अष्टमः सर्गः ८
वाल्मीकिरुवाच ।
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमासीन्निश्चेष्टः सदैन्यं चेदमब्रवीत् ॥ १ ॥
स्नेहाद्राज्ञोऽत्र रामस्य युधायोग्यत्ववर्णनम् ।
रावणादिबलं ज्ञात्वा विषादश्चोपवर्ण्यते ॥ १ ॥
उपपन्नतरोत्तरालाभान्निश्चेष्टः । पूर्वोक्तरामदशानुसन्धानात्प्रति##-
वक्ष्यमाणम् ॥ १ ॥
ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २ ॥
किञ्चिदूनः षोडशो वर्षोऽस्येति त्रिपदबहुर्वीहिः । युद्धयोग्यतैव नास्ति
राक्षसैः सह तु सुतरामिति भावः ॥ २ ॥
इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ ३ ॥
तर्हि किं व्यर्थः प्रयासो नेत्याह - इयमिति । अक्षौहिणीलक्षणं तु
एकेभैकरथा त्र्यक्षा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः
यथोत्तरम् । सेनामुखं गुल्मगणौ वाहिनी पृतना चमुः । अनीकिनी
दशाकिनिक्न्य(न्यो?)क्षौहिणी इत्यमरसिंहेनैव
भारतादिप्रसिद्धं सङ्गृह्योक्तम् ॥ ३ ॥
इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः ।
[अत्र] अहं चैषां धनुस्पाणिर्गोप्ता समरमूर्धनि ॥ ४ ॥
अत्र युद्धे । गोप्ता रक्षकः ॥ ४ ॥
एभिः सहैव वीराणां महेन्द्रमहतामपि ।
ददामि युद्धं मत्तानां करिणामिव केसरी ॥ ५ ॥
महेन्द्रादपि महताम् ॥ ५ ॥
बालो रामस्त्वनीकेषु न जानाति बलाबलम् ।
अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥ ६ ॥
नन्वनेन रणावनिर्न दृष्टेत्येव वक्तव्ये अन्येति विशेषणवैयर्थ्यम् । एवं
तर्हि पुरस्यान्तरन्तःपुरमित्यव्ययीभावः । पुरमध्ये खुरलीक्रीडार्थ##-
न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः ।
नवास्त्रैः शूरकोटीनां तज्ज्ञः समरभूमिषु ॥ ७ ॥
धृत्वा यैः प्रह्रियते तानि शस्त्राणि । क्षिप्त्वा यैः प्रह्रियते तान्यस्त्राणि ।
शूरकोटीनां समरभूमिष्विति सम्बन्धः । तज्ज्ञो युद्धज्ञः । वैशारद्यं
दूरे ज्ञानमप्यस्य नास्तीति भावः ॥ ७ ॥
केवलं पुष्पखण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥ ८ ॥
परिशीलनम् । अस्येति शेषः । पुंलिङ्गपाठे तु परिमितं शीलनमस्येति
बहुव्रीहिः ॥ ८ ॥
विहर्तुमेष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥ ९ ॥
कीर्णपुष्पाण्येवोपहाराः पूजा यासु । स्वकासु स्वीयासु । अजिरभूमिषु
चत्वरस्थलेषु ॥ ९ ॥
अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् ।
हिमेनेव हि पद्माभः सम्पन्नो हरिणः कृशः ॥ १० ॥
अतितरामित्यस्य पञ्चम्यन्तेन हरिणः कृश इत्याभ्यां च सम्बन्धः ।
हरिणः पण्डुरः । तत्र दृष्टान्तः । पद्मैः पद्मया वा आभातीति
पद्माभस्तदाकारः । आतश्चोपसर्गे इति कः । सः । हिमेन तुषारेणेव ॥ १० ॥
नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ ११ ॥
विहर्तुं सञ्चरितुम् । क्रीडितुमिति तु न । अकर्मकत्वापत्तेः ॥ ११ ॥
सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसारतां गतः ॥ १२ ॥
तत्कृते तन्निमितम् । निःसारतां निरुत्साहबलतां निःसुखतां वा ॥ १२ ॥
ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ १३ ॥
ईदृश इति शरीरेण बाल इति वयसा, आधिना वशीकृत इति बुद्ध्यादिना च
तस्याशक्रता प्रेषणानर्हता च दर्शिता । तत्रापि योद्धुं तदपि निशाचरैः सह
सुतरामयुक्त इति भावः ॥ १३ ॥
अपि बालाङ्गनासङ्गादपि साधो सुधारसात् ।
राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥ १४ ॥
ननु धर्मलिप्सोस्तव किं तद्विरोधिना पुत्रस्नेहेनेत्याशङ्क्याह - अपीति ।
उक्तसुखान्येव हि धर्मफलं तानि पुत्रसुखं नातिशेरत इति भावः ॥ १४ ॥
ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् ॥ १५ ॥
दुरन्गाश्चिरसाध्यास्तपःक्लेशास्तान् । सन्तो धार्मिका अपि ॥ १५ ॥
असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् ।
न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥ १६ ॥
सुखं त्यज्यत इति विपरिणामेनानुषङ्गः ॥ १६ ॥
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥ १७ ॥
इत्थं पूर्वोक्तप्रकारेण स्थितो रामः इत्थमीदृशी युक्तिरिति वा ॥ १७ ॥
वोप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।
जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि ॥ १८ ॥
रामे नीते राक्षवधो न सम्भावितः प्रत्युत सपुत्रस्य ममैव वधस्तव्या
सम्पादितः स्यादित्याह चतुर्भिः - विप्रयुक्त इति । तथा च
यज्ञधर्मापेक्षया तव महानधर्मः स्यादिति भावः ॥ १८ ॥
नववर्षहस्राणि मम जातस्य कौशिक ।
दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया ॥ १९ ॥
ननु षष्टिवर्षसहस्राणि जातस्य मम कौशिक इति पूर्वरामायणे उक्तं कथं
तद्विरुद्धत्रोच्यते । सत्यम् । अतो न यथाश्रुतोऽन्वयः किन्तु नववर्ष##-
दुःखसाध्येनाश्वमेधपुत्रेष्ट्यादिना चत्वार उत्पादिता इति ॥ १९ ॥
प्रधानभूतस्तेष्वेव रामः कमललोचनः ।
तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥ २० ॥
तेषु राम एव प्रथानभूतो यथा शरीरेषु प्राणः । अतएव तेषऽम् प्रियतमः ।
किं ततस्तत्राह - तं विनेति ॥ २० ॥
स एव रामो भवता नीयते राक्षसान्प्रति ।
यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥ २१ ॥
यस्य नयने त्रयाणामन्येषामपि मरणं स तादृशोराम एव
मृत्युरूपान्राक्षसान्प्रति नीयते भवतेति चतुर्भिरपि हीनं मां मृतमेव
विधीत्यर्थः ॥ २१ ॥
चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा ।
ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥ २२ ॥
चतुर्णां मरणादिति किं वाच्यम् एकस्य रामस्य नयनमात्रेणापि स्वमृत्युः
सम्भावित इत्यभिप्रेत्याह - चतुर्णामिति । धर्ममयं धर्मप्रचुरम् ॥ २२ ॥
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय ॥ २३ ॥
यदि रामं न नयामि तदा कथं कारसिद्धिस्तत्राह - निशाचरेति ।
हस्त्यश्वरथपादातैश्चतुरङ्गं बलं सैन्यम् ॥ २३ ॥
किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥ २४ ॥
अपरिज्ञाय नास्कन्देदिति परबलं जिज्ञासुः पृच्छति - किंवीर्या इति ।
कथं च ते वर्तन्त इति शेषः । कियत्प्रमाणाः सङ्ख्यापरिमाणेन । के चैव
नामतः ॥ २४ ॥
कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् ।
मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ २५ ॥
प्रकर्तव्यं प्रतिकर्तव्यम् । प्रहर्तव्यम् इति पाठे स्पष्टम् ॥ २५ ॥
सर्वं मे शम्स भगवन्यथा तेषां महारणे ।
स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥ २६ ॥
वीर्येणोत्सिक्ता ऊर्जिताः । हि प्रसिद्धाः ॥ २६ ॥
श्रूयते हि महावीर्यो रावणो नाम राक्षसः ।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ २७ ॥
तदेव स्फुटयति - श्रूयत इति ॥ २७ ॥
