षष्ठः सर्गः ६
वाल्मीकिरुवाच ।
इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे ।
खेदवत्यास्थिते मौनं किञ्चित्कालप्रतीक्षणे ॥ १ ॥
विश्वामित्रागमो राज्ञा विधिवत्पूजनं मुनेः ।
राज्ञः प्रहर्षात्कार्यस्य प्रतिज्ञा चात्र वर्ण्यते ॥
मुनिनाथेन वसिष्ःएन । इति उक्तप्रकारेण । सामान्याकारेणेत्यर्थः । अतएव
पार्थिवे विशेषेण सन्देहवति सति [सतीति क्वचिन्न लभ्यते] निर्णयाय
कश्चित्कालो यस्य तत्किञ्चित्कालं प्रतीक्षणं यस्य तथाभूते सति ॥ १ ॥
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २ ॥
राज्ञीषु नृपसद्मसु स्थितास्विति सम्बन्धः । राज्ञीभेदात्सद्मभेदः
प्रसिद्ध इति बहुवचनम् । चेष्टाविशेषलिङ्गैर्निर्वेदकारणपरिज्ञानाय
सावधानासु ॥ २ ॥
एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।
महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥ ३ ॥
एतस्मिन्निति । यद्यपि भावलक्षणसप्तमीभिरेव कालविशेषो लभ्यते तथापि
लोकदृष्ट्या अनवसरे विश्वामित्रागमनमिति सूचनाय विशिष्य काले
इत्युपादानम् । श्रुतो विश्रुतः ॥ ३ ॥
तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल ।
मायार्वीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४ ॥
धर्म एव कार्योऽवश्यकर्तव्यो यस्य तथाभूतस्य यज्ञस्तथा विलुलुपे यथा स
तं नराधिपमभ्यगादिति पूर्वेण पार्थिवं द्रष्टुमैच्छदित्युत्तरेण वा
सम्बन्धः ॥ ४ ॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् ।
नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥ ५ ॥
समाप्तुं समापयितुं सम्यगासमाप्तेः प्राप्तुं वा ॥ ५ ॥
ततस्तेस्।आं विनाशार्थमुद्यतस्तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६ ॥
उद्यत उद्युक्तः ॥ ६ ॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ७ ॥
आख्यात । राज्ञे इति शेषः ॥ ७ ॥
तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः ।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८ ॥
विलम्बे शापभयात्सम्भ्रान्तमनसः ॥ ८ ॥
ते गत्वा राजसदनं विश्वामित्रमृषिं ततः ।
प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९ ॥
सीदति निषीदत्यस्मिन्निति सदनं सभास्थानम् । प्रतीहारा द्वारपालाः ।
पतेर्बहिर्द्वास्थस्य स्वस्वामिनः सभाद्वास्थस्य वा याष्टीकस्य । गतिबुध्दि ##-
अथास्थानगतं भूपं राजमण्डलमालिनम् ।
समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ १० ॥
असौ द्वास्थैर्निवेदितार्थो याष्टीको यष्टिप्रहरणः । शक्तियष्ट्योरीकक् ॥ १० ॥
देव द्वारि महातेजा बालभास्करभासुरः ।
ज्वालारुणजटाजुटः पुमाञ्छ्रीमानवस्थितः ॥ ११ ॥
महातेजा महाप्रभावः । कान्त्या तु बालभास्कर इव भासुर । तदुपपादनाय
ज्वालारुणेति । श्रीमांस्तपोलंस्मीवान् ॥ ११ ॥
सम्हासुरपताकान्तं साश्वेभपुरुषायुधम् ।
कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ १२ ॥
तं राजद्वारप्रदेशमूर्ध्वतः सभासुरपताकान्तं परितश्च
साश्वेभपुरुषायुधम् । कीर्णकाञ्चनं व्याप्तसौवर्णमिव पिङ्गलम् ॥ १२ ॥
वीक्ष्यमाणे तु याष्टीके निवेदयति राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ १३ ॥
विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा राजनि राजानं प्रति निवेदयति
विज्ञापनं कुर्वाणे याष्टीके वीक्ष्यमाणे तु दृष्टमात्रे सति स राजसत्तमः
प्रोत्तस्थावित्युत्तरेण सम्बन्धः ॥ १३ ॥
इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥ १४ ॥
किमनवधार्यैव नेत्याह - इति याष्टीकवचनमाकर्ण्येति । सामन्ता
अल्पदेशाधीश्वराः । विष्टरात्सिंहासनात् ॥ १४ ॥
पदातिरेव सहसा राज्ञां वृन्देन मालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५ ॥
मालितो वेष्टितः । स राजसत्तमो वसिष्ठवामदेवाभ्यां सह
जगामेत्युत्तरेणान्वयः ॥ १५ ॥
जगाम [यत्र तत्रासौ] तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६ ॥
यत्र द्विश्वामित्रो महामुनिस्तत्रासौ जगामेति सम्बन्धः ॥ १६ ॥
केनापि कारणेनोर्वीतलमर्कमुपागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७ ॥
तपःपराक्रमाभिव्यञ्जकवैलक्षण्याम्भ्यामोजस्तेजसोर्भेदः ॥ १७ ॥
जराजरठया नित्यं तपःप्रसररूक्षया ।
जटावल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ १८ ॥
