यं तु ध्यायत्येवेति भाअः ॥ ५ ॥

इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् ।
सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥ ६ ॥

तं प्रतीहारेण सह रामसमाचारनिवेदनायागतं रामानुचरं
जनमनाश्वस्ता न सम्यङिवेदयेयुरित्याश्वासयामास ॥ ६ ॥

कथं कीदृग्विधो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥ ७ ॥

एकः क्रियायाः प्रश्नः अपरः कार्श्यविषादाद्यवस्थानाम् ॥ ७ ॥

देयहष्टिमिमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥ ८ ॥

यष्टिमिव कृश्ऽम् देहं देहयष्टिम् । खिन्ना दुःखिताः । तछाच
यद्दृष्टॄणामप्येतादृशे खेदकार्श्ये तस्य ते किं वाच्ये इति भावः ॥ ८ ॥

रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।
सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥ ९ ॥

राजीवं कमलम् । यतो यस्माद्दिनात्प्रभृत्यागतस्तिष्ठतीति पदमध्या##-
आगतस्ततः-प्रभृतीत्येतावतैव सिद्धेः । स्थितेस्तु
प्रात्यहिकत्वाद्दौर्मनस्यवदस्त्येवाधि##-

यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् ।
सोऽयमाम्लानवदनः [सायमम्लान्] करोति न करोति वा ॥ १० ॥

आह्निकं निजव्यापारं भोजनादि । न करोति वेत्यनास्थाद्योतनाय ॥ १० ॥

स्नानदेवार्चनादानभोजनादिषु दुर्मनाः ।
प्रार्थितोऽपि हे नातृप्तेरश्नात्यशनमीश्वरः ॥ ११ ॥

देवार्चना च दानं चेति वा देवार्चनं च आदानं चेति वा विग्रहः ॥ ११ ॥

लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे ।
नच क्रीडति लीलाभिर्धाराभिरिव चातकः ॥ १२ ॥

नारीभिः सहेति शेषः । दोला प्रेङ्खोलिका । अङ्गणे क्रीडाचत्वरे । यथा
वर्षधाराभिः सह ता उपभुञ्जानश्चातकः क्रीडति तथा न क्रीडति
चेत्यन्वयः ॥ १२ ॥

माणिक्यमुकुलप्रोता केयूरकटकावलिः ।
नानन्दयति तं राजन्द्यौः पातविषयं यथा ॥ १३ ॥

मुकुलाकारैर्माणिक्यैः प्रोता खचिता । द्यौः स्वर्गः । पातविषयमासन्न##-

क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्यतिविषादवान् ॥ १४ ॥

क्रीडन्तीभिर्वधूभिर्विलोक्यन्त इति वा क्रीडन्तीनां वधूनां विविधं लोकनानि
लोका यत्रेति वा पदभेदे । क्रीडद्वधूनां विलोका एवेषवो बाणास्त इव वहन्तः
कुसुमवायवो यत्रेत्यैकपद्ये विग्रहः । लतानां वलयनं वेष्टनं
वलयस्तत्सम्बन्धिषु गेहेषु । कुञ्जेष्वित्यर्थः ॥ १४ ॥

यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च ।
बाष्पपूर्णेक्षण इव तेनैव परिखिद्यते ॥ १५ ॥

उचितमुपभोगे लोकशास्त्राविरुद्धम् । पेशलं चतुरम् । चित्तहारि मनोहरम् ॥ १५

किमिमा दुःखदायिन्यः प्रस्फूरन्तीः पुराङ्गनाः ।
इति [नृत्यविलासेषु] नृत्तविलासेषु कामिनीः परिनिन्दति ॥ १६ ॥

प्रस्फुरन्तीर्हावभावलावण्यविलासादिभिः शोभमाना नृत्यन्तीर्वा दृष्ट्वा
किं यतो दुःखदायिन्य इति निन्दतीति योजना । प्रस्फूरन्ति इति पाठ ऋजुः ॥ १६ ॥

भोजनं शयनं यानं विलासं स्नानमासनम् ।
उन्मत्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥ १७ ॥

