नवमः सर्गः ९
वाल्मीकिरुवाच ।
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १ ॥
विश्वामित्रस्य कोपोऽत्र तत्तपोस्त्रबलोक्तिभिः ।
वसिष्ठेन शनै राज्ञः समाधानं च वर्ण्यते ॥
स्नेहेन पर्याकुले व्याकुले ईक्षणे नेत्रे यस्मिंस्तुल्यकालतया तत्तथाभूतं
वचनं श्रुत्वेत्यर्थः ॥ १ ॥
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि ।
स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ॥ २ ॥
संश्रुत्य अङ्गीकृत्य । स प्रसिद्धो भावन्पूज्यः त्वमित्यध्याहार्यम् ।
अन्यथा मध्यमपुरुषद्वयानुपपत्तेः ॥ २ ॥
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ।
न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥ ३ ॥
राघवाणां कुलस्यायं विपर्ययोऽनृतवादलक्षणोऽयुक्तः । तदेव
व्यतिरेकन्यासेन समर्थयति - नेति ॥ ३ ॥
यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् ।
हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ॥ ४ ॥
न क्षमो न समर्थः ॥ ४ ॥
वाल्मीकिरुवाच ।
तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि ।
चचाल वसुध कृत्स्ना सुरांश्च भयमाविशत् ॥ ५ ॥
परीते व्याप्ते । महात्मनि तपोमाहात्म्यशालिनि । पत्युरपराधादपराधि##-
तपसा रावणादिहन्तारं स्रक्ष्यति स चास्मानपि जेष्यतीति सुरान्भयमाविशत् ।
चादन्यानपि ॥ ५ ॥
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।
धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥ ६ ॥
जगन्मित्रं विश्वामित्रम् । विश्वस्य मित्रं विश्वामित्र मिति [विश्वस्य ह वै
मित्रं विश्वामित्र आस] तन्नामार्थप्रसिद्धेः । मित्रे चर्षौ इति पूर्वपदस्य
दीर्घः । यद्यपि वसिष्ठोऽपि कोपेनैव तत्कोपप्रतीकारे समर्थस्तथापि न
चुक्रोध । यतोऽसौ धृत्यादिमानिति भावः ॥ ६ ॥
वसिष्ठ उवाच ।
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।
भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ॥ ७ ॥
त्रैलोक्येऽपि ये गुणवतां गुणाः प्रसिद्धास्तैः सर्वैर्भूषितः ॥ ७ ॥
धृतिमान्सुव्रतो भूत्वा न धर्मं हातुर्मर्हसि ।
त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥ ८ ॥
प्रतिज्ञापालनं व्रतं तच्छोभनं यस्य तथाविध एतावन्तं कालं
भूत्वेत्यर्थः । भवच्छब्दमध्यमपुरुषौ पूर्ववत् । धर्मेण यशसा च
युत इति त्रिषु लोकेषु विख्यातः ॥ ८ ॥
स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ।
मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ९ ॥
स्वस्य स्वानां च धर्म प्रतिज्ञापालन। प्रतिपद्यस्व । त्रिष्वपि भुवनेष्वभि##-
करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः ।
इष्टापूर्तं हरेर्द्धर्मं तस्माद्रामं विसर्जय ॥ १० ॥
तत् हरेदित्यन्वयः ॥ १० ॥
इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।
न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति ॥ ११ ॥
यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः इति न्यायात्प्रजामर्यादा##-
पालयस्यनृतीकरोषि चेत् ॥ ११ ॥
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।
मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ॥ १२ ॥
प्रणीतेन प्रवर्तितेन । जन्तवो जन्तुसदृशा अज्ञा अपि ॥ १२ ॥
गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ॥ १३ ॥
पुरुषसिंहेन पुरुषश्रेष्ठेन विश्वामित्रेण । ज्वलनेनेति ।
इन्द्रनिलयेऽवस्थितममृतं परितः प्राकारभूतेनाग्निना रक्ष्यत इति प्रसिद्धम्
। कृतास्त्रं शिक्षितास्त्रम् । शक्ष्यन्ति धर्षयितुमिति शेषः ॥ १३ ॥