जराजरठया वयःप्रकर्षपलितया ॥ १८ ॥
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९ ॥
दीप्तं तेजःप्रकर्षाद्दुर्दर्शम् । उपशान्तं सौम्यम् । अप्रतिघाति
अपऋधृष्यम् । कान्तं प्रियदर्शनम् । ऊर्जितः प्रगल्भ
आकारोऽवयसन्निवेशो यस्य तत्तथोक्तम् । निभृतं विनयोपपन्नम् । भास्वरं
कान्तिमत् । भास्करमिति पाठे सूर्यसदृशम् । देवपथादित्वात्कनो लुप् ।
विशेषणान्युभयत्र योज्यानि ॥ १९ ॥
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥ २० ॥
पेशलेन दृष्टिमनःप्रीणचतुरेण । अतिभीमेन भयानकेन । आकुलेन
प्रकर्षाच्चलता । गम्भीरेण अनाकलनीयेन । अतिपुर्णेनापरिच्छेद्येन ।
आश्रयंसंवलितं तेजः बहिःप्रसृता प्रभा । तेजःप्रकर्षवैलक्षण्यानु##-
तथोक्तिः ॥ २० ॥
अनन्तजीवितदशासखीमेकामनिन्दिताम् ।
धारयन्तं करे श्लक्षणां कुण्डीमम्लानमानसम् ॥ २१ ॥
अनन्तजीवितदशा चिरजीवितदशा तस्याः सखीं चिरपरिगृहीतामित्यर्थः ।
श्लक्ष्णां स्निग्धाम् । कुण्डीं कमण्डलुम् । अम्लानं प्रसन्नं मानसं मनो
यस्य ॥ २१ ॥
करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः ।
वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः रजाः ॥ २२ ॥
मधुराणक्षराणि सम्भाषणानि येषु । मधुराभाषणसैतैरित्यर्थः ॥ २२ ॥
युक्तयज्ञोपवीताङ्गं धवलप्रोन्नतभ्रुवम् ।
अनन्तं विष्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥ २३ ॥
युक्तानि वयःप्रकर्षानुरूपाणि यज्ञोपवीतानङ्गे यस्य तम् ॥ २३ ॥
मुनिमालोक्य भूपालो दूरादेवानताकृतिः ।
प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४ ॥
दुरादालोक्य पूर्वमेवानताकृतिर्भूपालो मुनिं प्रणनामेति सम्बन्धः ।
अन्त्यं पदं क्रियाविशेषणम् ॥ २४ ॥
मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् ।
तत्राभिवादयाञ्चक्रे मधुरोदारया गिरा ॥ २५ ॥
अभिवादयाञ्चक्रे सप्लुतमाशीर्भिः प्रत्यभिवादयामासेत्यर्थः ॥ २५ ॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।
स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६ ॥
पूजयामासुः प्रशशंसुः । आदृता आदरयुक्ताः ॥ २६ ॥
दशरथ उवाच ।
अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७ ॥
अशङ्कितोपनीतेनावितर्कितोपगतेन । ते इति कर्मणि कर्तरि वा षष्ठी ॥ २७ ॥
उअदनादि अदक्षुण्णं यदपायविवर्जितम् ।
तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥ २८ ॥
अनुग्रहमेव भाविभाग्यानुरूपं रूपयन्निरूपयति - यदिति ।
अनादिकारण-रहितम् । अनेनोत्पत्तिवृद्धिविपरिणामानां निरासः ।
अक्षुण्णमनपक्षयम् । अपायेन विनाशेन च विवर्जितम् । औपाधिकैः
स्वांशसुखलवैः सर्वानानन्दयतीत्यानन्दं यत्परमपुरुषार्थसुखं
प्रसिद्धं तदेव प्राप्तमित्यर्थः ॥ २८ ॥
अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः ।
भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९ ॥
धन्यानां कृतार्थानां धुरि अग्रस्थाने । लक्ष्यम् । भावप्रधानो निर्देशः ।
लक्ष्यताम् ॥ २९ ॥
एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।
आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३० ॥
एवं दशरथोक्तप्रकारेणैव राजानो महर्षयश्च प्रकथयन्तः अथ
सभास्थानमासाद्य आसनेषु समुपाविशन्नित्यन्वयः ॥ ३० ॥
स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् ।
प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१ ॥
लक्ष्म्या तपोलक्ष्म्या भीतः अर्घ्यार्थस्योदकस्याप्यन्यद्वारा
आहरणेऽपराधशङ्कया स्वयमेवाहृत्यार्घ्यं न्यवेदयदित्यर्थः ॥ ३१ ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२ ॥
पर्यपूजयत्प्रशशम्स ॥ ३२ ॥
स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा ।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३ ॥
कुशलं देहमन्त्रिभूत्यादिषु । अव्ययं कोशेषु ॥ ३३ ॥
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।
यथार्हं चार्चयित्वैनं प्रपच्छानामयं ततः ॥ ३४ ॥
एवं वसिष्ठमर्चयित्वा यथार्हं शिष्यम्र्।गपक्ष्यादिष्वनामयं
पप्रच्छेत्यथः ॥ ३४ ॥
क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५ ॥
अन्योन्यं समेत्य पूजयित्वा च यथोचितासनगताः सण्तोऽनामयं
पप्रच्छुरित्युत्तरेण सम्बन्ध। ॥ ३५ ॥
यथोचितासनगता मिथः संवृद्धतेजसः ।
परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ३६ ॥
उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७ ॥
आद्येन चकारेणानुक्तगन्धपुष्पवस्त्रालङ्कारादेः समुच्चयः । द्वितीयेन
दक्षिणाफलताम्बूलादेः । तेषां च बहुविधत्वाद्भूयोभूय इति ॥ ३७ ॥
अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत ।
प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥ ३८ ॥
प्रयतः पवित्रः । इदं वक्ष्यमाणम् ॥ ३८ ॥
यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके ।
यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९ ॥
यथायोगं मर्त्यस्य कर्षकस्येति च शेषः ॥ ३९ ॥
यथेष्टदारसम्पर्कात्पुत्रजन्माऽप्रजावतः ।
स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४० ॥
अर्थलाभो दरिद्रस्येति शेषः ॥ ४० ॥
यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१ ॥
ईप्सितेन चिराभिलषितेन मणिमन्त्राभ्युदयादिना । इष्टस्य प्रियतमस्य
पुत्रभ्रात्रादेः । दुरादिति शेषः ॥ ४१ ॥
यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।
तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२ ॥
त्वदागमाद्धर्ष इत्यनुषज्यते ॥ ४२ ॥
ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।
मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३ ॥
कश्च ते परमः कामः किं च ते करवाण्यहम् ।
पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४ ॥
प्रथमः प्रश्नः प्रदेयविषयः । द्वितीयः कर्तव्यसेवाविषयः ॥ ४४ ॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया ॥ ४५ ॥
पूजापात्रत्वमेवोपपादयति - पूर्वमिति । तपसा ब्रह्मर्षित्वमनुप्राप्त इति
सम्बन्धः ॥ ४५ ॥
गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम ।
तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६ ॥
शीतयति तापशान्त्या सुखयति । मुख्यार्थाभेदोत्प्रेक्षार्थ इवशब्दः ॥ ४६ ॥
विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः ॥ ४७ ॥
इच्छादीनां परोपसर्पणहेतुत्वं प्रसिद्धम् । विषयस्नेहातिशयो विषयाकारेण
चित्तस्य रञ्जनाद्रागः ॥ ४७ ॥
शुभक्षेत्रगतं चाहमात्मानमपकल्मसम् ।
चन्द्रबिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८ ॥
देवर्षिजुष्टस्थानानामेव क्षेत्रत्वात्त्वत्सन्निधानाद्गृहमपि तथेति भावः ।
अतेवापकल्मषमपगतपापं अतएव
धर्मोत्कर्षादमृतमयचन्द्रमण्डल-प्राप्त्या तत्रोन्मग्नमित्युत्प्रेक्षा ॥
४८ ॥
साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् ।
पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥ ४९ ॥
धर्मेण पूतः यशोभ्युदयाभ्यामनुगृहीतः ॥ ४९ ॥
त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५० ॥
तदेव स्फुटयति - त्वदिति ॥ ५० ॥
त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥ ५१ ॥
पुण्यहर्षाभ्यामभिवृद्धत्वादात्मनि शरीरे प्रस्थान्तः कारीव न
सम्मामीत्यर्थः । जलधिर्वेलासीम्नोरिति शेषः ॥ ५१ ॥
यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव ।
कृतमित्येव तद्विद्धि मान्योऽसीति सदा मम ॥ ५२ ॥
सदा मान्योऽसीति हेतोस्तदुभयम् कृतमित्येव विद्धि ॥ ५२ ॥
स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक ।
भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३ ॥
अन्यैः कर्तुमशक्यमपि करिष्याम्येव दातुमशक्यमपि दास्यामेव ।
यद्यस्माद्दीयमानं वस्तु त्वयि त्वादृशे सत्पात्रे प्रतिपद्यते ।
प्रतिपत्तिलाभेन सार्थकं भवतीति भावः ॥ ५३ ॥
कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः ।
कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४ ॥
उत्साहातिशयात्पूर्वार्धोक्तमेव पुनराह - कार्यस्येति । लोभादिहेतुकत्वं
वारयति - धर्मतः कर्तेति ॥ ५४ ॥
इदमतिमधुरं निशम्य वाक्यं श्रुसुखमात्मविदा विनीतमुक्तम् ।
प्रथितगुनयशा गुणैर्विशिष्टं मुनिवृषभः परमं जगाम
हर्षम् ॥ ५५ ॥
आत्मविदा स्वतपःप्रभावाभिज्ञेन । गुणैर्विशिष्टमिति वाक्यविशेषणम् ॥ ५५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
विश्वामित्राभ्यागमनं नाम षष्थः सर्गः ॥ ६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
विश्वामित्राभ्यागमनं नाम् षष्ठः सर्गः ॥ ६ ॥