शयनमासनमित्यधिकरणे ल्युटौ अन्ये करणे ल्युतः । विलसन्ति येन यस्मिन्वा
तम् । अनिन्दितं निर्दोषम् । इदं सर्वविशेषणम् ॥ १७ ॥

किं सम्पदा किं विपदा किं गेहेन किमिङ्गितैः ।
सर्वमेवासदित्युक्त्वा [त्युक्त्या] तूष्णीमेकोऽवतिष्ठते ॥ १८ ॥

इङ्गितैर्मनोरथैः । असत् असारम् ॥ १८ ॥

नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥ १९ ॥

उदेति हृष्यति । निमज्जति सज्जते । कार्येष्वारम्भेषु न तिष्ठत्यास्थां न करोति ॥
१९ ॥

विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ २० ॥

अलकेषु वल्लर्यः पुष्परत्नादिमञ्जर्यो विलोला यासां ताः । हेलाः
शृङ्गारभावजाश्चेष्टाः । मृगीपक्षे अलका इव पुष्पमञ्जर्यः । हेलयेव
चलितलोचनाश्चपलेक्षणाः ॥ २० ॥

एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥ २१ ॥

विपिनेष्वरण्येषु । जन्तुषु जन्तुसदृशेषु पामरेषु । दैवाद्विक्रीतो मनुष्यो
यथा एकान्तादिष्वेव रतिं बध्नाति तद्वत् ॥ २१ ॥

वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्राड्धर्मिणं भूपं सोऽनुयाति तपस्विनम् ॥ २२ ॥

तया प्रसिद्धया । परिव्राजां ये धर्मा अपरिग्रहादयस्तद्वत्तं परिव्राजमेव
अनुयाति अनुकरोति ॥ २२ ॥

एक एव वसन्देशे जनशून्ये जनेश्वर ।
न हसत्येकया बुद्ध्या न गायति न रोदिति ॥ २३ ॥

एकया मुख्यया ॥ २३ ॥

बद्धपद्मासनः शून्यमना वामकरस्थले ।
कपोलतलमाधाय केवलं परितिष्ठति ॥ २४ ॥

तर्हि तत्र किं करोति तत्राह - बद्धेति । शून्यं परमार्थालम्बनेन मनो
यस्य सः परितिष्ठति । ध्यायन्नित्यर्थाल्लभ्यते ॥ २४ ॥

नाभिमानमुपादत्ते नच वाञ्छति राजताम् ।
नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥ २५ ॥

उदयास्तमयावत्र प्रसादविषादौ । सुखदुःखानुवृत्तिष्विष्टानिष्ट##-

न विद्मः किमसौ याति किं करोति किमीहते ।
किं ध्यायति किमायाति कथं किमनुधावति ॥ २६ ॥

ईहते इच्छति । अनुधावत्यनुसरति ॥ २६ ॥

प्रत्यह। कृशतामेति प्रत्यहं याति पाण्डुताम् ।
विरागं प्रत्यहं याति शरदन्त इव द्रुमः ॥ २७ ॥

विरागं वैराग्यम् । द्रुमपक्षे वैवर्ण्यं रूपतामिति यावत् ॥ २७ ॥

अनुयातौ तथैवैतौ राजञ्छत्रुघ्नलक्ष्मणौ ।
तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥ २८ ॥

अनुयातौ स्नेहादनुसृतौ । अर्थाद्राममिति गम्यते । तादृशावेव यादृशो
रामः ॥ २८ ॥

भृत्यै राजभिरम्बाभिः सम्पृष्टोऽपि पुनः पुनः ।
उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥ २९ ॥

न किञ्चिदित्युक्तेस्तैः परिहर्तुं शक्यं किञ्चिन्नास्तीति रामाशयः । निरीहितः
स्वाभिप्रायव्यञ्जकचेस्टाशून्यः ॥ २९ ॥

आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतं भव्यमनु"आस्ति सुहृज्जनम् ॥ ३० ॥

आपतनमापातो विषयेन्द्रियसंयोगः । मात्रपदात्परिणामकटुता द्योत्यते ।
भवतीति भव्यो विवेकी तं नतु सर्वम् ॥ ३० ॥

नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च ।
पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ॥ ३१ ॥

गोष्ठी विलासस्थानम् ॥ ३१ ॥

नीतमायुरनायासपदप्राप्तिविवर्जितैः ।
चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ॥ ३२ ॥

प्राप्तिविवर्जितैह् पुरुषैः । चेष्टितैर्बहिःप्रवृत्तिभिः । नीतं वृथेति शेषः ।
प्राप्तिविवर्जितैश्चेष्टितैरिति सामानाधिकरण्यं वा । अस्मिन्कल्पे नीतं मयेति
शेषः । काकल्या मधुरास्फुटया वाचा ॥ ३२ ॥

सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् ।
प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥ ३३ ॥

येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स
सम्राट् । अन्यमना इति । सम्यक्स्वप्रकाशतया राजत इति सम्राट्
परमात्मेत्यर्थान्तरे मनो यस्येत्यर्थः । तस्य चापरिज्ञान्मुनिस्तत्पर्यालो##-

न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् ।
करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥ ३४ ॥

सर्वत्र वस्तुनि सुसमेत्य गुणतः फलतश्च शोभनं स्वानुरूपं तत्प्राप्यापि
॥ ३४ ॥

अप्याकाशसरोजिन्या अप्याकाशमहावने ।
इत्थमेतन्मन इति विस्मयोऽस्य न जायते ॥ ३५ ॥

ननु गुणाद्युत्कर्षाद्विस्मययोग्ये वस्तुनि विस्मय एवोचितः कथं तत्रावज्ञा
तत्राह - अपीति । यस्मिन्मनसि बाह्यवस्तुगोचरो विस्मयः स्यात्तन्मन एव
इत्थम् । ईदृशविस्मयास्पदमित्यर्थः । कथम् । यत आकाशरूपे आकाशस्थिते वा
महारण्ये तादृशकमलिन्या सदृशमिति शेषः ।
द्वावैशब्दावसम्भाव-नाद्वयद्योतकौ । यथा आकाशेऽरण्यमरण्ये च
कमलिन्यत्यन्तमसम्भा-विता तथा आत्मनि मनो मनसि च विस्मय इति
निश्चयादस्य बाह्यवस्तुनि विस्मयो न जायत इति भावः ॥ ३५ ॥

कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥ ३६ ॥

न भेदयन्ति न भिन्दन्ति । प्रेषणाध्यारोपाण्णिच् । धारा जलधाराः ॥ ३६ ॥

आपदामेकमावासमभिवाञ्छसि किं धनम् ।
अनुशिष्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥ ३७ ॥

आवासं निवासस्थानम् । अर्थिने याचकाय ॥ ३७ ॥

इयमापदियं सम्पदित्येवं कल्पनामयः ।
मनसोऽभ्युदितो मोह इति श्लोकान्प्रगायति ॥ ३८ ॥

कल्पनामयः कल्पनाप्रचुरः । मोहो भ्रमः ॥ ३८ ॥

हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् ।
न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥ ३९ ॥

आक्रन्दपरः । इष्टवियोगादिति शेषः । तथा चान्वयव्यतिरेकाभ्यां
रागादिदुःखमिति पश्यन्नपीति भावः ॥ ३९ ॥

रघुकाननशालेन रामेण रिपुघातिना ।
भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥ ४० ॥

रघुपदेन रघुवंशो लक्ष्यते । शालो वृक्षविशेषः प्रसिद्धः । एवकारो
हेत्वन्तरव्यावृत्तये ॥ ४० ॥

न विद्मः किं महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥ ४१ ॥

किं कुर्मः शोकापनाअर्थमिति शेषः ॥ ४१ ॥

राजानमथवा विप्रमुपदेष्टारमग्रतः ।
हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ॥ ४२ ॥

ननु नीतिज्ञैः संव्यवहारोपदेशेनास्य मोहोऽपनीयतां तत्राह -
राजानमिति । उपदेष्टारं राजनीतिव्यवहारानिति शेषः । अवधीरयत्य##-

यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् ।
नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ॥ ४३ ॥

