०७

सप्तमः सर्गः ७

श्रीवाल्मीकिरुवाच ।

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥

राज्ञः प्रशंसाथ मुनेर्यज्ञविघ्ननिवेदनम् ।
रक्षोवधाय रामस्य यात्वा चात्रिओअवर्ण्यते ॥

अद्भुतविस्तरं आश्चर्यार्थविस्तारयुक्तम् ॥ १ ॥

सदृशं राजशार्दूल तवैवैतन्महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २ ॥

सदृशं युक्तम् । तत्र हेतुगर्भे विशेषणे । वंशप्रभावाद्गुरुप्रभावा##-

यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३ ॥

हृद्गतं विवक्षितं तस्य कार्यविनिर्णयं तत्सम्बन्धिकर्तव्यार्थनिश्चयं
कुरु प्रथममिति शेषः । तत्कदाचिदधर्म्यं चेदशक्यमित्याशङ्क्याह -
धर्ममिति ॥ ३ ॥

अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्तिथाः ॥ ४ ॥

तदेवाह - अहमित्यादिना । धर्मं यज्ञं । समातिष्ठे आरभे ॥ ४ ॥

यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् ।
तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५ ॥

विबुधव्रजान्देवसङ्घान् ॥ ५ ॥

बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।
अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ६ ॥

विहितेऽनुष्ठिते ॥ ६ ॥

अवधूते तथाभूते तस्मिन्यागकदम्बके ।
कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥ ७ ॥

अवधूते विघ्नैर्निरस्ते । यागकदम्बके यज्ञसमूहे ॥ ७ ॥

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।
तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८ ॥

ननु शापेनैव ते कुतो न निरस्तास्तत्राह - नचेति ॥ ८ ॥

ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।
त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ९ ॥

ईदृशी क्रोधशापाद्ययोरया । प्रापयेयम् । स्वार्थे णिच । प्राप्नुयाम् ॥ ९ ॥

त्रातुर्महसि मामार्तं शरणार्थिनमागतम् ।
अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १० ॥

सत्तमे साधुतमे । सत्तम् इति पाठे तु सम्बोधनम् । अभिभवस्तिरस्कारः
अर्थात्सत्तमानाम् । ऐकपद्यं वा ॥ १० ॥

तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११ ॥

उत्तरत्र तमिति दर्शनादत्र य इत्यध्याहार्यम् । विशेषणानि विवक्षितार्थोप##-

तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुर्महसि ॥ १२ ॥

सत्यपराक्रममोघपराक्रमम् । काकपक्षौ कर्णमूलशिखे
क्षत्रियाचारसिद्धे ॥ १२ ॥

शक्तो ह्येष मया गुप्तो दिव्येन द्वेन तेजसा ।
राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३ ॥

नन्वकृतास्त्रो बालोऽयं कथं शक्तस्तत्राह - शक्त इति । गुप्तो रक्षितः ।
अपकर्तारो यज्ञस्य लोकस्येति वा शेषः । मूर्धविनिग्रहे शिरश्छेदे ॥ १३ ॥

श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।
त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४ ॥

श्रेयोऽस्त्रविद्याप्रदानरूपम् । अस्त्रभेदाद्बहुरूपं प्रभावस्त्वनन्तकम##-

न च ते राममासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणम् दृष्ट्वा [वनेरिणे वनोद्भूते ईरिणाख्ये]
वनेरण इवैणकाः ॥ १५ ॥

स्थातुम् । पुर इति शेषः । [वनेरिण] वनेरणे वनोद्भूते ईरणाख्ये
तृणे । तस्य पेलवतया मृगत्राणाक्षमत्वात् । रणे इति वा छेदः ॥ १५ ॥

तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।
ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६ ॥

ननु मद्भृत्यैर्मया वा ते निग्राह्या इति राजाभिसन्धिमालक्ष्याह -
तेषां चेति । काकुत्स्थात्प्रकृताद्रामात् ॥ १६ ॥

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
करदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७ ॥

तत्कुतस्तत्राह - वीर्येति । उत्सिक्ता गर्विताः । न केवलं स्वबलेनैव किन्तु
स्वामिबलेनापीत्याह - खरेति ॥ १७ ॥