एष विग्रहवान्धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥ १४ ॥
उक्तार्थोपपत्तये विश्वामित्रप्रभावं प्रपञ्चयति - एष इति । परं अयनं
स्थानम् ॥ १४ ॥
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये स्चराचरे ।
नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ॥ १५ ॥
सचराचरे प्रसिद्धमिति शेषः सचराचरे अन्यो न वेत्तित्युत्तरान्वयि वा ॥ १५ ॥
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।
न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ॥ १६ ॥
न सदृशाः प्रभावेणेति शेषः । नन्विदं कथं सङ्गच्छतां
भृग्विङ्गिरोऽगस्त्यप्रभृतीनां महर्षीणां ब्रह्मादीनां देवानां च
प्रत्येकमपि न्यूनप्रभावत्वानुपपत्तेरिति चेदेवं तर्हि तत्त्वदृशाऽस्य
ब्रह्मभावमन्येषामाभिमानिकं परिच्छिन्नभावमभिप्रेत्येदमुच्यत
इत्यदोषः । नच ब्रमभावेनापि तेषामेतत्सादृश्यम् । तत्र भेदाभावेन
तद्घटितस्य तस्यायोगात् । तथाच श्रुतिः - तस्य ह न देवाश्च नाभूत्या
ईशते आत्मा ह्येषां स भवति इति ॥ १६ ॥
अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् ।
कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ॥ १७ ॥
दृशाश्वेन जनितमिति शेषः । दत्तं तपसा तोषितेन रुद्रेणेति शेषः ।
प्रसिद्धमिदं पूर्वरामायणे ॥ १७ ॥
ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।
एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः ॥ १८ ॥
ते अस्त्रदेवाः । प्रजापतिसुतो रुद्रस्तदुपमाः संहारे । वीर विक्रान्ताः । ओजः
शत्रुनिर्जयसामर्थ्यम् । एनं विश्वामित्रं तपःप्रभावेण
वशीकृतत्वादन्वचरन्ननुचरवृत्सेवन्ते । भूतकालो न विवक्षितः ॥ १८ ॥
जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।
तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ १९ ॥
तेषु प्रधानानाह - जयेत्यादिना । दाक्षायण्यौ दक्षकन्ये ॥ १९ ॥
पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा ।
वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ॥ २० ॥
तान्विभज्य दर्शयति - पञ्चाशतमिति । लब्धवरा पतिशुश्रूषयेति शेषः ।
सुरसैन्यानामिति कर्तरि षष्ठी । अतो योग्यतया असुरवध एव लभ्यते ॥ २० ॥
सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् ।
सङ्घषान्नाम दुर्धर्षान्दुराकारान्बलीयसः ॥ २१ ॥
सङ्घर्षान्परास्त्राभिभवनशीलत्वात्तदाख्यान् । दुराकारांस्तीक्षा-कारान्
॥ २१ ॥
एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः ।
न रामगमने बुद्धिं विक्ल्वां कर्तुमर्हसि ॥ २२ ॥
जगत्सर्वं मनुते योगबलात्साक्षात्पश्यति तच्छीलो जगन्मुनिः । अतएव
रामविजयमपि भाविनं दृष्टैव समागत इति न बुद्धिवैक्लव्यं युक्तमिति
भावः ॥ २२ ॥
अस्मिन्महासत्त्वतमे मुनीन्द्रे स्थिते समीपे पुरुषस्य साधो ।
प्राप्तेऽपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः ॥ २३ ॥
तदेव द्रढयन्नाह - अस्मिन्निति । सत्त्वं प्रभावः । पुरुषस्य
साधारण-स्यापि । अमरत्वमेति अर्थात्स पुरुषः । तथाच
साधारणपुरुषस्याप्येतत्सं-निधानमात्रेणापि यत्र प्राप्तादपि
मृत्योर्न भयं प्रत्युतामरत्वप्राप्ति-स्तत्र महाप्रभावस्य रामस्य
गोप्तरि तस्मिन्क्षुद्रेभ्यो राक्षसेभ्यो भयम-त्यन्तमसम्भावितमिति
मूढवन्मा विषीदेत्यर्थः ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
वसिष्ठसमाश्वासनं नाम नवमः सर्गः ॥ ९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
वसिष्ठसमाश्वासनं नाम् नवमः सर्गः ॥ ९ ॥