यातीति यत् गत्वरम् । नश्वरमेवेत्यर्थः । इदमिदं बहुविधं
बहिर्दृष्टिगम्यम् । स्फारं विस्तीर्णम् । वसतीति वस्तु सदैकरूपम् । अहमिति
बुद्धिगम्यं च नैवं वस्तु किन्त्वन्यादृशमेवेति निर्णीय तज्जिज्ञासुः
संस्थितः ॥ ४३ ॥

नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न सम्पदा न विपदा तशास्था न विभो बहिः ॥ ४४ ॥

विषये पञ्च सप्तम्यः । विषयस्यैव हेतुत्वविवक्षया द्वे तृतीये । बहिः
शब्देन सामान्योक्तस्यैव पूर्वः प्रपञ्चः ॥ ४४ ॥

निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।
न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ॥ ४५ ॥

स्वपराधीनविषयत्वाभ्यामास्थाशयोर्भेदः । विशेषाभावादेव निरीहो
निरिच्छः बाह्यविषये चेत् अन्तर्हि दुःखहेत्वभावात्कुतोऽसौ दुःखी तत्राह-
निरास्पद इति । यतोऽव्यमऽब्धात्मविश्रान्तिरित्यर्थः । न मूढो विवेकित्वात् । नच
मुक्तो विश्रान्त्यनुदयात् ॥ ४५ ॥

किं धनेन किमम्बाभिः किं राज्येन किमीहया ।
इति निश्चयवानन्तः प्राणत्यागपरः स्थितः ॥ ४६ ॥

प्राणत्यागपर इति । रागादिदोषाणामेव जन्मबीजत्वात्तद्रहितस्य मम
प्राणापगमादेव मुक्तिः सेत्स्यतीति तदाशय इति भावः ॥ ४६ ॥

भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि ।
परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ४७ ॥

अवग्रहे वर्षप्रतिबन्धे ॥ ४७ ॥

इति तोके समायातां शाखाप्रसरशालिनीम् ।
आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥ ४८ ॥

तोके पुत्रे चिन्दाकार्श्यादिशाखानां प्रसरेण प्रतानेन शालिनीं विस्तीर्णां ।
आपत्तामापल्लताम् । आर्षत्वाल्लकारलोपः । यद्वा आपद्यत् इत्यापत्
आपन्नस्तद्भावम् । अथवा आपत् तां इति च्छेदः । इति तोके आपदिति व्यवहितेन
सम्बन्धः । द्वितीयान्तानि पूर्वाणि तामित्यस्य विशेषणानि ।
उद्धर्तुमुन्मूलयितुं समुदेतु सम्यगुद्युक्तोऽस्तु भवानिति शेषः ॥ ४८ ॥

तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालमाभोगि प्रभो प्रतिविषायते ॥ ४९ ॥

आभोगि कृत्रिमवेषवत् । वेषः कृत्रिम आभोगः । प्रतिविषायते
प्रतिकूलविषवदाचरति ॥ ४९ ॥

ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ ५० ॥

एवम्भूतं तं यः प्रकृते व्यवहारे निवेशयितुं क्षमः स ईदृशो
महासत्त्वो महाबलः क एव स्यात् । न कोऽपीत्यर्थः । एवेत्यनर्थको निपातः ।
अथवा त्वां विनेति शेषः । त्वमिव यो भवति स एव क्षमः स्यादिति भावः ॥ ५० ॥

मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् ।
सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करतामिव ॥ ५१ ॥

आर्तिलक्षणानि तमांसि विवेकप्रतिरोधकानि यस्मात्तथाविधं सकलं मोहं
[मोहशब्दस्य नपुंसकत्वं चिन्त्यम्] रामस्य मनसि अपास्य इहास्मिन्
रामे विषये स्वीयां साधुतामुपदेशसमर्थतां यः सफलतां नयति स
तादृशो महामनाः क एव स्यादिति पूर्वेण सम्बन्धः । तत्र दृष्टान्तः ##-
नयति तद्वत् ॥ ५१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
राघवविषादो नाम दशमः सर्गः ॥ १० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे राघवविषादो
नाम् दशमः सर्गः ॥ १० ॥