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अमारतगता धारा जलदस्येव पांसवः ॥ १८ ॥

तर्हि रामस्यापि ते कथं साध्यास्तत्राह - रामस्येति । अनारतगता
अविरतनिर्गताः । यथा दृष्ट्यभिभवे क्षमा अपि पांसवो न वृष्ट्यभिभवे
क्षमास्तद्वदित्यर्थः ॥ १८ ॥

न च पुत्रकृत्ऽम् स्नेहं कर्तुमर्हसि पार्थिव ।
न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९ ॥

भवतु तथा तथापि पुत्रो दुस्त्यजः पितृभिरित्याशङ्क्याह - नचेति । मम
पुत्रोऽयमिति प्राकृतं स्नेहमनुरागम् । तत्कुतस्तत्राह - न तदिति । तथाहि ।
शिबिदधिच्यलर्कप्रभृतयः स्वदेहचक्षुराद्यपि ददुरिति भावः ॥ १९ ॥

हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् ।
नह्यस्मदादयह् प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ २० ॥

नात्रापायशङ्कापि किन्तु विजयाभ्युदय एवेत्याह - हन्तेति । नूनमिति
निश्चये । विजानामि तपसेति शेषः । त्वमपि विद्धि । मद्वचसेति शेषः । तदेव
द्रढयति - नहीति ॥ २० ॥

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१ ॥

महान्तं जीवोपाध्यपरिच्छिन्नमात्मानम् । ईश्वरमित्यर्थः । प्रभावतो वा
महात्मानम् । वसिष्ठश्च वेत्तिति विपरिणामेनानुषङ्गः । एवमुत्तरत्रापि ।
दीर्घदर्शिनो योगसिद्ध्या व्यवहितविप्रकृस्टदर्शनशीलाः ॥ २१ ॥

यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।
तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२ ॥

धर्मो महत्त्वं यशश्च रक्ष्यमिति मनसि ते स्थितं यदि तत्तर्हि ।
समभिप्रेतं प्रियतममित्यात्मजविशेषणं सम्यगभिप्रेतमध्यवसितं
यथा भवतीति क्रियाविशेषणं वा ॥ २२ ॥

दशरात्रश्च मे यज्ञो अस्मिन्रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३ ॥

दशरात्रो दशाहोरात्रसाध्यः ॥ २३ ॥

अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।
वसिष्ठप्रमुखाह् सर्वे तेन रामं विसर्जय ॥ २४ ॥

अत्रास्मिन्नर्थे तव मन्त्रिणः सर्वे वसिष्ठप्रमुखा अपीति सम्बन्धः । तेन
तेषामनुज्ञादानेन ॥ २४ ॥

नात्येति कालः कालज्ञ यथायं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५ ॥

कालो यज्ञाङ्गभूतो वसन्तादिर्यथा नात्येतीति सम्बन्धः ॥ २५ ॥

कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।
महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६ ॥

अभिलषितसाधनानुग्रह उपकारस्तद्भावम् । महद्बहुवित्तव्ययायास##-
प्रीतिरिक्ततामेतीत्यर्थः ॥ २६ ॥

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ २७ ॥

मुनिवाक्यमुपसंहरति - इत्येवमिति ॥ २७ ॥

श्रुत्वावचो मुनिवरस्य महानुभाव-
स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं
धीमानपूरितमनोऽभिमतश्च लोकः ॥ २८ ॥

उपपन्नानि युक्तियुक्तानि पदानि प्रसिद्धानि वचनार्हवस्तूनि वा यस्मिन्कर्मणि
तत्तथा । ननु शक्यमुच्यतां किमुपपत्तिचिन्तयेति तत्राह - धीमानिति । लोको
मनोरथपूर्त्यापि तुष्यति धीमांस्तु तत्पूर्तावपि युक्तियुक्तकथनेन विना न
तुष्यतीति युक्तोपपत्तिचिन्तेति भावः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
विश्वामित्रवाक्यं नाम् सप्तमः सर्गः ॥ ७ ॥