स चेत्तव मखे विघ्नं करोति किल दुर्मतिः ।
तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥ २८ ॥
किलेति सम्भावने । स चेत् शंसेति सम्बन्धः । तत्तर्हि ॥ २८ ॥
काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः ।
भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥ २९ ॥
तत्कुतस्तत्राह - काले इति । पृथगिति । कदाचित्केषुचिदेवेति व्यवस्थयेत्यर्थः ।
वीर्याणि विभूतयश्चेति द्वन्द्वगर्भकर्मधारयः ॥ २९ ॥
अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥ ३० ॥
किं ततस्तत्राह - अद्येति । अस्मिन्काले न समर्थास्तत्राप्यद्य
सुतरामित्याशयः । नियतेर्दैवस्य । ईश्वरस्येति यावत् ॥ ३० ॥
तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥ ३१ ॥
अनुकम्प्यः पुत्रः पुत्रकस्तस्मिन् । अर्थिमनोरथसमर्थनासमर्थत्वादल्प##-
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ ३२ ॥
ननु कुतस्तवेदृशमधर्यं तत्राह - देवेति । पुरुषा मनुष्याः ॥ ३२ ॥
महावीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥ ३३ ॥
महतां पूज्यतमानां वीर्यवतामिन्द्रादीनामपि आदत्ते अपहरतीव । राक्षसो
रावणः । संयुगे योद्धुमिति शेषः । येन सह वयं न शक्ताः स्म तस्य
बालकैः किं शक्यमिति शेषः । अथवा तस्य बालकैरिन्द्रजित्प्रभृतिभिः सहापि
न शक्ताः स्म इति पूर्वेण सम्बन्धः ॥ ३३ ॥
अयमन्यतमः कालः पेलवीकृतसज्जनः ।
राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः ॥ ३४ ॥
अशक्तौ हेत्वन्तरमाह - अयमिति । पेलवीकृता निर्बलीकृताः सज्जना येन
सः । राघवः स्वयमेव वार्धकेन यतो जर्जरः शिथिलः । अथवा राघवो रामो
वृद्धक एव वर्धकः स एव जर्जरः ॥ ३४ ॥
अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् ।
कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥ ३५ ॥
अथवेति कल्पान्तरे । जज्ञघ्नं तवेति शेषः । कथयतु भवानिति शेषः ।
असुरप्रख्यं दैत्यसदृशं दैत्याद्राक्षस्यामुत्पन्नत्वात् । शैवशूलबलेन
तस्याजय्यत्वान्मान्धातृमृत्युत्वाच्च नैवेत्यवधारणम् ॥ ३५ ॥
सुन्दोपसुन्दयोश्चैव पुत्रौ वैवस्वतोपमौ ।
यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥ ३६ ॥
अथवेत्यनुषज्यते । सुन्दोपसुन्दपुत्रौ मारीचसुबाहू ॥ ३६ ॥
अथ नेष्यसि चेद्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥ ३७ ॥
अदत्तमपि रामं तपोबलान्नेष्याम्येवेति चेत्तत्राह - अथेति । ते त्वया । तत्तर्हि
उक्तकल्पे । कर्तुरेव शेषत्वविवक्षया षष्ठी । एवकारो राक्षसव्यावृत्त्यर्थः ।
अन्यथा अमृत्वा तु । शाश्वतं निश्चितम् ॥ ३७ ॥
इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ
कल्लोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत्क्षणमपि निश्चयं महात्मा
प्रोद्वीचाविव जलधौ स मुह्यमानः ॥ ३८ ॥
असौ रघूद्वहो दशरथो मुनेरभिमते रामप्रेषणे राक्षसवधे च संशये
कर्तव्यमथवा न कर्तव्यं सेत्स्यथवा न सेत्स्यतीत्यादिरूपे कल्लोले महोर्मिजाले
निमग्न इव क्षणं सुखं निश्चयमपि नाज्ञासीत् । यतः स प्रोद्वीचौ जलधौ
मुह्यमान इवासीदिति शेषः ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
दशरथवाक्यं नामाष्टमः सर्गः ॥ ८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
दशरथवाक्यं नामाष्टमः सर्गः ॥ ८ ॥